11 सञ्चारपद्धतिः

विश्वास-प्रस्तुतिः

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ।
इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम्॥ 11.1

मूलम्

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ।
इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम्॥ 11.1

विश्वास-प्रस्तुतिः

शरदः शतमम्ब ! पादुके ! स्यां
समयाहूतपितामहस्तुतानि ।
मणिमण्टपिकासु रङ्गभर्तुः
त्वदधीनानि गतागतानि पश्यन्॥ 11.2

मूलम्

शरदः शतमम्ब ! पादुके ! स्यां
समयाहूतपितामहस्तुतानि ।
मणिमण्टपिकासु रङ्गभर्तुः
त्वदधीनानि गतागतानि पश्यन्॥ 11.2

विश्वास-प्रस्तुतिः

त्वदधीनपरिक्रमो मुकुन्दः
तदधीनस्तव पादुके ! विहारः ।
इतरेतरपारतन्त्र्यमित्थं
युवयोः सिद्धमनन्यतन्त्रभूम्नोः॥ 11.3

मूलम्

त्वदधीनपरिक्रमो मुकुन्दः
तदधीनस्तव पादुके ! विहारः ।
इतरेतरपारतन्त्र्यमित्थं
युवयोः सिद्धमनन्यतन्त्रभूम्नोः॥ 11.3

विश्वास-प्रस्तुतिः

रजसा तमसा च दुष्टसत्त्वे
गहने चेतसि मामके मुकुन्दः ।
उचितं मृगयाविहारमिच्छन्
भवतीमादृत पादुके ! पदाभ्याम्॥ 11.4

मूलम्

रजसा तमसा च दुष्टसत्त्वे
गहने चेतसि मामके मुकुन्दः ।
उचितं मृगयाविहारमिच्छन्
भवतीमादृत पादुके ! पदाभ्याम्॥ 11.4

विश्वास-प्रस्तुतिः

क्षमया जगतामपि त्रयाणाम्
अवने देवि ! पदावनि ! त्वयैव ।
अभिगम्यतमोऽपि संश्रितानाम्
अभिगन्ता भवति स्वयं मुकुन्दः ॥ 11.5

मूलम्

क्षमया जगतामपि त्रयाणाम्
अवने देवि ! पदावनि ! त्वयैव ।
अभिगम्यतमोऽपि संश्रितानाम्
अभिगन्ता भवति स्वयं मुकुन्दः ॥ 11.5

विश्वास-प्रस्तुतिः

शिरसा भवतीं दधाति कश्चित्
विधृतः कोऽपि पदस्पृशा भवत्या ।
उभयोर्मधुवैरिपादरक्षे !
त्वदधीनां गतिमामनन्ति सन्तः॥ 11.6

मूलम्

शिरसा भवतीं दधाति कश्चित्
विधृतः कोऽपि पदस्पृशा भवत्या ।
उभयोर्मधुवैरिपादरक्षे !
त्वदधीनां गतिमामनन्ति सन्तः॥ 11.6

विश्वास-प्रस्तुतिः

स्पृशतः शिरसा पदेन च त्वां
गतिमुद्दिश्य मुकुन्दपादुके ! द्वौ ।
अवरोहति पश्चिमः पदात् स्वात्
अधिरोहत्यनघस्तदेव पूर्वः॥ 11.7

मूलम्

स्पृशतः शिरसा पदेन च त्वां
गतिमुद्दिश्य मुकुन्दपादुके ! द्वौ ।
अवरोहति पश्चिमः पदात् स्वात्
अधिरोहत्यनघस्तदेव पूर्वः॥ 11.7

विश्वास-प्रस्तुतिः

समयेष्वपदिश्य जैत्रयात्रां
विविधान्तः पुरवागुराव्यतीतः ।
नियतं मणिपादुके ! भवत्या
रमते वर्त्मनि रङ्गसार्वभौमः॥ 11.8

मूलम्

समयेष्वपदिश्य जैत्रयात्रां
विविधान्तः पुरवागुराव्यतीतः ।
नियतं मणिपादुके ! भवत्या
रमते वर्त्मनि रङ्गसार्वभौमः॥ 11.8

विश्वास-प्रस्तुतिः

निजसंहननप्रसक्तलास्यं
चरति त्वामधिरुह्य रङ्गनाथः ।
पदरक्षिणि ! पावनत्वमास्तां
रसिकास्वादमतः परं न विद्मः ॥ 11.9

मूलम्

निजसंहननप्रसक्तलास्यं
चरति त्वामधिरुह्य रङ्गनाथः ।
पदरक्षिणि ! पावनत्वमास्तां
रसिकास्वादमतः परं न विद्मः ॥ 11.9

विश्वास-प्रस्तुतिः

पदयोरनयोः परस्य पुंसः
त्वदनुग्राह्यविहारपद्धतेर्वा ।
शिरसो मणिपादुके ! श्रुतीनां
मनसो वा मम भूषणं त्वमेका ॥ 11.10

मूलम्

पदयोरनयोः परस्य पुंसः
त्वदनुग्राह्यविहारपद्धतेर्वा ।
शिरसो मणिपादुके ! श्रुतीनां
मनसो वा मम भूषणं त्वमेका ॥ 11.10

विश्वास-प्रस्तुतिः

कृपया मधुवैरिपादरक्षे !
कठिने चेतसि मामके विहर्तुम् ।
मकुटेषु दिवौकसां विधत्ते
भवती रत्नविसंस्थुलेषु योग्याम् ॥ 11.11

मूलम्

कृपया मधुवैरिपादरक्षे !
कठिने चेतसि मामके विहर्तुम् ।
मकुटेषु दिवौकसां विधत्ते
भवती रत्नविसंस्थुलेषु योग्याम् ॥ 11.11

विश्वास-प्रस्तुतिः

चरणद्वयमर्भकस्य शौरेः
शरदम्भोरुहचातुरीधुरीणम् ।
शकटासुरताडनेऽपि गुप्तं
तव शक्त्या किल पादुके ! तदासीत्॥ 11.12

मूलम्

चरणद्वयमर्भकस्य शौरेः
शरदम्भोरुहचातुरीधुरीणम् ।
शकटासुरताडनेऽपि गुप्तं
तव शक्त्या किल पादुके ! तदासीत्॥ 11.12

विश्वास-प्रस्तुतिः

उत्तस्थुषो रङ्गशयस्य शेषात्
आस्थानसिंहासनमारुरुक्षोः ।
मध्येनिशान्तं मणिपादुके ! त्वां
लीलापदन्याससखीं प्रपद्ये ॥ 11.13

मूलम्

उत्तस्थुषो रङ्गशयस्य शेषात्
आस्थानसिंहासनमारुरुक्षोः ।
मध्येनिशान्तं मणिपादुके ! त्वां
लीलापदन्याससखीं प्रपद्ये ॥ 11.13

विश्वास-प्रस्तुतिः

प्राप्ताधिकाराः पतयः प्रजानाम्
उत्तंसितामुत्तमपादुके ! त्वाम् ।
रङ्गेशितुः स्वैरविहारकाले
संयोजयन्त्यङ्घ्रिसरोजयुग्मे ॥ 11.14

मूलम्

प्राप्ताधिकाराः पतयः प्रजानाम्
उत्तंसितामुत्तमपादुके ! त्वाम् ।
रङ्गेशितुः स्वैरविहारकाले
संयोजयन्त्यङ्घ्रिसरोजयुग्मे ॥ 11.14

विश्वास-प्रस्तुतिः

त्वयाऽनुबद्धां मणिपादरक्षे
लीलागतिं रङ्गशयस्य पुंसः ।
निशामयन्तो न पुनर्भजन्ते
संसारकान्तारगतागतानि ॥ 11.15

मूलम्

त्वयाऽनुबद्धां मणिपादरक्षे
लीलागतिं रङ्गशयस्य पुंसः ।
निशामयन्तो न पुनर्भजन्ते
संसारकान्तारगतागतानि ॥ 11.15

विश्वास-प्रस्तुतिः

व्यूहानुपूर्वीरुचिरान् विहारान्
पदक्रमेण प्रतिपद्यमाना ।
बिभर्षि नित्यम् मणिपादुके ! त्वं
मुरद्विषो मूर्तिरिव त्रिलोकीम्॥ 11.16

मूलम्

व्यूहानुपूर्वीरुचिरान् विहारान्
पदक्रमेण प्रतिपद्यमाना ।
बिभर्षि नित्यम् मणिपादुके ! त्वं
मुरद्विषो मूर्तिरिव त्रिलोकीम्॥ 11.16

विश्वास-प्रस्तुतिः

पदेषु मन्देषु महत्स्वपि त्वं
नीरन्ध्रसंश्लेषवती मुरारेः ।
प्रत्यायनार्थं किल पादुके ! नः
स्वाभाविकं दर्शयसि प्रभावम् ॥ 11.17

मूलम्

पदेषु मन्देषु महत्स्वपि त्वं
नीरन्ध्रसंश्लेषवती मुरारेः ।
प्रत्यायनार्थं किल पादुके ! नः
स्वाभाविकं दर्शयसि प्रभावम् ॥ 11.17

विश्वास-प्रस्तुतिः

कृपाविशेषात् क्षमया समेतां
प्रवर्तमानां जगतो विभूत्यै ।
अवैमि नित्यं मणिपादुके ! त्वाम्
आकस्मिकीं रङ्गपतेः प्रसत्तिम्॥ 11.18

मूलम्

कृपाविशेषात् क्षमया समेतां
प्रवर्तमानां जगतो विभूत्यै ।
अवैमि नित्यं मणिपादुके ! त्वाम्
आकस्मिकीं रङ्गपतेः प्रसत्तिम्॥ 11.18

विश्वास-प्रस्तुतिः

उपागतानामुपतापशान्त्यै
सुखावगाहां गतिमुद्वहन्तीम् ।
पश्यन्ति शौरेः पदवाहिनीं त्वां
निम्नेषु तुङ्गेषु च निर्विशेषाम्॥ 11.19

मूलम्

उपागतानामुपतापशान्त्यै
सुखावगाहां गतिमुद्वहन्तीम् ।
पश्यन्ति शौरेः पदवाहिनीं त्वां
निम्नेषु तुङ्गेषु च निर्विशेषाम्॥ 11.19

विश्वास-प्रस्तुतिः

सह प्रयाता सततं प्रयाणे
प्राप्तासने संश्रितपादपीठा ।
अलङ्घनीया सहजेन भूम्ना
छायेव शौरेर्मणिपादुके ! त्वम् ॥ 11.20

मूलम्

सह प्रयाता सततं प्रयाणे
प्राप्तासने संश्रितपादपीठा ।
अलङ्घनीया सहजेन भूम्ना
छायेव शौरेर्मणिपादुके ! त्वम् ॥ 11.20

विश्वास-प्रस्तुतिः

पदस्पृशा रङ्गपतिर्भवत्या
विचक्रमे विश्वमिदं क्षणेन ।
तदस्य मन्ये मणिपादरक्षे !
त्वयैव विख्यातमुरुक्रमत्वम्॥ 11.21

मूलम्

पदस्पृशा रङ्गपतिर्भवत्या
विचक्रमे विश्वमिदं क्षणेन ।
तदस्य मन्ये मणिपादरक्षे !
त्वयैव विख्यातमुरुक्रमत्वम्॥ 11.21

विश्वास-प्रस्तुतिः

सञ्चारयन्ती पदमन्वतिष्ठः
सहायकृत्यं मणिपादरक्षे! ।
मातस्त्वमेका मनुवंशगोप्तुः
गोपायतो गौतमधर्मदारान् ॥ 11.22

मूलम्

सञ्चारयन्ती पदमन्वतिष्ठः
सहायकृत्यं मणिपादरक्षे! ।
मातस्त्वमेका मनुवंशगोप्तुः
गोपायतो गौतमधर्मदारान् ॥ 11.22

विश्वास-प्रस्तुतिः

त्वत्तस्त्रिविष्टपचरानसपत्नयिष्यन्
आरुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन ।
शुद्धान्तभूमिषु पुनर्मणिपादरक्षे !
विश्राम्यति त्वयि विहारवशेन शौरिः॥ 11.23

मूलम्

त्वत्तस्त्रिविष्टपचरानसपत्नयिष्यन्
आरुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन ।
शुद्धान्तभूमिषु पुनर्मणिपादरक्षे !
विश्राम्यति त्वयि विहारवशेन शौरिः॥ 11.23

विश्वास-प्रस्तुतिः

विक्रम्य भूमिमखिलां बलिना प्रदिष्टां
देवे पदावनि ! दिवं परिमातुकामे ।
आसीदतो दिनकरस्य करोपतापात्
संरक्षितुं पदसरोजमुपर्यभूस्त्वम् ॥ 11.24

मूलम्

विक्रम्य भूमिमखिलां बलिना प्रदिष्टां
देवे पदावनि ! दिवं परिमातुकामे ।
आसीदतो दिनकरस्य करोपतापात्
संरक्षितुं पदसरोजमुपर्यभूस्त्वम् ॥ 11.24

विश्वास-प्रस्तुतिः

त्वत्सङ्गमान्ननु सकृद्विधिसंप्रयुक्ता
शुद्धिं परामधिजगाम शिवत्वहेतुम् ।
रङ्गाधिराजपदरक्षिणि ! कीदृशी सा
गङ्गा बभूव भवदीयगतागतेन ॥ 11.25

मूलम्

त्वत्सङ्गमान्ननु सकृद्विधिसंप्रयुक्ता
शुद्धिं परामधिजगाम शिवत्वहेतुम् ।
रङ्गाधिराजपदरक्षिणि ! कीदृशी सा
गङ्गा बभूव भवदीयगतागतेन ॥ 11.25

विश्वास-प्रस्तुतिः

वृद्धिं गवां जनयितुं भजता विहारान्
कृष्णेन रङ्गरसिकेन कृताश्रयायाः ।
सञ्चारतस्तव तदा मणिपादरक्षे !
बृन्दावनं सपदि नन्दनतुल्यमासीत्॥ 11.26

मूलम्

वृद्धिं गवां जनयितुं भजता विहारान्
कृष्णेन रङ्गरसिकेन कृताश्रयायाः ।
सञ्चारतस्तव तदा मणिपादरक्षे !
बृन्दावनं सपदि नन्दनतुल्यमासीत्॥ 11.26

विश्वास-प्रस्तुतिः

मातः ! त्रयीमयतया चरणप्रमाणे
द्वे विक्रमेषु विविधेषु सहायभूते ।
नाथस्य साधुपरिरक्षणकर्मणि त्वं
दुष्कृद्विनाशनदशासु विहङ्गराजः॥ 11.27

मूलम्

मातः ! त्रयीमयतया चरणप्रमाणे
द्वे विक्रमेषु विविधेषु सहायभूते ।
नाथस्य साधुपरिरक्षणकर्मणि त्वं
दुष्कृद्विनाशनदशासु विहङ्गराजः॥ 11.27

विश्वास-प्रस्तुतिः

पादावनि ! क्वचन विक्रमणे भुजानां
पञ्चायुधी कररुहैर्भजते विकल्पम् ।
नित्यम् त्वमेव नियता पदयोर्मुरारेः
तेनासि नूनमविकल्पसमाधियोग्या॥ 11.28

मूलम्

पादावनि ! क्वचन विक्रमणे भुजानां
पञ्चायुधी कररुहैर्भजते विकल्पम् ।
नित्यम् त्वमेव नियता पदयोर्मुरारेः
तेनासि नूनमविकल्पसमाधियोग्या॥ 11.28

विश्वास-प्रस्तुतिः

अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्तिः
मातस्त्वया निरवधिर्निधिरप्रमेयः ।
रथ्यान्तरेषु चरणावनि ! रङ्गसङ्गी
वात्सल्यनिघ्नमनसा जनसात्कृतोऽसौ॥ 11.29

मूलम्

अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्तिः
मातस्त्वया निरवधिर्निधिरप्रमेयः ।
रथ्यान्तरेषु चरणावनि ! रङ्गसङ्गी
वात्सल्यनिघ्नमनसा जनसात्कृतोऽसौ॥ 11.29

विश्वास-प्रस्तुतिः

संपद्यते समुचितं क्रममाश्रयन्त्या
सद्वर्त्मना भगवतोऽपि गतिर्भवत्या ।
ईष्टे पदावनि ! पुनः क इवेतरेषां
व्यावर्तनस्य विषमादपथप्रचारात् ॥ 11.30

मूलम्

संपद्यते समुचितं क्रममाश्रयन्त्या
सद्वर्त्मना भगवतोऽपि गतिर्भवत्या ।
ईष्टे पदावनि ! पुनः क इवेतरेषां
व्यावर्तनस्य विषमादपथप्रचारात् ॥ 11.30

विश्वास-प्रस्तुतिः

रङ्गेश्वरेण सह लास्यविशेषभाजो
लीलोचितेषु तव रत्नशिलातलेषु ।
मध्ये स्थितानि कतिचिन्मणिपादरक्षे !
सभ्यान् विशेषमनुयोक्तुमिति प्रतीमः॥ 11.31

मूलम्

रङ्गेश्वरेण सह लास्यविशेषभाजो
लीलोचितेषु तव रत्नशिलातलेषु ।
मध्ये स्थितानि कतिचिन्मणिपादरक्षे !
सभ्यान् विशेषमनुयोक्तुमिति प्रतीमः॥ 11.31

विश्वास-प्रस्तुतिः

नित्यं पदावनि ! निवेश्य पदं भवत्यां
निष्पन्दकल्पपरिमेयपरिच्छदानि ।
शृङ्गारशीतळतराणि भवन्ति काले
रङ्गेश्वरस्य ललितानि गतागतानि॥ 11.32

मूलम्

नित्यं पदावनि ! निवेश्य पदं भवत्यां
निष्पन्दकल्पपरिमेयपरिच्छदानि ।
शृङ्गारशीतळतराणि भवन्ति काले
रङ्गेश्वरस्य ललितानि गतागतानि॥ 11.32

विश्वास-प्रस्तुतिः

भोगार्चनानि कृतिभिः परिकल्पितानि
प्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः ।
पश्यत्सु नित्यमितरेषु परिच्छदेषु
प्रत्यासनं भजति काञ्चनपादुके ! त्वाम्॥ 11.33

मूलम्

भोगार्चनानि कृतिभिः परिकल्पितानि
प्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः ।
पश्यत्सु नित्यमितरेषु परिच्छदेषु
प्रत्यासनं भजति काञ्चनपादुके ! त्वाम्॥ 11.33

विश्वास-प्रस्तुतिः

अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गैः
आविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा ।
न्यस्यन्ति रङ्गरसिकस्य विहारकाले
वारक्रमेण कृतिनो मणिपादुके ! त्वाम्॥ 11.34

मूलम्

अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गैः
आविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा ।
न्यस्यन्ति रङ्गरसिकस्य विहारकाले
वारक्रमेण कृतिनो मणिपादुके ! त्वाम्॥ 11.34

विश्वास-प्रस्तुतिः

रङ्गेश्वरे समधिरूढविहङ्गराजे
मातङ्गराजविधृतां मणिपादुके ! त्वाम् ।
अन्वासते विधृतचारुसितातपत्राः
स्वर्गौकसः सुभगचामरलोलहस्ताः॥ 11.35

मूलम्

रङ्गेश्वरे समधिरूढविहङ्गराजे
मातङ्गराजविधृतां मणिपादुके ! त्वाम् ।
अन्वासते विधृतचारुसितातपत्राः
स्वर्गौकसः सुभगचामरलोलहस्ताः॥ 11.35

विश्वास-प्रस्तुतिः

विष्णोः पदं गतिवशादपरित्यजन्तीं
लोकेषु नित्यविषमेषु समप्रचाराम् ।
अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रैः
गङ्गा कथं नु गरुडध्वजपादुके ! त्वाम्॥ 11.36

मूलम्

विष्णोः पदं गतिवशादपरित्यजन्तीं
लोकेषु नित्यविषमेषु समप्रचाराम् ।
अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रैः
गङ्गा कथं नु गरुडध्वजपादुके ! त्वाम्॥ 11.36

विश्वास-प्रस्तुतिः

भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातुः
गुप्त्यै गवां विहरतो वहतश्च दूत्यम् ।
तत्तादृशानि चरणावनि ! रङ्गभर्तुः
त्वत्सङ्गमेन सुभगानि विचेष्टितानि॥ 11.37

मूलम्

भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातुः
गुप्त्यै गवां विहरतो वहतश्च दूत्यम् ।
तत्तादृशानि चरणावनि ! रङ्गभर्तुः
त्वत्सङ्गमेन सुभगानि विचेष्टितानि॥ 11.37

विश्वास-प्रस्तुतिः

निर्व्यज्यमाननवताळलयप्रथिम्ना
निर्यन्त्रणेन निजसञ्चरणक्रमेण ।
मृद्नासि रङ्गनृपतेर्मणिपादुके ! त्वं
दुःखात्मकान् प्रणमतां दुरितप्ररोहान् ॥ 11.38

मूलम्

निर्व्यज्यमाननवताळलयप्रथिम्ना
निर्यन्त्रणेन निजसञ्चरणक्रमेण ।
मृद्नासि रङ्गनृपतेर्मणिपादुके ! त्वं
दुःखात्मकान् प्रणमतां दुरितप्ररोहान् ॥ 11.38

विश्वास-प्रस्तुतिः

नित्यं य एव जगतो मणिपादरक्षे !
सत्तास्थितिप्रयतनेषु परं निदानम् ।
सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिः
का वा कथा तदितरेषु मितम्पचेषु॥ 11.39

मूलम्

नित्यं य एव जगतो मणिपादरक्षे !
सत्तास्थितिप्रयतनेषु परं निदानम् ।
सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिः
का वा कथा तदितरेषु मितम्पचेषु॥ 11.39

विश्वास-प्रस्तुतिः

निर्विष्टनागशयनेन परेण पुंसा
न्यस्ते पदे त्वयि पदावनि ! लोकहेतोः ।
स्वर्गौकसां त्वदनुधावनतत्पराणां
सद्यः पदानि विपदामपदं भवन्ति॥ 11.40

मूलम्

निर्विष्टनागशयनेन परेण पुंसा
न्यस्ते पदे त्वयि पदावनि ! लोकहेतोः ।
स्वर्गौकसां त्वदनुधावनतत्पराणां
सद्यः पदानि विपदामपदं भवन्ति॥ 11.40

विश्वास-प्रस्तुतिः

शरदुपगमकाले सन्त्यजन् योगनिद्रां
शरणमुपगतानां त्राणहेतोः प्रयास्यन् ।
जलधिदुहितुरङ्कान्मन्दमादाय देवि !
त्वयि खलु निदधाति स्वं पदं रङ्गनाथः॥ 11.41

मूलम्

शरदुपगमकाले सन्त्यजन् योगनिद्रां
शरणमुपगतानां त्राणहेतोः प्रयास्यन् ।
जलधिदुहितुरङ्कान्मन्दमादाय देवि !
त्वयि खलु निदधाति स्वं पदं रङ्गनाथः॥ 11.41

विश्वास-प्रस्तुतिः

स्पृशसि पदसरोजं पादुके ! निर्विघातं
प्रविशसि च समस्तां देवि ! शुद्धान्तकक्ष्याम् ।
अपरमपि मुरारेः पूर्वमाभीरकन्या-
स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम्॥ 11.42

मूलम्

स्पृशसि पदसरोजं पादुके ! निर्विघातं
प्रविशसि च समस्तां देवि ! शुद्धान्तकक्ष्याम् ।
अपरमपि मुरारेः पूर्वमाभीरकन्या-
स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम्॥ 11.42

विश्वास-प्रस्तुतिः

प्रतिभवनमनन्ये पादुके ! त्वत्प्रभावात्
विविधवपुषि देवे विभ्रमद्यूतकाले ।
अभिलषितसपत्नीगेहयात्राविघातं
ग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम्॥ 11.43

मूलम्

प्रतिभवनमनन्ये पादुके ! त्वत्प्रभावात्
विविधवपुषि देवे विभ्रमद्यूतकाले ।
अभिलषितसपत्नीगेहयात्राविघातं
ग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम्॥ 11.43

विश्वास-प्रस्तुतिः

तटभुवि यमुनायाश्छन्नवृत्तौ मुकुन्दे
मुहुरधिगमहेतोर्मुह्यतां यौवतानाम् ।
शमयितुमलमासीच्छङ्खचक्रादिचिह्ना
प्रतिपदविचिकित्सां पादुके ! पद्धतिस्ते॥ 11.44

मूलम्

तटभुवि यमुनायाश्छन्नवृत्तौ मुकुन्दे
मुहुरधिगमहेतोर्मुह्यतां यौवतानाम् ।
शमयितुमलमासीच्छङ्खचक्रादिचिह्ना
प्रतिपदविचिकित्सां पादुके ! पद्धतिस्ते॥ 11.44

विश्वास-प्रस्तुतिः

अधिगतबहुशाखान् मञ्जुवाचः शुकादीन्
सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् ।
प्रकटितगुणजालं पादुके ! रङ्गबन्धोः
उपनिषदटवीषु क्रीडितं त्वत्सनाथम्॥ 11.45

मूलम्

अधिगतबहुशाखान् मञ्जुवाचः शुकादीन्
सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् ।
प्रकटितगुणजालं पादुके ! रङ्गबन्धोः
उपनिषदटवीषु क्रीडितं त्वत्सनाथम्॥ 11.45

विश्वास-प्रस्तुतिः

मुनिपरिषदि गीतं गौतमीरक्षणं ते
मुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः ।
उषसि निजकुलायादुत्थिता दण्डकेषु
स्वयमपि पदरक्षे ! स्वैरमाम्रेडयन्ति॥ 11.46

मूलम्

मुनिपरिषदि गीतं गौतमीरक्षणं ते
मुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः ।
उषसि निजकुलायादुत्थिता दण्डकेषु
स्वयमपि पदरक्षे ! स्वैरमाम्रेडयन्ति॥ 11.46

विश्वास-प्रस्तुतिः

यमनियमविशुद्धैर्यं न पश्यन्ति चित्तैः
श्रुतिषु चुळकमात्रं दृश्यते यस्य भूमा ।
सुलभनिखिलभावं मांसदृष्टेर्जनस्य
स्वयमुपहरसि त्वं पादुके ! तं पुमांसम्॥ 11.47

मूलम्

यमनियमविशुद्धैर्यं न पश्यन्ति चित्तैः
श्रुतिषु चुळकमात्रं दृश्यते यस्य भूमा ।
सुलभनिखिलभावं मांसदृष्टेर्जनस्य
स्वयमुपहरसि त्वं पादुके ! तं पुमांसम्॥ 11.47

विश्वास-प्रस्तुतिः

निधिमिव निरपायं त्वामनादृत्य मोहात्
अहमिह मम दोषं भावयन् क्षुद्रमर्थम् ।
मयि सति करुणायाः पूर्णपात्रे त्वया किं
परमुपगमनीयः पादुके ! रङ्गनाथः॥ 11.48

मूलम्

निधिमिव निरपायं त्वामनादृत्य मोहात्
अहमिह मम दोषं भावयन् क्षुद्रमर्थम् ।
मयि सति करुणायाः पूर्णपात्रे त्वया किं
परमुपगमनीयः पादुके ! रङ्गनाथः॥ 11.48

विश्वास-प्रस्तुतिः

कमपि कनकसिन्धोः सैकते सञ्चरन्तं
कलशजलधिकन्यामेदिनीदत्तहस्तम् ।
अनिशमनुभवेयं पादुके ! त्वय्यधीनं
सुचरितपरिपाकं सूरिभिः सेवनीयम्॥ 11.49

मूलम्

कमपि कनकसिन्धोः सैकते सञ्चरन्तं
कलशजलधिकन्यामेदिनीदत्तहस्तम् ।
अनिशमनुभवेयं पादुके ! त्वय्यधीनं
सुचरितपरिपाकं सूरिभिः सेवनीयम्॥ 11.49

विश्वास-प्रस्तुतिः

परिसरमुपयाता पादुके ! पश्य मातः
करणविलयखेदात् कान्दिशीके विवेके ।
पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रे
पुनरुदरनिवासक्लेशविच्छेदनं नः॥ 11.50

मूलम्

परिसरमुपयाता पादुके ! पश्य मातः
करणविलयखेदात् कान्दिशीके विवेके ।
पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रे
पुनरुदरनिवासक्लेशविच्छेदनं नः॥ 11.50

विश्वास-प्रस्तुतिः

सा मे भूयात् सपदि भवती पादुके ! तापशान्त्यै
यामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः ।
सौदामन्या सह कमलया सह्यजावृद्धिहेतुः
काले काले चरति करुणावर्षुकः कृष्णमेघः॥ 11.51

मूलम्

सा मे भूयात् सपदि भवती पादुके ! तापशान्त्यै
यामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः ।
सौदामन्या सह कमलया सह्यजावृद्धिहेतुः
काले काले चरति करुणावर्षुकः कृष्णमेघः॥ 11.51

विश्वास-प्रस्तुतिः

सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणां
शङ्के मातः ! समधिकगुणं सैकतं सह्यजायाः ।
पूर्वं पूर्वं चिरपरिचितं पादुके ! यत् त्यजन्त्या
नीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ॥ 11.52

मूलम्

सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणां
शङ्के मातः ! समधिकगुणं सैकतं सह्यजायाः ।
पूर्वं पूर्वं चिरपरिचितं पादुके ! यत् त्यजन्त्या
नीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ॥ 11.52

विश्वास-प्रस्तुतिः

अग्रे देवि ! त्वयि सुमनसामग्रिमैरन्तरङ्गैः
विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् ।
दत्ते पादं दरमुकुळितं त्वत्प्रभावातिशङ्की
देवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः॥ 11.53

मूलम्

अग्रे देवि ! त्वयि सुमनसामग्रिमैरन्तरङ्गैः
विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् ।
दत्ते पादं दरमुकुळितं त्वत्प्रभावातिशङ्की
देवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः॥ 11.53

विश्वास-प्रस्तुतिः

पौरोदन्तान् परिकलयितुं पादुके ! सञ्चरिष्णोः
व्यक्ताव्यक्ता वशिकविशिखावर्तिनी रङ्गभर्तुः ।
वेलातीतश्रुतिपरिमळैर्व्यक्तिमभ्येति काल्ये
विन्यासैस्ते विबुधपरिषन्मौळिविन्यासदृश्यैः॥ 11.54

मूलम्

पौरोदन्तान् परिकलयितुं पादुके ! सञ्चरिष्णोः
व्यक्ताव्यक्ता वशिकविशिखावर्तिनी रङ्गभर्तुः ।
वेलातीतश्रुतिपरिमळैर्व्यक्तिमभ्येति काल्ये
विन्यासैस्ते विबुधपरिषन्मौळिविन्यासदृश्यैः॥ 11.54

विश्वास-प्रस्तुतिः

आसंस्कारात् द्विजपरिषदा नित्यमभ्यस्यमाना
श्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना ।
रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रं
गायत्रीव त्रिचतुरपदा गण्यसे पादुके ! त्वम्॥ 11.55

मूलम्

आसंस्कारात् द्विजपरिषदा नित्यमभ्यस्यमाना
श्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना ।
रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रं
गायत्रीव त्रिचतुरपदा गण्यसे पादुके ! त्वम्॥ 11.55

विश्वास-प्रस्तुतिः

भवतीं परस्य पुरुषस्य रङ्गिणो
महिमानमेव मणिपादु ! मन्महे ।
कथमन्यथा स्वमहिमप्रतिष्ठितः
प्रतितिष्ठति त्वयि पदात्पदं प्रभुः॥ 11.56

मूलम्

भवतीं परस्य पुरुषस्य रङ्गिणो
महिमानमेव मणिपादु ! मन्महे ।
कथमन्यथा स्वमहिमप्रतिष्ठितः
प्रतितिष्ठति त्वयि पदात्पदं प्रभुः॥ 11.56

विश्वास-प्रस्तुतिः

तिथिरष्टमी यदवतारवैभवात्
प्रथमा तिथिस्त्रिजगतामजायत ।
मणिपादुके ! तमुपनीय वीथिका-
स्वतिथीकरोषि तदनन्यचक्षुषाम्॥ 11.57

मूलम्

तिथिरष्टमी यदवतारवैभवात्
प्रथमा तिथिस्त्रिजगतामजायत ।
मणिपादुके ! तमुपनीय वीथिका-
स्वतिथीकरोषि तदनन्यचक्षुषाम्॥ 11.57

विश्वास-प्रस्तुतिः

अपारप्रख्यातेरशरणशरण्यत्वयशसा
ननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् ।
यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर-
प्रतोळीपर्यन्ते निधिरनघवाचां निरवधिः॥ 11.58

मूलम्

अपारप्रख्यातेरशरणशरण्यत्वयशसा
ननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् ।
यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर-
प्रतोळीपर्यन्ते निधिरनघवाचां निरवधिः॥ 11.58

विश्वास-प्रस्तुतिः

तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गशृङ्गारिणो
वाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके ! ।
लीलापङ्कजहल्लकोत्पलगळन्माध्वीकसेकोत्थिता
यत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम्॥ 11.59

मूलम्

तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गशृङ्गारिणो
वाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके ! ।
लीलापङ्कजहल्लकोत्पलगळन्माध्वीकसेकोत्थिता
यत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम्॥ 11.59

विश्वास-प्रस्तुतिः

सम्भवतु पादरक्षे! सत्यसुपर्णादिरौपवाह्यगणः ।
यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती ॥ 11.60

मूलम्

सम्भवतु पादरक्षे! सत्यसुपर्णादिरौपवाह्यगणः ।
यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती ॥ 11.60