विश्वास-प्रस्तुतिः
शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः॥ 10.1
मूलम्
शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः॥ 10.1
विश्वास-प्रस्तुतिः
प्रणतत्रिदशेन्द्रमौळिमाला मकरन्दार्द्रपरागपङ्किलेन ।
अनुलिम्पति पादुके! स्वयं त्वाम् अनुरूपेण पदेन रङ्गनाथः ॥ 10.2
मूलम्
प्रणतत्रिदशेन्द्रमौळिमाला मकरन्दार्द्रपरागपङ्किलेन ।
अनुलिम्पति पादुके! स्वयं त्वाम् अनुरूपेण पदेन रङ्गनाथः ॥ 10.2
विश्वास-प्रस्तुतिः
अवदातहिमांशुकानुषक्तं पदरक्षे! त्वयि रङ्गिणः कदाचित् ।
किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि ॥ 10.3
मूलम्
अवदातहिमांशुकानुषक्तं पदरक्षे! त्वयि रङ्गिणः कदाचित् ।
किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि ॥ 10.3
विश्वास-प्रस्तुतिः
असहायगृहीतरङ्गनाथां अवरोधाङ्गणसीम्नि पादुके! त्वाम् ।
सुदृशः स्वयम् अर्चयन्ति दूरात् अवतंसोत्पलवासितैरपाङ्गैः ॥ 10.4
मूलम्
असहायगृहीतरङ्गनाथां अवरोधाङ्गणसीम्नि पादुके! त्वाम् ।
सुदृशः स्वयम् अर्चयन्ति दूरात् अवतंसोत्पलवासितैरपाङ्गैः ॥ 10.4
विश्वास-प्रस्तुतिः
निर्विश्यमानमपि नूतनसन्निवेशं
कैवल्यकल्पितविभूषणकायकान्तिम् ।
कालेषु निर्विशसि रङ्गयुवानम् एका
शृङ्गारनित्यरसिकं मणिपादरक्षे !॥ 10.5
मूलम्
निर्विश्यमानमपि नूतनसन्निवेशं
कैवल्यकल्पितविभूषणकायकान्तिम् ।
कालेषु निर्विशसि रङ्गयुवानम् एका
शृङ्गारनित्यरसिकं मणिपादरक्षे !॥ 10.5
विश्वास-प्रस्तुतिः
निद्रायितस्य कमितुर्मणिपादुके! त्वं
पर्यङ्किकापरिसरं प्रतिपद्यमाना ।
श्वासानिलप्रचलितेन भजस्यभीक्ष्णं
नाभीसरोजरजसा नवमङ्गरागम् ॥ 10.6
मूलम्
निद्रायितस्य कमितुर्मणिपादुके! त्वं
पर्यङ्किकापरिसरं प्रतिपद्यमाना ।
श्वासानिलप्रचलितेन भजस्यभीक्ष्णं
नाभीसरोजरजसा नवमङ्गरागम् ॥ 10.6
विश्वास-प्रस्तुतिः
शयितवति रजन्यां पादुके ! रङ्गबन्धौ
चरणकमलपार्श्वे सादरं वर्तसे त्वम् ।
फणिपतिशयनीयादुत्थितस्य प्रभाते
प्रथमनयनपातं पावनं प्राप्तुकामा॥ 10.7
मूलम्
शयितवति रजन्यां पादुके ! रङ्गबन्धौ
चरणकमलपार्श्वे सादरं वर्तसे त्वम् ।
फणिपतिशयनीयादुत्थितस्य प्रभाते
प्रथमनयनपातं पावनं प्राप्तुकामा॥ 10.7
विश्वास-प्रस्तुतिः
चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं
निगमपरिमळं त्वं पादुके ! निर्वमन्ती ।
नियतमतिशयाना वर्तसे सावरोधं
हृदयमधिवसन्तीं मालिकां वैजयन्तीम्॥ 10.8
मूलम्
चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं
निगमपरिमळं त्वं पादुके ! निर्वमन्ती ।
नियतमतिशयाना वर्तसे सावरोधं
हृदयमधिवसन्तीं मालिकां वैजयन्तीम्॥ 10.8
विश्वास-प्रस्तुतिः
उपनिषदबलाभिर्नित्यमुत्तंसनीयं
किमपि जलधिकन्याहस्तसंवाहनार्हम् ।
तव तु चरणरक्षे! देवि लीलारविन्दं
चरणसरसिजं तच्चारु चाणूरहन्तुः ॥ 10.9
मूलम्
उपनिषदबलाभिर्नित्यमुत्तंसनीयं
किमपि जलधिकन्याहस्तसंवाहनार्हम् ।
तव तु चरणरक्षे! देवि लीलारविन्दं
चरणसरसिजं तच्चारु चाणूरहन्तुः ॥ 10.9
विश्वास-प्रस्तुतिः
अखिलान्तःपुरवारेष्वनेकवारं पदावनि! स्वैरम् ।
अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥ 10.10
मूलम्
अखिलान्तःपुरवारेष्वनेकवारं पदावनि! स्वैरम् ।
अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥ 10.10