16 बहुरत्नपद्धतिः

विश्वास-प्रस्तुतिः

मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम्॥ 16.1

मूलम्

मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम्॥ 16.1

विश्वास-प्रस्तुतिः

मणिभिः सितरक्तपीतकृष्णैर्भवती
काञ्चनपादुके ! विचित्रा ।
युगभेदविकल्पितं मुरारेः
युगपद्दर्शयतीव वर्णभेदम्॥ 16.2

मूलम्

मणिभिः सितरक्तपीतकृष्णैर्भवती
काञ्चनपादुके ! विचित्रा ।
युगभेदविकल्पितं मुरारेः
युगपद्दर्शयतीव वर्णभेदम्॥ 16.2

विश्वास-प्रस्तुतिः

नवरत्नविचित्रिता मुरारेः
पदयोस्त्वं मणिपादुके ! विभासि ।
नवखण्डवती वसुन्धरेव
प्रणयाज्जन्मभुवं समाश्रयन्ती॥ 16.3

मूलम्

नवरत्नविचित्रिता मुरारेः
पदयोस्त्वं मणिपादुके ! विभासि ।
नवखण्डवती वसुन्धरेव
प्रणयाज्जन्मभुवं समाश्रयन्ती॥ 16.3

विश्वास-प्रस्तुतिः

सहसा विनिवेद्य सापराधान्
त्वदधीनस्वपदे मुकुन्दपादे ।
अरुणोपलसक्तमौक्तिकश्रीः
स्मयमानेव विभासि पादुके ! त्वम्॥ 16.4

मूलम्

सहसा विनिवेद्य सापराधान्
त्वदधीनस्वपदे मुकुन्दपादे ।
अरुणोपलसक्तमौक्तिकश्रीः
स्मयमानेव विभासि पादुके ! त्वम्॥ 16.4

विश्वास-प्रस्तुतिः

बहुरत्नसमुद्भवं मयूखं
तव मन्ये मणिपादुके ! मुरारेः ।
चरणोपगतं मयूरपिञ्छं
मकुटारोहणसाहसं प्रमार्ष्टुम्॥ 16.5

मूलम्

बहुरत्नसमुद्भवं मयूखं
तव मन्ये मणिपादुके ! मुरारेः ।
चरणोपगतं मयूरपिञ्छं
मकुटारोहणसाहसं प्रमार्ष्टुम्॥ 16.5

विश्वास-प्रस्तुतिः

प्रभया हरिनीलमौक्तिकानां
विकसन्त्या दिशसीव पादुके ! त्वम् ।
मधुभिच्चरणारविन्दलक्ष्म्याः
स्रजमिन्दीवरपुण्डरीकबद्धाम्॥ 16.6

मूलम्

प्रभया हरिनीलमौक्तिकानां
विकसन्त्या दिशसीव पादुके ! त्वम् ।
मधुभिच्चरणारविन्दलक्ष्म्याः
स्रजमिन्दीवरपुण्डरीकबद्धाम्॥ 16.6

विश्वास-प्रस्तुतिः

तव माधवपादुके ! मणीनां
प्रभया देवि ! सितासितारुणानाम् ।
वहते गिरिशस्य मौळिगङ्गा
कुमुदेन्दीवरपद्मकाननानि॥ 16.7

मूलम्

तव माधवपादुके ! मणीनां
प्रभया देवि ! सितासितारुणानाम् ।
वहते गिरिशस्य मौळिगङ्गा
कुमुदेन्दीवरपद्मकाननानि॥ 16.7

विश्वास-प्रस्तुतिः

पृथग्विधानां द्युतिभिर्मणीनां
त्वां पादुके ! लोहितशुक्लकृष्णाम् ।
विहारहेतोरिह रङ्गभर्तुः
पादानुषक्तां प्रकृतिं प्रतीमः॥ 16.8

मूलम्

पृथग्विधानां द्युतिभिर्मणीनां
त्वां पादुके ! लोहितशुक्लकृष्णाम् ।
विहारहेतोरिह रङ्गभर्तुः
पादानुषक्तां प्रकृतिं प्रतीमः॥ 16.8

विश्वास-प्रस्तुतिः

तमालनीलद्युतिमिन्द्रनीलैः
मुक्तानुविद्धां मणिपादुके ! त्वाम् ।
अवैमि रङ्गेश्वरकान्तिसिन्धोः
वेलामविश्रान्तगतागतार्हाम्॥ 16.9

मूलम्

तमालनीलद्युतिमिन्द्रनीलैः
मुक्तानुविद्धां मणिपादुके ! त्वाम् ।
अवैमि रङ्गेश्वरकान्तिसिन्धोः
वेलामविश्रान्तगतागतार्हाम्॥ 16.9

विश्वास-प्रस्तुतिः

अवैमि रङ्गेश्वरपादुकाभ्यां
अकालकाल्यं विभवं विधातुम् ।
वज्रेन्द्रनीलव्यपदेशदृश्यं
बन्दीकृतं नूनमहस्त्रियामम्॥ 16.10

मूलम्

अवैमि रङ्गेश्वरपादुकाभ्यां
अकालकाल्यं विभवं विधातुम् ।
वज्रेन्द्रनीलव्यपदेशदृश्यं
बन्दीकृतं नूनमहस्त्रियामम्॥ 16.10

विश्वास-प्रस्तुतिः

पदस्य गोप्त्री भवती मुरारेः
मणिस्पृशा मौक्तिकरत्नभासा ।
अन्तर्दृशं साञ्जनया मुनीनां
अनक्ति कर्पूरशलाकयेव॥ 16.11

मूलम्

पदस्य गोप्त्री भवती मुरारेः
मणिस्पृशा मौक्तिकरत्नभासा ।
अन्तर्दृशं साञ्जनया मुनीनां
अनक्ति कर्पूरशलाकयेव॥ 16.11

विश्वास-प्रस्तुतिः

मुक्तामयूखप्रकरैः सुभद्रा
कृष्णा महेन्द्रोपलरश्मिजालैः ।
मान्या मुरारेर्मणिपादुके ! त्वं
विहारयुक्ता विजयं वृणोषि॥ 16.12

मूलम्

मुक्तामयूखप्रकरैः सुभद्रा
कृष्णा महेन्द्रोपलरश्मिजालैः ।
मान्या मुरारेर्मणिपादुके ! त्वं
विहारयुक्ता विजयं वृणोषि॥ 16.12

विश्वास-प्रस्तुतिः

विचित्रवर्णां मणिपादुके ! त्वां
छन्दोमयीं सामनिबद्धगीतिम् ।
मुनीन्द्रजुष्टां द्विपदां मुरारेः
प्रत्यायिकां काञ्चिदृचं प्रतीमः॥ 16.13

मूलम्

विचित्रवर्णां मणिपादुके ! त्वां
छन्दोमयीं सामनिबद्धगीतिम् ।
मुनीन्द्रजुष्टां द्विपदां मुरारेः
प्रत्यायिकां काञ्चिदृचं प्रतीमः॥ 16.13

विश्वास-प्रस्तुतिः

प्रसेदुषी गोत्रभिदः प्रणामैः
पुष्णासि रङ्गेश्वरपादुके ! त्वम् ।
मणिप्रभासंवलनापदेशात्
प्रायस्तदर्हाणि शरासनानि॥ 16.14

मूलम्

प्रसेदुषी गोत्रभिदः प्रणामैः
पुष्णासि रङ्गेश्वरपादुके ! त्वम् ।
मणिप्रभासंवलनापदेशात्
प्रायस्तदर्हाणि शरासनानि॥ 16.14

विश्वास-प्रस्तुतिः

शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं
बालातपं बलिविमर्दनपादरक्षे ! ।
श्यामीकृतं शुकशकुन्तगणप्रवेशात्
शङ्के सतां किमपि शालिवनं विपक्वम्॥ 16.15

मूलम्

शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं
बालातपं बलिविमर्दनपादरक्षे ! ।
श्यामीकृतं शुकशकुन्तगणप्रवेशात्
शङ्के सतां किमपि शालिवनं विपक्वम्॥ 16.15

विश्वास-प्रस्तुतिः

संभिद्यमानमणिविद्रुममौक्तिकश्रीः
सैरन्ध्रिकेव भवती मणिपादरक्षे ! ।
प्रस्तौति रङ्गनृपतेश्चरणारविन्दे
कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम्॥ 16.16

मूलम्

संभिद्यमानमणिविद्रुममौक्तिकश्रीः
सैरन्ध्रिकेव भवती मणिपादरक्षे ! ।
प्रस्तौति रङ्गनृपतेश्चरणारविन्दे
कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम्॥ 16.16

विश्वास-प्रस्तुतिः

आतन्वतीमसुरमर्दनपादरक्षे !
शुद्धान्तपक्ष्मळदृशां मदनेन्द्रजालम् ।
वैहारिकीं विविधरत्नमयूखलक्षात्
मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम्॥ 16.17

मूलम्

आतन्वतीमसुरमर्दनपादरक्षे !
शुद्धान्तपक्ष्मळदृशां मदनेन्द्रजालम् ।
वैहारिकीं विविधरत्नमयूखलक्षात्
मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम्॥ 16.17

विश्वास-प्रस्तुतिः

रत्नैर्व्यवस्थितसितासितशोणवर्णैः
आलोकवद्भिरजहत् श्रुतिसन्निकर्षैः ।
द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ
सन्दृश्यसे जननि ! सम्भृतनेत्रपङ्क्तिः॥ 16.18

मूलम्

रत्नैर्व्यवस्थितसितासितशोणवर्णैः
आलोकवद्भिरजहत् श्रुतिसन्निकर्षैः ।
द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ
सन्दृश्यसे जननि ! सम्भृतनेत्रपङ्क्तिः॥ 16.18

विश्वास-प्रस्तुतिः

गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्ष्यात्
दूर्वामधूकरचितं दुरितोपशान्त्यै ।
मातः ! स्वयं वहसि मुग्धधियां प्रजानां
मङ्गळ्यमाल्यमिव माधवपादुके ! त्वम्॥ 16.19

मूलम्

गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्ष्यात्
दूर्वामधूकरचितं दुरितोपशान्त्यै ।
मातः ! स्वयं वहसि मुग्धधियां प्रजानां
मङ्गळ्यमाल्यमिव माधवपादुके ! त्वम्॥ 16.19

विश्वास-प्रस्तुतिः

रङ्गाधिराजपदरक्षिणि ! राजते ते
वज्रोपसङ्घटितमौक्तिकविद्रुमश्रीः ।
सक्ता चिरं मनसि संयमिनां निवासात्
सूर्येन्दुवह्निमयमण्डलवासनेव॥ 16.20

मूलम्

रङ्गाधिराजपदरक्षिणि ! राजते ते
वज्रोपसङ्घटितमौक्तिकविद्रुमश्रीः ।
सक्ता चिरं मनसि संयमिनां निवासात्
सूर्येन्दुवह्निमयमण्डलवासनेव॥ 16.20

विश्वास-प्रस्तुतिः

आसक्तवासवशिलाशकलास्त्वदीयाः
पद्मासहायपदरक्षिणि ! पद्मरागाः ।
प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं
पादारविन्दमकरन्दरसप्रवाहम्॥ 16.21

मूलम्

आसक्तवासवशिलाशकलास्त्वदीयाः
पद्मासहायपदरक्षिणि ! पद्मरागाः ।
प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं
पादारविन्दमकरन्दरसप्रवाहम्॥ 16.21

विश्वास-प्रस्तुतिः

अन्तः पुराणि समयेष्वभिगन्तुमेका
रङ्गेशितुर्ज्ञपयसीव पदावनि ! त्वम् ।
मुक्तांशुजालमिळनाद्रुचिरैः प्रवाळैः
बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्॥ 16.22

मूलम्

अन्तः पुराणि समयेष्वभिगन्तुमेका
रङ्गेशितुर्ज्ञपयसीव पदावनि ! त्वम् ।
मुक्तांशुजालमिळनाद्रुचिरैः प्रवाळैः
बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्॥ 16.22

विश्वास-प्रस्तुतिः

रङ्गेश्वरस्य मृगयोश्चरणावसक्तां
रक्षः कपीन्द्रमकुटेषु निवेशयोग्याम् ।
मन्ये पदावनि ! निबद्धविचित्ररत्नां
मायामृगस्य रचितामिव चर्मणा त्वाम्॥ 16.23

मूलम्

रङ्गेश्वरस्य मृगयोश्चरणावसक्तां
रक्षः कपीन्द्रमकुटेषु निवेशयोग्याम् ।
मन्ये पदावनि ! निबद्धविचित्ररत्नां
मायामृगस्य रचितामिव चर्मणा त्वाम्॥ 16.23

विश्वास-प्रस्तुतिः

बध्नासि रङ्गपतिविभ्रमपादुके ! त्वं
मायाकिरातमकुटे नवबर्हमालाम् ।
आकृष्टवासवधनुश्शकलैर्मणीनाम्
अन्योन्यसङ्घटितकर्बुरितैर्मयूखैः॥ 16.24

मूलम्

बध्नासि रङ्गपतिविभ्रमपादुके ! त्वं
मायाकिरातमकुटे नवबर्हमालाम् ।
आकृष्टवासवधनुश्शकलैर्मणीनाम्
अन्योन्यसङ्घटितकर्बुरितैर्मयूखैः॥ 16.24

विश्वास-प्रस्तुतिः

अन्योन्यबन्धुरहरिन्मणिपद्मरागा
रङ्गेश्वरस्य चरणावनि ! राजसे त्वम् ।
आत्मोपमानविभवाच्चरितार्थयन्ती
शैलात्मजागिरिशयोरिव मूर्तिमेकाम्॥ 16.25

मूलम्

अन्योन्यबन्धुरहरिन्मणिपद्मरागा
रङ्गेश्वरस्य चरणावनि ! राजसे त्वम् ।
आत्मोपमानविभवाच्चरितार्थयन्ती
शैलात्मजागिरिशयोरिव मूर्तिमेकाम्॥ 16.25

विश्वास-प्रस्तुतिः

तापत्रयप्रशमनाय समाश्रितानां
सन्दर्शितारुणसितासितरत्नपङ्क्तिः ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
प्रायः सरोजकुमुदोत्पलकाननानि॥ 16.26

मूलम्

तापत्रयप्रशमनाय समाश्रितानां
सन्दर्शितारुणसितासितरत्नपङ्क्तिः ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
प्रायः सरोजकुमुदोत्पलकाननानि॥ 16.26

विश्वास-प्रस्तुतिः

देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः
शौरेः पदाम्बुजरुचिं तव पद्मरागाः ।
अन्योन्यलब्धपरभागतया त्वमीषाम्
आभाति कान्तिरपरा मणिपादरक्षे !॥ 16.27

मूलम्

देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः
शौरेः पदाम्बुजरुचिं तव पद्मरागाः ।
अन्योन्यलब्धपरभागतया त्वमीषाम्
आभाति कान्तिरपरा मणिपादरक्षे !॥ 16.27

विश्वास-प्रस्तुतिः

आकीर्णमौक्तिकहरिन्मणिपद्मरागाम्
अम्भोजलोचनपदावनि ! भावये त्वाम् ।
तत्पादविश्रमजुषां श्रुतिसुन्दरीणां
वर्णोपधानमिव मौळिनिवेशयोग्यम्॥ 16.28

मूलम्

आकीर्णमौक्तिकहरिन्मणिपद्मरागाम्
अम्भोजलोचनपदावनि ! भावये त्वाम् ।
तत्पादविश्रमजुषां श्रुतिसुन्दरीणां
वर्णोपधानमिव मौळिनिवेशयोग्यम्॥ 16.28

विश्वास-प्रस्तुतिः

आसन्नवासवशिलाशकलास्त्वदीयाः
पद्मेक्षणस्य पदरक्षिणि ! पद्मरागाः ।
सम्भावयन्ति समये क्वचिदुष्णभानोः
सद्यः प्रसूतयमुनासुभगामवस्थाम्॥ 16.29

मूलम्

आसन्नवासवशिलाशकलास्त्वदीयाः
पद्मेक्षणस्य पदरक्षिणि ! पद्मरागाः ।
सम्भावयन्ति समये क्वचिदुष्णभानोः
सद्यः प्रसूतयमुनासुभगामवस्थाम्॥ 16.29

विश्वास-प्रस्तुतिः

मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः
पङ्क्ती दृढे परमपूरुषपादरक्षे ! ।
मन्ये समाश्रितजनस्य तवानुभावात्
उन्मोचिते सुकृतदुष्कृतशृङ्खले द्वे॥ 16.30

मूलम्

मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः
पङ्क्ती दृढे परमपूरुषपादरक्षे ! ।
मन्ये समाश्रितजनस्य तवानुभावात्
उन्मोचिते सुकृतदुष्कृतशृङ्खले द्वे॥ 16.30

विश्वास-प्रस्तुतिः

उद्गीर्णगाढतमसो हरिनीलभङ्गाः
ताराविशेषरुचिराणि च मौक्तिकानि ।
त्वत्सङ्गमात् सरसिजेक्षणपादरक्षे !
संयोजयन्ति निशया भवमौळिचन्द्रम्॥ 16.31

मूलम्

उद्गीर्णगाढतमसो हरिनीलभङ्गाः
ताराविशेषरुचिराणि च मौक्तिकानि ।
त्वत्सङ्गमात् सरसिजेक्षणपादरक्षे !
संयोजयन्ति निशया भवमौळिचन्द्रम्॥ 16.31

विश्वास-प्रस्तुतिः

विष्णोः पदेन घटिता मणिपादुके ! त्वं
व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः ।
कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा
कादम्बिनीव परितः स्फुटवारिबिन्दुः॥ 16.32

मूलम्

विष्णोः पदेन घटिता मणिपादुके ! त्वं
व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः ।
कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा
कादम्बिनीव परितः स्फुटवारिबिन्दुः॥ 16.32

विश्वास-प्रस्तुतिः

भासा स्वया भगवतो मणिपादरक्षे !
मुक्तान्विता मरतकोपलपद्धतिस्ते ।
नित्यावगाहनसहं सकलस्य जन्तोः
गङ्गान्वितं जनयतीव समुद्रमन्यम्॥ 16.33

मूलम्

भासा स्वया भगवतो मणिपादरक्षे !
मुक्तान्विता मरतकोपलपद्धतिस्ते ।
नित्यावगाहनसहं सकलस्य जन्तोः
गङ्गान्वितं जनयतीव समुद्रमन्यम्॥ 16.33

विश्वास-प्रस्तुतिः

सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्ष्यात्
त्वां नित्यमाश्रितवती मणिपादरक्षे ! ।
आदौ जनार्दनपदे क्षणमात्रलग्नाम्
आसन्नमौक्तिकरुचा हसतीव गङ्गाम्॥ 16.34

मूलम्

सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्ष्यात्
त्वां नित्यमाश्रितवती मणिपादरक्षे ! ।
आदौ जनार्दनपदे क्षणमात्रलग्नाम्
आसन्नमौक्तिकरुचा हसतीव गङ्गाम्॥ 16.34

विश्वास-प्रस्तुतिः

पर्यन्तसन्घटितभासुरपद्मरागाः
पद्मोदरभ्रमरकान्तिमुषस्त्वदीयाः ।
त्वत्संश्रयेण चरणावनि ! शक्रनीलाः
पीताम्बरेण पुरुषेण तुलां लभन्ते॥ 16.35

मूलम्

पर्यन्तसन्घटितभासुरपद्मरागाः
पद्मोदरभ्रमरकान्तिमुषस्त्वदीयाः ।
त्वत्संश्रयेण चरणावनि ! शक्रनीलाः
पीताम्बरेण पुरुषेण तुलां लभन्ते॥ 16.35

विश्वास-प्रस्तुतिः

शङ्के पदावनि ! सदा परिचिन्वती त्वं
रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् ।
अग्रे महोभिररुणोपलमौक्तिकानां
प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम्॥ 16.36

मूलम्

शङ्के पदावनि ! सदा परिचिन्वती त्वं
रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् ।
अग्रे महोभिररुणोपलमौक्तिकानां
प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम्॥ 16.36

विश्वास-प्रस्तुतिः

निर्गच्छता चरणरक्षिणि ! नीयमाना
रङ्गेश्वरेण भवती रणदीक्षितेन ।
सूते सुरारिसुभटीनयनाम्बुजानां
ज्यौत्स्नीं निशामिव सितासितरत्नभासा॥ 16.37

मूलम्

निर्गच्छता चरणरक्षिणि ! नीयमाना
रङ्गेश्वरेण भवती रणदीक्षितेन ।
सूते सुरारिसुभटीनयनाम्बुजानां
ज्यौत्स्नीं निशामिव सितासितरत्नभासा॥ 16.37

विश्वास-प्रस्तुतिः

मरकतहरिताङ्गी मेदुरा पद्मरागैः
अभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः ।
कलयसि पदरक्षे ! कृष्णमेघप्रचारात्
कनकसरिदनूपे शाद्वलं सेन्द्रकोपम्॥ 16.38

मूलम्

मरकतहरिताङ्गी मेदुरा पद्मरागैः
अभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः ।
कलयसि पदरक्षे ! कृष्णमेघप्रचारात्
कनकसरिदनूपे शाद्वलं सेन्द्रकोपम्॥ 16.38

विश्वास-प्रस्तुतिः

विरचितसुरसिन्धोः विष्णुपादारविन्दात्
समधिकमनुभावं पादुके ! दर्शयन्ती ।
वलभिदुपलमुक्तापद्मरागप्रकाशैः
परिणमयसि नूनं प्राप्तशोणं प्रयागम्॥ 16.39

मूलम्

विरचितसुरसिन्धोः विष्णुपादारविन्दात्
समधिकमनुभावं पादुके ! दर्शयन्ती ।
वलभिदुपलमुक्तापद्मरागप्रकाशैः
परिणमयसि नूनं प्राप्तशोणं प्रयागम्॥ 16.39

विश्वास-प्रस्तुतिः

विविधमणिमयूखैर्व्यक्तपक्षां विचित्रैः
जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् ।
अनिशमविकलानां पादुके ! रङ्गभर्तुः
चरणनखमणीनां चन्द्रिकामापिबन्तीम्॥ 16.40

मूलम्

विविधमणिमयूखैर्व्यक्तपक्षां विचित्रैः
जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् ।
अनिशमविकलानां पादुके ! रङ्गभर्तुः
चरणनखमणीनां चन्द्रिकामापिबन्तीम्॥ 16.40

विश्वास-प्रस्तुतिः

चरणकमलसेवासङ्गिनां रङ्गभर्तुः
विनयगरिमभाजां वर्जितैरातपत्रैः ।
पुनरपि पदरक्षे ! पुष्यसि त्वं सुराणां
बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम्॥ 16.41

मूलम्

चरणकमलसेवासङ्गिनां रङ्गभर्तुः
विनयगरिमभाजां वर्जितैरातपत्रैः ।
पुनरपि पदरक्षे ! पुष्यसि त्वं सुराणां
बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम्॥ 16.41

विश्वास-प्रस्तुतिः

मरकतरुचिपत्रा मौक्तिकस्मेरपुष्पा
स्फुटकिसलयशोभा भासुरैः पद्मरागैः ।
फलमखिलमुदारा रङ्गनाथस्य पादे
कलयसि भवती नः कल्पवल्लीव काचित्॥ 16.42

मूलम्

मरकतरुचिपत्रा मौक्तिकस्मेरपुष्पा
स्फुटकिसलयशोभा भासुरैः पद्मरागैः ।
फलमखिलमुदारा रङ्गनाथस्य पादे
कलयसि भवती नः कल्पवल्लीव काचित्॥ 16.42

विश्वास-प्रस्तुतिः

बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादात्
निजशिरसि गिरीशो निक्षिपन् पादुके ! त्वाम् ।
स्मरति लळितमन्तर्लाळनीयं भवान्याः
तरळघनकलापं षण्मुखस्यौपवाह्यम्॥ 16.43

मूलम्

बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादात्
निजशिरसि गिरीशो निक्षिपन् पादुके ! त्वाम् ।
स्मरति लळितमन्तर्लाळनीयं भवान्याः
तरळघनकलापं षण्मुखस्यौपवाह्यम्॥ 16.43

विश्वास-प्रस्तुतिः

विविधमणिसमुत्थैः व्यक्तमापादयन्तीं
दिवसरजनिसन्ध्यायौगपद्यं मयूखैः ।
उपनिषदुपगीतां पादुके ! रङ्गिणस्त्वाम्
अघटितघटनार्हां शक्तिमालोचयामः॥ 16.44

मूलम्

विविधमणिसमुत्थैः व्यक्तमापादयन्तीं
दिवसरजनिसन्ध्यायौगपद्यं मयूखैः ।
उपनिषदुपगीतां पादुके ! रङ्गिणस्त्वाम्
अघटितघटनार्हां शक्तिमालोचयामः॥ 16.44

विश्वास-प्रस्तुतिः

सकलमिदमवन्ध्ये शासने स्थापयन्ती
मुरमथनपदस्था मौक्तिकादिप्रकारा ।
प्रकटयसि विशुद्धश्यामरक्तादिरूपान्
फलपरिणतिभेदान् प्राणिनां पादुके ! त्वम्॥ 16.45

मूलम्

सकलमिदमवन्ध्ये शासने स्थापयन्ती
मुरमथनपदस्था मौक्तिकादिप्रकारा ।
प्रकटयसि विशुद्धश्यामरक्तादिरूपान्
फलपरिणतिभेदान् प्राणिनां पादुके ! त्वम्॥ 16.45

विश्वास-प्रस्तुतिः

प्रदिशति मुदमक्ष्णोः पादुके ! देहभाजां
शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा ।
परिसरनिहितैस्ते पद्मरागप्रदीपैः
घनतरपरिणद्धा कज्जळश्यामिकेव॥ 16.46

मूलम्

प्रदिशति मुदमक्ष्णोः पादुके ! देहभाजां
शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा ।
परिसरनिहितैस्ते पद्मरागप्रदीपैः
घनतरपरिणद्धा कज्जळश्यामिकेव॥ 16.46

विश्वास-प्रस्तुतिः

कलयाऽपि हानिरहितेषु सदा
तव मौक्तिकेषु परितः प्रथते ।
उपरज्यमानहरिणाङ्कतुला
हरिपादुके ! हरिशिलामहसा॥ 16.47

मूलम्

कलयाऽपि हानिरहितेषु सदा
तव मौक्तिकेषु परितः प्रथते ।
उपरज्यमानहरिणाङ्कतुला
हरिपादुके ! हरिशिलामहसा॥ 16.47

विश्वास-प्रस्तुतिः

मरकतपत्रळा रुचिरविद्रुमपल्लविता
पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः ।
उपवनदेवतेव चरणावनि ! रङ्गपतेः
अभिलषतो विहारमभिगम्य पदं स्पृशसि॥ 16.48

मूलम्

मरकतपत्रळा रुचिरविद्रुमपल्लविता
पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः ।
उपवनदेवतेव चरणावनि ! रङ्गपतेः
अभिलषतो विहारमभिगम्य पदं स्पृशसि॥ 16.48

विश्वास-प्रस्तुतिः

सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि !
त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे ।
प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते
नवाम्भस्स्वाच्छन्द्यं नमदमरकोटीरमकरः॥ 16.49

मूलम्

सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि !
त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे ।
प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते
नवाम्भस्स्वाच्छन्द्यं नमदमरकोटीरमकरः॥ 16.49

विश्वास-प्रस्तुतिः

जनयसि पदावनि ! त्वं
मुक्ताशोणमणिशक्रनीलरुचा ।
नखरुचिसन्ततिरुचिरां
नन्दकनिस्त्रिंशसम्पदं शौरेः॥ 16.50

मूलम्

जनयसि पदावनि ! त्वं
मुक्ताशोणमणिशक्रनीलरुचा ।
नखरुचिसन्ततिरुचिरां
नन्दकनिस्त्रिंशसम्पदं शौरेः॥ 16.50