09 वैताळिकपद्धतिः

विश्वास-प्रस्तुतिः

नमस्ते पादुके ! पुंसां संसारार्णवसेतवे ।
यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम् ॥ 9.1

मूलम्

नमस्ते पादुके ! पुंसां संसारार्णवसेतवे ।
यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम् ॥ 9.1

विश्वास-प्रस्तुतिः

उचितमुपचरिष्यन् रङ्गनाथ ! प्रभाते
विधिशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् ।
चरणकमलसेवासौख्यसाम्राज्यभाजां
प्रथमविहितभागां पादुकाम् आद्रियेथाः॥ 9.2

मूलम्

उचितमुपचरिष्यन् रङ्गनाथ ! प्रभाते
विधिशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् ।
चरणकमलसेवासौख्यसाम्राज्यभाजां
प्रथमविहितभागां पादुकाम् आद्रियेथाः॥ 9.2

विश्वास-प्रस्तुतिः

पद्माजुष्टं भजतु चरणं पादुका लब्धवारा
प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः ।
अर्धोन्मेषादधिकसुभगाम् अर्धनिद्रानुषङ्गां
नाभीपद्मे तव नयनयोर्नाथ ! पश्यन्तु शोभाम्॥ 9.3

मूलम्

पद्माजुष्टं भजतु चरणं पादुका लब्धवारा
प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः ।
अर्धोन्मेषादधिकसुभगाम् अर्धनिद्रानुषङ्गां
नाभीपद्मे तव नयनयोर्नाथ ! पश्यन्तु शोभाम्॥ 9.3

विश्वास-प्रस्तुतिः

उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं
तदिह चरणरक्षा रङ्गनाथ त्वयैषा ।
मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वैः
उपदिशतु जनानाम् उत्सवारम्भवार्ताम्॥ 9.4

मूलम्

उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं
तदिह चरणरक्षा रङ्गनाथ त्वयैषा ।
मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वैः
उपदिशतु जनानाम् उत्सवारम्भवार्ताम्॥ 9.4

विश्वास-प्रस्तुतिः

रङ्गाधीश ! मरुद्गणस्य मकुटादाम्नायबृन्दस्य वा
प्रत्यानीय समर्पिता विधिमुखैर्वारक्रमादागतैः ।
वाहारोहणसंभृतं श्रमभरं सम्यग्विनेतुं क्षमा
लीलासञ्चरणप्रिया स्पृशतु ते पादाम्बुजं पादुका ॥ 9.5

वृत्तं क्रमेण बहुधा नियुतं विधीनाम्
अर्धं द्वितीयमिदम् अङ्कुरितं तवाह्नः ।
नीलासखीभिरुपनीय निवेश्यमाना
मङ्क्तुं प्रभो ! त्वरयते मणिपादुका त्वाम्॥ 9.6

मूलम्

वृत्तं क्रमेण बहुधा नियुतं विधीनाम्
अर्धं द्वितीयमिदम् अङ्कुरितं तवाह्नः ।
नीलासखीभिरुपनीय निवेश्यमाना
मङ्क्तुं प्रभो ! त्वरयते मणिपादुका त्वाम्॥ 9.6

विश्वास-प्रस्तुतिः

दिव्याप्सरोभिरुपदर्शितदीपवर्गे
रङ्गाधिराज ! सुभगे रजनीमुखेऽस्मिन् ।
संरक्षिणी चरणयोः सविलासवृत्तिः
नीराजनासनमसौ नयतु स्वयं त्वाम् ॥ 9.7

मूलम्

दिव्याप्सरोभिरुपदर्शितदीपवर्गे
रङ्गाधिराज ! सुभगे रजनीमुखेऽस्मिन् ।
संरक्षिणी चरणयोः सविलासवृत्तिः
नीराजनासनमसौ नयतु स्वयं त्वाम् ॥ 9.7

विश्वास-प्रस्तुतिः

आसनादुचितम् आसनान्तरं
रङ्गनाथ ! यदि गन्तुमीहसे ।
सन्नतेन विधिना समर्पितां
सप्रसादमधिरोह पादुकाम्॥ 9.8

मूलम्

आसनादुचितम् आसनान्तरं
रङ्गनाथ ! यदि गन्तुमीहसे ।
सन्नतेन विधिना समर्पितां
सप्रसादमधिरोह पादुकाम्॥ 9.8

विश्वास-प्रस्तुतिः

परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वां
प्रणमति मदनोऽयं देव ! शुद्धान्तदासः ।
फणिपतिशयनीयं प्रापयित्री सलीलं
पदकमलमियं ते पादुका पर्युपास्ताम्॥ 9.9

मूलम्

परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वां
प्रणमति मदनोऽयं देव ! शुद्धान्तदासः ।
फणिपतिशयनीयं प्रापयित्री सलीलं
पदकमलमियं ते पादुका पर्युपास्ताम्॥ 9.9

विश्वास-प्रस्तुतिः

इति निगमवन्दिवचसा समयेसमये गृहीतसङ्केतः ।
अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके! भवतीम् ॥9.10

मूलम्

इति निगमवन्दिवचसा समयेसमये गृहीतसङ्केतः ।
अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके! भवतीम् ॥9.10