विश्वास-प्रस्तुतिः
पान्तु वः पद्मनाभस्य पादुकाकेळिपांसवः ।
अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ 13.1
मूलम्
पान्तु वः पद्मनाभस्य पादुकाकेळिपांसवः ।
अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ 13.1
विश्वास-प्रस्तुतिः
तव सञ्चरणाद्रजो विधूतं
यदिदं रङ्गनरेन्द्रपादरक्षे ! ।
अलमेतदनाविलानि कर्तुं
कतकक्षोद इवाशु मानसानि॥ 13.2
मूलम्
तव सञ्चरणाद्रजो विधूतं
यदिदं रङ्गनरेन्द्रपादरक्षे ! ।
अलमेतदनाविलानि कर्तुं
कतकक्षोद इवाशु मानसानि॥ 13.2
विश्वास-प्रस्तुतिः
पुनरुक्तपितामहानुभावाः
पुरुषाः केचिदमी पुनन्ति विश्वम् ।
मधुवैरिपदारविन्दबन्धोः
अपरागास्तव पादुके ! परागैः॥ 13.3
मूलम्
पुनरुक्तपितामहानुभावाः
पुरुषाः केचिदमी पुनन्ति विश्वम् ।
मधुवैरिपदारविन्दबन्धोः
अपरागास्तव पादुके ! परागैः॥ 13.3
विश्वास-प्रस्तुतिः
अभियुक्तजनो निजार्भकाणां बहुशो रङ्गनरेन्द्रपादरक्षे ! ।
अवलेपपिशाचमोचनार्थं रजसा लिम्पति तावकेन देहान्॥ 13.4
मूलम्
अभियुक्तजनो निजार्भकाणां बहुशो रङ्गनरेन्द्रपादरक्षे ! ।
अवलेपपिशाचमोचनार्थं रजसा लिम्पति तावकेन देहान्॥ 13.4
विश्वास-प्रस्तुतिः
शिरसा परिगृह्य लोकपालाः
तव रङ्गेश्वरपादुके ! रजांसि ।
विषमेषु बलेषु दानवानां
व्यपनीतान्यशिरस्त्रमाविशन्ति॥ 13.5
मूलम्
शिरसा परिगृह्य लोकपालाः
तव रङ्गेश्वरपादुके ! रजांसि ।
विषमेषु बलेषु दानवानां
व्यपनीतान्यशिरस्त्रमाविशन्ति॥ 13.5
विश्वास-प्रस्तुतिः
कृतिनः शिरसा समुद्वहन्तः
कतिचित् केशवपादुके ! रजस्ते ।
रजसस्तमसोऽपि दूरभूतं
परिपश्यन्ति विशुद्धमेव सत्त्वम्॥ 13.6
मूलम्
कृतिनः शिरसा समुद्वहन्तः
कतिचित् केशवपादुके ! रजस्ते ।
रजसस्तमसोऽपि दूरभूतं
परिपश्यन्ति विशुद्धमेव सत्त्वम्॥ 13.6
विश्वास-प्रस्तुतिः
अधिकं पदमाश्रितोऽपि वेधाः
प्रयतो रङ्गधुरीणपादरक्षे ! ।
अभिवाञ्छति सङ्गमं परागैः
अभिजातैस्तव देवि ! नाभिजातः॥ 13.7
मूलम्
अधिकं पदमाश्रितोऽपि वेधाः
प्रयतो रङ्गधुरीणपादरक्षे ! ।
अभिवाञ्छति सङ्गमं परागैः
अभिजातैस्तव देवि ! नाभिजातः॥ 13.7
विश्वास-प्रस्तुतिः
शुद्धसत्त्ववपुषैव भवत्या
पादुके ! विरजसौ हरिपादौ ।
अस्तु किं पुनरिदं रजसा ते
शुद्धसत्त्वमयता मनुजानाम्॥ 13.8
मूलम्
शुद्धसत्त्ववपुषैव भवत्या
पादुके ! विरजसौ हरिपादौ ।
अस्तु किं पुनरिदं रजसा ते
शुद्धसत्त्वमयता मनुजानाम्॥ 13.8
विश्वास-प्रस्तुतिः
तद्रजस्तव तनोति पादुके !
मानसान्यकठिनानि देहिनाम् ।
प्रस्तरस्य पदवीगतस्य यत्
व्याचकार मुनिधर्मदारताम्॥ 13.9
मूलम्
तद्रजस्तव तनोति पादुके !
मानसान्यकठिनानि देहिनाम् ।
प्रस्तरस्य पदवीगतस्य यत्
व्याचकार मुनिधर्मदारताम्॥ 13.9
विश्वास-प्रस्तुतिः
रङ्गेशयस्य पुरुषस्य जगद्विभूत्यै
रथ्यापरिक्रमविधौ मणिपादरक्षे ! ।
सीमन्तदेशमनवद्यसरस्वतीनां
सिन्दूरयन्ति भवतीचरिताः परागाः॥ 13.10
मूलम्
रङ्गेशयस्य पुरुषस्य जगद्विभूत्यै
रथ्यापरिक्रमविधौ मणिपादरक्षे ! ।
सीमन्तदेशमनवद्यसरस्वतीनां
सिन्दूरयन्ति भवतीचरिताः परागाः॥ 13.10
विश्वास-प्रस्तुतिः
मान्येन रङ्गनृपतेर्मणिपादरक्षे !
चूडापदानि रजसा तव भूषयन्तः ।
कालक्रमेण भजतां कमलासनत्वं
नाभीसरोजरजसां निवसन्ति मध्ये॥ 13.11
मूलम्
मान्येन रङ्गनृपतेर्मणिपादरक्षे !
चूडापदानि रजसा तव भूषयन्तः ।
कालक्रमेण भजतां कमलासनत्वं
नाभीसरोजरजसां निवसन्ति मध्ये॥ 13.11
विश्वास-प्रस्तुतिः
मातर्मुकुन्दचरणावनि ! तावकीनाः
चिन्तावशीकरणचूर्णविशेषकल्पाः ।
सञ्चारपांसुकणिकाः शिरसा वहन्तो
विश्वं पुनन्ति पदपद्मपरागलेशैः॥ 13.12
मूलम्
मातर्मुकुन्दचरणावनि ! तावकीनाः
चिन्तावशीकरणचूर्णविशेषकल्पाः ।
सञ्चारपांसुकणिकाः शिरसा वहन्तो
विश्वं पुनन्ति पदपद्मपरागलेशैः॥ 13.12
विश्वास-प्रस्तुतिः
आयोजितान्यमलधीभिरनन्यलभ्ये
पादावनि ! श्रुतिवधूपटवासकृत्ये ।
त्वत्सञ्चरप्रचलितानि रजांसि शौरेः
प्रख्यापयन्ति पदपद्मपरागशोभाम्॥ 13.13
मूलम्
आयोजितान्यमलधीभिरनन्यलभ्ये
पादावनि ! श्रुतिवधूपटवासकृत्ये ।
त्वत्सञ्चरप्रचलितानि रजांसि शौरेः
प्रख्यापयन्ति पदपद्मपरागशोभाम्॥ 13.13
विश्वास-प्रस्तुतिः
मूर्धानमम्ब ! मुरभिन्मणिपादरक्षे !
येषां कदाऽपि रजसा भवती पुनाति ।
त्वामेव ते सुकृतिनः स्नपयन्ति काले
मन्दारदामरजसा मकुटच्युतेन॥ 13.14
मूलम्
मूर्धानमम्ब ! मुरभिन्मणिपादरक्षे !
येषां कदाऽपि रजसा भवती पुनाति ।
त्वामेव ते सुकृतिनः स्नपयन्ति काले
मन्दारदामरजसा मकुटच्युतेन॥ 13.14
विश्वास-प्रस्तुतिः
रथ्याविहाररजसा परिधूसराङ्गीं
रङ्गेश्वरस्य लळितेषु महोत्सवेषु ।
प्रस्फोटयत्यवनतो मणिपादुके ! त्वां
गौरीपतिः स्वयमिभाजिनपल्लवेन॥ 13.15
मूलम्
रथ्याविहाररजसा परिधूसराङ्गीं
रङ्गेश्वरस्य लळितेषु महोत्सवेषु ।
प्रस्फोटयत्यवनतो मणिपादुके ! त्वां
गौरीपतिः स्वयमिभाजिनपल्लवेन॥ 13.15
विश्वास-प्रस्तुतिः
नेदीयसां निजपरागनिवेशपूर्वं
स्पृष्ट्वा शिरांसि भवती भवरोगभाजाम् ।
गाढं निपीड्य गरुडध्वजपादरक्षे !
मानग्रहं शमयतीव परैरसाध्यम्॥ 13.16
मूलम्
नेदीयसां निजपरागनिवेशपूर्वं
स्पृष्ट्वा शिरांसि भवती भवरोगभाजाम् ।
गाढं निपीड्य गरुडध्वजपादरक्षे !
मानग्रहं शमयतीव परैरसाध्यम्॥ 13.16
विश्वास-प्रस्तुतिः
आपातवल्लवतनोरकुमारयूनः
पादावनि ! प्रविशतो यमुनानिकुञ्जान् ।
आसीदनङ्गसमरात् पुरतः प्रवृत्तः
सेनापराग इव ते पदवीपरागः॥ 13.17
मूलम्
आपातवल्लवतनोरकुमारयूनः
पादावनि ! प्रविशतो यमुनानिकुञ्जान् ।
आसीदनङ्गसमरात् पुरतः प्रवृत्तः
सेनापराग इव ते पदवीपरागः॥ 13.17
विश्वास-प्रस्तुतिः
गङ्गापगातटलतागृहमाश्रयन्त्याः
पादावनि ! प्रचलितं पदवीरजस्ते ।
प्रायेण पावनतमं प्रणतस्य शम्भोः
उद्धूळनं किमपि नूतनमातनोति॥ 13.18
मूलम्
गङ्गापगातटलतागृहमाश्रयन्त्याः
पादावनि ! प्रचलितं पदवीरजस्ते ।
प्रायेण पावनतमं प्रणतस्य शम्भोः
उद्धूळनं किमपि नूतनमातनोति॥ 13.18
विश्वास-प्रस्तुतिः
अन्ते तदा त्वमविळम्बितमानयन्ती
रङ्गाद् भुजङ्गशयनं मणिपादरक्षे ! ।
कामं निवर्तयितुमर्हसि सं ज्वरं मे
कर्पूरचूर्णपटलैरिव धूळिभिस्ते॥ 13.19
मूलम्
अन्ते तदा त्वमविळम्बितमानयन्ती
रङ्गाद् भुजङ्गशयनं मणिपादरक्षे ! ।
कामं निवर्तयितुमर्हसि सं ज्वरं मे
कर्पूरचूर्णपटलैरिव धूळिभिस्ते॥ 13.19
विश्वास-प्रस्तुतिः
रङ्गेशपादसहधर्मचरि ! त्वदीयान्
मौळौ निवेश्य महितान् पदवीपरागान् ।
सन्तस्त्रिवर्गपदवीमतिलङ्घयन्तो
मौळौ पदं विदधते विबुधेश्वराणाम्॥ 13.20
मूलम्
रङ्गेशपादसहधर्मचरि ! त्वदीयान्
मौळौ निवेश्य महितान् पदवीपरागान् ।
सन्तस्त्रिवर्गपदवीमतिलङ्घयन्तो
मौळौ पदं विदधते विबुधेश्वराणाम्॥ 13.20
विश्वास-प्रस्तुतिः
मातस्तदा माधवपादरक्षे !
त्वयि प्रसक्तं त्वरयोपयान्त्याम् ।
परामृशेयं पदवीपरागं प्राणैः
प्रयाणाय समुज्जिहानैः॥ 13.21
मूलम्
मातस्तदा माधवपादरक्षे !
त्वयि प्रसक्तं त्वरयोपयान्त्याम् ।
परामृशेयं पदवीपरागं प्राणैः
प्रयाणाय समुज्जिहानैः॥ 13.21
विश्वास-प्रस्तुतिः
तथागता राघवपादरक्षे !
संपश्यमानेषु तपोधनेषु ।
आसीदहल्या तव पांसुलेशैः
अपांसुलानां स्वयमग्रगण्या॥ 13.22
मूलम्
तथागता राघवपादरक्षे !
संपश्यमानेषु तपोधनेषु ।
आसीदहल्या तव पांसुलेशैः
अपांसुलानां स्वयमग्रगण्या॥ 13.22
विश्वास-प्रस्तुतिः
पश्यामि पद्मेक्षणपादरक्षे !
भवाम्बुधिं पातुमिव प्रवृत्तान् ।
भक्तोपयानत्वरया भवत्याः
पर्यस्यमानान् पदवीपरागान्॥ 13.23
मूलम्
पश्यामि पद्मेक्षणपादरक्षे !
भवाम्बुधिं पातुमिव प्रवृत्तान् ।
भक्तोपयानत्वरया भवत्याः
पर्यस्यमानान् पदवीपरागान्॥ 13.23
विश्वास-प्रस्तुतिः
पञ्चायुधी भूषणमेव शौरेः
यतस्तवैते मणिपादरक्षे ! ।
वितन्वते व्याप्तदिशः परागाः
शान्तोदयान् शत्रुचमूपरागान्॥ 13.24
मूलम्
पञ्चायुधी भूषणमेव शौरेः
यतस्तवैते मणिपादरक्षे ! ।
वितन्वते व्याप्तदिशः परागाः
शान्तोदयान् शत्रुचमूपरागान्॥ 13.24
विश्वास-प्रस्तुतिः
परिणतिमकठोरां प्राप्तया यत्प्रभावात्
अलभत शिलया स्वान् गौतमो धर्मदारान् ।
पुनरुपजनि शङ्कावारकं पादुके ! तत्
प्रशमयति रजस्ते रागयोगं प्रजानाम्॥ 13.25
मूलम्
परिणतिमकठोरां प्राप्तया यत्प्रभावात्
अलभत शिलया स्वान् गौतमो धर्मदारान् ।
पुनरुपजनि शङ्कावारकं पादुके ! तत्
प्रशमयति रजस्ते रागयोगं प्रजानाम्॥ 13.25
विश्वास-प्रस्तुतिः
रजनिविगमकाले रामगाथां पठन्तः
कुशिकतनयमुख्याः पादुके ! भावयन्ते ।
उपलशकलसक्तैस्त्वत्परागैरकाण्डे
जनितमुनिकळत्रान् दण्डकारण्यभागान्॥ 13.26
मूलम्
रजनिविगमकाले रामगाथां पठन्तः
कुशिकतनयमुख्याः पादुके ! भावयन्ते ।
उपलशकलसक्तैस्त्वत्परागैरकाण्डे
जनितमुनिकळत्रान् दण्डकारण्यभागान्॥ 13.26
विश्वास-प्रस्तुतिः
शुभसरणिरजोभिः शोभयन्ती धरित्रीं
परिणतिरमणीयान् प्रक्षरन्ती पुमर्थान् ।
भवसि भुवनवन्द्या पादुके ! रङ्गभर्तुः
शरणमुपगतानां शाश्वती कामधेनुः॥ 13.27
मूलम्
शुभसरणिरजोभिः शोभयन्ती धरित्रीं
परिणतिरमणीयान् प्रक्षरन्ती पुमर्थान् ।
भवसि भुवनवन्द्या पादुके ! रङ्गभर्तुः
शरणमुपगतानां शाश्वती कामधेनुः॥ 13.27
विश्वास-प्रस्तुतिः
पवनतरळितस्ते पादुके ! रङ्गभर्तुः
विहरणसमयेषु व्याप्तविश्वः परागः ।
विषमविषयवर्त्मव्याकुलानामजस्रं
व्यपनयति जनानां वासनारेणुजालम्॥ 13.28
मूलम्
पवनतरळितस्ते पादुके ! रङ्गभर्तुः
विहरणसमयेषु व्याप्तविश्वः परागः ।
विषमविषयवर्त्मव्याकुलानामजस्रं
व्यपनयति जनानां वासनारेणुजालम्॥ 13.28
विश्वास-प्रस्तुतिः
निष्प्रत्यूहमुपासिषीमहि मुहुर्निश्शेषदोषच्छिदो
नित्यं रङ्गधुरन्धरस्य निगमस्तोमार्चिते पादुके ! ।
धत्ते मूर्धभिरादिपद्मजनिता तत्तादृशी सन्ततिः
यत्सञ्चारपवित्रितक्षितिरजः पङ्क्तिं चतुष्पञ्चषैः॥ 13.29
मूलम्
निष्प्रत्यूहमुपासिषीमहि मुहुर्निश्शेषदोषच्छिदो
नित्यं रङ्गधुरन्धरस्य निगमस्तोमार्चिते पादुके ! ।
धत्ते मूर्धभिरादिपद्मजनिता तत्तादृशी सन्ततिः
यत्सञ्चारपवित्रितक्षितिरजः पङ्क्तिं चतुष्पञ्चषैः॥ 13.29
विश्वास-प्रस्तुतिः
रजसा परोरजस्तन्न खलु
न लङ्घ्येत भगवतोऽपि पदम् ।
किमुत हृदयं मदीयं भवती
यदि नाम पादुके ! न स्यात्॥ 13.30
मूलम्
रजसा परोरजस्तन्न खलु
न लङ्घ्येत भगवतोऽपि पदम् ।
किमुत हृदयं मदीयं भवती
यदि नाम पादुके ! न स्यात्॥ 13.30