12 पुष्पपद्धतिः

विश्वास-प्रस्तुतिः

शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता ।
पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम्॥ 12.1

मूलम्

शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता ।
पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम्॥ 12.1

विश्वास-प्रस्तुतिः

दैवतं मम जगत्त्रयार्चिता
दिव्यदम्पतिविहारपादुका ।
पाणिपादकमलार्पणात् तयोः
या भजत्यनुदिनं सभाजनम्॥ 12.2

मूलम्

दैवतं मम जगत्त्रयार्चिता
दिव्यदम्पतिविहारपादुका ।
पाणिपादकमलार्पणात् तयोः
या भजत्यनुदिनं सभाजनम्॥ 12.2

विश्वास-प्रस्तुतिः

तव रङ्गराजमणिपादु ! नतो
विहितार्हणः सुरसरित्पयसा ।
अवतंसचन्द्रकलया गिरिशो
नवकेतकीदळमिवार्पयति॥ 12.3

मूलम्

तव रङ्गराजमणिपादु ! नतो
विहितार्हणः सुरसरित्पयसा ।
अवतंसचन्द्रकलया गिरिशो
नवकेतकीदळमिवार्पयति॥ 12.3

विश्वास-प्रस्तुतिः

कुसुमेषु समर्पितेषु भक्तैः
त्वयि रङ्गेशपदावनि ! प्रतीमः ।
शठकोपमुनेस्त्वदेकनाम्नः
सुभगं यत् सुरभित्वमस्य नित्यम्॥ 12.4

मूलम्

कुसुमेषु समर्पितेषु भक्तैः
त्वयि रङ्गेशपदावनि ! प्रतीमः ।
शठकोपमुनेस्त्वदेकनाम्नः
सुभगं यत् सुरभित्वमस्य नित्यम्॥ 12.4

विश्वास-प्रस्तुतिः

पदे परस्मिन् भुवने विधातुः
पुण्यैः प्रसूनैः पुळिने सरय्वाः ।
मध्ये च पादावनि ! सह्यसिन्धोः
आसीच्चतुः स्थानमिवार्चनं ते॥ 12.5

मूलम्

पदे परस्मिन् भुवने विधातुः
पुण्यैः प्रसूनैः पुळिने सरय्वाः ।
मध्ये च पादावनि ! सह्यसिन्धोः
आसीच्चतुः स्थानमिवार्चनं ते॥ 12.5

विश्वास-प्रस्तुतिः

तवैव रङ्गेश्वरपादरक्षे !
सौभाग्यमव्याहतमाप्तुकामाः ।
सुरद्रुमाणां प्रसवैः सुजातैः
अभ्यर्चयन्त्यप्सरसो मुहुस्त्वाम्॥ 12.6

मूलम्

तवैव रङ्गेश्वरपादरक्षे !
सौभाग्यमव्याहतमाप्तुकामाः ।
सुरद्रुमाणां प्रसवैः सुजातैः
अभ्यर्चयन्त्यप्सरसो मुहुस्त्वाम्॥ 12.6

विश्वास-प्रस्तुतिः

निवेशितां रङ्गपतेः पदाब्जे
मन्ये सपर्यां मणिपादरक्षे ! ।
त्वदर्पणादापतितामपश्यत्
गाण्डीवधन्वा गिरिशोत्तमाङ्गे॥ 12.7

मूलम्

निवेशितां रङ्गपतेः पदाब्जे
मन्ये सपर्यां मणिपादरक्षे ! ।
त्वदर्पणादापतितामपश्यत्
गाण्डीवधन्वा गिरिशोत्तमाङ्गे॥ 12.7

विश्वास-प्रस्तुतिः

पत्राणि रङ्गनृपतेर्मणिपादरक्षे !
द्वित्राण्यपि त्वयि समर्प्य विभूतिकामाः ।
पर्यायलब्धपुरुहूतपदाः शचीनां
पत्राङ्कुराणि विलिखन्ति पयोधरेषु॥ 12.8

मूलम्

पत्राणि रङ्गनृपतेर्मणिपादरक्षे !
द्वित्राण्यपि त्वयि समर्प्य विभूतिकामाः ।
पर्यायलब्धपुरुहूतपदाः शचीनां
पत्राङ्कुराणि विलिखन्ति पयोधरेषु॥ 12.8

विश्वास-प्रस्तुतिः

निर्वर्तयन्ति तव ये निचितानि पुष्पैः
वैहारिकाण्युपवनानि वसुन्धरायाम् ।
कालेन ते कमललोचनपादरक्षे !
क्रीडन्ति नन्दनवने कृतिनः पुमांसः॥ 12.9

मूलम्

निर्वर्तयन्ति तव ये निचितानि पुष्पैः
वैहारिकाण्युपवनानि वसुन्धरायाम् ।
कालेन ते कमललोचनपादरक्षे !
क्रीडन्ति नन्दनवने कृतिनः पुमांसः॥ 12.9

विश्वास-प्रस्तुतिः

अर्चन्ति ये मधुभिदो मणिपादरक्षे !
भावात्मकैरपि परं भवतीं प्रसूनैः ।
मन्दारदामसुभगैर्मकुटैरजस्रं
बृन्दारकाः सुरभयन्ति पदं तदीयम्॥ 12.10

मूलम्

अर्चन्ति ये मधुभिदो मणिपादरक्षे !
भावात्मकैरपि परं भवतीं प्रसूनैः ।
मन्दारदामसुभगैर्मकुटैरजस्रं
बृन्दारकाः सुरभयन्ति पदं तदीयम्॥ 12.10

विश्वास-प्रस्तुतिः

अस्पृष्टदोषपरिमर्शमलङ्घ्यमन्यैः
हस्तापचेयमखिलं पुरुषार्थवर्गम् ।
चित्रं जनार्दनपदावनि ! साधकानां
त्वय्यर्पिताः सुमनसः सहसा फलन्ति॥ 12.11

मूलम्

अस्पृष्टदोषपरिमर्शमलङ्घ्यमन्यैः
हस्तापचेयमखिलं पुरुषार्थवर्गम् ।
चित्रं जनार्दनपदावनि ! साधकानां
त्वय्यर्पिताः सुमनसः सहसा फलन्ति॥ 12.11

विश्वास-प्रस्तुतिः

वन्दारुभिः सुरगणैस्त्वयि संप्रयुक्ता
माला विभाति मधुसूदनपादरक्षे ! ।
विक्रान्तविष्णुपदसंश्रयबद्धसख्या
भागीरथीव परिरम्भणकाङ्क्षिणी ते॥ 12.12

मूलम्

वन्दारुभिः सुरगणैस्त्वयि संप्रयुक्ता
माला विभाति मधुसूदनपादरक्षे ! ।
विक्रान्तविष्णुपदसंश्रयबद्धसख्या
भागीरथीव परिरम्भणकाङ्क्षिणी ते॥ 12.12

विश्वास-प्रस्तुतिः

ये नाम रङ्गनृपतेर्मणिपादुके ! त्वाम्
अभ्यर्चयन्ति कमलैरधिकर्तुकामाः ।
आरोपयत्यवहिता नियतिः क्रमात्तान्
कल्पान्तरीयकमलासनपत्रिकासु॥ 12.13

मूलम्

ये नाम रङ्गनृपतेर्मणिपादुके ! त्वाम्
अभ्यर्चयन्ति कमलैरधिकर्तुकामाः ।
आरोपयत्यवहिता नियतिः क्रमात्तान्
कल्पान्तरीयकमलासनपत्रिकासु॥ 12.13

विश्वास-प्रस्तुतिः

त्वय्यर्पितानि मनुजैर्मणिपादरक्षे !
दूर्वाङ्कुराणि सुलभान्यथवा तुलस्यः ।
साराधिकाः सपदि रङ्गनरेन्द्रशक्त्या
संसारनागदमनौषधयो भवन्ति॥ 12.14

मूलम्

त्वय्यर्पितानि मनुजैर्मणिपादरक्षे !
दूर्वाङ्कुराणि सुलभान्यथवा तुलस्यः ।
साराधिकाः सपदि रङ्गनरेन्द्रशक्त्या
संसारनागदमनौषधयो भवन्ति॥ 12.14

विश्वास-प्रस्तुतिः

आराध्य नूनमसुरार्दनपादुके ! त्वाम्
आमुष्मिकाय विभवाय सहस्रपत्रैः ।
मन्वन्तरेषु परिवर्तिषु देवि ! मर्त्याः
पर्यायतः परिणमन्ति सहस्रनेत्राः॥ 12.15

मूलम्

आराध्य नूनमसुरार्दनपादुके ! त्वाम्
आमुष्मिकाय विभवाय सहस्रपत्रैः ।
मन्वन्तरेषु परिवर्तिषु देवि ! मर्त्याः
पर्यायतः परिणमन्ति सहस्रनेत्राः॥ 12.15

विश्वास-प्रस्तुतिः

धन्यैस्त्वयि त्रिदशरक्षकपादरक्षे !
पुष्पाणि काञ्चनमयानि समर्पितानि ।
विस्रंसिना विनमतो गिरिशोत्तमाङ्गात्
आरग्वधेन मिलितान्यपृथग्भवन्ति॥ 12.16

मूलम्

धन्यैस्त्वयि त्रिदशरक्षकपादरक्षे !
पुष्पाणि काञ्चनमयानि समर्पितानि ।
विस्रंसिना विनमतो गिरिशोत्तमाङ्गात्
आरग्वधेन मिलितान्यपृथग्भवन्ति॥ 12.16

विश्वास-प्रस्तुतिः

विश्वोपसर्गशमनं त्वयि मन्यमानैः
वैमानिकैः प्रणिहितं मणिपादरक्षे ! ।
पद्मासहायपदपद्मनखार्चिषस्ते
पुष्पोपहारविभवं पुनरुक्तयन्ति॥ 12.17

मूलम्

विश्वोपसर्गशमनं त्वयि मन्यमानैः
वैमानिकैः प्रणिहितं मणिपादरक्षे ! ।
पद्मासहायपदपद्मनखार्चिषस्ते
पुष्पोपहारविभवं पुनरुक्तयन्ति॥ 12.17

विश्वास-प्रस्तुतिः

नाकौकसां शमयितुं परिपन्थिवर्गान्
नाथे पदं त्वयि निवेशयितुं प्रवृत्ते ।
त्वत्संश्रितां विजहतस्तुळसीं वमन्ति
प्रस्थानकाहळरवान् प्रथमं द्विरेफाः॥ 12.18

मूलम्

नाकौकसां शमयितुं परिपन्थिवर्गान्
नाथे पदं त्वयि निवेशयितुं प्रवृत्ते ।
त्वत्संश्रितां विजहतस्तुळसीं वमन्ति
प्रस्थानकाहळरवान् प्रथमं द्विरेफाः॥ 12.18

विश्वास-प्रस्तुतिः

रङ्गेशपादपरिभोगसुजातगन्धां
संप्राप्य देवि ! भवतीं सह दिव्यपुष्पैः ।
नित्योपदर्शितरसं न किलाद्रियन्ते
नाभीसरोजमपि नन्दनचञ्चरीकाः॥ 12.19

मूलम्

रङ्गेशपादपरिभोगसुजातगन्धां
संप्राप्य देवि ! भवतीं सह दिव्यपुष्पैः ।
नित्योपदर्शितरसं न किलाद्रियन्ते
नाभीसरोजमपि नन्दनचञ्चरीकाः॥ 12.19

विश्वास-प्रस्तुतिः

प्रागेव काञ्चनपदावनि ! पुष्पवर्षात्
संवर्तिते शमितदैत्यभयैः सुरेन्द्रैः ।
पद्मेक्षणस्य पदपद्मनिवेशलाभे
पुष्पाभिषेकमुचितं प्रतिपद्यसे त्वम्॥ 12.20

मूलम्

प्रागेव काञ्चनपदावनि ! पुष्पवर्षात्
संवर्तिते शमितदैत्यभयैः सुरेन्द्रैः ।
पद्मेक्षणस्य पदपद्मनिवेशलाभे
पुष्पाभिषेकमुचितं प्रतिपद्यसे त्वम्॥ 12.20

विश्वास-प्रस्तुतिः

दिशि दिशि मुनिपत्न्यो दण्डकारण्यभागे
न जहति बहुमानान्नूनमद्यापि मूलम् ।
रघुपतिपदरक्षे ! त्वत्परिष्कारहेतोः
अपचितकुसुमानामाश्रमानोकहानाम्॥ 12.21

मूलम्

दिशि दिशि मुनिपत्न्यो दण्डकारण्यभागे
न जहति बहुमानान्नूनमद्यापि मूलम् ।
रघुपतिपदरक्षे ! त्वत्परिष्कारहेतोः
अपचितकुसुमानामाश्रमानोकहानाम्॥ 12.21

विश्वास-प्रस्तुतिः

घटयसि परिपूर्णान् कृष्णमेघप्रचारे
कृतिभिरुपहितैस्त्वं केतकीगर्भपात्रैः ।
वरतनुपरिणामात् वामतः श्यामळानां
प्रणतिसमयलग्नान् पादुके ! मौळिचन्द्रान्॥ 12.22

मूलम्

घटयसि परिपूर्णान् कृष्णमेघप्रचारे
कृतिभिरुपहितैस्त्वं केतकीगर्भपात्रैः ।
वरतनुपरिणामात् वामतः श्यामळानां
प्रणतिसमयलग्नान् पादुके ! मौळिचन्द्रान्॥ 12.22

विश्वास-प्रस्तुतिः

परिचरणनियुक्तैः पादुके ! रङ्गभर्तुः
पवनतनयमुख्यैरर्पितां त्वत्समीपे ।
विनतविधिमुखेभ्यो निर्विशेषां द्विरेफाः
कथमपि विभजन्ते काञ्चनीं पद्मपङ्क्तिम्॥ 12.23

मूलम्

परिचरणनियुक्तैः पादुके ! रङ्गभर्तुः
पवनतनयमुख्यैरर्पितां त्वत्समीपे ।
विनतविधिमुखेभ्यो निर्विशेषां द्विरेफाः
कथमपि विभजन्ते काञ्चनीं पद्मपङ्क्तिम्॥ 12.23

विश्वास-प्रस्तुतिः

विधिशिवपुरुहूतस्पर्शितैर्दिव्यपुष्पैः
त्वयि सह निपतन्तस्तत्तदुद्यानभृङ्गाः ।
मधुरिपुपदरक्षे ! मञ्जुभिः स्वैर्निनादैः
अविदितपरमार्थान् नूनमध्यापयन्ति॥ 12.24

मूलम्

विधिशिवपुरुहूतस्पर्शितैर्दिव्यपुष्पैः
त्वयि सह निपतन्तस्तत्तदुद्यानभृङ्गाः ।
मधुरिपुपदरक्षे ! मञ्जुभिः स्वैर्निनादैः
अविदितपरमार्थान् नूनमध्यापयन्ति॥ 12.24

विश्वास-प्रस्तुतिः

प्रशमयति जनानां सञ्ज्वरं रङ्गभर्तुः
परिसरचलितानां पादुके ! चामराणाम् ।
अनुदिनमुपयातैरुत्थितं दिव्यपुष्पैः
निगमपरिमळं ते निर्विशन् गन्धवाहः॥ 12.25

मूलम्

प्रशमयति जनानां सञ्ज्वरं रङ्गभर्तुः
परिसरचलितानां पादुके ! चामराणाम् ।
अनुदिनमुपयातैरुत्थितं दिव्यपुष्पैः
निगमपरिमळं ते निर्विशन् गन्धवाहः॥ 12.25

विश्वास-प्रस्तुतिः

अखिलभुवनरक्षानाटिकां दर्शयिष्यन्
अनिमिषतरुपुष्पैरर्चिते रङ्गमध्ये ।
अभिनयमनुरूपं शिक्षयत्यात्मना त्वां
प्रथमविहितलास्यः पादुके ! रङ्गनाथः॥ 12.26

मूलम्

अखिलभुवनरक्षानाटिकां दर्शयिष्यन्
अनिमिषतरुपुष्पैरर्चिते रङ्गमध्ये ।
अभिनयमनुरूपं शिक्षयत्यात्मना त्वां
प्रथमविहितलास्यः पादुके ! रङ्गनाथः॥ 12.26

विश्वास-प्रस्तुतिः

अगळितनिजरागां देवि ! विष्णोः पदं तत्
त्रिभुवनमहनीयां प्राप्य सन्ध्यामिव त्वाम् ।
भवति विबुधमुक्तैः स्पष्टतारानुषङ्गं
परिसरपतितैस्ते पारिजातप्रसूनैः॥ 12.27

मूलम्

अगळितनिजरागां देवि ! विष्णोः पदं तत्
त्रिभुवनमहनीयां प्राप्य सन्ध्यामिव त्वाम् ।
भवति विबुधमुक्तैः स्पष्टतारानुषङ्गं
परिसरपतितैस्ते पारिजातप्रसूनैः॥ 12.27

विश्वास-प्रस्तुतिः

व्यञ्जन्त्येते विभवमनघं रञ्जयन्तः श्रुतीर्नः
प्राध्वं रङ्गक्षितिपतिपदं पादुके ! धारयन्त्याः ।
नादैरन्तर्निहितनिगमैर्नन्दनोद्यानभृङ्गाः
दिव्यैः पुष्पैः स्नपितवपुषो देवि ! सौस्नातिकास्ते॥ 12.28

मूलम्

व्यञ्जन्त्येते विभवमनघं रञ्जयन्तः श्रुतीर्नः
प्राध्वं रङ्गक्षितिपतिपदं पादुके ! धारयन्त्याः ।
नादैरन्तर्निहितनिगमैर्नन्दनोद्यानभृङ्गाः
दिव्यैः पुष्पैः स्नपितवपुषो देवि ! सौस्नातिकास्ते॥ 12.28

विश्वास-प्रस्तुतिः

किं पुष्पैस्तुळसीदळैरपि कृतं दूर्वाऽपि दूरे स्थिता
त्वत्पूजासु मुकुन्दपादु ! कृपया त्वं कामधेनुः सताम् ।
प्रत्यग्राहृतदर्भपल्लवलवग्रासाभिलाषोन्मुखी
धेनुस्तिष्ठतु सा वसिष्ठभवनद्वारोपकण्ठस्थले॥ 12.29

मूलम्

किं पुष्पैस्तुळसीदळैरपि कृतं दूर्वाऽपि दूरे स्थिता
त्वत्पूजासु मुकुन्दपादु ! कृपया त्वं कामधेनुः सताम् ।
प्रत्यग्राहृतदर्भपल्लवलवग्रासाभिलाषोन्मुखी
धेनुस्तिष्ठतु सा वसिष्ठभवनद्वारोपकण्ठस्थले॥ 12.29

विश्वास-प्रस्तुतिः

चूडारग्वधरजसा चूर्णस्नपनं विधाय ते पूर्वम् ।
रङ्गेशपादुके ! त्वामभिषिञ्चति मौळिगङ्गया शम्भुः॥ 12.30

मूलम्

चूडारग्वधरजसा चूर्णस्नपनं विधाय ते पूर्वम् ।
रङ्गेशपादुके ! त्वामभिषिञ्चति मौळिगङ्गया शम्भुः॥ 12.30