विश्वास-प्रस्तुतिः
प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् ।
पदैकनियतां तस्य पद्मवासामिवापराम्॥ 17.1
मूलम्
प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् ।
पदैकनियतां तस्य पद्मवासामिवापराम्॥ 17.1
विश्वास-प्रस्तुतिः
अतिवाङ्मनसं विचिन्त्य शौरेः
पदरक्षे ! पदपद्मसौकुमार्यम् ।
परिपुष्यसि पद्मरागभासा
पदवीमाहितपल्लवामिव त्वम्॥ 17.2
मूलम्
अतिवाङ्मनसं विचिन्त्य शौरेः
पदरक्षे ! पदपद्मसौकुमार्यम् ।
परिपुष्यसि पद्मरागभासा
पदवीमाहितपल्लवामिव त्वम्॥ 17.2
विश्वास-प्रस्तुतिः
पदपल्लवसङ्गिभिः प्रदीप्तैः
अधिकोल्लासिभिरम्ब ! पद्मरागैः ।
अनले शयनं क्वचिन्मुरारेः
अविसंवादयसीव पादुके ! त्वम्॥ 17.3
मूलम्
पदपल्लवसङ्गिभिः प्रदीप्तैः
अधिकोल्लासिभिरम्ब ! पद्मरागैः ।
अनले शयनं क्वचिन्मुरारेः
अविसंवादयसीव पादुके ! त्वम्॥ 17.3
विश्वास-प्रस्तुतिः
विवृणोति रङ्गपतिरत्नपादुके !
त्वयि पद्मरागमणिपद्धतिः शुभा ।
निबिडोरुसङ्घटनपीडनक्षरन्
मधुकैटभक्षतजपङ्कवासनाम्॥ 17.4
मूलम्
विवृणोति रङ्गपतिरत्नपादुके !
त्वयि पद्मरागमणिपद्धतिः शुभा ।
निबिडोरुसङ्घटनपीडनक्षरन्
मधुकैटभक्षतजपङ्कवासनाम्॥ 17.4
विश्वास-प्रस्तुतिः
प्रतियन्ति रङ्गपतिपादुके ! जनाः
तव पद्मरागमणिरश्मिसन्ततिम् ।
अभिजग्मुषां त्वदनुभावखण्डिताद्-
अघसञ्चयाद्विगळितामसृक्छटाम्॥ 17.5
मूलम्
प्रतियन्ति रङ्गपतिपादुके ! जनाः
तव पद्मरागमणिरश्मिसन्ततिम् ।
अभिजग्मुषां त्वदनुभावखण्डिताद्-
अघसञ्चयाद्विगळितामसृक्छटाम्॥ 17.5
विश्वास-प्रस्तुतिः
पश्यन्ति रङ्गेश्वरपादुके ! त्वां
पौराङ्गनाः स्पर्शितरागबन्धाम् ।
शृङ्गारयोनेर्ज्वलनस्य दीप्तैः
अङ्गारजालैरिव पद्मरागैः॥ 17.6
मूलम्
पश्यन्ति रङ्गेश्वरपादुके ! त्वां
पौराङ्गनाः स्पर्शितरागबन्धाम् ।
शृङ्गारयोनेर्ज्वलनस्य दीप्तैः
अङ्गारजालैरिव पद्मरागैः॥ 17.6
विश्वास-प्रस्तुतिः
अवैमि दोषापगमस्य हेतुं
तमोपहां सम्भृतपद्मरागाम् ।
अशेषवन्द्यां मणिपादुके ! त्वां
रङ्गेशसूर्योदयपूर्वसन्ध्याम्॥ 17.7
मूलम्
अवैमि दोषापगमस्य हेतुं
तमोपहां सम्भृतपद्मरागाम् ।
अशेषवन्द्यां मणिपादुके ! त्वां
रङ्गेशसूर्योदयपूर्वसन्ध्याम्॥ 17.7
विश्वास-प्रस्तुतिः
अवाप्य पादावनि ! रङ्गभर्तुः
पादाम्बुजे पल्लवसंस्तराभाम् ।
त्वत्पद्मरागद्युतयो भजन्ते
कालानलत्वं कलुषाम्बुधेर्नः॥ 17.8
मूलम्
अवाप्य पादावनि ! रङ्गभर्तुः
पादाम्बुजे पल्लवसंस्तराभाम् ।
त्वत्पद्मरागद्युतयो भजन्ते
कालानलत्वं कलुषाम्बुधेर्नः॥ 17.8
विश्वास-प्रस्तुतिः
निसर्गसिद्धं मणिपादरक्षे !
देवस्य रङ्गावसथप्रियस्य ।
बालार्कवर्णाः पदपद्मरागं
त्वत्पद्मरागाः पुनरुक्तयन्ति॥ 17.9
मूलम्
निसर्गसिद्धं मणिपादरक्षे !
देवस्य रङ्गावसथप्रियस्य ।
बालार्कवर्णाः पदपद्मरागं
त्वत्पद्मरागाः पुनरुक्तयन्ति॥ 17.9
विश्वास-प्रस्तुतिः
पदेन विश्वं मणिपादरक्षे !
पत्न्या समं पालयतो मुरारेः ।
यशः पयोधौ परिकल्पयन्ति
प्रवाळशोभां तव पद्मरागाः॥ 17.10
मूलम्
पदेन विश्वं मणिपादरक्षे !
पत्न्या समं पालयतो मुरारेः ।
यशः पयोधौ परिकल्पयन्ति
प्रवाळशोभां तव पद्मरागाः॥ 17.10
विश्वास-प्रस्तुतिः
अर्चिष्मती काञ्चनपादरक्षे !
प्रस्तौति ते पाटलरत्नपङ्क्तिः ।
रेखारथाङ्गस्य महः प्रपञ्चम्
रङ्गेशपादाम्बुजमध्यभाजः॥ 17.11
मूलम्
अर्चिष्मती काञ्चनपादरक्षे !
प्रस्तौति ते पाटलरत्नपङ्क्तिः ।
रेखारथाङ्गस्य महः प्रपञ्चम्
रङ्गेशपादाम्बुजमध्यभाजः॥ 17.11
विश्वास-प्रस्तुतिः
त्वयैव पादावनि ! शोणरत्नैः
बालातपं नूनमुदीरयन्त्या ।
पद्मापतेः पादतलप्ररूढं
रेखाम्बुजं नित्यमभूदनिद्रम्॥ 17.12
मूलम्
त्वयैव पादावनि ! शोणरत्नैः
बालातपं नूनमुदीरयन्त्या ।
पद्मापतेः पादतलप्ररूढं
रेखाम्बुजं नित्यमभूदनिद्रम्॥ 17.12
विश्वास-प्रस्तुतिः
नित्यं निजालोकपथं गतानां
श्रेयो दिशन्तीं श्रितपद्मरागाम् ।
महीयसीं माधवपादरक्षे !
मन्यामहे मङ्गळदेवतां त्वाम्॥ 17.13
मूलम्
नित्यं निजालोकपथं गतानां
श्रेयो दिशन्तीं श्रितपद्मरागाम् ।
महीयसीं माधवपादरक्षे !
मन्यामहे मङ्गळदेवतां त्वाम्॥ 17.13
विश्वास-प्रस्तुतिः
देवस्य रङ्गरसिकस्य विहारहेतोः
आत्मानमङ्घ्रिकमले विनिवेद्य पूर्वम् ।
प्रायो निवेदयसि शोणमणिप्रकाशैः
प्रत्यूषपद्मकलिकां पदरक्षिणि ! त्वम्॥ 17.14
मूलम्
देवस्य रङ्गरसिकस्य विहारहेतोः
आत्मानमङ्घ्रिकमले विनिवेद्य पूर्वम् ।
प्रायो निवेदयसि शोणमणिप्रकाशैः
प्रत्यूषपद्मकलिकां पदरक्षिणि ! त्वम्॥ 17.14
विश्वास-प्रस्तुतिः
प्रत्यङ्मयस्य हविषः प्रणवेन देवि !
प्रक्षेपणाय परमार्थविदां मुनीनाम् ।
प्राज्यां मुकुन्दचरणावनि ! पद्मरागैः
पर्यायपावकशिखां भवतीं प्रतीमः॥ 17.15
मूलम्
प्रत्यङ्मयस्य हविषः प्रणवेन देवि !
प्रक्षेपणाय परमार्थविदां मुनीनाम् ।
प्राज्यां मुकुन्दचरणावनि ! पद्मरागैः
पर्यायपावकशिखां भवतीं प्रतीमः॥ 17.15
विश्वास-प्रस्तुतिः
संपद्यते तव पदावनि ! पद्मरागैः
प्रस्थानमाङ्गळिकहोमहुताशनश्रीः ।
क्षीराहुतिर्भवति यत्र विकल्पगङ्गा
रङ्गेश्वरस्य रुचिरा नखरश्मिधारा॥ 17.16
मूलम्
संपद्यते तव पदावनि ! पद्मरागैः
प्रस्थानमाङ्गळिकहोमहुताशनश्रीः ।
क्षीराहुतिर्भवति यत्र विकल्पगङ्गा
रङ्गेश्वरस्य रुचिरा नखरश्मिधारा॥ 17.16
विश्वास-प्रस्तुतिः
आमुञ्चतामरुणयावकपङ्कलक्ष्मीं
शोणाश्मनां तव पदावनि ! कान्तियोगात् ।
पद्मासहायपदपद्मनखाः श्रयन्ते
सन्ध्यानुरञ्जितसुधाकरबिम्बशोभाम्॥ 17.17
मूलम्
आमुञ्चतामरुणयावकपङ्कलक्ष्मीं
शोणाश्मनां तव पदावनि ! कान्तियोगात् ।
पद्मासहायपदपद्मनखाः श्रयन्ते
सन्ध्यानुरञ्जितसुधाकरबिम्बशोभाम्॥ 17.17
विश्वास-प्रस्तुतिः
स्थाने तवाच्युतपदावनि ! पद्मरागाः
तेजोमयाः प्रशमयन्ति तमो मदीयम् ।
चित्रं तदेतदिह यज्जनयन्ति नित्यं
रागात्मकेन महसा रजसो निवृत्तिम्॥ 17.18
मूलम्
स्थाने तवाच्युतपदावनि ! पद्मरागाः
तेजोमयाः प्रशमयन्ति तमो मदीयम् ।
चित्रं तदेतदिह यज्जनयन्ति नित्यं
रागात्मकेन महसा रजसो निवृत्तिम्॥ 17.18
विश्वास-प्रस्तुतिः
पद्माकरान्तरविकासिनि रङ्गभर्तुः
पीत्वा पदावनि ! मधूनि पदारविन्दे ।
शोणोपलद्युतिमयीं सुभगप्रचारां
मन्ये बिभर्षि महतीं मदरागशोभाम्॥ 17.19
मूलम्
पद्माकरान्तरविकासिनि रङ्गभर्तुः
पीत्वा पदावनि ! मधूनि पदारविन्दे ।
शोणोपलद्युतिमयीं सुभगप्रचारां
मन्ये बिभर्षि महतीं मदरागशोभाम्॥ 17.19
विश्वास-प्रस्तुतिः
पादावनि ! प्रसृमरस्य कलेर्युगस्य
प्रायेण सम्प्रति निवारयितुं प्रवेशम् ।
श्रीरङ्गसीम्नि तव शोणमणिप्रसूतः
प्राकारमग्निमयमारभते प्रकाशः॥ 17.20
मूलम्
पादावनि ! प्रसृमरस्य कलेर्युगस्य
प्रायेण सम्प्रति निवारयितुं प्रवेशम् ।
श्रीरङ्गसीम्नि तव शोणमणिप्रसूतः
प्राकारमग्निमयमारभते प्रकाशः॥ 17.20
विश्वास-प्रस्तुतिः
लीलागृहान्तरविहारिणि रङ्गनाथे
लाक्षारसैररुणरत्नमयूखलक्ष्यैः ।
प्रायेण रञ्जयति पादसरोजयुग्मं
सैरन्ध्रिकेव भवती मणिपादरक्षे !॥ 17.21
मूलम्
लीलागृहान्तरविहारिणि रङ्गनाथे
लाक्षारसैररुणरत्नमयूखलक्ष्यैः ।
प्रायेण रञ्जयति पादसरोजयुग्मं
सैरन्ध्रिकेव भवती मणिपादरक्षे !॥ 17.21
विश्वास-प्रस्तुतिः
रङ्गेशितुर्विहरतो मणिपादरक्षे !
रथ्यान्तरे सुमनसः परिकीर्यमाणाः ।
त्वत्पद्मरागकिरणच्छुरणाद्भजन्ते
सन्ध्यातपान्तरिततारकपङ्क्तिलक्ष्मीम्॥ 17.22
मूलम्
रङ्गेशितुर्विहरतो मणिपादरक्षे !
रथ्यान्तरे सुमनसः परिकीर्यमाणाः ।
त्वत्पद्मरागकिरणच्छुरणाद्भजन्ते
सन्ध्यातपान्तरिततारकपङ्क्तिलक्ष्मीम्॥ 17.22
विश्वास-प्रस्तुतिः
रङ्गाधिराजपदरक्षिणि ! बिभ्रतस्त्वां
गङ्गातरङ्गविमले गिरिशस्य मौळौ ।
संवर्धयन्ति महसा तव पद्मरागाः
शैलात्मजाचरणयावकपङ्कलक्ष्मीम्॥ 17.23
मूलम्
रङ्गाधिराजपदरक्षिणि ! बिभ्रतस्त्वां
गङ्गातरङ्गविमले गिरिशस्य मौळौ ।
संवर्धयन्ति महसा तव पद्मरागाः
शैलात्मजाचरणयावकपङ्कलक्ष्मीम्॥ 17.23
विश्वास-प्रस्तुतिः
शरणमुपगतानां शर्वरीं मोहरूपां
शमयितुमुदयस्थान्मन्महे बालसूर्यान् ।
पदसरसिजयोगाद्रङ्गनाथस्य भूयः
परिणमदरुणिम्नः पादुके ! पद्मरागान्॥ 17.24
मूलम्
शरणमुपगतानां शर्वरीं मोहरूपां
शमयितुमुदयस्थान्मन्महे बालसूर्यान् ।
पदसरसिजयोगाद्रङ्गनाथस्य भूयः
परिणमदरुणिम्नः पादुके ! पद्मरागान्॥ 17.24
विश्वास-प्रस्तुतिः
हरिपदरुचिराणां पादुके ! तावकानाम्
अरुणमणिगणानां नूनमर्धेन्दुमौळिः ।
प्रणतिसमयलग्नां वासनामेव धत्ते
कळमकणिशकान्तिस्पर्धिनीभिर्जटाभिः॥ 17.25
मूलम्
हरिपदरुचिराणां पादुके ! तावकानाम्
अरुणमणिगणानां नूनमर्धेन्दुमौळिः ।
प्रणतिसमयलग्नां वासनामेव धत्ते
कळमकणिशकान्तिस्पर्धिनीभिर्जटाभिः॥ 17.25
विश्वास-प्रस्तुतिः
प्रतिविहरणमेते पादुके ! रङ्गभर्तुः
पदकमलसगन्धाः पद्मरागास्त्वदीयाः ।
तरुणतपनमैत्रीमुद्वहद्भिर्मयूखैः
स्थलकमलविभूतिं स्थापयन्त्यव्यवस्थाम्॥ 17.26
मूलम्
प्रतिविहरणमेते पादुके ! रङ्गभर्तुः
पदकमलसगन्धाः पद्मरागास्त्वदीयाः ।
तरुणतपनमैत्रीमुद्वहद्भिर्मयूखैः
स्थलकमलविभूतिं स्थापयन्त्यव्यवस्थाम्॥ 17.26
विश्वास-प्रस्तुतिः
अयमनितरभोगान् रञ्जयन् वीतरागान्
अरुणमणिगणानां तावकानां प्रकाशः ।
मधुरिपुपदरक्षे ! मङ्क्षु जाज्वल्यमानः
शलभयति जनानां शाश्वतं पापराशिम्॥ 17.27
मूलम्
अयमनितरभोगान् रञ्जयन् वीतरागान्
अरुणमणिगणानां तावकानां प्रकाशः ।
मधुरिपुपदरक्षे ! मङ्क्षु जाज्वल्यमानः
शलभयति जनानां शाश्वतं पापराशिम्॥ 17.27
विश्वास-प्रस्तुतिः
प्रचुरनिगमगन्धाः पादुके ! रङ्गभर्तुः
पदकमलसमृद्धिं प्रत्यहं भावयन्तः ।
दधति शकलयन्तो गाढमन्तस्तमिस्रं
समुचितमरुणत्वं तावकाः पद्मरागाः॥ 17.28
मूलम्
प्रचुरनिगमगन्धाः पादुके ! रङ्गभर्तुः
पदकमलसमृद्धिं प्रत्यहं भावयन्तः ।
दधति शकलयन्तो गाढमन्तस्तमिस्रं
समुचितमरुणत्वं तावकाः पद्मरागाः॥ 17.28
विश्वास-प्रस्तुतिः
लाक्षालक्ष्मीमधररुचके रङ्गिणः पादरक्षे !
वक्त्राम्भोजे मदपरिणतिं पद्मरागद्युतिस्ते ।
कर्णोपान्ते किसलयरुचिं देवि ! सेवानतानां
सीमन्ते च त्रिदशसुदृशां सौति सिन्दूरशोभाम्॥ 17.29
मूलम्
लाक्षालक्ष्मीमधररुचके रङ्गिणः पादरक्षे !
वक्त्राम्भोजे मदपरिणतिं पद्मरागद्युतिस्ते ।
कर्णोपान्ते किसलयरुचिं देवि ! सेवानतानां
सीमन्ते च त्रिदशसुदृशां सौति सिन्दूरशोभाम्॥ 17.29
विश्वास-प्रस्तुतिः
अरुणमणयस्तवैते
हरिपदरागेण लब्धमहिमानः ।
गमयन्ति चरणरक्षे !
द्युमणिगणं ज्योतिरिङ्खणताम्॥ 17.30
मूलम्
अरुणमणयस्तवैते
हरिपदरागेण लब्धमहिमानः ।
गमयन्ति चरणरक्षे !
द्युमणिगणं ज्योतिरिङ्खणताम्॥ 17.30