18 मुक्तापद्धतिः

विश्वास-प्रस्तुतिः

बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका॥ 18.1

मूलम्

बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका॥ 18.1

विश्वास-प्रस्तुतिः

तव रङ्गधुरीणपादरक्षे !
विमला मौक्तिकपद्धतिर्विभाति ।
सुहृदि त्वयि साधितापवर्गैः
समये सङ्क्रमितेव साधुकृत्या॥ 18.2

मूलम्

तव रङ्गधुरीणपादरक्षे !
विमला मौक्तिकपद्धतिर्विभाति ।
सुहृदि त्वयि साधितापवर्गैः
समये सङ्क्रमितेव साधुकृत्या॥ 18.2

विश्वास-प्रस्तुतिः

शरणागतसस्यमालिनीयं
तव मुक्तामणिरश्मिनिर्झरौघैः ।
ननु रङ्गधुरीणपादरक्षे !
जगतीं नित्यमदैवमातृकाऽभूत्॥ 18.3

मूलम्

शरणागतसस्यमालिनीयं
तव मुक्तामणिरश्मिनिर्झरौघैः ।
ननु रङ्गधुरीणपादरक्षे !
जगतीं नित्यमदैवमातृकाऽभूत्॥ 18.3

विश्वास-प्रस्तुतिः

अधिविष्णुपदं परिस्फुरन्ती
नवमुक्तामणिनिर्मलप्रकाशा ।
परिपुष्यसि मङ्गळानि पुंसां
प्रतिपच्चन्द्रकलेव पादुके ! त्वम्॥ 18.4

मूलम्

अधिविष्णुपदं परिस्फुरन्ती
नवमुक्तामणिनिर्मलप्रकाशा ।
परिपुष्यसि मङ्गळानि पुंसां
प्रतिपच्चन्द्रकलेव पादुके ! त्वम्॥ 18.4

विश्वास-प्रस्तुतिः

निहिता नवमौक्तिकावळिस्त्वाम्
अभितः काञ्चनपादुके ! मुरारेः ।
नखचन्द्रमसां पदाश्रितानां
प्रतिमाचन्द्रपरम्परेव भाति॥ 18.5

मूलम्

निहिता नवमौक्तिकावळिस्त्वाम्
अभितः काञ्चनपादुके ! मुरारेः ।
नखचन्द्रमसां पदाश्रितानां
प्रतिमाचन्द्रपरम्परेव भाति॥ 18.5

विश्वास-प्रस्तुतिः

समतामुपैति वपुषाऽपि सदा
भवदीयमौक्तिकमहश्छुरिता ।
हरिपादुके ! हरिपदोद्भवया
कनकापगा सुरपुरापगया॥ 18.6

मूलम्

समतामुपैति वपुषाऽपि सदा
भवदीयमौक्तिकमहश्छुरिता ।
हरिपादुके ! हरिपदोद्भवया
कनकापगा सुरपुरापगया॥ 18.6

विश्वास-प्रस्तुतिः

तव रङ्गचन्द्रतपनीयपादुके !
विमला समुद्वहति मौक्तिकावळिः ।
चरणारविन्दनखचन्द्रमण्डल-
प्रणयोपयातनवतारकारुचिम्॥ 18.7

मूलम्

तव रङ्गचन्द्रतपनीयपादुके !
विमला समुद्वहति मौक्तिकावळिः ।
चरणारविन्दनखचन्द्रमण्डल-
प्रणयोपयातनवतारकारुचिम्॥ 18.7

विश्वास-प्रस्तुतिः

चन्द्रचूडमकुटेन लाळिता
चारुमौक्तिकमयूखपाण्डरा ।
रङ्गनाथपदपद्मसङ्गिनी
लक्ष्यसे सुरधुनीव पादुके !॥ 18.8

मूलम्

चन्द्रचूडमकुटेन लाळिता
चारुमौक्तिकमयूखपाण्डरा ।
रङ्गनाथपदपद्मसङ्गिनी
लक्ष्यसे सुरधुनीव पादुके !॥ 18.8

विश्वास-प्रस्तुतिः

ये भजन्ति भवतीं तवैव ते
मौक्तिकद्युतिविकल्पगङ्गया ।
वर्धयन्ति मधुवैरिपादुके !
मौळिचन्द्रशकलस्य चन्द्रिकाम्॥ 18.9

मूलम्

ये भजन्ति भवतीं तवैव ते
मौक्तिकद्युतिविकल्पगङ्गया ।
वर्धयन्ति मधुवैरिपादुके !
मौळिचन्द्रशकलस्य चन्द्रिकाम्॥ 18.9

विश्वास-प्रस्तुतिः

मुक्तामयूखैर्नियतं त्वदीयैः
आपूरयिष्यन्नवतंसचन्द्रम् ।
बिभर्ति रङ्गेश्वरपादरक्षे !
देवो महान् दर्शितसन्नतिस्त्वाम्॥ 18.10

मूलम्

मुक्तामयूखैर्नियतं त्वदीयैः
आपूरयिष्यन्नवतंसचन्द्रम् ।
बिभर्ति रङ्गेश्वरपादरक्षे !
देवो महान् दर्शितसन्नतिस्त्वाम्॥ 18.10

विश्वास-प्रस्तुतिः

परिष्कृता मौक्तिकरश्मिजालैः
पदस्य गोप्त्री भवती मुरारेः ।
भवत्यनेकोर्मिसमाकुलानां
पुंसां तमः सागरपोतपात्री॥ 18.11

मूलम्

परिष्कृता मौक्तिकरश्मिजालैः
पदस्य गोप्त्री भवती मुरारेः ।
भवत्यनेकोर्मिसमाकुलानां
पुंसां तमः सागरपोतपात्री॥ 18.11

विश्वास-प्रस्तुतिः

रङ्गेशपादप्रतिपन्नभोगां
रत्नानुविद्धैर्महितां शिरोभिः ।
मुक्तावदातां मणिपादुके ! त्वां
मूर्तिं भुजङ्गाधिपतेः प्रतीमः॥ 18.12

मूलम्

रङ्गेशपादप्रतिपन्नभोगां
रत्नानुविद्धैर्महितां शिरोभिः ।
मुक्तावदातां मणिपादुके ! त्वां
मूर्तिं भुजङ्गाधिपतेः प्रतीमः॥ 18.12

विश्वास-प्रस्तुतिः

मुकुन्दपादावनि ! मौक्तिकैस्ते
ज्योत्स्नामयं विश्वमिदं दिवाऽपि ।
वैमानिकानां न भजन्ति येन
व्याकोचतामञ्जलिपद्मकोशाः॥ 18.13

मूलम्

मुकुन्दपादावनि ! मौक्तिकैस्ते
ज्योत्स्नामयं विश्वमिदं दिवाऽपि ।
वैमानिकानां न भजन्ति येन
व्याकोचतामञ्जलिपद्मकोशाः॥ 18.13

विश्वास-प्रस्तुतिः

समाश्रितानामनघां विशुद्धिं
त्रासव्यपायं च वितन्वती त्वम् ।
सायुज्यमापादयसि स्वकीयैः
मुक्ताफलैर्माधवपादुके ! नः॥ 18.14

मूलम्

समाश्रितानामनघां विशुद्धिं
त्रासव्यपायं च वितन्वती त्वम् ।
सायुज्यमापादयसि स्वकीयैः
मुक्ताफलैर्माधवपादुके ! नः॥ 18.14

विश्वास-प्रस्तुतिः

अवैमि पादावनि ! मौक्तिकानां
कीर्णामुदग्रैः किरणप्ररोहैः ।
यात्रोत्सवार्थं विहितां मुरारेः
अभङ्गुरामङ्कुरपालिकां त्वाम्॥ 18.15

मूलम्

अवैमि पादावनि ! मौक्तिकानां
कीर्णामुदग्रैः किरणप्ररोहैः ।
यात्रोत्सवार्थं विहितां मुरारेः
अभङ्गुरामङ्कुरपालिकां त्वाम्॥ 18.15

विश्वास-प्रस्तुतिः

शिवत्वहेतुं सकलस्य जन्तोः
स्रोतोविशेषैः सुभगामसङ्ख्यैः ।
मुक्तामयूखैः सुरसिन्धुमन्यां
पुष्णासि रङ्गेश्वरपादुके ! त्वम्॥ 18.16

मूलम्

शिवत्वहेतुं सकलस्य जन्तोः
स्रोतोविशेषैः सुभगामसङ्ख्यैः ।
मुक्तामयूखैः सुरसिन्धुमन्यां
पुष्णासि रङ्गेश्वरपादुके ! त्वम्॥ 18.16

विश्वास-प्रस्तुतिः

रङ्गे शयानस्य पदावनि ! त्वां
लावण्यसिन्धोः सविधे निषण्णाम् ।
परिस्फुरन्मौक्तिकजालदृश्यां
प्रसूतिभिन्नां प्रतियन्ति शुक्तिम्॥ 18.17

मूलम्

रङ्गे शयानस्य पदावनि ! त्वां
लावण्यसिन्धोः सविधे निषण्णाम् ।
परिस्फुरन्मौक्तिकजालदृश्यां
प्रसूतिभिन्नां प्रतियन्ति शुक्तिम्॥ 18.17

विश्वास-प्रस्तुतिः

अवैमि रङ्गेश्वरपादरक्षे !
मुक्ताफलानि त्वयि निस्तुलानि ।
तेनैव कल्पान्तरतारकाणाम्
उप्तानि बीजानि जगद्विधात्रा॥ 18.18

मूलम्

अवैमि रङ्गेश्वरपादरक्षे !
मुक्ताफलानि त्वयि निस्तुलानि ।
तेनैव कल्पान्तरतारकाणाम्
उप्तानि बीजानि जगद्विधात्रा॥ 18.18

विश्वास-प्रस्तुतिः

विक्रम्यमाणमभवत् क्षणमन्तरिक्षं
मायाविना भगवता मणिपादरक्षे ! ।
व्योमापगाविपुलबुद्बुददर्शनीयैः
मुक्ताफलैस्तव शुभैः पुनरुक्ततारम्॥ 18.19

मूलम्

विक्रम्यमाणमभवत् क्षणमन्तरिक्षं
मायाविना भगवता मणिपादरक्षे ! ।
व्योमापगाविपुलबुद्बुददर्शनीयैः
मुक्ताफलैस्तव शुभैः पुनरुक्ततारम्॥ 18.19

विश्वास-प्रस्तुतिः

लक्ष्मीविहाररसिकेन पदावनि ! त्वं
रक्षाविधौ भगवता जगतो नियुक्ता ।
सत्त्वं तदर्हमिव दर्शयसि प्रभूतं
मुक्तामयूखनिकरेण विसृत्वरेण॥ 18.20

मूलम्

लक्ष्मीविहाररसिकेन पदावनि ! त्वं
रक्षाविधौ भगवता जगतो नियुक्ता ।
सत्त्वं तदर्हमिव दर्शयसि प्रभूतं
मुक्तामयूखनिकरेण विसृत्वरेण॥ 18.20

विश्वास-प्रस्तुतिः

पादार्पणेन भवतीं प्रतिपद्यमाने
श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः ।
अङ्गीकरोषि चरणावनि ! कान्तिमग्र्याम्
उद्भिद्यमानकुमुदेव कुमुद्वती त्वम्॥ 18.21

मूलम्

पादार्पणेन भवतीं प्रतिपद्यमाने
श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः ।
अङ्गीकरोषि चरणावनि ! कान्तिमग्र्याम्
उद्भिद्यमानकुमुदेव कुमुद्वती त्वम्॥ 18.21

विश्वास-प्रस्तुतिः

त्रय्यन्तहर्म्यतलवर्णसुधायितेन
ज्योत्स्नाविकल्पितरुचा मणिपादुके ! त्वम् ।
मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां
वर्णेन ते शमयसीव सतामवर्णम्॥ 18.22

मूलम्

त्रय्यन्तहर्म्यतलवर्णसुधायितेन
ज्योत्स्नाविकल्पितरुचा मणिपादुके ! त्वम् ।
मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां
वर्णेन ते शमयसीव सतामवर्णम्॥ 18.22

विश्वास-प्रस्तुतिः

वैकुण्ठपादनखवासनयेव नित्यं
पादावनि ! प्रसुवते तव मौक्तिकानि ।
अच्छिन्नतापशमनाय समाश्रितानाम्
आलोकमण्डलमिषादमृतप्रवाहम्॥ 18.23

मूलम्

वैकुण्ठपादनखवासनयेव नित्यं
पादावनि ! प्रसुवते तव मौक्तिकानि ।
अच्छिन्नतापशमनाय समाश्रितानाम्
आलोकमण्डलमिषादमृतप्रवाहम्॥ 18.23

विश्वास-प्रस्तुतिः

रामानुवृत्तिजटिले भरतस्य मौळौ
रङ्गाधिराजपदपङ्कजरक्षिणि ! त्वम् ।
एकातपत्रितजगत्त्रितया द्वितीयं
मुक्तांशुभिः कृतवती नवमातपत्रम्॥ 18.24

मूलम्

रामानुवृत्तिजटिले भरतस्य मौळौ
रङ्गाधिराजपदपङ्कजरक्षिणि ! त्वम् ।
एकातपत्रितजगत्त्रितया द्वितीयं
मुक्तांशुभिः कृतवती नवमातपत्रम्॥ 18.24

विश्वास-प्रस्तुतिः

पादावनि ! स्फुटमयूखमधुप्रवाहा
मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते ।
रूढस्य रङ्गपतिपादसरोजमध्ये
रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः॥ 18.25

मूलम्

पादावनि ! स्फुटमयूखमधुप्रवाहा
मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते ।
रूढस्य रङ्गपतिपादसरोजमध्ये
रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः॥ 18.25

विश्वास-प्रस्तुतिः

आम्रेडितैः पदनखेन्दुरुचा मनोज्ञैः
मुक्तांशुभिर्मुरभिदो मणिपादुके ! त्वम् ।
स्वाभाविकीं सकलजन्तुषु सार्वभौमीं
प्रायः प्रसत्तिममलां प्रकटीकरोषि॥ 18.26

मूलम्

आम्रेडितैः पदनखेन्दुरुचा मनोज्ञैः
मुक्तांशुभिर्मुरभिदो मणिपादुके ! त्वम् ।
स्वाभाविकीं सकलजन्तुषु सार्वभौमीं
प्रायः प्रसत्तिममलां प्रकटीकरोषि॥ 18.26

विश्वास-प्रस्तुतिः

निस्सीमपङ्कमलिनं हृदयं मदीयं
नाथस्य रङ्गवसतेरधिरोढुमिच्छोः ।
मातस्तवैव सहसा मणिपादरक्षे !
मुक्तांशवः स्फटिकसौधतुलां नयन्ति॥ 18.27

मूलम्

निस्सीमपङ्कमलिनं हृदयं मदीयं
नाथस्य रङ्गवसतेरधिरोढुमिच्छोः ।
मातस्तवैव सहसा मणिपादरक्षे !
मुक्तांशवः स्फटिकसौधतुलां नयन्ति॥ 18.27

विश्वास-प्रस्तुतिः

श्यामा तनुर्भगवतः प्रतिपन्नतारा
त्वं चन्द्रिका विमलमौक्तिकदर्शनीया ।
स्थाने तदेतदुभयं मणिपादरक्षे !
बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः॥ 18.28

मूलम्

श्यामा तनुर्भगवतः प्रतिपन्नतारा
त्वं चन्द्रिका विमलमौक्तिकदर्शनीया ।
स्थाने तदेतदुभयं मणिपादरक्षे !
बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः॥ 18.28

विश्वास-प्रस्तुतिः

उद्गाढपङ्कशमनैर्मणिपादरक्षे !
मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः ।
चूडापदेषु निहिता त्रिदशेश्वराणां
तीर्थोदकैः स्नपयसीव पदार्थिनस्तान्॥ 18.29

मूलम्

उद्गाढपङ्कशमनैर्मणिपादरक्षे !
मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः ।
चूडापदेषु निहिता त्रिदशेश्वराणां
तीर्थोदकैः स्नपयसीव पदार्थिनस्तान्॥ 18.29

विश्वास-प्रस्तुतिः

रङ्गेशपादनखचन्द्रसुधानुलेपं
सम्प्राप्य सिद्धगुळिका इव तावकीनाः ।
संसारसञ्ज्वरजुषां मणिपादरक्षे !
सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः॥ 18.30

मूलम्

रङ्गेशपादनखचन्द्रसुधानुलेपं
सम्प्राप्य सिद्धगुळिका इव तावकीनाः ।
संसारसञ्ज्वरजुषां मणिपादरक्षे !
सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः॥ 18.30

विश्वास-प्रस्तुतिः

भावोत्तरैरधिगता भरतप्रधानैः
प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा ।
रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो
रङ्गस्थलीव लळिता मणिपादुके ! त्वम्॥ 18.31

मूलम्

भावोत्तरैरधिगता भरतप्रधानैः
प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा ।
रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो
रङ्गस्थलीव लळिता मणिपादुके ! त्वम्॥ 18.31

विश्वास-प्रस्तुतिः

मन्ये मुकुन्दचरणावनि ! मौळिदेशे
विन्यस्य देवि ! भवतीं विनतस्य शम्भोः ।
आपादयन्त्यधिकृताः प्रतिपन्नतारं
चूडातुषारकिरणं तव मौक्तिकौघैः॥ 18.32

मूलम्

मन्ये मुकुन्दचरणावनि ! मौळिदेशे
विन्यस्य देवि ! भवतीं विनतस्य शम्भोः ।
आपादयन्त्यधिकृताः प्रतिपन्नतारं
चूडातुषारकिरणं तव मौक्तिकौघैः॥ 18.32

विश्वास-प्रस्तुतिः

पद्मापतेर्विहरतः प्रियमाचरन्ती
मुक्तामयूखनिवहैः पुरतो विकीर्णैः ।
कन्दानि काञ्चनपदावनि ! पद्मिनीनां
मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु॥ 18.33

मूलम्

पद्मापतेर्विहरतः प्रियमाचरन्ती
मुक्तामयूखनिवहैः पुरतो विकीर्णैः ।
कन्दानि काञ्चनपदावनि ! पद्मिनीनां
मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु॥ 18.33

विश्वास-प्रस्तुतिः

आशास्य नूनमनघां मणिपादरक्षे !
चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् ।
धात्रीं मुकुन्दपदयोरनपायिनीं त्वां
ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात्॥ 18.34

मूलम्

आशास्य नूनमनघां मणिपादरक्षे !
चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् ।
धात्रीं मुकुन्दपदयोरनपायिनीं त्वां
ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात्॥ 18.34

विश्वास-प्रस्तुतिः

ये नाम केऽपि भवतीं विनयावनम्रैः
उत्तंसयन्ति कृतिनः क्षणमुत्तमाङ्गैः ।
इच्छन्ति रङ्गनृपतेर्मणिपादरक्षे !
त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम्॥ 18.35

मूलम्

ये नाम केऽपि भवतीं विनयावनम्रैः
उत्तंसयन्ति कृतिनः क्षणमुत्तमाङ्गैः ।
इच्छन्ति रङ्गनृपतेर्मणिपादरक्षे !
त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम्॥ 18.35

विश्वास-प्रस्तुतिः

अनुदिनलळितानामङ्गुलीपल्लवानां
जनितमुकुळशोभैर्देवि ! मुक्ताफलैस्त्वम् ।
प्रकटयसि जनानां पादुके ! रङ्गभर्तुः
पदसरसिजरेखा पाञ्चजन्यप्रसूतिम्॥ 18.36

मूलम्

अनुदिनलळितानामङ्गुलीपल्लवानां
जनितमुकुळशोभैर्देवि ! मुक्ताफलैस्त्वम् ।
प्रकटयसि जनानां पादुके ! रङ्गभर्तुः
पदसरसिजरेखा पाञ्चजन्यप्रसूतिम्॥ 18.36

विश्वास-प्रस्तुतिः

बलिविमथनवेलाव्यापिनस्तस्य विष्णोः
पदसरसिजमाध्वी पावनी देवि ! नूनम् ।
जननसमयलग्नां जाह्नवी तावकानां
वहति चरणरक्षे ! वासनां मौक्तिकानाम्॥ 18.37

मूलम्

बलिविमथनवेलाव्यापिनस्तस्य विष्णोः
पदसरसिजमाध्वी पावनी देवि ! नूनम् ।
जननसमयलग्नां जाह्नवी तावकानां
वहति चरणरक्षे ! वासनां मौक्तिकानाम्॥ 18.37

विश्वास-प्रस्तुतिः

मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः
शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् ।
प्रचुरकिरणपूराः पादुके ! संश्रितानां
कलिकलुषमशेषं क्षाळयन्तीव मुक्ताः॥ 18.38

मूलम्

मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः
शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् ।
प्रचुरकिरणपूराः पादुके ! संश्रितानां
कलिकलुषमशेषं क्षाळयन्तीव मुक्ताः॥ 18.38

विश्वास-प्रस्तुतिः

मुकुळितपरितापां प्राणिनां मौक्तिकैः स्वैः
अमृतमिव दुहानामाद्रिये पादुके ! त्वाम् ।
विषधरफणपङ्क्तिर्यत्प्रभावेन मन्ये
लळितनटनयोग्यं रङ्गमासीन्मुरारेः॥ 18.39

मूलम्

मुकुळितपरितापां प्राणिनां मौक्तिकैः स्वैः
अमृतमिव दुहानामाद्रिये पादुके ! त्वाम् ।
विषधरफणपङ्क्तिर्यत्प्रभावेन मन्ये
लळितनटनयोग्यं रङ्गमासीन्मुरारेः॥ 18.39

विश्वास-प्रस्तुतिः

सकृदपि विनतानां त्रासमुन्मूलयन्तीं
त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् ।
न जहति निजकान्तिं पादुके ! रङ्गभर्तुः
चरणनखमणीनां सन्निधौ मौक्तिकानि॥ 18.40

मूलम्

सकृदपि विनतानां त्रासमुन्मूलयन्तीं
त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् ।
न जहति निजकान्तिं पादुके ! रङ्गभर्तुः
चरणनखमणीनां सन्निधौ मौक्तिकानि॥ 18.40

विश्वास-प्रस्तुतिः

भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः
पदकमलमिदं ते पादुके ! धारयन्त्याः ।
चिरविहरणखेदात् सम्भृतानां भजन्ति
श्रमजलकणिकानां सम्पदं मौक्तिकानि॥ 18.41

मूलम्

भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः
पदकमलमिदं ते पादुके ! धारयन्त्याः ।
चिरविहरणखेदात् सम्भृतानां भजन्ति
श्रमजलकणिकानां सम्पदं मौक्तिकानि॥ 18.41

विश्वास-प्रस्तुतिः

प्रकटितयशसां ते पादुके ! रङ्गभर्तुः
द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् ।
करणविलयवेळाकातरस्यास्य जन्तोः
शमयति परितापं शाश्वती चन्द्रिकेयम्॥ 18.42

मूलम्

प्रकटितयशसां ते पादुके ! रङ्गभर्तुः
द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् ।
करणविलयवेळाकातरस्यास्य जन्तोः
शमयति परितापं शाश्वती चन्द्रिकेयम्॥ 18.42

विश्वास-प्रस्तुतिः

दिव्यं धाम स्थिरमभियतां देवि ! मुक्तामणीनां
मध्ये कश्चिद्भवति मधुजित्पादुके ! तावकानाम् ।
न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्याम्
आत्मज्योतिश्शमिततमसां योगिनामन्तरात्मा॥ 18.43

मूलम्

दिव्यं धाम स्थिरमभियतां देवि ! मुक्तामणीनां
मध्ये कश्चिद्भवति मधुजित्पादुके ! तावकानाम् ।
न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्याम्
आत्मज्योतिश्शमिततमसां योगिनामन्तरात्मा॥ 18.43

विश्वास-प्रस्तुतिः

शुद्धे नित्यं स्थिरपरिणतां देवि ! विष्णोः पदे त्वाम्
आस्थानीं ताममितविभवां पादुके ! तर्कयामि ।
आलोकैः स्वैर्भुवनमखिलं दीपवत् व्याप्य कामं
मुक्ताः शुद्धिं यदुपसदनात् बिभ्रति त्रासहीनाः॥ 18.44

मूलम्

शुद्धे नित्यं स्थिरपरिणतां देवि ! विष्णोः पदे त्वाम्
आस्थानीं ताममितविभवां पादुके ! तर्कयामि ।
आलोकैः स्वैर्भुवनमखिलं दीपवत् व्याप्य कामं
मुक्ताः शुद्धिं यदुपसदनात् बिभ्रति त्रासहीनाः॥ 18.44

विश्वास-प्रस्तुतिः

प्राप्ता शौरेश्चरणकमलं पादुके ! भक्तिभाजां
प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौळिभागम् ।
देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से
मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानां
प्रभाभिः॥ 18.45

मूलम्

प्राप्ता शौरेश्चरणकमलं पादुके ! भक्तिभाजां
प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौळिभागम् ।
देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से
मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानां
प्रभाभिः॥ 18.45

विश्वास-प्रस्तुतिः

तव हरिपादुके ! पृथुळमौक्तिकरत्नभुवः
प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः ।
पदमजरामरं विदधते कथमम्ब ! सतां
प्रणतसुरेन्द्रमौळिपलितङ्करणाः किरणाः॥ 18.46

मूलम्

तव हरिपादुके ! पृथुळमौक्तिकरत्नभुवः
प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः ।
पदमजरामरं विदधते कथमम्ब ! सतां
प्रणतसुरेन्द्रमौळिपलितङ्करणाः किरणाः॥ 18.46

विश्वास-प्रस्तुतिः

कपर्दे कस्यापि क्षितिधरपदत्रायिणि ! तथा
मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः ।
मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा
निरालम्बो लम्बोदरकळभशुण्डालचुळकः॥ 18.47

मूलम्

कपर्दे कस्यापि क्षितिधरपदत्रायिणि ! तथा
मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः ।
मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा
निरालम्बो लम्बोदरकळभशुण्डालचुळकः॥ 18.47

विश्वास-प्रस्तुतिः

मुकुन्दपदरक्षिणि ! प्रगुणदीप्तयस्तावकाः
क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः ।
मनागपि मनीषिणो यदनुषङ्गिणस्तत्क्षणात्
जरामरणदन्तुरं जहति हन्त तापत्रयम्॥ 18.48

मूलम्

मुकुन्दपदरक्षिणि ! प्रगुणदीप्तयस्तावकाः
क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः ।
मनागपि मनीषिणो यदनुषङ्गिणस्तत्क्षणात्
जरामरणदन्तुरं जहति हन्त तापत्रयम्॥ 18.48

विश्वास-प्रस्तुतिः

देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते
गौरीपादसरोजयावकधनी मूले समालक्ष्यते ।
इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने
प्रायस्त्वं मणिपादुके ! प्रहसिता मुक्तामयूखच्छलात्॥ 18.49

मूलम्

देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते
गौरीपादसरोजयावकधनी मूले समालक्ष्यते ।
इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने
प्रायस्त्वं मणिपादुके ! प्रहसिता मुक्तामयूखच्छलात्॥ 18.49

विश्वास-प्रस्तुतिः

रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् ।
यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम्॥ 18.50

मूलम्

रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् ।
यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम्॥ 18.50