विश्वास-प्रस्तुतिः
श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ! ।
मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम्॥ 14.1
मूलम्
श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ! ।
मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम्॥ 14.1
विश्वास-प्रस्तुतिः
मुरभिन्मणिपादुके ! भवत्याः
स्तुतिमाकर्णयतां मया निबद्धाम् ।
अवधीरयसीव मञ्जुनादैः
अचमत्कारवचांसि दुर्जनानाम्॥ 14.2
मूलम्
मुरभिन्मणिपादुके ! भवत्याः
स्तुतिमाकर्णयतां मया निबद्धाम् ।
अवधीरयसीव मञ्जुनादैः
अचमत्कारवचांसि दुर्जनानाम्॥ 14.2
विश्वास-प्रस्तुतिः
विहितेष्वभिवादनेषु वेदैः
गमनोदीरितगर्भरत्ननादा ।
मधुरं मधुवैरिपादरक्षे !
भवती प्रत्यभिवादनं विधत्ते॥ 14.3
मूलम्
विहितेष्वभिवादनेषु वेदैः
गमनोदीरितगर्भरत्ननादा ।
मधुरं मधुवैरिपादरक्षे !
भवती प्रत्यभिवादनं विधत्ते॥ 14.3
विश्वास-प्रस्तुतिः
स्वदते किमिहैव रङ्गनाथो
मयि तिष्ठन् यदि वा पदे परस्मिन् ।
इति पृच्छसि देवि ! नूनमस्मान्
मधुरैस्त्वं मणिपादुके निनादैः॥ 14.4
मूलम्
स्वदते किमिहैव रङ्गनाथो
मयि तिष्ठन् यदि वा पदे परस्मिन् ।
इति पृच्छसि देवि ! नूनमस्मान्
मधुरैस्त्वं मणिपादुके निनादैः॥ 14.4
विश्वास-प्रस्तुतिः
अवरोधगतस्य रङ्गभर्तुः
गतिषु व्यञ्जितगर्भरत्ननादा ।
प्रतिसल्लपसीव पादुके ! त्वं
कमलानूपुरमञ्जुशिञ्जितानाम्॥ 14.5
मूलम्
अवरोधगतस्य रङ्गभर्तुः
गतिषु व्यञ्जितगर्भरत्ननादा ।
प्रतिसल्लपसीव पादुके ! त्वं
कमलानूपुरमञ्जुशिञ्जितानाम्॥ 14.5
विश्वास-प्रस्तुतिः
मुरभिच्चरणारविन्दरूपं
महितानन्दमवाप्य पूरुषार्थम् ।
अनघैर्मणिपादुके ! निनादैः
अहमन्नाद इतीव गायसि त्वम्॥ 14.6
मूलम्
मुरभिच्चरणारविन्दरूपं
महितानन्दमवाप्य पूरुषार्थम् ।
अनघैर्मणिपादुके ! निनादैः
अहमन्नाद इतीव गायसि त्वम्॥ 14.6
विश्वास-प्रस्तुतिः
मधुवैरिपदाम्बुजं भजन्ती
मणिपादावनि ! मञ्जुशिञ्जितेन ।
पठसीव मुहुः स्वयं प्रजानाम्
अपरोपज्ञमरिष्टशान्तिमन्त्रम्॥ 14.7
मूलम्
मधुवैरिपदाम्बुजं भजन्ती
मणिपादावनि ! मञ्जुशिञ्जितेन ।
पठसीव मुहुः स्वयं प्रजानाम्
अपरोपज्ञमरिष्टशान्तिमन्त्रम्॥ 14.7
विश्वास-प्रस्तुतिः
श्रुतिभिः परमं पदं मुरारेः
अनिदङ्कारमनेवमित्युपात्तम् ।
इदमित्थमिति ब्रवीषि नूनं
मणिपादावनि ! मञ्जुभिः प्रणादैः॥ 14.8
मूलम्
श्रुतिभिः परमं पदं मुरारेः
अनिदङ्कारमनेवमित्युपात्तम् ।
इदमित्थमिति ब्रवीषि नूनं
मणिपादावनि ! मञ्जुभिः प्रणादैः॥ 14.8
विश्वास-प्रस्तुतिः
मुनयः प्रणिधानसन्निरुद्धे
हृदि रङ्गेश्वररत्नपादुके ! त्वाम् ।
विनिवेश्य विभावयन्त्यनन्याः
प्रणवस्य प्रणिधिं तव प्रणादम्॥ 14.9
मूलम्
मुनयः प्रणिधानसन्निरुद्धे
हृदि रङ्गेश्वररत्नपादुके ! त्वाम् ।
विनिवेश्य विभावयन्त्यनन्याः
प्रणवस्य प्रणिधिं तव प्रणादम्॥ 14.9
विश्वास-प्रस्तुतिः
मधुरं मणिपादुके ! प्रवृत्ते
भवती रङ्गपतेर्विहारकाले ।
अभयार्थनया समभ्युपेतान्
अविसंवादयतीव मञ्जुनादैः॥ 14.10
मूलम्
मधुरं मणिपादुके ! प्रवृत्ते
भवती रङ्गपतेर्विहारकाले ।
अभयार्थनया समभ्युपेतान्
अविसंवादयतीव मञ्जुनादैः॥ 14.10
विश्वास-प्रस्तुतिः
श्रवसोर्मम पारणां दिशन्ती
मणिपादावनि ! मञ्जुळैः प्रणादैः ।
रमया क्षमया च दत्तहस्तं
समये रङ्गधुरीणमानयेथाः॥ 14.11
मूलम्
श्रवसोर्मम पारणां दिशन्ती
मणिपादावनि ! मञ्जुळैः प्रणादैः ।
रमया क्षमया च दत्तहस्तं
समये रङ्गधुरीणमानयेथाः॥ 14.11
विश्वास-प्रस्तुतिः
अनुयाति नित्यममृतात्मिकां कलां
तव रङ्गचन्द्रमणिपादु ! झङ्कृतम् ।
श्रवसा मुखेन परिभुज्य यत्क्षणात्
अजरामरत्वमुपयान्ति साधवः॥ 14.12
मूलम्
अनुयाति नित्यममृतात्मिकां कलां
तव रङ्गचन्द्रमणिपादु ! झङ्कृतम् ।
श्रवसा मुखेन परिभुज्य यत्क्षणात्
अजरामरत्वमुपयान्ति साधवः॥ 14.12
विश्वास-प्रस्तुतिः
परुषैरजस्रमसतामनर्थकैः
परिवादपैशुनविकत्थनादिभिः ।
मधुकैटभारिमणिपादुके ! मम
श्रुतिदुष्कृतानि विनिवारय स्वनैः॥ 14.13
मूलम्
परुषैरजस्रमसतामनर्थकैः
परिवादपैशुनविकत्थनादिभिः ।
मधुकैटभारिमणिपादुके ! मम
श्रुतिदुष्कृतानि विनिवारय स्वनैः॥ 14.13
विश्वास-प्रस्तुतिः
पादुके ! परिजनस्य दूरतः
सूचयन्ति खलु तावकाः स्वनाः ।
लीलया भुजगतल्पमुज्झतः
श्रीमतस्त्रिचतुरान् पदक्रमान्॥ 14.14
मूलम्
पादुके ! परिजनस्य दूरतः
सूचयन्ति खलु तावकाः स्वनाः ।
लीलया भुजगतल्पमुज्झतः
श्रीमतस्त्रिचतुरान् पदक्रमान्॥ 14.14
विश्वास-प्रस्तुतिः
देवि ! दैत्यदमनाय सत्वरं
प्रस्थितस्य मणिपादुके ! प्रभोः ।
विश्वमङ्गळविशेषसूचकं
शाकुनं भवति तावकं रुतम्॥ 14.15
मूलम्
देवि ! दैत्यदमनाय सत्वरं
प्रस्थितस्य मणिपादुके ! प्रभोः ।
विश्वमङ्गळविशेषसूचकं
शाकुनं भवति तावकं रुतम्॥ 14.15
विश्वास-प्रस्तुतिः
दातुमर्हसि तदा मम श्रुतौ
देवि ! रङ्गपरिरत्नपादुके ! ।
विह्वलस्य भवदीयशिञ्जितं
स्वादु कर्णरसनारसायनम्॥ 14.16
मूलम्
दातुमर्हसि तदा मम श्रुतौ
देवि ! रङ्गपरिरत्नपादुके ! ।
विह्वलस्य भवदीयशिञ्जितं
स्वादु कर्णरसनारसायनम्॥ 14.16
विश्वास-प्रस्तुतिः
अहमुपरि समस्तदेवतानाम्
उपरि ममैष विभाति वासुदेवः ।
तदिह परतरं न किञ्चिदस्मात्
इति वदसीव पदावनि ! प्रणादैः॥ 14.17
मूलम्
अहमुपरि समस्तदेवतानाम्
उपरि ममैष विभाति वासुदेवः ।
तदिह परतरं न किञ्चिदस्मात्
इति वदसीव पदावनि ! प्रणादैः॥ 14.17
विश्वास-प्रस्तुतिः
अवनतविबुधेन्द्रमौळिमाला
मधुमदशिक्षितमन्थरप्रयाता ।
प्रथयसि परिरब्धशौरिपादा
मणिकलहेन वियातजल्पितानि॥ 14.18
मूलम्
अवनतविबुधेन्द्रमौळिमाला
मधुमदशिक्षितमन्थरप्रयाता ।
प्रथयसि परिरब्धशौरिपादा
मणिकलहेन वियातजल्पितानि॥ 14.18
विश्वास-प्रस्तुतिः
आस्थानेषु त्रिदशमहितान् वर्तयित्वा विहारान्
स्थाने स्थाने निजपरिजनं वारयित्वा यथार्हम् ।
वासागारं स्वयमुपसरन् पादुके ! मञ्जुनादाम्
आपर्यङ्कान्न खलु भवतीं रङ्गनाथो जहाति॥ 14.19
मूलम्
आस्थानेषु त्रिदशमहितान् वर्तयित्वा विहारान्
स्थाने स्थाने निजपरिजनं वारयित्वा यथार्हम् ।
वासागारं स्वयमुपसरन् पादुके ! मञ्जुनादाम्
आपर्यङ्कान्न खलु भवतीं रङ्गनाथो जहाति॥ 14.19
विश्वास-प्रस्तुतिः
अन्तर्न्यस्तैर्मणिभिरुदितं पादुके ! रङ्गबन्धौ
मन्दं मन्दं निहितचरणे मञ्जुळं ते निनादम् ।
पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां परायाः
मन्ये मित्रावरुणविषयादुच्चरन्तीमवस्थाम्॥ 14.20
मूलम्
अन्तर्न्यस्तैर्मणिभिरुदितं पादुके ! रङ्गबन्धौ
मन्दं मन्दं निहितचरणे मञ्जुळं ते निनादम् ।
पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां परायाः
मन्ये मित्रावरुणविषयादुच्चरन्तीमवस्थाम्॥ 14.20
विश्वास-प्रस्तुतिः
प्रख्यातानां परिषदि सतां कारयित्वा प्रतिज्ञां
प्रायेण त्वां प्रथितविभवां वर्णयन्ती मया त्वं ।
पादन्यासक्रममनुगुणं प्राप्य रङ्गाधिराजात्
पद्यारम्भान् गणयसि परं पादुके ! स्वैर्निनादैः॥ 14.21
मूलम्
प्रख्यातानां परिषदि सतां कारयित्वा प्रतिज्ञां
प्रायेण त्वां प्रथितविभवां वर्णयन्ती मया त्वं ।
पादन्यासक्रममनुगुणं प्राप्य रङ्गाधिराजात्
पद्यारम्भान् गणयसि परं पादुके ! स्वैर्निनादैः॥ 14.21
विश्वास-प्रस्तुतिः
विष्णोरस्मिन् पदसरसिजे वृत्तिभेदैर्विचित्रैः
ऐदम्पर्यं निगमवचसामैककण्ठ्येन सिद्धम् ।
इत्थं पुंसामनिपुणधियां पादुके ! त्वं तदेव
स्पृष्ट्वा सत्यं वदसि नियतं मञ्जुना शिञ्जितेन॥ 14.22
मूलम्
विष्णोरस्मिन् पदसरसिजे वृत्तिभेदैर्विचित्रैः
ऐदम्पर्यं निगमवचसामैककण्ठ्येन सिद्धम् ।
इत्थं पुंसामनिपुणधियां पादुके ! त्वं तदेव
स्पृष्ट्वा सत्यं वदसि नियतं मञ्जुना शिञ्जितेन॥ 14.22
विश्वास-प्रस्तुतिः
आम्नायैस्त्वामनितरपरैः स्तोतुमभ्युद्यतानां
मध्ये भक्त्या मधुविजयिनः पादुके ! मोहभाजाम् ।
शिक्षातत्त्वस्खलितवचसां शिक्षयस्येव पुंसां
मात्रादीनि स्वयमनुपदं मञ्जुभिः स्वैर्निनादैः॥ 14.23
मूलम्
आम्नायैस्त्वामनितरपरैः स्तोतुमभ्युद्यतानां
मध्ये भक्त्या मधुविजयिनः पादुके ! मोहभाजाम् ।
शिक्षातत्त्वस्खलितवचसां शिक्षयस्येव पुंसां
मात्रादीनि स्वयमनुपदं मञ्जुभिः स्वैर्निनादैः॥ 14.23
विश्वास-प्रस्तुतिः
लक्ष्मीकान्तं कमपि तरुणं रथ्यया निष्पतन्तं
रागाद् द्रष्टुं त्वरितमनसां राजधानीवधूनाम् ।
प्रत्यादेशं भजति मधुरैः पादुके ! शिञ्जितैस्ते
चेतोहारी कुसुमधनुषः शिञ्जिनीमञ्जुनादः॥ 14.24
मूलम्
लक्ष्मीकान्तं कमपि तरुणं रथ्यया निष्पतन्तं
रागाद् द्रष्टुं त्वरितमनसां राजधानीवधूनाम् ।
प्रत्यादेशं भजति मधुरैः पादुके ! शिञ्जितैस्ते
चेतोहारी कुसुमधनुषः शिञ्जिनीमञ्जुनादः॥ 14.24
विश्वास-प्रस्तुतिः
रङ्गाधीशे सह कमलया सादरं यायजूकैः
सारं दिव्यं सवनहविषां भोक्तुमाहूयमाने ।
नेदीयोभिर्निगमवचसां नित्यमंहः प्रतीपैः
प्रत्यालापं दिशति भवती पादुके ! शिञ्जितैः स्वैः॥ 14.25
मूलम्
रङ्गाधीशे सह कमलया सादरं यायजूकैः
सारं दिव्यं सवनहविषां भोक्तुमाहूयमाने ।
नेदीयोभिर्निगमवचसां नित्यमंहः प्रतीपैः
प्रत्यालापं दिशति भवती पादुके ! शिञ्जितैः स्वैः॥ 14.25
विश्वास-प्रस्तुतिः
उपास्य नूनं मणिपादुके ! त्वां
रङ्गेशपादाम्बुजराजहंसीम् ।
पत्युः प्रजानामलभन्त पूर्वं
मञ्जु स्वनं वाहनराजहंसाः॥ 14.26
मूलम्
उपास्य नूनं मणिपादुके ! त्वां
रङ्गेशपादाम्बुजराजहंसीम् ।
पत्युः प्रजानामलभन्त पूर्वं
मञ्जु स्वनं वाहनराजहंसाः॥ 14.26
विश्वास-प्रस्तुतिः
अनादिमायारजनीवशेन
प्रस्वापभाजां प्रतिबोधनार्हाम् ।
पश्यामि नित्योदितवासरस्य
प्रभातनान्दीमिव पादुके ! त्वाम्॥ 14.27
मूलम्
अनादिमायारजनीवशेन
प्रस्वापभाजां प्रतिबोधनार्हाम् ।
पश्यामि नित्योदितवासरस्य
प्रभातनान्दीमिव पादुके ! त्वाम्॥ 14.27
विश्वास-प्रस्तुतिः
शृणोतु रङ्गाधिपतिः प्रजानाम्
आर्तध्वनिं क्वापि समुज्जिहानम् ।
इतीव मत्वा मणिपादुके ! त्वं
मन्दप्रचारैः मृदुशिञ्जिताऽसि॥ 14.28
मूलम्
शृणोतु रङ्गाधिपतिः प्रजानाम्
आर्तध्वनिं क्वापि समुज्जिहानम् ।
इतीव मत्वा मणिपादुके ! त्वं
मन्दप्रचारैः मृदुशिञ्जिताऽसि॥ 14.28
विश्वास-प्रस्तुतिः
अन्ते ममार्ति शमयिष्यतस्ताम्
अग्रेसराण्यापततो मुरारेः ।
श्रमोपपन्नः शृणुयां भवत्याः
शीतानि पादावनि ! शिञ्जितानि॥ 14.29
मूलम्
अन्ते ममार्ति शमयिष्यतस्ताम्
अग्रेसराण्यापततो मुरारेः ।
श्रमोपपन्नः शृणुयां भवत्याः
शीतानि पादावनि ! शिञ्जितानि॥ 14.29
विश्वास-प्रस्तुतिः
स्वादूनि रङ्गेश्वरपादरक्षे !
श्रोत्रैः पिबन्तस्तव शिञ्जितानि ।
पचन्त्यविद्योपचितानशेषान्
अन्तर्गतानात्मविदः कषायान्॥ 14.30
मूलम्
स्वादूनि रङ्गेश्वरपादरक्षे !
श्रोत्रैः पिबन्तस्तव शिञ्जितानि ।
पचन्त्यविद्योपचितानशेषान्
अन्तर्गतानात्मविदः कषायान्॥ 14.30
विश्वास-प्रस्तुतिः
अवैमि रङ्गाधिपतेः सकाशात्
अवेक्षमाणेषु जनेषु रक्षाम् ।
उदारनादां मणिपादुके ! त्वाम्
ओमित्यनुज्ञाक्षरमुद्गिरन्तीम्॥ 14.31
मूलम्
अवैमि रङ्गाधिपतेः सकाशात्
अवेक्षमाणेषु जनेषु रक्षाम् ।
उदारनादां मणिपादुके ! त्वाम्
ओमित्यनुज्ञाक्षरमुद्गिरन्तीम्॥ 14.31
विश्वास-प्रस्तुतिः
मधुद्विषः स्वैरविहार हेतुः
मञ्जुस्वनान् शिक्षयसीव मातः ! ।
पर्यन्तभाजोर्मणिपादरक्षे !
पद्माधरण्योर्मणिनूपुराणि॥ 14.32
मूलम्
मधुद्विषः स्वैरविहार हेतुः
मञ्जुस्वनान् शिक्षयसीव मातः ! ।
पर्यन्तभाजोर्मणिपादरक्षे !
पद्माधरण्योर्मणिनूपुराणि॥ 14.32
विश्वास-प्रस्तुतिः
प्रास्थानिकेषु समयेषु समागतेषु
प्राप्ता पदं परिचितं द्विजपुङ्गवेन ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
पुण्याहघोषमिव गर्भमणिप्रणादैः॥ 14.33
मूलम्
प्रास्थानिकेषु समयेषु समागतेषु
प्राप्ता पदं परिचितं द्विजपुङ्गवेन ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
पुण्याहघोषमिव गर्भमणिप्रणादैः॥ 14.33
विश्वास-प्रस्तुतिः
आर्तध्वनेरुचितमुत्तरमन्तकाले
कर्णेषु मञ्जुनिनदेन करिष्यसीति ।
वासं भजन्ति कृतिनो मणिपादरक्षे !
पुण्येषु देवि ! पुळिनेषु मरुद्वृधायाः॥ 14.34
मूलम्
आर्तध्वनेरुचितमुत्तरमन्तकाले
कर्णेषु मञ्जुनिनदेन करिष्यसीति ।
वासं भजन्ति कृतिनो मणिपादरक्षे !
पुण्येषु देवि ! पुळिनेषु मरुद्वृधायाः॥ 14.34
विश्वास-प्रस्तुतिः
दूत्ये बलेर्विमथने शकटस्य भङ्गे
यात्रोत्सवेषु च विभोः प्रतिपन्नसख्या ।
वीरायितानि बिरुदोपहितानि नूनं
मञ्जुस्वनैः प्रथयसे मणिपादुके ! त्वम्॥ 14.35
मूलम्
दूत्ये बलेर्विमथने शकटस्य भङ्गे
यात्रोत्सवेषु च विभोः प्रतिपन्नसख्या ।
वीरायितानि बिरुदोपहितानि नूनं
मञ्जुस्वनैः प्रथयसे मणिपादुके ! त्वम्॥ 14.35
विश्वास-प्रस्तुतिः
स्तोतुं प्रवृत्तमपि मां निगमस्तुतां त्वां
व्यासज्यमानकरणं विषयेष्वजस्रम् ।
अन्तर्मणिध्वनिभिरच्युतपादुके ! त्वं
सम्बोधयस्यनुकलं सहजानुकम्पा॥ 14.36
मूलम्
स्तोतुं प्रवृत्तमपि मां निगमस्तुतां त्वां
व्यासज्यमानकरणं विषयेष्वजस्रम् ।
अन्तर्मणिध्वनिभिरच्युतपादुके ! त्वं
सम्बोधयस्यनुकलं सहजानुकम्पा॥ 14.36
विश्वास-प्रस्तुतिः
देवस्य दानवरिपोर्मणिपादरक्षे !
प्रस्थानमङ्गळविधौ प्रतिपन्ननादाम् ।
मा भैष्ट साधव इति स्वयमालपन्तीं
जाने जगत्त्रितयरक्षणदीक्षितां त्वाम्॥ 14.37
मूलम्
देवस्य दानवरिपोर्मणिपादरक्षे !
प्रस्थानमङ्गळविधौ प्रतिपन्ननादाम् ।
मा भैष्ट साधव इति स्वयमालपन्तीं
जाने जगत्त्रितयरक्षणदीक्षितां त्वाम्॥ 14.37
विश्वास-प्रस्तुतिः
स्वच्छन्दविभ्रमगतौ मणिपादुके ! त्वं
पादारविन्दमधिगम्य परस्य पुंसः ।
जातस्वना प्रतिपदं जपसीव सूक्तं
विद्रावणं किमपि वैरिवरूथिनीनाम्॥ 14.38
मूलम्
स्वच्छन्दविभ्रमगतौ मणिपादुके ! त्वं
पादारविन्दमधिगम्य परस्य पुंसः ।
जातस्वना प्रतिपदं जपसीव सूक्तं
विद्रावणं किमपि वैरिवरूथिनीनाम्॥ 14.38
विश्वास-प्रस्तुतिः
रक्षार्थमाश्रितजनस्य समुज्जिहाने
रङ्गेश्वरे शरदि शेषभुजङ्गतल्पात् ।
नादास्तव श्रुतिसुखा मणिपादरक्षे !
प्रस्थानशङ्खनिनदात् प्रथमे भवन्ति॥ 14.39
मूलम्
रक्षार्थमाश्रितजनस्य समुज्जिहाने
रङ्गेश्वरे शरदि शेषभुजङ्गतल्पात् ।
नादास्तव श्रुतिसुखा मणिपादरक्षे !
प्रस्थानशङ्खनिनदात् प्रथमे भवन्ति॥ 14.39
विश्वास-प्रस्तुतिः
नित्यं पदाम्बुरुहयोरिह गोपिकां त्वां
गोपीजनप्रियतमो मणिपादरक्षे ।
सम्पन्नघोषविभवां गतिभिर्निजाभिः
प्रीत्येव न त्यजति रङ्गसमाश्रितोऽपि॥ 14.40
मूलम्
नित्यं पदाम्बुरुहयोरिह गोपिकां त्वां
गोपीजनप्रियतमो मणिपादरक्षे ।
सम्पन्नघोषविभवां गतिभिर्निजाभिः
प्रीत्येव न त्यजति रङ्गसमाश्रितोऽपि॥ 14.40
विश्वास-प्रस्तुतिः
प्रायः पदावनि ! विभोः प्रणतार्तिहन्तुः
प्रस्थानमङ्गळविधौ प्रथमोद्यतानि ।
त्वच्छिञ्जितानि सपदि स्वयमारभन्ते
कालोचितान् कनककाहळशङ्खनादान्॥ 14.41
मूलम्
प्रायः पदावनि ! विभोः प्रणतार्तिहन्तुः
प्रस्थानमङ्गळविधौ प्रथमोद्यतानि ।
त्वच्छिञ्जितानि सपदि स्वयमारभन्ते
कालोचितान् कनककाहळशङ्खनादान्॥ 14.41
विश्वास-प्रस्तुतिः
आम्रेडितश्रुतिगणैर्निनदैर्मणीनाम्
आम्नायवेद्यमनुभावमभङ्गुरं ते ।
उद्गास्यतां नियतमिच्छसि सामगानां
तानप्रदानमिव शौरिपदावनि ! त्वम्॥ 14.42
मूलम्
आम्रेडितश्रुतिगणैर्निनदैर्मणीनाम्
आम्नायवेद्यमनुभावमभङ्गुरं ते ।
उद्गास्यतां नियतमिच्छसि सामगानां
तानप्रदानमिव शौरिपदावनि ! त्वम्॥ 14.42
विश्वास-प्रस्तुतिः
रथ्यासु रङ्गनृपतेर्मणिपादरक्षे !
त्वद्गर्भरत्नजनितो मधुरः प्रणादः ।
सन्दर्शनोत्सुकधियां पुरसुन्दरीणां
संपद्यते श्रवणमोहनमन्त्रघोषः॥ 14.43
मूलम्
रथ्यासु रङ्गनृपतेर्मणिपादरक्षे !
त्वद्गर्भरत्नजनितो मधुरः प्रणादः ।
सन्दर्शनोत्सुकधियां पुरसुन्दरीणां
संपद्यते श्रवणमोहनमन्त्रघोषः॥ 14.43
विश्वास-प्रस्तुतिः
आकस्मिकेषु समयेष्वपवार्य भृत्यान्
अन्तः पुरं विशति रङ्गपतौ सलीलम् ।
व्यामोहनेन भवती सुदृशामधीते
मञ्जुस्वनेन मदनोपनिषद्रहस्यम्॥ 14.44
मूलम्
आकस्मिकेषु समयेष्वपवार्य भृत्यान्
अन्तः पुरं विशति रङ्गपतौ सलीलम् ।
व्यामोहनेन भवती सुदृशामधीते
मञ्जुस्वनेन मदनोपनिषद्रहस्यम्॥ 14.44
विश्वास-प्रस्तुतिः
यात्राविहारसमयेषु समुत्थितं ते
रङ्गाधिपस्य चरणावनि ! मञ्जु नादम् ।
पर्याकुलेन्द्रियमृगग्रहणाय पुंसां
सम्मोहनं शबरगीतमिव प्रतीमः॥ 14.45
मूलम्
यात्राविहारसमयेषु समुत्थितं ते
रङ्गाधिपस्य चरणावनि ! मञ्जु नादम् ।
पर्याकुलेन्द्रियमृगग्रहणाय पुंसां
सम्मोहनं शबरगीतमिव प्रतीमः॥ 14.45
विश्वास-प्रस्तुतिः
प्रायेण सह्यदुहितुर्नदराजकन्या
जामातुरागमनसूचनमीहमाना ।
मञ्जुप्रणादसुभगैर्मणिपादुके ! त्वाम्
अन्तर्युतामकृत यौतकरत्नखण्डैः॥ 14.46
मूलम्
प्रायेण सह्यदुहितुर्नदराजकन्या
जामातुरागमनसूचनमीहमाना ।
मञ्जुप्रणादसुभगैर्मणिपादुके ! त्वाम्
अन्तर्युतामकृत यौतकरत्नखण्डैः॥ 14.46
विश्वास-प्रस्तुतिः
नित्यं विहारसमये निगमानुयातैः
विक्षेपताण्डवितगर्भमणिप्रसूतैः ।
नादैः स्वयं नरकमर्दनपादरक्षे !
नादावसाननिलयं वदसीव नाथम्॥ 14.47
मूलम्
नित्यं विहारसमये निगमानुयातैः
विक्षेपताण्डवितगर्भमणिप्रसूतैः ।
नादैः स्वयं नरकमर्दनपादरक्षे !
नादावसाननिलयं वदसीव नाथम्॥ 14.47
विश्वास-प्रस्तुतिः
साधारणेषु युवयोर्मणिपादरक्षे !
देवस्य दानवरिपोस्त्रिषु विक्रमेषु ।
अद्यापि शिञ्जितमिषादनुवर्तमानं
न्यूनाधिकत्वविषयं कलहं प्रतीमः॥ 14.48
मूलम्
साधारणेषु युवयोर्मणिपादरक्षे !
देवस्य दानवरिपोस्त्रिषु विक्रमेषु ।
अद्यापि शिञ्जितमिषादनुवर्तमानं
न्यूनाधिकत्वविषयं कलहं प्रतीमः॥ 14.48
विश्वास-प्रस्तुतिः
प्रायः पदावनि ! विभोः प्रणयापराधे
मानग्रहं शमयितुं महिषीजनानाम् ।
उच्चारयन्ति निनदैस्तव गर्भरत्ना-
न्युद्धातमक्षरमुपाश्रयभारतीनाम्॥ 14.49
मूलम्
प्रायः पदावनि ! विभोः प्रणयापराधे
मानग्रहं शमयितुं महिषीजनानाम् ।
उच्चारयन्ति निनदैस्तव गर्भरत्ना-
न्युद्धातमक्षरमुपाश्रयभारतीनाम्॥ 14.49
विश्वास-प्रस्तुतिः
अन्तश्चरेषु पवनेषु जितेष्वभिज्ञाः
प्रत्यङ्मुखीं परिणमय्य मनः प्रवृत्तिम् ।
आस्वादयन्ति सरसं मणिपादरक्षे !
नादावसानसमये भवतीनिनादम्॥ 14.50
मूलम्
अन्तश्चरेषु पवनेषु जितेष्वभिज्ञाः
प्रत्यङ्मुखीं परिणमय्य मनः प्रवृत्तिम् ।
आस्वादयन्ति सरसं मणिपादरक्षे !
नादावसानसमये भवतीनिनादम्॥ 14.50
विश्वास-प्रस्तुतिः
दाक्षिण्यमत्र नियतं नियता सुधाऽस्मिन्
नित्युद्गतो नियतमच्युतपादरक्षे ! ।
प्रत्येकसंश्रितपदस्तुतये भवत्योः
सङ्घर्षवाद इव मध्यमणिप्रणादः॥ 14.51
मूलम्
दाक्षिण्यमत्र नियतं नियता सुधाऽस्मिन्
नित्युद्गतो नियतमच्युतपादरक्षे ! ।
प्रत्येकसंश्रितपदस्तुतये भवत्योः
सङ्घर्षवाद इव मध्यमणिप्रणादः॥ 14.51
विश्वास-प्रस्तुतिः
सञ्चारकेळिकलहायितगर्भरत्ना
सांसिद्धिकं सकलजन्तुषु सार्वभौमम् ।
रक्षार्थिनां प्रथयसीव पदावनि ! त्वं
रङ्गेश्वरस्य निरवग्रहमानृशंस्यम्॥ 14.52
मूलम्
सञ्चारकेळिकलहायितगर्भरत्ना
सांसिद्धिकं सकलजन्तुषु सार्वभौमम् ।
रक्षार्थिनां प्रथयसीव पदावनि ! त्वं
रङ्गेश्वरस्य निरवग्रहमानृशंस्यम्॥ 14.52
विश्वास-प्रस्तुतिः
प्राप्तुं परं पुरिशयं पुरुषं मुनीनाम्
अभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम् ।
श्रीरङ्गराजचरणावनि ! शिञ्जितं ते
शङ्के समुन्नयनसामविशेषघोषम्॥ 14.53
मूलम्
प्राप्तुं परं पुरिशयं पुरुषं मुनीनाम्
अभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम् ।
श्रीरङ्गराजचरणावनि ! शिञ्जितं ते
शङ्के समुन्नयनसामविशेषघोषम्॥ 14.53
विश्वास-प्रस्तुतिः
नित्यं समाहितधियामुपदर्शयन्ती
नागेशयं किमपि धाम निजोर्ध्वभागे ।
हृत्कर्णिकामनुगता मणिपादुके ! त्वं
मञ्जुस्वना स्फुरसि वाग्भ्रमरी परेव॥ 14.54
मूलम्
नित्यं समाहितधियामुपदर्शयन्ती
नागेशयं किमपि धाम निजोर्ध्वभागे ।
हृत्कर्णिकामनुगता मणिपादुके ! त्वं
मञ्जुस्वना स्फुरसि वाग्भ्रमरी परेव॥ 14.54
विश्वास-प्रस्तुतिः
मानेषु दानवरिपोर्मणिपादरक्षे !
त्वामाश्रितेषु निगमेष्ववधीरितेषु ।
मञ्जुस्वनैर्वदसि मैवमितीव मातः !
वेलां लिलङ्घयिषतो मनुजान्निरोद्धुम्॥ 14.55
मूलम्
मानेषु दानवरिपोर्मणिपादरक्षे !
त्वामाश्रितेषु निगमेष्ववधीरितेषु ।
मञ्जुस्वनैर्वदसि मैवमितीव मातः !
वेलां लिलङ्घयिषतो मनुजान्निरोद्धुम्॥ 14.55
विश्वास-प्रस्तुतिः
क्रन्दत्सु कातरतया करणव्यपाये
रङ्गोपशल्यशयितेषु जनेष्वलक्ष्यम् ।
आसीदसि त्वरितमस्खलितानुकम्पा
मातेव मञ्जुनिनदा मणिपादुके ! त्वम्॥ 14.56
मूलम्
क्रन्दत्सु कातरतया करणव्यपाये
रङ्गोपशल्यशयितेषु जनेष्वलक्ष्यम् ।
आसीदसि त्वरितमस्खलितानुकम्पा
मातेव मञ्जुनिनदा मणिपादुके ! त्वम्॥ 14.56
विश्वास-प्रस्तुतिः
भास्वत्सुवर्णवपुषां मणिपादरक्षे !
पद्मासहायपदपद्मविभूषणानाम् ।
मञ्जीरशिञ्जितविकल्पितमञ्जुनादा
मञ्जूषिकेव भवती निगमान्तवाचाम्॥ 14.57
मूलम्
भास्वत्सुवर्णवपुषां मणिपादरक्षे !
पद्मासहायपदपद्मविभूषणानाम् ।
मञ्जीरशिञ्जितविकल्पितमञ्जुनादा
मञ्जूषिकेव भवती निगमान्तवाचाम्॥ 14.57
विश्वास-प्रस्तुतिः
रङ्गेशपादकमलात् त्वदधीनवृत्तेः
अन्येषु केषुचिदलक्ष्यमनन्यवेद्यम् ।
आम्नायगूढमबहिर्मणिभिः क्वणद्भिः
नेदीयसां प्रथयसीव निजानुभावम्॥ 14.58
मूलम्
रङ्गेशपादकमलात् त्वदधीनवृत्तेः
अन्येषु केषुचिदलक्ष्यमनन्यवेद्यम् ।
आम्नायगूढमबहिर्मणिभिः क्वणद्भिः
नेदीयसां प्रथयसीव निजानुभावम्॥ 14.58
विश्वास-प्रस्तुतिः
कालोपपन्नकरणात्ययनिर्विचेष्टे
जातश्रमे मयि जनार्दनपादरक्षे ! ।
आश्वासनाय पुरतः प्रसरन्तु मातः !
वार्ताहरास्तव रवाः शमितार्तयो मे॥ 14.59
मूलम्
कालोपपन्नकरणात्ययनिर्विचेष्टे
जातश्रमे मयि जनार्दनपादरक्षे ! ।
आश्वासनाय पुरतः प्रसरन्तु मातः !
वार्ताहरास्तव रवाः शमितार्तयो मे॥ 14.59
विश्वास-प्रस्तुतिः
संरक्षणाय समये जगतां त्रयाणां
यात्रासु रङ्गनृपतेरुपतस्थुषीषु ।
सम्पत्स्यते श्रुतिसुखैर्मणिपादरक्षे !
मङ्गळ्यसूक्तिरनघा तव मञ्जुनादैः॥ 14.60
मूलम्
संरक्षणाय समये जगतां त्रयाणां
यात्रासु रङ्गनृपतेरुपतस्थुषीषु ।
सम्पत्स्यते श्रुतिसुखैर्मणिपादरक्षे !
मङ्गळ्यसूक्तिरनघा तव मञ्जुनादैः॥ 14.60
विश्वास-प्रस्तुतिः
गर्भोपलैर्गमनवेगवशाद्विलोलैः
वाचालिता मधुभिदो मणिपादुके ! त्वम् ।
प्रस्तौषि भावितधियां पथि देवयाने
प्रस्थानमङ्गळमृदङ्गविशेषघोषम्॥ 14.61
मूलम्
गर्भोपलैर्गमनवेगवशाद्विलोलैः
वाचालिता मधुभिदो मणिपादुके ! त्वम् ।
प्रस्तौषि भावितधियां पथि देवयाने
प्रस्थानमङ्गळमृदङ्गविशेषघोषम्॥ 14.61
विश्वास-प्रस्तुतिः
पर्यङ्कमाश्रितवतो मणिपादुके ! त्वं
पादं विहाय परिकल्पितमौनमुद्रा ।
श्रोतुं प्रभोरवसरं दिशसीव मातः !
नाभीसरोजशयितार्भकसामगीतिम्॥ 14.62
मूलम्
पर्यङ्कमाश्रितवतो मणिपादुके ! त्वं
पादं विहाय परिकल्पितमौनमुद्रा ।
श्रोतुं प्रभोरवसरं दिशसीव मातः !
नाभीसरोजशयितार्भकसामगीतिम्॥ 14.62
विश्वास-प्रस्तुतिः
भोगाय देवि ! भवती मणिपादरक्षे !
पद्मासहायमधिरोप्य भुजङ्गतल्पे ।
विश्वस्य गुप्तिमधिकृत्य विहारहीना
वाचं यमा किमपि चिन्तयतीव कार्यम्॥ 14.63
मूलम्
भोगाय देवि ! भवती मणिपादरक्षे !
पद्मासहायमधिरोप्य भुजङ्गतल्पे ।
विश्वस्य गुप्तिमधिकृत्य विहारहीना
वाचं यमा किमपि चिन्तयतीव कार्यम्॥ 14.63
विश्वास-प्रस्तुतिः
नित्यप्रबोधसुभगे पुरुषे परस्मिन्
निद्रामुपेयुषि तदेकविहारशीला ।
मञ्जुस्वनं विजहती मणिपादुके ! त्वं
संवेशमिच्छसि परं चरणान्तिकस्था॥ 14.64
मूलम्
नित्यप्रबोधसुभगे पुरुषे परस्मिन्
निद्रामुपेयुषि तदेकविहारशीला ।
मञ्जुस्वनं विजहती मणिपादुके ! त्वं
संवेशमिच्छसि परं चरणान्तिकस्था॥ 14.64
विश्वास-प्रस्तुतिः
लास्यं विहाय किमपि स्थितमाश्रयन्ती
रङ्गेश्वरेण सहिता मणिमण्डपेषु ।
मञ्जुस्वनेषु विरतेष्वपि विश्वमेतत्
मौनेन हन्त भवती मुखरीकरोति॥ 14.65
मूलम्
लास्यं विहाय किमपि स्थितमाश्रयन्ती
रङ्गेश्वरेण सहिता मणिमण्डपेषु ।
मञ्जुस्वनेषु विरतेष्वपि विश्वमेतत्
मौनेन हन्त भवती मुखरीकरोति॥ 14.65
विश्वास-प्रस्तुतिः
विस्मापितेव भवती मणिपादरक्षे !
वैरोचनेर्वितरणेन तथाविधेन ।
एतावताऽलमिति देवि ! गृहीतपादा
नाथं त्रिविक्रममवारयतेव नादैः॥ 14.66
मूलम्
विस्मापितेव भवती मणिपादरक्षे !
वैरोचनेर्वितरणेन तथाविधेन ।
एतावताऽलमिति देवि ! गृहीतपादा
नाथं त्रिविक्रममवारयतेव नादैः॥ 14.66
विश्वास-प्रस्तुतिः
सामानि रङ्गनृपतिः सरसं च गीतं
लीलागतेषु विनिवारयति स्वतन्त्रः ।
श्रोतुं तव श्रुतिसुखानि विशेषवेदी
मञ्जूनि काञ्चनपदावनि ! शिञ्जितानि॥ 14.67
मूलम्
सामानि रङ्गनृपतिः सरसं च गीतं
लीलागतेषु विनिवारयति स्वतन्त्रः ।
श्रोतुं तव श्रुतिसुखानि विशेषवेदी
मञ्जूनि काञ्चनपदावनि ! शिञ्जितानि॥ 14.67
विश्वास-प्रस्तुतिः
तत्तादृशीं प्रथयता सुचिरां स्वरेखां
वर्णाधिकेन मधुसूदनपादरक्षे ! ।
पश्यन्ति चित्तनिकषे विनिवेश्य सन्तो
मञ्जुस्वनेन तव नैगमिकं सुवर्णम्॥ 14.68
मूलम्
तत्तादृशीं प्रथयता सुचिरां स्वरेखां
वर्णाधिकेन मधुसूदनपादरक्षे ! ।
पश्यन्ति चित्तनिकषे विनिवेश्य सन्तो
मञ्जुस्वनेन तव नैगमिकं सुवर्णम्॥ 14.68
विश्वास-प्रस्तुतिः
मुग्धस्य हन्त भवतीं स्तुवतो ममैता-
न्याकर्ण्य नूनमयथायथजल्पितानि ।
इत्थं वद त्वमिति शिक्षयितुं प्रणादान्
मञ्जूनुदीरयसि माधवपादुके ! त्वम्॥ 14.69
मूलम्
मुग्धस्य हन्त भवतीं स्तुवतो ममैता-
न्याकर्ण्य नूनमयथायथजल्पितानि ।
इत्थं वद त्वमिति शिक्षयितुं प्रणादान्
मञ्जूनुदीरयसि माधवपादुके ! त्वम्॥ 14.69
विश्वास-प्रस्तुतिः
आदौ सहस्रमिति यत्सहसा मयोक्तं
तुष्टूषता निरवधिं महिमार्णवं ते ।
आम्रेडयस्यथ किमेतदमृष्यमाणा
मञ्जुस्वनेन मधुजिन्मणिपादुके ! त्वम्॥ 14.70
मूलम्
आदौ सहस्रमिति यत्सहसा मयोक्तं
तुष्टूषता निरवधिं महिमार्णवं ते ।
आम्रेडयस्यथ किमेतदमृष्यमाणा
मञ्जुस्वनेन मधुजिन्मणिपादुके ! त्वम्॥ 14.70
विश्वास-प्रस्तुतिः
परिमितपरिबर्हं पादुके ! सञ्चरिष्णौ
त्वयि विनिहितपादे लीलया रङ्गनाथे ।
नियमयति विपञ्चीं नित्यमेकान्तसेवी
निशमयितुमुदारान्नारदस्ते निनादान्॥ 14.71
मूलम्
परिमितपरिबर्हं पादुके ! सञ्चरिष्णौ
त्वयि विनिहितपादे लीलया रङ्गनाथे ।
नियमयति विपञ्चीं नित्यमेकान्तसेवी
निशमयितुमुदारान्नारदस्ते निनादान्॥ 14.71
विश्वास-प्रस्तुतिः
विहरति विशिखायां रङ्गनाथे सलीलं
गमनवशविलोलैर्गर्भरत्नैः क्वणन्त्याः ।
मणिवलयनिनादैर्मञ्जुळैस्ते दिशन्ति
प्रतिवचनमुदारं पादुके ! पौरनार्यः॥ 14.72
मूलम्
विहरति विशिखायां रङ्गनाथे सलीलं
गमनवशविलोलैर्गर्भरत्नैः क्वणन्त्याः ।
मणिवलयनिनादैर्मञ्जुळैस्ते दिशन्ति
प्रतिवचनमुदारं पादुके ! पौरनार्यः॥ 14.72
विश्वास-प्रस्तुतिः
अनुकृतसवनीयस्तोत्रशस्त्रां निनादैः
अनुगतनिगमां त्वामास्थितो रङ्गनाथः ।
अनितरविबुधार्हं हव्यमास्वादयिष्यन्
विशति चरणरक्षे ! यज्ञवाटं द्विजानाम्॥ 14.73
मूलम्
अनुकृतसवनीयस्तोत्रशस्त्रां निनादैः
अनुगतनिगमां त्वामास्थितो रङ्गनाथः ।
अनितरविबुधार्हं हव्यमास्वादयिष्यन्
विशति चरणरक्षे ! यज्ञवाटं द्विजानाम्॥ 14.73
विश्वास-प्रस्तुतिः
चरणकमलमेतद्रङ्गनाथस्य नित्यं
शरणमिति जनानां दर्शयन्ती यथावत् ।
प्रतिपदमपि हृद्यं पादुके ! स्वादुभावात्
अनुवदति परं ते नादमाम्नायपङ्क्तिः॥ 14.74
मूलम्
चरणकमलमेतद्रङ्गनाथस्य नित्यं
शरणमिति जनानां दर्शयन्ती यथावत् ।
प्रतिपदमपि हृद्यं पादुके ! स्वादुभावात्
अनुवदति परं ते नादमाम्नायपङ्क्तिः॥ 14.74
विश्वास-प्रस्तुतिः
रहितभुजगतल्पे त्वत्सनाथे प्रजानां
प्रतिभयशमनाय प्रस्थिते रङ्गनाथे ।
प्रथममुदयमानः पादुके ! तूर्यघोषात्
प्रतिफलति निनादः पाञ्चजन्ये त्वदीयः॥ 14.75
मूलम्
रहितभुजगतल्पे त्वत्सनाथे प्रजानां
प्रतिभयशमनाय प्रस्थिते रङ्गनाथे ।
प्रथममुदयमानः पादुके ! तूर्यघोषात्
प्रतिफलति निनादः पाञ्चजन्ये त्वदीयः॥ 14.75
विश्वास-प्रस्तुतिः
वकुळधरतनुस्त्वं संहितां यामपश्यः
श्रुतिपरिषदि तस्याः सौरभं योजयन्ति ।
हरिचरणसरोजामोदसम्मोदितायाः
प्रतिपदरमणीयाः पादुके ! ते निनादाः॥ 14.76
मूलम्
वकुळधरतनुस्त्वं संहितां यामपश्यः
श्रुतिपरिषदि तस्याः सौरभं योजयन्ति ।
हरिचरणसरोजामोदसम्मोदितायाः
प्रतिपदरमणीयाः पादुके ! ते निनादाः॥ 14.76
विश्वास-प्रस्तुतिः
दनुतनयनिहन्तुर्जैत्रयात्रानुकूले
शरदुपगमकाले सह्यजामापतन्ति ।
श्रुतिमधुरमुदारं शिक्षितुं ते निनादं
परिहृतनिजवासाः पादुके ! राजहंसाः॥ 14.77
मूलम्
दनुतनयनिहन्तुर्जैत्रयात्रानुकूले
शरदुपगमकाले सह्यजामापतन्ति ।
श्रुतिमधुरमुदारं शिक्षितुं ते निनादं
परिहृतनिजवासाः पादुके ! राजहंसाः॥ 14.77
विश्वास-प्रस्तुतिः
विहरणसमयेषु प्रत्यहं रङ्गभर्तुः
चरणनखमयूखैः सोत्तरीया विशुद्धैः ।
परिणमयसि नादं पादुके ! गर्भरत्नैः
दमयितुमिव शिष्यान् दीर्घिकाराजहंसान्॥ 14.78
मूलम्
विहरणसमयेषु प्रत्यहं रङ्गभर्तुः
चरणनखमयूखैः सोत्तरीया विशुद्धैः ।
परिणमयसि नादं पादुके ! गर्भरत्नैः
दमयितुमिव शिष्यान् दीर्घिकाराजहंसान्॥ 14.78
विश्वास-प्रस्तुतिः
परिषदि विरतायां पादुके ! रङ्गभर्तुः
परिजनमपवार्य प्रस्थितस्यावरोधान् ।
मणिनिकरसमुद्यन्मञ्जुनादापदेशात्
अभिलपसि यथार्हं नूनमालोकशब्दम्॥ 14.79
मूलम्
परिषदि विरतायां पादुके ! रङ्गभर्तुः
परिजनमपवार्य प्रस्थितस्यावरोधान् ।
मणिनिकरसमुद्यन्मञ्जुनादापदेशात्
अभिलपसि यथार्हं नूनमालोकशब्दम्॥ 14.79
विश्वास-प्रस्तुतिः
गुरुजननियतं तद् गोपिकानां सहस्रं
दिनकरतनयायाः सैकते दिव्यगोपः ।
वशमनयदयत्नात् वंशनादानुयातैः
तव खलु पदरक्षे ! तादृशैर्मञ्जुनादैः॥ 14.80
मूलम्
गुरुजननियतं तद् गोपिकानां सहस्रं
दिनकरतनयायाः सैकते दिव्यगोपः ।
वशमनयदयत्नात् वंशनादानुयातैः
तव खलु पदरक्षे ! तादृशैर्मञ्जुनादैः॥ 14.80
विश्वास-प्रस्तुतिः
निजपदविनिवेशान्निर्विशेषप्रचारान्
परिणमयति भक्तान् रङ्गनाथो यथा माम् ।
इति विहरणकाले मञ्जुशिञ्जाविशेषैः
हितमुपदिशसीव प्राणिनां पादुके ! त्वम्॥ 14.81
मूलम्
निजपदविनिवेशान्निर्विशेषप्रचारान्
परिणमयति भक्तान् रङ्गनाथो यथा माम् ।
इति विहरणकाले मञ्जुशिञ्जाविशेषैः
हितमुपदिशसीव प्राणिनां पादुके ! त्वम्॥ 14.81
विश्वास-प्रस्तुतिः
अयमयमिति तैस्तैः कल्पितानध्वभेदान्
प्रतिपदमवलोक्य प्राणिनां व्याकुलनाम् ।
चटुलमणिकलापैः शौरिपादावनि ! त्वं
मुखरयसि विहारैर्मुक्तिघण्ट् आपथाग्र्यम्॥ 14.82
मूलम्
अयमयमिति तैस्तैः कल्पितानध्वभेदान्
प्रतिपदमवलोक्य प्राणिनां व्याकुलनाम् ।
चटुलमणिकलापैः शौरिपादावनि ! त्वं
मुखरयसि विहारैर्मुक्तिघण्ट् आपथाग्र्यम्॥ 14.82
विश्वास-प्रस्तुतिः
पदकमलमुदारं दर्शयन्ती मुरारेः
कलमधुरनिनादा गर्भरत्नैर्विलोलैः ।
विषमविषयतृष्णाव्याकुलानि प्रजानाम्
अभिमुखयसि नूनं पादुके ! मानसानि॥ 14.83
मूलम्
पदकमलमुदारं दर्शयन्ती मुरारेः
कलमधुरनिनादा गर्भरत्नैर्विलोलैः ।
विषमविषयतृष्णाव्याकुलानि प्रजानाम्
अभिमुखयसि नूनं पादुके ! मानसानि॥ 14.83
विश्वास-प्रस्तुतिः
मधुरिपुपदरक्षे ! मन्दबुद्धौ मयि त्वाम्
अनवधिमहिमानं त्वत्प्रसादात् स्तुवाने ।
मणिनिकरसमुत्थैर्मञ्जुनादैः कवीनाम्
उपरमयसि तांस्तान् नूनमुत्सेकवादान्॥ 14.84
मूलम्
मधुरिपुपदरक्षे ! मन्दबुद्धौ मयि त्वाम्
अनवधिमहिमानं त्वत्प्रसादात् स्तुवाने ।
मणिनिकरसमुत्थैर्मञ्जुनादैः कवीनाम्
उपरमयसि तांस्तान् नूनमुत्सेकवादान्॥ 14.84
विश्वास-प्रस्तुतिः
शरणमुपगते त्वां शार्ङ्गिणः पादरक्षे !
सकृदिति विधिसिद्धं त्यक्तुकामे विमोहात् ।
प्रचलितमणिजालव्यञ्जितैः शिञ्जितैः स्वैः
अलमलमिति नूनं वारयस्यादरेण॥ 14.85
मूलम्
शरणमुपगते त्वां शार्ङ्गिणः पादरक्षे !
सकृदिति विधिसिद्धं त्यक्तुकामे विमोहात् ।
प्रचलितमणिजालव्यञ्जितैः शिञ्जितैः स्वैः
अलमलमिति नूनं वारयस्यादरेण॥ 14.85
विश्वास-प्रस्तुतिः
विकलकरणवृत्तौ विह्वलाङ्गे विलक्षं
विलपति मयि मोहात् बिभ्रती शौरिपादम् ।
परिसरमधिगन्तुं पश्य पादावनि ! त्वं
प्रतिभयमखिलं मे भर्त्सयन्ती निनादैः॥ 14.86
मूलम्
विकलकरणवृत्तौ विह्वलाङ्गे विलक्षं
विलपति मयि मोहात् बिभ्रती शौरिपादम् ।
परिसरमधिगन्तुं पश्य पादावनि ! त्वं
प्रतिभयमखिलं मे भर्त्सयन्ती निनादैः॥ 14.86
विश्वास-प्रस्तुतिः
करणविगमकाले कालहुङ्कारशङ्की
द्रुतपदमुपगच्छन् दत्तहस्तः प्रियाभ्याम् ।
परिणमयतु कर्णे रङ्गनाथः स्वयं नः
प्रणवमिव भवत्याः पादुके ! मञ्जुनादम्॥ 14.87
मूलम्
करणविगमकाले कालहुङ्कारशङ्की
द्रुतपदमुपगच्छन् दत्तहस्तः प्रियाभ्याम् ।
परिणमयतु कर्णे रङ्गनाथः स्वयं नः
प्रणवमिव भवत्याः पादुके ! मञ्जुनादम्॥ 14.87
विश्वास-प्रस्तुतिः
कमलवनसखीं तां कौमुदीमुद्वहन्तं
सविधमुपनयन्ती तादृशं रङ्गचन्द्रम् ।
प्रळयदिनसमुत्थान् पादुके ! मामकीनान्
प्रशमय परितापान् शीतलैः शिञ्जितैः स्वैः॥ 14.88
मूलम्
कमलवनसखीं तां कौमुदीमुद्वहन्तं
सविधमुपनयन्ती तादृशं रङ्गचन्द्रम् ।
प्रळयदिनसमुत्थान् पादुके ! मामकीनान्
प्रशमय परितापान् शीतलैः शिञ्जितैः स्वैः॥ 14.88
विश्वास-प्रस्तुतिः
प्रशमयतु भयं नः पश्चिमश्वासकाले
रहसि विहरणं ते रङ्गनाथेन सार्धम् ।
नियतमनुविधत्ते पादुके ! यन्निनादो
निखिलभुवनरक्षाघोषणाघोषलीलम्॥ 14.89
मूलम्
प्रशमयतु भयं नः पश्चिमश्वासकाले
रहसि विहरणं ते रङ्गनाथेन सार्धम् ।
नियतमनुविधत्ते पादुके ! यन्निनादो
निखिलभुवनरक्षाघोषणाघोषलीलम्॥ 14.89
विश्वास-प्रस्तुतिः
त्रिकविनिहितहस्तं चिन्तयित्वा कृतान्तं
गतवति हृदि मोहं गच्छता जीवितेन ।
परिकलयतु बोधं पादुके ! शिञ्जितं ते
त्वरयितुमिव सज्जं त्वद्विधेयं मुकुन्दम्॥ 14.90
मूलम्
त्रिकविनिहितहस्तं चिन्तयित्वा कृतान्तं
गतवति हृदि मोहं गच्छता जीवितेन ।
परिकलयतु बोधं पादुके ! शिञ्जितं ते
त्वरयितुमिव सज्जं त्वद्विधेयं मुकुन्दम्॥ 14.90
विश्वास-प्रस्तुतिः
उपघ्नं संवित्तेरुपनिषदुपोद्धातवचनं
तव श्रावं श्रावं श्रुतिसुभगमन्तर्मणिरवम् ।
विजृम्भन्ते नूनं मधुमथनपादावनि ! मम
द्रवीभूतद्राक्षामधुरिमधुरीणाः फणितयः॥ 14.91
मूलम्
उपघ्नं संवित्तेरुपनिषदुपोद्धातवचनं
तव श्रावं श्रावं श्रुतिसुभगमन्तर्मणिरवम् ।
विजृम्भन्ते नूनं मधुमथनपादावनि ! मम
द्रवीभूतद्राक्षामधुरिमधुरीणाः फणितयः॥ 14.91
विश्वास-प्रस्तुतिः
विलासैः क्रीणन्तो निखिलजनचेतांसि विविधाः
विहारास्ते रङ्गक्षितिरमणपादावनि ! मुहुः ।
विगाहन्तामन्तर्मम विलुठदन्तर्मणिशिला
खलात्कारव्याजक्षरदमृतधाराधमनयः॥ 14.92
मूलम्
विलासैः क्रीणन्तो निखिलजनचेतांसि विविधाः
विहारास्ते रङ्गक्षितिरमणपादावनि ! मुहुः ।
विगाहन्तामन्तर्मम विलुठदन्तर्मणिशिला
खलात्कारव्याजक्षरदमृतधाराधमनयः॥ 14.92
विश्वास-प्रस्तुतिः
श्रुतिश्रेणीस्थेयश्रुतिसुभगशिञ्जामुखरितां
भजेम त्वां पद्मारमणचरणत्रायिणि ! परम् ।
न मुद्रानिद्राणद्रविणकणविश्राणनदशा
विशालाहङ्कारं कमपि घनहुङ्कारपरुषम्॥ 14.93
मूलम्
श्रुतिश्रेणीस्थेयश्रुतिसुभगशिञ्जामुखरितां
भजेम त्वां पद्मारमणचरणत्रायिणि ! परम् ।
न मुद्रानिद्राणद्रविणकणविश्राणनदशा
विशालाहङ्कारं कमपि घनहुङ्कारपरुषम्॥ 14.93
विश्वास-प्रस्तुतिः
तवैतछ्रीरङ्गक्षितिपतिपदत्रायिणि ! नृणां
भवत्यागश्चिन्तारणरणकभङ्गाय रणितम् ।
शरीरे स्वं भावं प्रथयति यदाकर्णनवशात्
न नः कर्णे भावी यममहिषघण्टाघणघणः॥ 14.94
मूलम्
तवैतछ्रीरङ्गक्षितिपतिपदत्रायिणि ! नृणां
भवत्यागश्चिन्तारणरणकभङ्गाय रणितम् ।
शरीरे स्वं भावं प्रथयति यदाकर्णनवशात्
न नः कर्णे भावी यममहिषघण्टाघणघणः॥ 14.94
विश्वास-प्रस्तुतिः
परित्रस्ताः पुण्यद्रवपतनवेगात् प्रथमतः
क्षरद्भिः श्रीरङ्गक्षितिरमणपादावनि ! तदा ।
विदामासुर्देवा बलिमथनसंरम्भमनघैः
प्रणादैस्ते सद्यः पदकमलविक्रान्तिपिशुनैः॥ 14.95
मूलम्
परित्रस्ताः पुण्यद्रवपतनवेगात् प्रथमतः
क्षरद्भिः श्रीरङ्गक्षितिरमणपादावनि ! तदा ।
विदामासुर्देवा बलिमथनसंरम्भमनघैः
प्रणादैस्ते सद्यः पदकमलविक्रान्तिपिशुनैः॥ 14.95
विश्वास-प्रस्तुतिः
स्वेषु स्वेषु पदेषु किं नियमयस्यष्टौ दिशामीश्वरान्
स्वैरालापकथाः प्रवर्तयसि किं त्रय्या सहासीनया ।
रङ्गेशस्य समस्तलोकमहितं प्राप्ता पदाम्भोरुहं
मा भैषीरिति मामुदीरयसि वा मञ्जुस्वनैः पादुके !॥ 14.96
मूलम्
स्वेषु स्वेषु पदेषु किं नियमयस्यष्टौ दिशामीश्वरान्
स्वैरालापकथाः प्रवर्तयसि किं त्रय्या सहासीनया ।
रङ्गेशस्य समस्तलोकमहितं प्राप्ता पदाम्भोरुहं
मा भैषीरिति मामुदीरयसि वा मञ्जुस्वनैः पादुके !॥ 14.96
विश्वास-प्रस्तुतिः
रङ्गे देवि ! रथाङ्गपाणिचरणस्वच्छन्दलीलासखि !
स्तोकस्पन्दितरम्यविभ्रमगतिप्रस्तावकं तावकम् ।
कालोपागतकालकिङ्करचमूहुङ्कारपारम्परी-
दुर्वारप्रतिवावदूकमनघं श्रोष्यामि शिञ्जारवम्॥ 14.97त्वच्छिञ्जारवशर्करारससदास्वादात् सतामुन्मदा
मातर्माधवपादुके ! बहुविदां प्रायः श्रुतिर्मुह्यति ।
सारासारसकृद्विमर्शनपरिम्लानाक्षरग्रन्थिभिः
ग्रन्थैस्त्वामिह वर्णयाम्यहमतस्त्रासत्रपावर्जितः॥ 14.98तवाम्ब ! किल खेलतां गतिवशेन गर्भाश्मनां
रमारमणपादुके ! किमपि मञ्जुभिः शिञ्जितैः ।
पदस्तुतिविधायिभिस्त्वदनुभावसिद्धान्तिभिः
सयूथ्यकलहायितं श्रुतिशतं समापद्यते॥ 14.99क्षिपति मणिपादरक्षे ! नादैर्नूनं समाश्रितत्राणे ।
रङ्गेश्वरस्य भवती रक्षापेक्षाप्रतीक्षणविळम्बम्॥ 14.100
मूलम्
रङ्गे देवि ! रथाङ्गपाणिचरणस्वच्छन्दलीलासखि !
स्तोकस्पन्दितरम्यविभ्रमगतिप्रस्तावकं तावकम् ।
कालोपागतकालकिङ्करचमूहुङ्कारपारम्परी-
दुर्वारप्रतिवावदूकमनघं श्रोष्यामि शिञ्जारवम्॥ 14.97त्वच्छिञ्जारवशर्करारससदास्वादात् सतामुन्मदा
मातर्माधवपादुके ! बहुविदां प्रायः श्रुतिर्मुह्यति ।
सारासारसकृद्विमर्शनपरिम्लानाक्षरग्रन्थिभिः
ग्रन्थैस्त्वामिह वर्णयाम्यहमतस्त्रासत्रपावर्जितः॥ 14.98तवाम्ब ! किल खेलतां गतिवशेन गर्भाश्मनां
रमारमणपादुके ! किमपि मञ्जुभिः शिञ्जितैः ।
पदस्तुतिविधायिभिस्त्वदनुभावसिद्धान्तिभिः
सयूथ्यकलहायितं श्रुतिशतं समापद्यते॥ 14.99क्षिपति मणिपादरक्षे ! नादैर्नूनं समाश्रितत्राणे ।
रङ्गेश्वरस्य भवती रक्षापेक्षाप्रतीक्षणविळम्बम्॥ 14.100