विश्वास-प्रस्तुतिः
अभिषेकोत्सवात् तस्मात् यस्या निर्यातनोत्सवः ।
अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम्॥ 8.1
मूलम्
अभिषेकोत्सवात् तस्मात् यस्या निर्यातनोत्सवः ।
अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम्॥ 8.1
विश्वास-प्रस्तुतिः
उपास्य वर्षाणि चतुर्दश त्वाम्
उत्तारिकामुत्तरकोसलस्थाः ।
सनन्दनाद्यैरपि दुर्विगाहं
सान्तानिकं लोकमवापुरग्र्यम्॥ 8.2
मूलम्
उपास्य वर्षाणि चतुर्दश त्वाम्
उत्तारिकामुत्तरकोसलस्थाः ।
सनन्दनाद्यैरपि दुर्विगाहं
सान्तानिकं लोकमवापुरग्र्यम्॥ 8.2
विश्वास-प्रस्तुतिः
पादावनि ! प्रत्ययितो हनूमान्
सीतामिव त्वां चिरविप्रयुक्ताम् ।
प्रणम्य पौलस्त्यरिपोरुदन्तं
विज्ञापयामास विनीतवेषः॥ 8.3
मूलम्
पादावनि ! प्रत्ययितो हनूमान्
सीतामिव त्वां चिरविप्रयुक्ताम् ।
प्रणम्य पौलस्त्यरिपोरुदन्तं
विज्ञापयामास विनीतवेषः॥ 8.3
विश्वास-प्रस्तुतिः
तवाभिषेकान्मणिपादरक्षे !
मूले निषेकादिव वृद्धियोग्यात् ।
जहुस्तदैव त्रिदशाङ्गनानां
प्रम्लानतां पत्रलताङ्कुराणि॥ 8.4
मूलम्
तवाभिषेकान्मणिपादरक्षे !
मूले निषेकादिव वृद्धियोग्यात् ।
जहुस्तदैव त्रिदशाङ्गनानां
प्रम्लानतां पत्रलताङ्कुराणि॥ 8.4
विश्वास-प्रस्तुतिः
सर्वतस्त्वदभिषेकवासरे
सम्यगुद्धृतसमस्तकण्टके ।
राघवस्य विपिनेषु पादुके !
यत्र कामगमता व्यवस्थिता॥ 8.5
मूलम्
सर्वतस्त्वदभिषेकवासरे
सम्यगुद्धृतसमस्तकण्टके ।
राघवस्य विपिनेषु पादुके !
यत्र कामगमता व्यवस्थिता॥ 8.5
विश्वास-प्रस्तुतिः
किं चतुर्दशभिरेव वत्सरैः
नित्यमेव मणिपादुके युवाम् ।
पादयोस्त्रिभुवनाधिराजयोः
यौवराज्यमधिगच्छतं स्वयम्॥ 8.6
मूलम्
किं चतुर्दशभिरेव वत्सरैः
नित्यमेव मणिपादुके युवाम् ।
पादयोस्त्रिभुवनाधिराजयोः
यौवराज्यमधिगच्छतं स्वयम्॥ 8.6
विश्वास-प्रस्तुतिः
रामस्य राक्षसवधत्वरितस्य काले
पादावनि ! प्रकटयन्निव पार्ष्णिगुप्तिम् ।
आचित्रकूटमधिगम्य शशंस वार्ताम्
अव्याहतत्वदभिषेकमृदङ्गनादः॥ 8.7
मूलम्
रामस्य राक्षसवधत्वरितस्य काले
पादावनि ! प्रकटयन्निव पार्ष्णिगुप्तिम् ।
आचित्रकूटमधिगम्य शशंस वार्ताम्
अव्याहतत्वदभिषेकमृदङ्गनादः॥ 8.7
विश्वास-प्रस्तुतिः
भद्राणि देवि ! जगतां प्रतिपादयिष्यन्
प्रागेव येन भवतीं भरतोऽभ्यषिञ्चत् ।
मन्ये कपीश्वरविभीषणयोर्यथावत्
सन्तन्यते स्म तत एव किलाभिषेकः॥ 8.8
मूलम्
भद्राणि देवि ! जगतां प्रतिपादयिष्यन्
प्रागेव येन भवतीं भरतोऽभ्यषिञ्चत् ।
मन्ये कपीश्वरविभीषणयोर्यथावत्
सन्तन्यते स्म तत एव किलाभिषेकः॥ 8.8
विश्वास-प्रस्तुतिः
संभिद्यमानतमसासरयूपनीतैः
संवर्धितस्तव शुभैरभिषेकतोयैः ।
मन्ये बभूव जलधिर्मणिपादरक्षे !
रामास्त्रपावकशिखाभिरशोषणीयः॥ 8.9
मूलम्
संभिद्यमानतमसासरयूपनीतैः
संवर्धितस्तव शुभैरभिषेकतोयैः ।
मन्ये बभूव जलधिर्मणिपादरक्षे !
रामास्त्रपावकशिखाभिरशोषणीयः॥ 8.9
विश्वास-प्रस्तुतिः
पादावनि ! त्वदभिषेचनमङ्गलार्थं
भेरीशतं भृशमताड्यत यत् प्रतीतैः ।
आकर्ण्य तस्य सहसा तुमुलं निनादं
लङ्काकवाटनयनानि निमीलितानि॥ 8.10
मूलम्
पादावनि ! त्वदभिषेचनमङ्गलार्थं
भेरीशतं भृशमताड्यत यत् प्रतीतैः ।
आकर्ण्य तस्य सहसा तुमुलं निनादं
लङ्काकवाटनयनानि निमीलितानि॥ 8.10
विश्वास-प्रस्तुतिः
तापोद्गमस्त्वदभिषेकजलप्रवाहैः
उत्सारितस्त्वरितमुत्तरकोसलेभ्यः ।
लेभे चिराय रघुपुङ्गवपादरक्षे !
लङ्कावरोधसुदृशां हृदयेषु वासम्॥ 8.11
मूलम्
तापोद्गमस्त्वदभिषेकजलप्रवाहैः
उत्सारितस्त्वरितमुत्तरकोसलेभ्यः ।
लेभे चिराय रघुपुङ्गवपादरक्षे !
लङ्कावरोधसुदृशां हृदयेषु वासम्॥ 8.11
विश्वास-प्रस्तुतिः
आवर्जितं विधिविदा मणिपादरक्षे !
पद्मासनप्रियसुतेन पुरोहितेन ।
आसीन्निदानम् अभिषेकजलं त्वदीयं
नक्तञ्चरप्रणयिनीनयनोदकानाम्॥ 8.12
मूलम्
आवर्जितं विधिविदा मणिपादरक्षे !
पद्मासनप्रियसुतेन पुरोहितेन ।
आसीन्निदानम् अभिषेकजलं त्वदीयं
नक्तञ्चरप्रणयिनीनयनोदकानाम्॥ 8.12
विश्वास-प्रस्तुतिः
देवि ! त्वया स्नपनसंपदि संश्रितायां
दग्धे पुरे दशमुखस्य वलीमुखेन ।
आसीत् ततः प्रभृति विश्वजनप्रतीतम्
अद्भ्योऽग्निरित्यवितथं वचनं मुनीनाम्॥ 8.13
मूलम्
देवि ! त्वया स्नपनसंपदि संश्रितायां
दग्धे पुरे दशमुखस्य वलीमुखेन ।
आसीत् ततः प्रभृति विश्वजनप्रतीतम्
अद्भ्योऽग्निरित्यवितथं वचनं मुनीनाम्॥ 8.13
विश्वास-प्रस्तुतिः
आयोध्यकैस्त्वदभिषेकसमिद्धहर्षैः
आध्मापिताः श्रुतिसुखं ननु ते तदानीम् ।
रामस्य राक्षसशिरोलवनेऽप्यशाम्यन्
येषां ध्वनिर्विजयशंखरवो बभूव॥ 8.14
मूलम्
आयोध्यकैस्त्वदभिषेकसमिद्धहर्षैः
आध्मापिताः श्रुतिसुखं ननु ते तदानीम् ।
रामस्य राक्षसशिरोलवनेऽप्यशाम्यन्
येषां ध्वनिर्विजयशंखरवो बभूव॥ 8.14
विश्वास-प्रस्तुतिः
प्रथयितुम् अभिषेकं पादुके ! तावकीनं
दुरितशमनदक्षे दुन्दुभौ ताड्यमाने ।
सपदि परिगृहीतं साध्वसं देवि ! नूनं
दशवदनवधूनां दक्षिणैर्नेत्रकोशैः॥ 8.15
मूलम्
प्रथयितुम् अभिषेकं पादुके ! तावकीनं
दुरितशमनदक्षे दुन्दुभौ ताड्यमाने ।
सपदि परिगृहीतं साध्वसं देवि ! नूनं
दशवदनवधूनां दक्षिणैर्नेत्रकोशैः॥ 8.15
विश्वास-प्रस्तुतिः
रघुपतिपदरक्षे ! रत्नपीठे यदा त्वाम्
अखिलभुवनमान्याम् अभ्यषिञ्चत् वसिष्ठः ।
दशमुखमहिषीभिर्देवि ! बाष्पायिताभिः
स्तनयुगमभिषेक्तुं तत्क्षणादन्वमंस्थाः॥ 8.16
मूलम्
रघुपतिपदरक्षे ! रत्नपीठे यदा त्वाम्
अखिलभुवनमान्याम् अभ्यषिञ्चत् वसिष्ठः ।
दशमुखमहिषीभिर्देवि ! बाष्पायिताभिः
स्तनयुगमभिषेक्तुं तत्क्षणादन्वमंस्थाः॥ 8.16
विश्वास-प्रस्तुतिः
रामास्त्राणि निमित्तमात्रमिह ते लब्धाभिषेका स्वयं
रक्षस्तत् क्षपयांचकार भवती भद्रासनस्थायिनी ।
यद्दोष्णाम् अतिवेलदर्पदवथुज्वालोष्मलानां तदा
निष्पिष्टैः कलधौतशैलशिखरैः कर्पूरचूर्णायितम्॥ 8.17
मूलम्
रामास्त्राणि निमित्तमात्रमिह ते लब्धाभिषेका स्वयं
रक्षस्तत् क्षपयांचकार भवती भद्रासनस्थायिनी ।
यद्दोष्णाम् अतिवेलदर्पदवथुज्वालोष्मलानां तदा
निष्पिष्टैः कलधौतशैलशिखरैः कर्पूरचूर्णायितम्॥ 8.17
विश्वास-प्रस्तुतिः
श्रुत्वैवं हनुमन्मुखाद् रघुपतेः प्रत्यागतिं तत्क्षणात्
आसीदद्भरतानुवर्तनवशाद् आरूढकुम्भस्थलाम् ।
कालोन्निद्रकदुष्णदानमदिरामाद्यद्द्विरेफध्वनि-
श्लाघाचाटुभिरस्तुतेव भवतीं शत्रुञ्जयः कुञ्जरः॥ 8.18
मूलम्
श्रुत्वैवं हनुमन्मुखाद् रघुपतेः प्रत्यागतिं तत्क्षणात्
आसीदद्भरतानुवर्तनवशाद् आरूढकुम्भस्थलाम् ।
कालोन्निद्रकदुष्णदानमदिरामाद्यद्द्विरेफध्वनि-
श्लाघाचाटुभिरस्तुतेव भवतीं शत्रुञ्जयः कुञ्जरः॥ 8.18
विश्वास-प्रस्तुतिः
प्रत्यागतस्य भवतीम् अवलोक्य भर्तुः
पादारविन्दसविधे भरतोपनीताम् ।
पूर्वाभिषेकविभवाभ्युचितां सपर्यां
मध्ये सताम् अकृत मैथिलराजकन्या॥ 8.19
मूलम्
प्रत्यागतस्य भवतीम् अवलोक्य भर्तुः
पादारविन्दसविधे भरतोपनीताम् ।
पूर्वाभिषेकविभवाभ्युचितां सपर्यां
मध्ये सताम् अकृत मैथिलराजकन्या॥ 8.19
विश्वास-प्रस्तुतिः
संप्रेक्ष्य मैथिलसुता मणिपादरक्षे !
प्रत्युद्गतस्य भवतीं भरतस्य मौलौ ।
निर्दिश्य सा निभृतम् अञ्जलिना पुरस्तात्
तारादिकाः प्रियसखीरशिषत् प्रणन्तुम्॥ 8.20
मूलम्
संप्रेक्ष्य मैथिलसुता मणिपादरक्षे !
प्रत्युद्गतस्य भवतीं भरतस्य मौलौ ।
निर्दिश्य सा निभृतम् अञ्जलिना पुरस्तात्
तारादिकाः प्रियसखीरशिषत् प्रणन्तुम्॥ 8.20
विश्वास-प्रस्तुतिः
तुल्येऽपि देवि ! रघुवीरपदाश्रयत्वे
पूर्वाभिषेकमधिगम्य गरीयसी त्वम् ।
तेनैव खल्वभजतां मणिपादरक्षे !
रक्षः प्लवङ्गमपती भवतीं स्वमूर्ध्ना॥ 8.21
मूलम्
तुल्येऽपि देवि ! रघुवीरपदाश्रयत्वे
पूर्वाभिषेकमधिगम्य गरीयसी त्वम् ।
तेनैव खल्वभजतां मणिपादरक्षे !
रक्षः प्लवङ्गमपती भवतीं स्वमूर्ध्ना॥ 8.21
विश्वास-प्रस्तुतिः
निर्वृत्तराक्षसचमूमृगयाविहारो
रङ्गेश्वरः स खलु राघववंशगोप्ता ।
वंशक्रमादुपनतं पदमाददानो
मान्यं पुनस्त्वयि पदं निदधे स्वकीयम्॥ 8.22
मूलम्
निर्वृत्तराक्षसचमूमृगयाविहारो
रङ्गेश्वरः स खलु राघववंशगोप्ता ।
वंशक्रमादुपनतं पदमाददानो
मान्यं पुनस्त्वयि पदं निदधे स्वकीयम्॥ 8.22
विश्वास-प्रस्तुतिः
तत्तादृशोः चरणयोः प्रणिपत्य भर्तुः
पौरास्त्वया विधृतयोः प्रतिपन्नसत्त्वाः ।
प्राप्ताभिषेकविभवामपि पादुके ! त्वाम्
आनन्दबाष्पसलिलैः पुनरभ्यषिञ्चन्॥ 8.23
मूलम्
तत्तादृशोः चरणयोः प्रणिपत्य भर्तुः
पौरास्त्वया विधृतयोः प्रतिपन्नसत्त्वाः ।
प्राप्ताभिषेकविभवामपि पादुके ! त्वाम्
आनन्दबाष्पसलिलैः पुनरभ्यषिञ्चन्॥ 8.23
विश्वास-प्रस्तुतिः
मातस्त्वयैव समये विषमेऽपि सम्यक्
राजन्वतीं वसुमतीं अवलोक्य रामः ।
सञ्जीवनाय भरतस्य समग्रभक्तेः
सत्यप्रतिश्रवतयैव चकार राज्यम्॥ 8.24
मूलम्
मातस्त्वयैव समये विषमेऽपि सम्यक्
राजन्वतीं वसुमतीं अवलोक्य रामः ।
सञ्जीवनाय भरतस्य समग्रभक्तेः
सत्यप्रतिश्रवतयैव चकार राज्यम्॥ 8.24
विश्वास-प्रस्तुतिः
पादावनि ! प्रतिगतस्य पुरीमयोध्यां
पौलस्त्यहन्तुरभिषेकजलार्द्रमूर्तेः ।
अंसे यथार्हम् अधिवास्य निजैर्यशोभिः
कस्तूरिकेव निहिता वसुधा त्वयैव॥ 8.25
मूलम्
पादावनि ! प्रतिगतस्य पुरीमयोध्यां
पौलस्त्यहन्तुरभिषेकजलार्द्रमूर्तेः ।
अंसे यथार्हम् अधिवास्य निजैर्यशोभिः
कस्तूरिकेव निहिता वसुधा त्वयैव॥ 8.25
विश्वास-प्रस्तुतिः
याऽसौ चतुर्दश समाः पतिविप्रयुक्ता
विश्वंभरा भगवती विधृता भवत्या ।
विन्यस्य तां रघुपतेर्भुजशैलशृङ्गे
भूयोऽपि तेन सहितां भवती बभार॥ 8.26
मूलम्
याऽसौ चतुर्दश समाः पतिविप्रयुक्ता
विश्वंभरा भगवती विधृता भवत्या ।
विन्यस्य तां रघुपतेर्भुजशैलशृङ्गे
भूयोऽपि तेन सहितां भवती बभार॥ 8.26
विश्वास-प्रस्तुतिः
निस्तीर्णदुः खजलधेरनघस्य देवि !
त्वत्संप्रयुक्तरघुनाथपदान्वयेन ।
सद्यः सनन्दनमुखैरपि दुर्निरीक्षा
साम्राज्यसंपदपरा भरतस्य जज्ञे॥ 8.27
मूलम्
निस्तीर्णदुः खजलधेरनघस्य देवि !
त्वत्संप्रयुक्तरघुनाथपदान्वयेन ।
सद्यः सनन्दनमुखैरपि दुर्निरीक्षा
साम्राज्यसंपदपरा भरतस्य जज्ञे॥ 8.27
विश्वास-प्रस्तुतिः
निर्गत्य देवि ! भरताञ्जलिपद्ममध्यात्
भूयः समागतवती पुरुषोत्तमेन ।
पद्मेव भद्रमखिलं मणिपादरक्षे
प्रादुश्चकार भवती जगतां त्रयाणाम्॥ 8.28
मूलम्
निर्गत्य देवि ! भरताञ्जलिपद्ममध्यात्
भूयः समागतवती पुरुषोत्तमेन ।
पद्मेव भद्रमखिलं मणिपादरक्षे
प्रादुश्चकार भवती जगतां त्रयाणाम्॥ 8.28
विश्वास-प्रस्तुतिः
रघुपतिमधिरोप्य स्वोचिते रत्नपीठे
प्रगुणम् अभजथास्त्वं पादुके ! पादपीठम् ।
तदपि बहुमतिस्ते तादृशी नित्यमासीत्
क्व नु खलु महितानां कल्प्यते तारतम्यम्॥ 8.29
मूलम्
रघुपतिमधिरोप्य स्वोचिते रत्नपीठे
प्रगुणम् अभजथास्त्वं पादुके ! पादपीठम् ।
तदपि बहुमतिस्ते तादृशी नित्यमासीत्
क्व नु खलु महितानां कल्प्यते तारतम्यम्॥ 8.29
विश्वास-प्रस्तुतिः
अनुवृत्तरामभावः शङ्के निर्विष्टचक्रवर्तिपदाम् ।
अधुनाऽपि रङ्गनाथः सचमत्कारं पदेन भजति त्वाम्॥ 8.30
मूलम्
अनुवृत्तरामभावः शङ्के निर्विष्टचक्रवर्तिपदाम् ।
अधुनाऽपि रङ्गनाथः सचमत्कारं पदेन भजति त्वाम्॥ 8.30