विश्वास-प्रस्तुतिः
वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।
यया नित्यं तुळस्येव हरितत्त्वं प्रकाश्यते॥ 19.1
मूलम्
वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।
यया नित्यं तुळस्येव हरितत्त्वं प्रकाश्यते॥ 19.1
विश्वास-प्रस्तुतिः
सविलासगतेषु रङ्गभर्तुः
त्वदधीनेषु बहिष्कृतो गरुत्मान् ।
अधिगच्छति निर्वृतिं कथञ्चित्
निजरत्नैस्त्वयि पादुके ! निविष्टैः॥ 19.2
मूलम्
सविलासगतेषु रङ्गभर्तुः
त्वदधीनेषु बहिष्कृतो गरुत्मान् ।
अधिगच्छति निर्वृतिं कथञ्चित्
निजरत्नैस्त्वयि पादुके ! निविष्टैः॥ 19.2
विश्वास-प्रस्तुतिः
समये मणिपादुके ! मुरारेः
मुहुरन्तः पुरमुग्धचेटिकास्ते ।
हरितान् हरिदश्मनां मयूखान्
तुळसीपल्लवशङ्कया क्षिपन्ति॥ 19.3
मूलम्
समये मणिपादुके ! मुरारेः
मुहुरन्तः पुरमुग्धचेटिकास्ते ।
हरितान् हरिदश्मनां मयूखान्
तुळसीपल्लवशङ्कया क्षिपन्ति॥ 19.3
विश्वास-प्रस्तुतिः
हरितः सहसा हरिन्मणीनां
प्रभया रङ्गनरेन्द्रपादरक्षे ! ।
तुळसीदलसम्पदं दधाति
त्वयि भक्तैर्निहितः प्रसूनराशिः॥ 19.4
मूलम्
हरितः सहसा हरिन्मणीनां
प्रभया रङ्गनरेन्द्रपादरक्षे ! ।
तुळसीदलसम्पदं दधाति
त्वयि भक्तैर्निहितः प्रसूनराशिः॥ 19.4
विश्वास-प्रस्तुतिः
प्रसादयन्ती मणिपादुके ! त्वं
विक्षेपयोगेन विहारवेलाम् ।
हरिन्मनोज्ञा हरिकान्तिसिन्धोः
सन्दृश्यसे शैवलमञ्जरीव॥ 19.5
मूलम्
प्रसादयन्ती मणिपादुके ! त्वं
विक्षेपयोगेन विहारवेलाम् ।
हरिन्मनोज्ञा हरिकान्तिसिन्धोः
सन्दृश्यसे शैवलमञ्जरीव॥ 19.5
विश्वास-प्रस्तुतिः
बध्नासि रङ्गेश्वरपादरक्षे !
हरिन्मणीनां प्रभया स्फुरन्त्या ।
चूडापदेषु श्रुतिसुन्दरीणां
माङ्गळ्यदूर्वाङ्कुरमाल्यपङ्क्तिम्॥ 19.6
मूलम्
बध्नासि रङ्गेश्वरपादरक्षे !
हरिन्मणीनां प्रभया स्फुरन्त्या ।
चूडापदेषु श्रुतिसुन्दरीणां
माङ्गळ्यदूर्वाङ्कुरमाल्यपङ्क्तिम्॥ 19.6
विश्वास-प्रस्तुतिः
अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिः
सद्वर्त्मना गतिमती मणिपादरक्षे ! ।
सन्दृश्यसे सवितृमण्डलमध्यभाजो
रङ्गेश्वरस्य रथसम्पदिवापरा त्वम्॥ 19.7
मूलम्
अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिः
सद्वर्त्मना गतिमती मणिपादरक्षे ! ।
सन्दृश्यसे सवितृमण्डलमध्यभाजो
रङ्गेश्वरस्य रथसम्पदिवापरा त्वम्॥ 19.7
विश्वास-प्रस्तुतिः
श्यामायमाननिगमान्तवनोपकण्ठाः
स्थाने पदावनि ! हरिन्मणयस्त्वदीयाः ।
पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यं
नारायणस्य रुचिरां नखरश्मिगङ्गाम्॥ 19.8
मूलम्
श्यामायमाननिगमान्तवनोपकण्ठाः
स्थाने पदावनि ! हरिन्मणयस्त्वदीयाः ।
पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यं
नारायणस्य रुचिरां नखरश्मिगङ्गाम्॥ 19.8
विश्वास-प्रस्तुतिः
उद्दिश्य कामपि गतिं मणिपादरक्षे !
रङ्गेश्वरस्य चरणे विनिवेशितात्मा ।
प्रायो हरिन्मणिरुचा दृढभक्तिबन्धा
प्रादुष्करोति भवती तुळसीवनानि॥ 19.9
मूलम्
उद्दिश्य कामपि गतिं मणिपादरक्षे !
रङ्गेश्वरस्य चरणे विनिवेशितात्मा ।
प्रायो हरिन्मणिरुचा दृढभक्तिबन्धा
प्रादुष्करोति भवती तुळसीवनानि॥ 19.9
विश्वास-प्रस्तुतिः
सेवार्थमागतवतां त्रिदशेश्वराणां
चूडामणिप्रकरशालिषु मौळिषु त्वम् ।
संवर्तयस्यसुरमर्दनपादरक्षे !
स्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम्॥ 19.10
मूलम्
सेवार्थमागतवतां त्रिदशेश्वराणां
चूडामणिप्रकरशालिषु मौळिषु त्वम् ।
संवर्तयस्यसुरमर्दनपादरक्षे !
स्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम्॥ 19.10
विश्वास-प्रस्तुतिः
दरपरिणतदूर्वा वल्लरीनिर्विशेषैः
मरकतशकलानां मांसलैरंशुजालैः ।
पशुपतिविधृता त्वं तस्य पाणौ निषण्णं
मधुरिपुपदरक्षे ! वञ्चयस्येणशाबम्॥ 19.11
मूलम्
दरपरिणतदूर्वा वल्लरीनिर्विशेषैः
मरकतशकलानां मांसलैरंशुजालैः ।
पशुपतिविधृता त्वं तस्य पाणौ निषण्णं
मधुरिपुपदरक्षे ! वञ्चयस्येणशाबम्॥ 19.11
विश्वास-प्रस्तुतिः
हरिचरणसरोजन्यासयोग्यं भवत्याः
प्रगुणमभिलषन्त्यो वर्णलाभं तुळस्यः ।
प्रतिदिनमुपहारैः पादुके ! तावकानां
मरकतशकलानामाश्रयन्ते मयूखान्॥ 19.12
मूलम्
हरिचरणसरोजन्यासयोग्यं भवत्याः
प्रगुणमभिलषन्त्यो वर्णलाभं तुळस्यः ।
प्रतिदिनमुपहारैः पादुके ! तावकानां
मरकतशकलानामाश्रयन्ते मयूखान्॥ 19.12
विश्वास-प्रस्तुतिः
हरितमणिमयूखैरञ्चिताध्यात्मगन्धैः
दिशसि चरणरक्षे ! जातकौतूहला त्वम् ।
दनुजमथनलीलादारिकाणामुदारां
दमनकदळपङ्क्तिं देवि ! मौलौ श्रुतीनाम्॥ 19.13
मूलम्
हरितमणिमयूखैरञ्चिताध्यात्मगन्धैः
दिशसि चरणरक्षे ! जातकौतूहला त्वम् ।
दनुजमथनलीलादारिकाणामुदारां
दमनकदळपङ्क्तिं देवि ! मौलौ श्रुतीनाम्॥ 19.13
विश्वास-प्रस्तुतिः
अधिगतबहुशाखैरश्मगर्भप्रसूतैः
मधुरिपुपदरक्षे ! मेचकैरंशुजालैः ।
अनितरशरणानां नूनमारण्यकानां
किमपि जनयसि त्वं कीचकारण्यदुर्गम्॥ 19.14
मूलम्
अधिगतबहुशाखैरश्मगर्भप्रसूतैः
मधुरिपुपदरक्षे ! मेचकैरंशुजालैः ।
अनितरशरणानां नूनमारण्यकानां
किमपि जनयसि त्वं कीचकारण्यदुर्गम्॥ 19.14
विश्वास-प्रस्तुतिः
प्रचुरनिगमशाखां पादुके ! रङ्गिणस्त्वां
चरणनखमयूखैश्चारुपुष्पानुबन्धाम् ।
मरकतदळरम्यां मन्महे सञ्चरन्तीं
कनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम्॥ 19.15
मूलम्
प्रचुरनिगमशाखां पादुके ! रङ्गिणस्त्वां
चरणनखमयूखैश्चारुपुष्पानुबन्धाम् ।
मरकतदळरम्यां मन्महे सञ्चरन्तीं
कनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम्॥ 19.15
विश्वास-प्रस्तुतिः
नखकिरणनिकायैर्नित्यमाविर्मृणाले
महितरसविशेषे मेचकैरंशुभिस्ते ।
परिकलयसि रम्यां पादुके ! रङ्गभर्तुः
पदकमलसमीपे पद्मिनीपत्रपङ्क्तिम्॥ 19.16
मूलम्
नखकिरणनिकायैर्नित्यमाविर्मृणाले
महितरसविशेषे मेचकैरंशुभिस्ते ।
परिकलयसि रम्यां पादुके ! रङ्गभर्तुः
पदकमलसमीपे पद्मिनीपत्रपङ्क्तिम्॥ 19.16
विश्वास-प्रस्तुतिः
अनिमिषयुवतीनामार्तनादोपशान्त्यै
त्वयि विनिहितपादे लीलया रङ्गनाथे ।
दधति चरणरक्षे ! दैत्यसौधानि नूनं
मरकतरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि॥ 19.17
मूलम्
अनिमिषयुवतीनामार्तनादोपशान्त्यै
त्वयि विनिहितपादे लीलया रङ्गनाथे ।
दधति चरणरक्षे ! दैत्यसौधानि नूनं
मरकतरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि॥ 19.17
विश्वास-प्रस्तुतिः
विपुलतममहोभिर्वीतदोषानुषङ्गं
विलसदुपरिनैल्यं देवि ! विष्णोः पदं तत् ।
पृथुमरकतदृश्यां प्राप्य पादावनि ! त्वां
प्रकटयति समन्तात् सम्प्रयोगं हरिद्भिः॥ 19.18
मूलम्
विपुलतममहोभिर्वीतदोषानुषङ्गं
विलसदुपरिनैल्यं देवि ! विष्णोः पदं तत् ।
पृथुमरकतदृश्यां प्राप्य पादावनि ! त्वां
प्रकटयति समन्तात् सम्प्रयोगं हरिद्भिः॥ 19.18
विश्वास-प्रस्तुतिः
पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीना
यत्संसर्गादनघचरिताः पादुके ! कामचाराः ।
तारासक्तं तमिह तरुणं प्रीणयन्ते जरत्यो
नित्यश्यामास्तव मरकतैर्नूनमाम्नायवाचः॥ 19.19
मूलम्
पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीना
यत्संसर्गादनघचरिताः पादुके ! कामचाराः ।
तारासक्तं तमिह तरुणं प्रीणयन्ते जरत्यो
नित्यश्यामास्तव मरकतैर्नूनमाम्नायवाचः॥ 19.19
विश्वास-प्रस्तुतिः
स्थलकमलिनीव काचित्
चरणावनि ! भासि कमलवासिन्याः ।
यन्मरकतदळमध्ये यः
कश्चिदसौ समीक्ष्यते शौरिः॥ 19.20
मूलम्
स्थलकमलिनीव काचित्
चरणावनि ! भासि कमलवासिन्याः ।
यन्मरकतदळमध्ये यः
कश्चिदसौ समीक्ष्यते शौरिः॥ 19.20