20 इन्द्रनीलपद्धतिः

विश्वास-प्रस्तुतिः

हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा ।
अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम्॥ 20.1

मूलम्

हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा ।
अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम्॥ 20.1

विश्वास-प्रस्तुतिः

हरिरत्नमरीचयस्तवैते
नवनीलीरसनिर्विशेषवर्णाः ।
श्रुतिमूर्धनि शौरिपादरक्षे !
पलितानुद्भवभेषजं भवन्ति॥ 20.2

मूलम्

हरिरत्नमरीचयस्तवैते
नवनीलीरसनिर्विशेषवर्णाः ।
श्रुतिमूर्धनि शौरिपादरक्षे !
पलितानुद्भवभेषजं भवन्ति॥ 20.2

विश्वास-प्रस्तुतिः

अळकैरिव बिम्बितैः श्रुतीनां
हरिनीलैः सृजसि त्वमुन्मयूखैः ।
कमलादयितस्य पादरक्षे !
करुणोदन्वति शैवलप्ररोहान्॥ 20.3

मूलम्

अळकैरिव बिम्बितैः श्रुतीनां
हरिनीलैः सृजसि त्वमुन्मयूखैः ।
कमलादयितस्य पादरक्षे !
करुणोदन्वति शैवलप्ररोहान्॥ 20.3

विश्वास-प्रस्तुतिः

अनघैर्हरिनीलपद्धतीनां
प्रथमानैर्मणिपादुके ! मयूखैः ।
अधरीकुरुषे रथाङ्गपाणेः
अमितामूर्ध्वमवस्थितस्य कान्तिम्॥ 20.4

मूलम्

अनघैर्हरिनीलपद्धतीनां
प्रथमानैर्मणिपादुके ! मयूखैः ।
अधरीकुरुषे रथाङ्गपाणेः
अमितामूर्ध्वमवस्थितस्य कान्तिम्॥ 20.4

विश्वास-प्रस्तुतिः

चरणावनि ! भाति सह्यकन्या
हरिनीलद्युतिभिस्तवानुविद्धा ।
वसुदेवसुतस्य रङ्गवृत्तेः
यमुनेव स्वयमागता समीपम्॥ 20.5

मूलम्

चरणावनि ! भाति सह्यकन्या
हरिनीलद्युतिभिस्तवानुविद्धा ।
वसुदेवसुतस्य रङ्गवृत्तेः
यमुनेव स्वयमागता समीपम्॥ 20.5

विश्वास-प्रस्तुतिः

अवधीरितदेवतान्तराणाम्
अनघैस्त्वं मणिपादुके ! मयूखैः ।
हरिनीलसमुद्भवैर्विधत्से
हरिसारूप्यमयत्नतो जनानाम्॥ 20.6

मूलम्

अवधीरितदेवतान्तराणाम्
अनघैस्त्वं मणिपादुके ! मयूखैः ।
हरिनीलसमुद्भवैर्विधत्से
हरिसारूप्यमयत्नतो जनानाम्॥ 20.6

विश्वास-प्रस्तुतिः

नेत्रेषु पुंसां तव पादरक्षे !
नीलाश्मभासा निहिताञ्जनेषु ।
श्रिया समं संश्रितरङ्गकोशो
निधिः स्वयं व्यक्तिमुपैति नित्यम्॥ 20.7

मूलम्

नेत्रेषु पुंसां तव पादरक्षे !
नीलाश्मभासा निहिताञ्जनेषु ।
श्रिया समं संश्रितरङ्गकोशो
निधिः स्वयं व्यक्तिमुपैति नित्यम्॥ 20.7

विश्वास-प्रस्तुतिः

अभङ्गुरामच्युतपादरक्षे !
मान्यां महानीलरुचिं त्वदीयाम् ।
निः श्रेयसद्वारकवाटिकायाः
शङ्के समुत्पाटनकुञ्चिकां नः॥ 20.8

मूलम्

अभङ्गुरामच्युतपादरक्षे !
मान्यां महानीलरुचिं त्वदीयाम् ।
निः श्रेयसद्वारकवाटिकायाः
शङ्के समुत्पाटनकुञ्चिकां नः॥ 20.8

विश्वास-प्रस्तुतिः

जीवयत्यमृतवर्षिणी प्रजास्तावकी दनुजवैरिपादुके ! ।
घोरसंसरणघर्मनाशिनी काळिकेव हरिनीलपद्धतिः॥ 20.9

मूलम्

जीवयत्यमृतवर्षिणी प्रजास्तावकी दनुजवैरिपादुके ! ।
घोरसंसरणघर्मनाशिनी काळिकेव हरिनीलपद्धतिः॥ 20.9

विश्वास-प्रस्तुतिः

शतमखोपलभङ्गमनोहरा
विहरसे मुरमर्दनपादुके ! ।
मणिकिरीटगणेषु दिवौकसां
मधुकरीव मनोरमपङ्क्तिषु॥ 20.10

मूलम्

शतमखोपलभङ्गमनोहरा
विहरसे मुरमर्दनपादुके ! ।
मणिकिरीटगणेषु दिवौकसां
मधुकरीव मनोरमपङ्क्तिषु॥ 20.10

विश्वास-प्रस्तुतिः

अन्विच्छतां किमपि तत्त्वमनन्यदृश्यं
सम्यक्प्रकाशजननी धृतकृष्णरूपा ।
पादावनि ! स्फुरसि वासवरत्नरम्या
मध्ये समाधिनयनस्य कनीनिकेव॥ 20.11

मूलम्

अन्विच्छतां किमपि तत्त्वमनन्यदृश्यं
सम्यक्प्रकाशजननी धृतकृष्णरूपा ।
पादावनि ! स्फुरसि वासवरत्नरम्या
मध्ये समाधिनयनस्य कनीनिकेव॥ 20.11

विश्वास-प्रस्तुतिः

मातः ! सलीलमधिगम्य विहारवेलां
कान्तिं समुद्वहसि काञ्चनपादुके ! त्वम् ।
लक्ष्मीकटाक्षरुचिरैर्हरिनीलरत्नैः
लावण्यसिन्धुपृषतैरिव रङ्गधाम्नः॥ 20.12

मूलम्

मातः ! सलीलमधिगम्य विहारवेलां
कान्तिं समुद्वहसि काञ्चनपादुके ! त्वम् ।
लक्ष्मीकटाक्षरुचिरैर्हरिनीलरत्नैः
लावण्यसिन्धुपृषतैरिव रङ्गधाम्नः॥ 20.12

विश्वास-प्रस्तुतिः

कॢप्तावकुण्ठनविधिर्मणिपादरक्षे !
नीलांशुकैर्वलभिदश्मसमुद्भवैस्ते ।
सङ्गच्छते मुनिजनस्य मतिः समाधौ
रात्रौ समस्तजगतां रमणेन लक्ष्म्याः॥ 20.13

मूलम्

कॢप्तावकुण्ठनविधिर्मणिपादरक्षे !
नीलांशुकैर्वलभिदश्मसमुद्भवैस्ते ।
सङ्गच्छते मुनिजनस्य मतिः समाधौ
रात्रौ समस्तजगतां रमणेन लक्ष्म्याः॥ 20.13

विश्वास-प्रस्तुतिः

द्रष्टुं कदाचन पदावनि ! नैव जन्तुः
शक्नोति शश्वतनिधिं निहितं गुहायाम् ।
कृष्णानुरूपहरिनीलविशेषदृश्या
सिद्धाञ्जनं त्वमसि यस्य न देवि ! दृष्टेः॥ 20.14

मूलम्

द्रष्टुं कदाचन पदावनि ! नैव जन्तुः
शक्नोति शश्वतनिधिं निहितं गुहायाम् ।
कृष्णानुरूपहरिनीलविशेषदृश्या
सिद्धाञ्जनं त्वमसि यस्य न देवि ! दृष्टेः॥ 20.14

विश्वास-प्रस्तुतिः

प्रत्येमि रङ्गनृपतेर्मणिपादुके ! त्वां
कृष्णान्तरङ्गरुचिभिर्हरिनीलरत्नैः ।
विश्वापराधसहनाय पदं तदीयं
विश्वम्भरां भगवतीं समये भजन्तीम्॥ 20.15

मूलम्

प्रत्येमि रङ्गनृपतेर्मणिपादुके ! त्वां
कृष्णान्तरङ्गरुचिभिर्हरिनीलरत्नैः ।
विश्वापराधसहनाय पदं तदीयं
विश्वम्भरां भगवतीं समये भजन्तीम्॥ 20.15

विश्वास-प्रस्तुतिः

मत्वा मषीं परिमितां भवती तदन्यां
वैकुण्ठपादरसिके मणिपादुके ! स्वान् ।
अङ्क्ते स्वयं किरणलेपिभिरिन्द्रनीलैः
आशातटेषु लळितानपदानवर्णान्॥ 20.16

मूलम्

मत्वा मषीं परिमितां भवती तदन्यां
वैकुण्ठपादरसिके मणिपादुके ! स्वान् ।
अङ्क्ते स्वयं किरणलेपिभिरिन्द्रनीलैः
आशातटेषु लळितानपदानवर्णान्॥ 20.16

विश्वास-प्रस्तुतिः

वलमथनमणीनां धामभिस्तावकानां
मधुरिपुपदरक्षे ! वासरैरव्यपेता ।
अभिसरणपराणां वल्लवीनां तदाऽऽसीत्
शमितगुरुभयार्तिः शर्वरी काचिदन्या॥ 20.17

मूलम्

वलमथनमणीनां धामभिस्तावकानां
मधुरिपुपदरक्षे ! वासरैरव्यपेता ।
अभिसरणपराणां वल्लवीनां तदाऽऽसीत्
शमितगुरुभयार्तिः शर्वरी काचिदन्या॥ 20.17

विश्वास-प्रस्तुतिः

शतमखमणिभङ्गैरुन्मयूखैर्दिशन्ती
शरणमुपगतानां रङ्गनाथेन साम्यम् ।
प्रथयसि जगति त्वं पादुके ! हैतुकानाम्
उपनिषदुपगीतां तत्क्रतुन्यायवार्ताम्॥ 20.18

मूलम्

शतमखमणिभङ्गैरुन्मयूखैर्दिशन्ती
शरणमुपगतानां रङ्गनाथेन साम्यम् ।
प्रथयसि जगति त्वं पादुके ! हैतुकानाम्
उपनिषदुपगीतां तत्क्रतुन्यायवार्ताम्॥ 20.18

विश्वास-प्रस्तुतिः

परिचरति विधौ त्वां पादुके ! रङ्गभर्तुः
पदसरसिजभृङ्गैर्भासुरैरिन्द्रनीलैः ।
प्रकटितयमुनौघा भक्तिनम्रस्य शम्भोः
परिणमयसि चूडाविष्णुपद्याः प्रयागम्॥ 20.19

मूलम्

परिचरति विधौ त्वां पादुके ! रङ्गभर्तुः
पदसरसिजभृङ्गैर्भासुरैरिन्द्रनीलैः ।
प्रकटितयमुनौघा भक्तिनम्रस्य शम्भोः
परिणमयसि चूडाविष्णुपद्याः प्रयागम्॥ 20.19

विश्वास-प्रस्तुतिः

पदकिसलयसङ्गात् पादुके ! पत्रळश्रीः
नखमणिभिरुदारैर्नित्यनिष्पन्नपुष्पा ।
शतमखमणिनीला शौरिलावण्यसिन्धोः
निबिडतमतमाला काऽपि वेलावनी त्वम्॥ 20.20

मूलम्

पदकिसलयसङ्गात् पादुके ! पत्रळश्रीः
नखमणिभिरुदारैर्नित्यनिष्पन्नपुष्पा ।
शतमखमणिनीला शौरिलावण्यसिन्धोः
निबिडतमतमाला काऽपि वेलावनी त्वम्॥ 20.20

विश्वास-प्रस्तुतिः

त्वयि विनिहितमेतत् केऽपि पश्यन्ति मन्दाः
शतमखमणिजालं शार्ङ्गिणः पादरक्षे ! ।
वयमिदमिह विद्मः प्राणिनां भावुकानां
हृदयगृहगुहाभ्यः पीतमन्धं तमिस्रम्॥ 20.21

मूलम्

त्वयि विनिहितमेतत् केऽपि पश्यन्ति मन्दाः
शतमखमणिजालं शार्ङ्गिणः पादरक्षे ! ।
वयमिदमिह विद्मः प्राणिनां भावुकानां
हृदयगृहगुहाभ्यः पीतमन्धं तमिस्रम्॥ 20.21

विश्वास-प्रस्तुतिः

कॢप्तश्यामा मणिभिरसितैः कृष्णपक्षेण जुष्टा
श्रेयः पुंसां जनयसि गतिं दक्षिणामुद्वहन्ती ।
तेनास्माकं प्रथयसि परं पादुके ! तत्त्वविद्भिः
मौळौ दृष्टां निगमवचसां मुक्तिकालाव्यवस्थाम्॥ 20.22

सद्भिर्जुष्टा समुदितविधुर्जैत्रयात्राविनोदे-
ष्वातन्वाना रजनिमनघामिन्द्रनीलांशुजालैः ।
चित्रं ख्याता कुमुदवनतः पादुके ! पुष्यसि त्वं
व्याकोचत्वं विबुधवनितावक्त्रपङ्केरुहाणाम्॥ 20.23

नित्यं लक्ष्मीनयनरुचिरैः शोभिता शक्रनीलैः
सालग्रामक्षितिरिव शुभैः शार्ङ्गिणो रूपभेदैः ।
साकेतादेः समधिकगुणां संपदं दर्शयन्ती
मुक्तिक्षेत्रं मुनिभिरखिलैः गीयसे पादुके ! त्वम्॥ 20.24

पादन्यासप्रियसहचरीं पादुके ! वासगेहात्
त्वामारुह्य त्रिचतुरपदं निर्गते रङ्गनाथे ।
अन्तः स्निग्धैरसुरमहिळावेणिविक्षेपमित्रैः
श्यामच्छायं भवति भवनं शक्रनीलांशुभिस्ते॥ 20.25

मूलम्

पादन्यासप्रियसहचरीं पादुके ! वासगेहात्
त्वामारुह्य त्रिचतुरपदं निर्गते रङ्गनाथे ।
अन्तः स्निग्धैरसुरमहिळावेणिविक्षेपमित्रैः
श्यामच्छायं भवति भवनं शक्रनीलांशुभिस्ते॥ 20.25

विश्वास-प्रस्तुतिः

या ते बाह्याङ्गणमभियतः पादुके ! रङ्गभर्तुः
सञ्चारेषु स्फुरति विततिः शक्रनीलप्रभायाः ।
विष्वक्सेनप्रभृतिभिरसौ गृह्यते वेत्रहस्तैः
भ्रूविक्षेपस्तव दिविषदां नूनमाह्वानहेतुः॥ 20.26

मूलम्

या ते बाह्याङ्गणमभियतः पादुके ! रङ्गभर्तुः
सञ्चारेषु स्फुरति विततिः शक्रनीलप्रभायाः ।
विष्वक्सेनप्रभृतिभिरसौ गृह्यते वेत्रहस्तैः
भ्रूविक्षेपस्तव दिविषदां नूनमाह्वानहेतुः॥ 20.26

विश्वास-प्रस्तुतिः

अक्ष्णोरञ्जनकल्पना यवनिका लास्यप्रसूतेर्गतेः
चिद्गङ्गायमुना मुकुन्दजलधेर्वेलातमालाटवी ।
कान्ताकुन्तळसन्ततिः श्रुतिवधूकस्तूरिकालङ्क्रिया
नित्यं रत्नपदावनि ! स्फुरति ते नीला मणिश्रेणिका॥ 20.27

निरन्तरपुरन्दरोपलभुवं द्युतिं तावकीम्
अवैमि मणिपादुके ! सरणिसङ्गिनीं रङ्गिणः ।
तदीयनवयौवनद्विरदमल्लगण्डस्थली
गळन्मदझलञ्झलाबहुळकज्जळश्यामिकाम्॥ 20.28

मूलम्

निरन्तरपुरन्दरोपलभुवं द्युतिं तावकीम्
अवैमि मणिपादुके ! सरणिसङ्गिनीं रङ्गिणः ।
तदीयनवयौवनद्विरदमल्लगण्डस्थली
गळन्मदझलञ्झलाबहुळकज्जळश्यामिकाम्॥ 20.28

विश्वास-प्रस्तुतिः

प्रतीमस्त्वां पादावनि ! भगवतो रङ्गवसतेः
घनीभूतामित्थं पदकमलमाध्वीपरिणतिम् ।
स्फुरन्तः पर्यन्ते मदगरिमनिस्पन्दमधुप-
प्रसक्तिं यत्रैते विदधति महानीलमणयः॥ 20.29

मूलम्

प्रतीमस्त्वां पादावनि ! भगवतो रङ्गवसतेः
घनीभूतामित्थं पदकमलमाध्वीपरिणतिम् ।
स्फुरन्तः पर्यन्ते मदगरिमनिस्पन्दमधुप-
प्रसक्तिं यत्रैते विदधति महानीलमणयः॥ 20.29

विश्वास-प्रस्तुतिः

नमतां निजेन्द्रनीलप्रभवेन मुकुन्दपादुके ! भवती ।
तमसा निरस्यति तमः कण्टकमिव कण्टकेनैव॥ 20.30

मूलम्

नमतां निजेन्द्रनीलप्रभवेन मुकुन्दपादुके ! भवती ।
तमसा निरस्यति तमः कण्टकमिव कण्टकेनैव॥ 20.30