15 रत्नसामान्यपद्धतिः

विश्वास-प्रस्तुतिः

उदर्चिषस्ते रङ्गेन्द्रपादावनि ! बहिर्मणीन् ।
अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन्॥ 15.1

मूलम्

उदर्चिषस्ते रङ्गेन्द्रपादावनि ! बहिर्मणीन् ।
अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन्॥ 15.1

विश्वास-प्रस्तुतिः

विधेहि शौरेर्मणिपादुके ! त्वं
विपद्यमाने मयि रश्मिजालैः ।
आसीदतामन्तककिङ्कराणां
वित्रासनान् वेत्रलताविशेषान्॥ 15.2

मूलम्

विधेहि शौरेर्मणिपादुके ! त्वं
विपद्यमाने मयि रश्मिजालैः ।
आसीदतामन्तककिङ्कराणां
वित्रासनान् वेत्रलताविशेषान्॥ 15.2

विश्वास-प्रस्तुतिः

मुकुन्दपादावनि ! मध्यनाड्या
मूर्धन्यया निष्पततो मुमुक्षोः ।
आब्रह्मलोकादवलम्बनार्थं
रत्नानि ते रश्मिगणं सृजन्ति॥ 15.3

मूलम्

मुकुन्दपादावनि ! मध्यनाड्या
मूर्धन्यया निष्पततो मुमुक्षोः ।
आब्रह्मलोकादवलम्बनार्थं
रत्नानि ते रश्मिगणं सृजन्ति॥ 15.3

विश्वास-प्रस्तुतिः

असूर्यभेद्यां रजनीं प्रजानाम्
आलोकमात्रेण निवारयन्ती ।
अमोघवृत्तिर्मणिपादरक्षे !
मुरद्विषो मूर्तिमती दया त्वम्॥ 15.4

मूलम्

असूर्यभेद्यां रजनीं प्रजानाम्
आलोकमात्रेण निवारयन्ती ।
अमोघवृत्तिर्मणिपादरक्षे !
मुरद्विषो मूर्तिमती दया त्वम्॥ 15.4

विश्वास-प्रस्तुतिः

रङ्गेशपादावनि ! तावकानां
रत्नोपलानां द्युतयः स्फुरन्ति ।
श्रेयः फलानां श्रुतिवल्लरीणाम्
उपघ्नशाखा इव निर्व्यपायाः॥ 15.5

मूलम्

रङ्गेशपादावनि ! तावकानां
रत्नोपलानां द्युतयः स्फुरन्ति ।
श्रेयः फलानां श्रुतिवल्लरीणाम्
उपघ्नशाखा इव निर्व्यपायाः॥ 15.5

विश्वास-प्रस्तुतिः

कस्यापि पुंसः कनकापगायाः
पुण्ये सलीलं पुळिने शयाळोः ।
समीपवृत्तिर्मणिपादुके ! त्वं
संवाहयन्तीव पदं करैः स्वैः॥ 15.6

मूलम्

कस्यापि पुंसः कनकापगायाः
पुण्ये सलीलं पुळिने शयाळोः ।
समीपवृत्तिर्मणिपादुके ! त्वं
संवाहयन्तीव पदं करैः स्वैः॥ 15.6

विश्वास-प्रस्तुतिः

दिदृक्षमाणस्य परं निधानं
स्नेहान्विते योगदशाविशेषे ।
संवित्प्रदीपं मणिपादरक्षे !
सन्धुक्षयन्तीव मरीचयस्ते॥ 15.7

मूलम्

दिदृक्षमाणस्य परं निधानं
स्नेहान्विते योगदशाविशेषे ।
संवित्प्रदीपं मणिपादरक्षे !
सन्धुक्षयन्तीव मरीचयस्ते॥ 15.7

विश्वास-प्रस्तुतिः

समाधिभाजां तनुते त्वदीया
रङ्गेशपादावनि ! रत्नपङ्क्तिः ।
स्थानं प्रयातुं तमसः परं तत्
प्रदीपकृत्यं प्रभया महत्या॥ 15.8

मूलम्

समाधिभाजां तनुते त्वदीया
रङ्गेशपादावनि ! रत्नपङ्क्तिः ।
स्थानं प्रयातुं तमसः परं तत्
प्रदीपकृत्यं प्रभया महत्या॥ 15.8

विश्वास-प्रस्तुतिः

बध्नासि रङ्गेश्वरपादरक्षे !
मन्ये यथार्हं मणिरश्मिजालैः ।
सेवानतानां त्रिदशेश्वराणां
शेषापटीं शेखरसन्निकृष्टाम्॥ 15.9

मूलम्

बध्नासि रङ्गेश्वरपादरक्षे !
मन्ये यथार्हं मणिरश्मिजालैः ।
सेवानतानां त्रिदशेश्वराणां
शेषापटीं शेखरसन्निकृष्टाम्॥ 15.9

विश्वास-प्रस्तुतिः

भजन्ति रङ्गेश्वरपादरक्षे !
प्रकल्पयन्तो विविधान् पुमर्थान् ।
उदर्चिषश्चिन्तयतां जनानां
चिन्तामणित्वं मणयस्त्वदीयाः॥ 15.10

मूलम्

भजन्ति रङ्गेश्वरपादरक्षे !
प्रकल्पयन्तो विविधान् पुमर्थान् ।
उदर्चिषश्चिन्तयतां जनानां
चिन्तामणित्वं मणयस्त्वदीयाः॥ 15.10

विश्वास-प्रस्तुतिः

नाथस्य दत्ते नदराजकन्या
पातुं शुभान् पादनखेन्दुरश्मीन् ।
मणिप्रभाभिः प्रतिपन्नपक्षां
लीलाचकोरीमिव पादुके ! त्वाम्॥ 15.11

मूलम्

नाथस्य दत्ते नदराजकन्या
पातुं शुभान् पादनखेन्दुरश्मीन् ।
मणिप्रभाभिः प्रतिपन्नपक्षां
लीलाचकोरीमिव पादुके ! त्वाम्॥ 15.11

विश्वास-प्रस्तुतिः

जनस्य रङ्गेश्वरपादुके ! त्वं
जातानुकम्पा जनयस्ययत्नात् ।
आकृष्य दूरान्मणिरश्मिजालैः
अनन्यलक्ष्याणि विलोचनानि॥ 15.12

मूलम्

जनस्य रङ्गेश्वरपादुके ! त्वं
जातानुकम्पा जनयस्ययत्नात् ।
आकृष्य दूरान्मणिरश्मिजालैः
अनन्यलक्ष्याणि विलोचनानि॥ 15.12

विश्वास-प्रस्तुतिः

रङ्गेशपादावनि ! तावकीनैः
स्पृष्टाः कदाचिन्मणिरश्मिपाशैः ।
कालस्य घोरं न भजन्ति भूयः
कारागृहान्तेषु कशाभिघातम्॥ 15.13

मूलम्

रङ्गेशपादावनि ! तावकीनैः
स्पृष्टाः कदाचिन्मणिरश्मिपाशैः ।
कालस्य घोरं न भजन्ति भूयः
कारागृहान्तेषु कशाभिघातम्॥ 15.13

विश्वास-प्रस्तुतिः

रत्नानि रङ्गेश्वरपादरक्षे !
त्वदाश्रितान्यप्रतिघैर्मयूखैः ।
आसेदुषीणां श्रुतिसुन्दरीणां
वितन्वते वर्णनिचोळलक्ष्मीम्॥ 15.14

मूलम्

रत्नानि रङ्गेश्वरपादरक्षे !
त्वदाश्रितान्यप्रतिघैर्मयूखैः ।
आसेदुषीणां श्रुतिसुन्दरीणां
वितन्वते वर्णनिचोळलक्ष्मीम्॥ 15.14

विश्वास-प्रस्तुतिः

निद्रारसप्रणयिनो मणिपादरक्षे !
रङ्गेश्वरस्य सविधं प्रतिपद्यमाना ।
शय्याफणीन्द्रमभितो भवती विधत्ते
रत्नांशुभिर्यवनिकामिव दर्शनीयाम्॥ 15.15

मूलम्

निद्रारसप्रणयिनो मणिपादरक्षे !
रङ्गेश्वरस्य सविधं प्रतिपद्यमाना ।
शय्याफणीन्द्रमभितो भवती विधत्ते
रत्नांशुभिर्यवनिकामिव दर्शनीयाम्॥ 15.15

विश्वास-प्रस्तुतिः

सद्यस्त्वदुद्ग्रहदशानमिताकृतीनां
स्रस्तांशुकं निजरुचा मणिपादुके ! त्वम् ।
पद्मासहायपरिवारविलासिनीनां
पट्टांशुकैरिव पयोधरमावृणोषि॥ 15.16

मूलम्

सद्यस्त्वदुद्ग्रहदशानमिताकृतीनां
स्रस्तांशुकं निजरुचा मणिपादुके ! त्वम् ।
पद्मासहायपरिवारविलासिनीनां
पट्टांशुकैरिव पयोधरमावृणोषि॥ 15.16

विश्वास-प्रस्तुतिः

देवस्य रङ्गवसतेः पुरतः प्रवृत्तै-
रुद्धूतविश्वतिमिरां मणिरश्मिजालैः ।
मन्ये मदीयहृदयायतनप्रवेश-
माङ्गळ्यदीपकणिकां मणिपादुके ! त्वाम्॥ 15.17

मूलम्

देवस्य रङ्गवसतेः पुरतः प्रवृत्तै-
रुद्धूतविश्वतिमिरां मणिरश्मिजालैः ।
मन्ये मदीयहृदयायतनप्रवेश-
माङ्गळ्यदीपकणिकां मणिपादुके ! त्वाम्॥ 15.17

विश्वास-प्रस्तुतिः

आकीर्णरत्ननिकरां मणिपादुके ! त्वां
रङ्गेश्वरस्य लळितां विपणिं प्रतीमः ।
यत्संश्रयेण भवति स्थिरभक्तिमूल्यं
कैवल्यमत्र जगतां क्रयविक्रयार्हम्॥ 15.18

मूलम्

आकीर्णरत्ननिकरां मणिपादुके ! त्वां
रङ्गेश्वरस्य लळितां विपणिं प्रतीमः ।
यत्संश्रयेण भवति स्थिरभक्तिमूल्यं
कैवल्यमत्र जगतां क्रयविक्रयार्हम्॥ 15.18

विश्वास-प्रस्तुतिः

व्यङ्क्तुं क्षमं भगवतो जगदीश्वरत्वं
वज्राङ्कुशध्वजसरोरुहचक्रचिह्नम् ।
आश्लिष्य निर्भररुचिं मणिपादुके ! त्वाम्
आसीदनाभरणसुन्दरमङ्घ्रिपद्मम्॥ 15.19

मूलम्

व्यङ्क्तुं क्षमं भगवतो जगदीश्वरत्वं
वज्राङ्कुशध्वजसरोरुहचक्रचिह्नम् ।
आश्लिष्य निर्भररुचिं मणिपादुके ! त्वाम्
आसीदनाभरणसुन्दरमङ्घ्रिपद्मम्॥ 15.19

विश्वास-प्रस्तुतिः

रत्नप्रभापटलचक्रमनोहरा त्वं
पद्मारुणं पदमिदं त्वयि रङ्गभर्तुः ।
मन्ये तदेतदुभयं मणिपादरक्षे !
चक्राब्जमण्डलमकिञ्चनरक्षणार्हम्॥ 15.20

मूलम्

रत्नप्रभापटलचक्रमनोहरा त्वं
पद्मारुणं पदमिदं त्वयि रङ्गभर्तुः ।
मन्ये तदेतदुभयं मणिपादरक्षे !
चक्राब्जमण्डलमकिञ्चनरक्षणार्हम्॥ 15.20

विश्वास-प्रस्तुतिः

त्रासात्स्वयं प्रणमतां दनुजेश्वराणां
सङ्ख्येऽवलूनशिरसामपि मौळिरत्नैः ।
आयोजयत्यनुकलं मणिपादुके ! त्वां
सैरन्ध्रिकेव मुरवैरिकृपाणधारा॥ 15.21

मूलम्

त्रासात्स्वयं प्रणमतां दनुजेश्वराणां
सङ्ख्येऽवलूनशिरसामपि मौळिरत्नैः ।
आयोजयत्यनुकलं मणिपादुके ! त्वां
सैरन्ध्रिकेव मुरवैरिकृपाणधारा॥ 15.21

विश्वास-प्रस्तुतिः

आस्कन्दनानि विबुधेन्द्रशिखामणीनां
त्वामाश्रितान्यसुरसूदनपादरक्षे ! ।
रत्नानि ते स्तुतिसुवर्णपरीक्षणार्थे
नूनं भजन्ति निकषोपलतां कवीनाम्॥ 15.22

मूलम्

आस्कन्दनानि विबुधेन्द्रशिखामणीनां
त्वामाश्रितान्यसुरसूदनपादरक्षे ! ।
रत्नानि ते स्तुतिसुवर्णपरीक्षणार्थे
नूनं भजन्ति निकषोपलतां कवीनाम्॥ 15.22

विश्वास-प्रस्तुतिः

पादावनि ! प्रणयिनां प्रतिपादितार्थां
क्रीडासरोजमिव शौरिपदं वहन्तीम् ।
प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां
पश्यामि रोहणगिरेरधिदेवतां त्वाम्॥ 15.23

मूलम्

पादावनि ! प्रणयिनां प्रतिपादितार्थां
क्रीडासरोजमिव शौरिपदं वहन्तीम् ।
प्रत्युप्तरत्ननिकरप्रतिपन्नशोभां
पश्यामि रोहणगिरेरधिदेवतां त्वाम्॥ 15.23

विश्वास-प्रस्तुतिः

यामेव रत्नकिरणैर्मणिपादरक्षे !
चूडापदे तनुभृतां भवती विधत्ते ।
शक्रादिदैवतशिखामणिरज्यमानैः
तामेव ते प्रकटयन्ति पदैरभिख्याम्॥ 15.24

मूलम्

यामेव रत्नकिरणैर्मणिपादरक्षे !
चूडापदे तनुभृतां भवती विधत्ते ।
शक्रादिदैवतशिखामणिरज्यमानैः
तामेव ते प्रकटयन्ति पदैरभिख्याम्॥ 15.24

विश्वास-प्रस्तुतिः

रत्नाङ्कुरैरविरळा मणिपादरक्षे !
पाकोन्मुखैः परिगता पुरुषार्थसस्यैः ।
देवेन रङ्गपतिना जगतां विभूत्यै
केदारिकेव कृपया परिकल्पिता त्वम्॥ 15.25

मूलम्

रत्नाङ्कुरैरविरळा मणिपादरक्षे !
पाकोन्मुखैः परिगता पुरुषार्थसस्यैः ।
देवेन रङ्गपतिना जगतां विभूत्यै
केदारिकेव कृपया परिकल्पिता त्वम्॥ 15.25

विश्वास-प्रस्तुतिः

निर्धूतमोहतिमिरास्तव रत्नदीपैः
निर्विश्यमानविभवं नदराजपुत्र्या ।
प्रत्यक्षयन्ति निगमान्तनिगूढमर्थं
पादावनि ! त्वयि निवेशितभावबन्धाः॥ 15.26

मूलम्

निर्धूतमोहतिमिरास्तव रत्नदीपैः
निर्विश्यमानविभवं नदराजपुत्र्या ।
प्रत्यक्षयन्ति निगमान्तनिगूढमर्थं
पादावनि ! त्वयि निवेशितभावबन्धाः॥ 15.26

विश्वास-प्रस्तुतिः

रत्नोपलप्रकरसंभव एष दूराद्
रङ्गाधिराजचरणावनि ! तावकीनः ।
आर्द्रापराधपरिखिन्नधियां प्रजानाम्
आश्वासनार्थ इव भाति करप्रसारः॥ 15.27

मूलम्

रत्नोपलप्रकरसंभव एष दूराद्
रङ्गाधिराजचरणावनि ! तावकीनः ।
आर्द्रापराधपरिखिन्नधियां प्रजानाम्
आश्वासनार्थ इव भाति करप्रसारः॥ 15.27

विश्वास-प्रस्तुतिः

व्यामुह्यतो विषयिबालमृगान् मदीयान्
संसारघर्मजनितासु मरीचिकासु ।
पादावनि ! प्रगुणरत्नमयूखजालैः
आकृष्य विश्रमय केशवकान्तिसिन्धौ॥ 15.28

मूलम्

व्यामुह्यतो विषयिबालमृगान् मदीयान्
संसारघर्मजनितासु मरीचिकासु ।
पादावनि ! प्रगुणरत्नमयूखजालैः
आकृष्य विश्रमय केशवकान्तिसिन्धौ॥ 15.28

विश्वास-प्रस्तुतिः

अन्तर्निधाय मुनिभिः परिरक्ष्यमाणाम्
आत्मीयरश्मिगुणितां मणिपादरक्षे ! ।
रङ्गेशपादकमलप्रतिपन्नमुद्रां
नीवीमवैमि भवतीं निगमान्तवाचाम्॥ 15.29

मूलम्

अन्तर्निधाय मुनिभिः परिरक्ष्यमाणाम्
आत्मीयरश्मिगुणितां मणिपादरक्षे ! ।
रङ्गेशपादकमलप्रतिपन्नमुद्रां
नीवीमवैमि भवतीं निगमान्तवाचाम्॥ 15.29

विश्वास-प्रस्तुतिः

रामस्य रङ्गवसतेश्चरणानुषङ्गात्
काष्ठां गतां भुवनपावनतां दधाना ।
पादावनि ! प्रचुररत्नशिलानिबद्धा
संसारसन्तरणसेतुरसि प्रजानाम्॥ 15.30

मूलम्

रामस्य रङ्गवसतेश्चरणानुषङ्गात्
काष्ठां गतां भुवनपावनतां दधाना ।
पादावनि ! प्रचुररत्नशिलानिबद्धा
संसारसन्तरणसेतुरसि प्रजानाम्॥ 15.30

विश्वास-प्रस्तुतिः

दिविषन्मकुटेषु सञ्चरन्त्याः
प्रचुरस्ते मणिपादुके ! प्रकाशः ।
दिवि रङ्गपतेर्महोत्सवार्थं
वितता वन्दनमालिकेव भाति॥ 15.31

मूलम्

दिविषन्मकुटेषु सञ्चरन्त्याः
प्रचुरस्ते मणिपादुके ! प्रकाशः ।
दिवि रङ्गपतेर्महोत्सवार्थं
वितता वन्दनमालिकेव भाति॥ 15.31

विश्वास-प्रस्तुतिः

प्रभवन्ति दवीयसां स्वभावात्
तव रत्नानि मुकुन्दपादरक्षे ! ।
अयसामिव हन्त लोहकान्ताः
कठिनानां मनसां विकर्षणाय॥ 15.32

मूलम्

प्रभवन्ति दवीयसां स्वभावात्
तव रत्नानि मुकुन्दपादरक्षे ! ।
अयसामिव हन्त लोहकान्ताः
कठिनानां मनसां विकर्षणाय॥ 15.32

विश्वास-प्रस्तुतिः

परिपश्यति देवि ! रङ्गनाथे
रहसि त्वं सविधे निविश्य लक्ष्म्याः ।
परिपुष्यसि रत्नधामभिः स्वैः
अनसूयेव मनोज्ञमङ्गरागम्॥ 15.33

मूलम्

परिपश्यति देवि ! रङ्गनाथे
रहसि त्वं सविधे निविश्य लक्ष्म्याः ।
परिपुष्यसि रत्नधामभिः स्वैः
अनसूयेव मनोज्ञमङ्गरागम्॥ 15.33

विश्वास-प्रस्तुतिः

तव रत्नकरार्पितं नवीनं
परिगृह्य स्थिरमंशुकं मनोज्ञम् ।
जरदंशुकवत्सुखेन देहं
कृतिनः केशवपादुके ! त्यजन्ति॥ 15.34

मूलम्

तव रत्नकरार्पितं नवीनं
परिगृह्य स्थिरमंशुकं मनोज्ञम् ।
जरदंशुकवत्सुखेन देहं
कृतिनः केशवपादुके ! त्यजन्ति॥ 15.34

विश्वास-प्रस्तुतिः

अभितो मणिपादुके ! निबद्धैः
कृतसंस्कारविशेषमात्मरत्नैः ।
कुरुते भवती पदं मुरारेः
कठिनेऽस्मिन् हृदि मे निवेशयोग्यम्॥ 15.35

मूलम्

अभितो मणिपादुके ! निबद्धैः
कृतसंस्कारविशेषमात्मरत्नैः ।
कुरुते भवती पदं मुरारेः
कठिनेऽस्मिन् हृदि मे निवेशयोग्यम्॥ 15.35

विश्वास-प्रस्तुतिः

निजरत्नकराञ्चलैर्मदीयान्
अपराधानवधूय दत्तसाम्या ।
रमया सहितस्य रङ्गभर्तुः
पदयोरर्पय पादुके ! स्वयं माम्॥ 15.36

मूलम्

निजरत्नकराञ्चलैर्मदीयान्
अपराधानवधूय दत्तसाम्या ।
रमया सहितस्य रङ्गभर्तुः
पदयोरर्पय पादुके ! स्वयं माम्॥ 15.36

विश्वास-प्रस्तुतिः

रश्मिजालपरिवेषबन्धुरा
रङ्गभूमिपतिरत्नपादुके ! ।
विश्वलोचनविहङ्गहारिणी
वागुरेव वितता विराजसे॥ 15.37

मूलम्

रश्मिजालपरिवेषबन्धुरा
रङ्गभूमिपतिरत्नपादुके ! ।
विश्वलोचनविहङ्गहारिणी
वागुरेव वितता विराजसे॥ 15.37

विश्वास-प्रस्तुतिः

मानसाम्बुजविकासहेतुभिः
सेविता मणिगणैः प्रभाकरैः ।
पादुके ! वहसि सद्भिराश्रितां
देवि ! विष्णुपदसम्पदं नवाम्॥ 15.38

मूलम्

मानसाम्बुजविकासहेतुभिः
सेविता मणिगणैः प्रभाकरैः ।
पादुके ! वहसि सद्भिराश्रितां
देवि ! विष्णुपदसम्पदं नवाम्॥ 15.38

विश्वास-प्रस्तुतिः

अधिशयितफणीश्वरस्य शौरेः
स्वयमधिरूढपदोपधानपार्श्वा ।
मणिवलयजुषा करेण मन्दं
स्पृशसि पदावनि ! पादयोर्युगं तत्॥ 15.39

मूलम्

अधिशयितफणीश्वरस्य शौरेः
स्वयमधिरूढपदोपधानपार्श्वा ।
मणिवलयजुषा करेण मन्दं
स्पृशसि पदावनि ! पादयोर्युगं तत्॥ 15.39

विश्वास-प्रस्तुतिः

भवत्यन्ते त्वां प्रणतस्य जन्तोः
तदोकोऽग्रज्वलनं त्वत्प्रकाशैः ।
यतो नाड्या मध्यमया विनिर्यन्
गतिं विन्देत् केशवपादरक्षे !॥ 15.40

मूलम्

भवत्यन्ते त्वां प्रणतस्य जन्तोः
तदोकोऽग्रज्वलनं त्वत्प्रकाशैः ।
यतो नाड्या मध्यमया विनिर्यन्
गतिं विन्देत् केशवपादरक्षे !॥ 15.40

विश्वास-प्रस्तुतिः

अशिथिलपरिणद्धा रश्मिजालैर्मणीनां
दुरधिगमतमं नः पारमारोपयन्ती ।
कमलनयनमाद्यं कर्णधारं दधाना
भवसि भवपयोधेः पादुके ! पोतपात्री॥ 15.41

मूलम्

अशिथिलपरिणद्धा रश्मिजालैर्मणीनां
दुरधिगमतमं नः पारमारोपयन्ती ।
कमलनयनमाद्यं कर्णधारं दधाना
भवसि भवपयोधेः पादुके ! पोतपात्री॥ 15.41

विश्वास-प्रस्तुतिः

मणिगणकिरणैस्ते कल्पिते गुल्मभेदे
मृगयुरिव कुरङ्गीं त्वां पुरस्कृत्य भव्याम् ।
हरति चरणरक्षे ! भक्तिपाशावरुद्धं
हृदयहरिणयूथं प्राणिनां रङ्गनाथः॥ 15.42

मूलम्

मणिगणकिरणैस्ते कल्पिते गुल्मभेदे
मृगयुरिव कुरङ्गीं त्वां पुरस्कृत्य भव्याम् ।
हरति चरणरक्षे ! भक्तिपाशावरुद्धं
हृदयहरिणयूथं प्राणिनां रङ्गनाथः॥ 15.42

विश्वास-प्रस्तुतिः

परिचितपदमूला पादुके ! रङ्गिणस्त्वं
प्रभवति भुजमध्ये कौस्तुभोऽयं तथाऽपि ।
भवति भृशमधस्तात् तेजसा भव्यभूम्ना
शलभितदुरितानां तावकानां मणीनाम्॥ 15.43

मूलम्

परिचितपदमूला पादुके ! रङ्गिणस्त्वं
प्रभवति भुजमध्ये कौस्तुभोऽयं तथाऽपि ।
भवति भृशमधस्तात् तेजसा भव्यभूम्ना
शलभितदुरितानां तावकानां मणीनाम्॥ 15.43

विश्वास-प्रस्तुतिः

कल्पश्रेणीदिनपरिणतौ जन्तुजाले प्रसुप्ते
विष्वग्व्याप्ते जगति तमसा पादुके ! तादृशेन ।
स्त्यानालोकैस्तव मणिगणैर्वासगेहप्रदीपाः
सम्पद्यन्ते सह कमलया जागरूकस्य यूनः॥ 15.44

मूलम्

कल्पश्रेणीदिनपरिणतौ जन्तुजाले प्रसुप्ते
विष्वग्व्याप्ते जगति तमसा पादुके ! तादृशेन ।
स्त्यानालोकैस्तव मणिगणैर्वासगेहप्रदीपाः
सम्पद्यन्ते सह कमलया जागरूकस्य यूनः॥ 15.44

विश्वास-प्रस्तुतिः

श्रीरङ्गेन्दोश्चरणकमलद्वन्द्वसेवावलेपात्
आरूढायां त्वयि मखभुजामानतान् मौळिभागान् ।
तेषां चूडामणिभिरनघैस्तावकानां मणीनां
केशाकेशि प्रभवति मिथस्त्रासलेशोज्झितानाम्॥ 15.45

मूलम्

श्रीरङ्गेन्दोश्चरणकमलद्वन्द्वसेवावलेपात्
आरूढायां त्वयि मखभुजामानतान् मौळिभागान् ।
तेषां चूडामणिभिरनघैस्तावकानां मणीनां
केशाकेशि प्रभवति मिथस्त्रासलेशोज्झितानाम्॥ 15.45

विश्वास-प्रस्तुतिः

त्वद्रत्नोपलरश्मिपञ्जरतनुत्राणं स्थिरं बिभ्रतो
मातः ! माधवपादुके ! न तु पुनर्हस्तैः स्पृशन्त्याकुलैः ।
दूरोत्सिक्तदुराढ्यजिह्मगबिलद्वाः पालकोपानल-
ज्वालामित्रकठोरवेत्रलतिकादत्तार्धचन्द्रं वपुः॥ 15.46

मूलम्

त्वद्रत्नोपलरश्मिपञ्जरतनुत्राणं स्थिरं बिभ्रतो
मातः ! माधवपादुके ! न तु पुनर्हस्तैः स्पृशन्त्याकुलैः ।
दूरोत्सिक्तदुराढ्यजिह्मगबिलद्वाः पालकोपानल-
ज्वालामित्रकठोरवेत्रलतिकादत्तार्धचन्द्रं वपुः॥ 15.46

विश्वास-प्रस्तुतिः

संवर्तोदितसूर्यकोटिसदृशीं रङ्गेशपादावनि !
प्रस्तौषि प्रतियत्नरत्ननिकरज्योतिश्छटामुद्भटाम् ।
तन्मन्ये तदनन्यसूरिपरिषन्मध्ये निवेशाय नः
तादृग्वासरसेऽपि भेत्तुमचिरादस्माकमन्धं
तमः॥ 15.47

मूलम्

संवर्तोदितसूर्यकोटिसदृशीं रङ्गेशपादावनि !
प्रस्तौषि प्रतियत्नरत्ननिकरज्योतिश्छटामुद्भटाम् ।
तन्मन्ये तदनन्यसूरिपरिषन्मध्ये निवेशाय नः
तादृग्वासरसेऽपि भेत्तुमचिरादस्माकमन्धं
तमः॥ 15.47

विश्वास-प्रस्तुतिः

सलीलं विन्यस्य त्वयि चरणरक्षे ! निजपदम्
यदृच्छानिष्क्रान्ते विहरति हरौ रङ्गरसिके ।
दिशासौधानष्टौ जनयसि तदा निर्भरमिलन्
मणिच्छायामायाघनघटितकेतुव्यतिकरान्॥ 15.48

मूलम्

सलीलं विन्यस्य त्वयि चरणरक्षे ! निजपदम्
यदृच्छानिष्क्रान्ते विहरति हरौ रङ्गरसिके ।
दिशासौधानष्टौ जनयसि तदा निर्भरमिलन्
मणिच्छायामायाघनघटितकेतुव्यतिकरान्॥ 15.48

विश्वास-प्रस्तुतिः

महार्घैराश्लिष्टां मणिभिरवधूतद्युमणिभिः
कथञ्चित् क्षेत्रज्ञैरधिगतपदामम्ब ! भवतीम् ।
मुकुन्देन त्रातुं पदकमलमूले विनिहितां
निराबाधां मन्ये निधिमनघवाचां निरवधिम्॥ 15.49

मूलम्

महार्घैराश्लिष्टां मणिभिरवधूतद्युमणिभिः
कथञ्चित् क्षेत्रज्ञैरधिगतपदामम्ब ! भवतीम् ।
मुकुन्देन त्रातुं पदकमलमूले विनिहितां
निराबाधां मन्ये निधिमनघवाचां निरवधिम्॥ 15.49

विश्वास-प्रस्तुतिः

तापत्रयं निरुन्धे पचति कषायान् विशोषयति पङ्कम् ।
तेजस्त्रितयमिदं ते शङ्के रङ्गेन्द्रपादुके ! तेजः॥ 15.50

मूलम्

तापत्रयं निरुन्धे पचति कषायान् विशोषयति पङ्कम् ।
तेजस्त्रितयमिदं ते शङ्के रङ्गेन्द्रपादुके ! तेजः॥ 15.50