विश्वास-प्रस्तुतिः
पाहि नः पादुके ! यस्याः
विधास्यन् अभिषेचनम् ।
आभिषेचनिकं भाण्डं
चक्रे रामः प्रदक्षिणम्॥ 7.1
मूलम्
पाहि नः पादुके ! यस्याः
विधास्यन् अभिषेचनम् ।
आभिषेचनिकं भाण्डं
चक्रे रामः प्रदक्षिणम्॥ 7.1
विश्वास-प्रस्तुतिः
राघवस्य चरणौ पदावनि !
प्रेक्षितुं त्वदभिषेकमीषतुः ।
आभिषेचनिकभाण्डसन्निधौ
यत् प्रदक्षिणगतिः शनैर्ययौ॥ 7.2
मूलम्
राघवस्य चरणौ पदावनि !
प्रेक्षितुं त्वदभिषेकमीषतुः ।
आभिषेचनिकभाण्डसन्निधौ
यत् प्रदक्षिणगतिः शनैर्ययौ॥ 7.2
विश्वास-प्रस्तुतिः
मूर्धाभिषिक्तैर्नियमेन वाह्यौ
विचिन्त्य नूनं रघुनाथपादौ ।
रत्नासनस्थां मणिपादुके ! त्वां
रामानुजन्मा भरतोऽभ्यषिञ्चत्॥ 7.3
मूलम्
मूर्धाभिषिक्तैर्नियमेन वाह्यौ
विचिन्त्य नूनं रघुनाथपादौ ।
रत्नासनस्थां मणिपादुके ! त्वां
रामानुजन्मा भरतोऽभ्यषिञ्चत्॥ 7.3
विश्वास-प्रस्तुतिः
भ्रातुर्नियोगेऽप्यनिवर्तमानं
राज्याभिषेकं च परित्यजन्तम् ।
रामानुजौ तौ ननु पारतन्त्र्यात्
उभावुभाभ्यां भवती जिगाय॥ 7.4
मूलम्
भ्रातुर्नियोगेऽप्यनिवर्तमानं
राज्याभिषेकं च परित्यजन्तम् ।
रामानुजौ तौ ननु पारतन्त्र्यात्
उभावुभाभ्यां भवती जिगाय॥ 7.4
विश्वास-प्रस्तुतिः
निवेश्य रङ्गेश्वरपादरक्षे !
भद्रासने सादरमभ्यषिञ्चत् ।
वशी वसिष्ठो मनुवंशजानां
महीक्षितां वंशपुरोहितस्त्वाम्॥ 7.5
मूलम्
निवेश्य रङ्गेश्वरपादरक्षे !
भद्रासने सादरमभ्यषिञ्चत् ।
वशी वसिष्ठो मनुवंशजानां
महीक्षितां वंशपुरोहितस्त्वाम्॥ 7.5
विश्वास-प्रस्तुतिः
कृताभिषेका भवती यथावत्
रङ्गेशपादावनि ! रत्नपीठे ।
गङ्गानिपातस्नपितां सुमेरोः
अधित्यकाभूमिमधश्वकार॥ 7.6
मूलम्
कृताभिषेका भवती यथावत्
रङ्गेशपादावनि ! रत्नपीठे ।
गङ्गानिपातस्नपितां सुमेरोः
अधित्यकाभूमिमधश्वकार॥ 7.6
विश्वास-प्रस्तुतिः
वसिष्ठमुख्यैर्विहिताभिषेकां
राज्यासने रामनिवेशयोग्ये ।
तुष्टाव रङ्गेश्वरपादरक्षे !
प्राचेतसस्त्वां प्रथमः कवीनाम्॥ 7.7
मूलम्
वसिष्ठमुख्यैर्विहिताभिषेकां
राज्यासने रामनिवेशयोग्ये ।
तुष्टाव रङ्गेश्वरपादरक्षे !
प्राचेतसस्त्वां प्रथमः कवीनाम्॥ 7.7
विश्वास-प्रस्तुतिः
रक्षोवधार्थं मणिपादरक्षे !
रामात्मनो रङ्गपतेः प्रवासे ।
रक्षोपकारात् भवती वितेने
राजन्वतीं कोसलराजधानीम्॥ 7.8
मूलम्
रक्षोवधार्थं मणिपादरक्षे !
रामात्मनो रङ्गपतेः प्रवासे ।
रक्षोपकारात् भवती वितेने
राजन्वतीं कोसलराजधानीम्॥ 7.8
विश्वास-प्रस्तुतिः
प्राप्ताभिषेका मणिपादरक्षे !
प्रतापमुग्रं प्रतिपद्यमाना ।
शशास पृथ्वीं भवती यथावत्
साकेतसिंहासनसार्वभौमी॥ 7.9
मूलम्
प्राप्ताभिषेका मणिपादरक्षे !
प्रतापमुग्रं प्रतिपद्यमाना ।
शशास पृथ्वीं भवती यथावत्
साकेतसिंहासनसार्वभौमी॥ 7.9
विश्वास-प्रस्तुतिः
दशाननादीन् मणिपादरक्षे !
जिगीषतो दाशरथेर्वियोगात् ।
जातोपतापा त्वयि संप्रयुक्तैः
तीर्थोदकैरुच्छ्वसिता धरित्री॥ 7.10
मूलम्
दशाननादीन् मणिपादरक्षे !
जिगीषतो दाशरथेर्वियोगात् ।
जातोपतापा त्वयि संप्रयुक्तैः
तीर्थोदकैरुच्छ्वसिता धरित्री॥ 7.10
विश्वास-प्रस्तुतिः
अध्यासितं मनुमुखैः क्रमशो नरेन्द्रैः
आरोप्य देवि ! भवतीं तपनीयपीठम् ।
राज्याभिषेकमनघं मणिपादरक्षे !
रामोचितं तव वशं भरतो वितेने॥ 7.11
मूलम्
अध्यासितं मनुमुखैः क्रमशो नरेन्द्रैः
आरोप्य देवि ! भवतीं तपनीयपीठम् ।
राज्याभिषेकमनघं मणिपादरक्षे !
रामोचितं तव वशं भरतो वितेने॥ 7.11
विश्वास-प्रस्तुतिः
स्नेहेन देवि ! भवतीं विषयेऽभिषिञ्चन्
द्विस्सप्तसंख्यभुवनोदरदीपरेखाम् ।
जातं रघूद्वहदिवाकरविप्रयोगात्
अन्धं तमिस्रमहरत् भरतः प्रजानाम्॥ 7.12
मूलम्
स्नेहेन देवि ! भवतीं विषयेऽभिषिञ्चन्
द्विस्सप्तसंख्यभुवनोदरदीपरेखाम् ।
जातं रघूद्वहदिवाकरविप्रयोगात्
अन्धं तमिस्रमहरत् भरतः प्रजानाम्॥ 7.12
विश्वास-प्रस्तुतिः
हस्तापचेयपुरुषार्थफलप्रसूतेः
मूलं पदावनि ! मुकुन्दमहीरुहस्त्वम् ।
छायाविशेषमदिशत् यदसौ प्रजानाम्
आवर्जितैस्त्वयि शुभैरभिषेकतोयैः॥ 7.13
मूलम्
हस्तापचेयपुरुषार्थफलप्रसूतेः
मूलं पदावनि ! मुकुन्दमहीरुहस्त्वम् ।
छायाविशेषमदिशत् यदसौ प्रजानाम्
आवर्जितैस्त्वयि शुभैरभिषेकतोयैः॥ 7.13
विश्वास-प्रस्तुतिः
अह्नाय रामविरहात् परिखिन्नवृत्तेः
आश्वासनाय भवती मणिपादरक्षे ! ।
तीर्थाभिषेकमपदिश्य वसुन्धरायाः
चक्रे तदा समुचितं शिशिरोपचारम्॥ 7.14
मूलम्
अह्नाय रामविरहात् परिखिन्नवृत्तेः
आश्वासनाय भवती मणिपादरक्षे ! ।
तीर्थाभिषेकमपदिश्य वसुन्धरायाः
चक्रे तदा समुचितं शिशिरोपचारम्॥ 7.14
विश्वास-प्रस्तुतिः
मालिन्यमाश्रितवती मणिपादरक्षे !
पङ्केन केकयसुताकलहोत्थितेन ।
शुद्धिं परामधिजगाम वसुन्धरेयं
त्वत्तः क्षणान्निपतितैरभिषेकतोयैः॥ 7.15
मूलम्
मालिन्यमाश्रितवती मणिपादरक्षे !
पङ्केन केकयसुताकलहोत्थितेन ।
शुद्धिं परामधिजगाम वसुन्धरेयं
त्वत्तः क्षणान्निपतितैरभिषेकतोयैः॥ 7.15
विश्वास-प्रस्तुतिः
आवर्जितं मुनिगणेन जगद्विभूत्यै
तोयं पदावनि ! तदा त्वयि मन्त्रपूतम् ।
मूलावसेकसलिलं निगमद्रुमाणां
शापोदकं च समभूत् क्षणदाचराणाम्॥ 7.16
मूलम्
आवर्जितं मुनिगणेन जगद्विभूत्यै
तोयं पदावनि ! तदा त्वयि मन्त्रपूतम् ।
मूलावसेकसलिलं निगमद्रुमाणां
शापोदकं च समभूत् क्षणदाचराणाम्॥ 7.16
विश्वास-प्रस्तुतिः
विप्रोषिते रघुपतौ भवती यथार्हं
मान्ये पदे स्थितिमती मनुवंशजानाम् ।
आत्मन्यथर्वनिपुणैः प्रहितैः प्रजानाम्
अश्रूण्यपास्यदभिषेकजलप्रवाहैः॥ 7.17
मूलम्
विप्रोषिते रघुपतौ भवती यथार्हं
मान्ये पदे स्थितिमती मनुवंशजानाम् ।
आत्मन्यथर्वनिपुणैः प्रहितैः प्रजानाम्
अश्रूण्यपास्यदभिषेकजलप्रवाहैः॥ 7.17
विश्वास-प्रस्तुतिः
प्रायो विशोषितरसा पतिविप्रयोगात्
पर्याकुलीकृतसमुद्रपयोधरा गौः ।
अम्ब ! त्वदीयमभिषेकपयः पिबन्ती
धेनुर्बभूव जगतां धनधान्यदोग्ध्री॥ 7.18
मूलम्
प्रायो विशोषितरसा पतिविप्रयोगात्
पर्याकुलीकृतसमुद्रपयोधरा गौः ।
अम्ब ! त्वदीयमभिषेकपयः पिबन्ती
धेनुर्बभूव जगतां धनधान्यदोग्ध्री॥ 7.18
विश्वास-प्रस्तुतिः
वृत्ते यथावदभिषेकविधौ बभासे
पश्चात् तवाम्ब ! भरतेन धृतः किरीटः ।
आकस्मिकस्वकुलविप्लवशान्तिहर्षात्
प्राप्तस्त्विषामिव पतिर्मणिपादुके ! त्वाम्॥ 7.19
मूलम्
वृत्ते यथावदभिषेकविधौ बभासे
पश्चात् तवाम्ब ! भरतेन धृतः किरीटः ।
आकस्मिकस्वकुलविप्लवशान्तिहर्षात्
प्राप्तस्त्विषामिव पतिर्मणिपादुके ! त्वाम्॥ 7.19
विश्वास-प्रस्तुतिः
मनुवंशपुरोहितेन मन्त्रैः
अभिमन्त्र्य त्वयि पादुके ! प्रयुक्तम् ।
अभिषेकजलं क्षणेन राज्ञां
शमयामास समुत्थितान् प्रतापान्॥ 7.20
मूलम्
मनुवंशपुरोहितेन मन्त्रैः
अभिमन्त्र्य त्वयि पादुके ! प्रयुक्तम् ।
अभिषेकजलं क्षणेन राज्ञां
शमयामास समुत्थितान् प्रतापान्॥ 7.20
विश्वास-प्रस्तुतिः
पादपादुपहृता रघूद्वहाद्
आलवालमिव पीठमाश्रिता ।
अभ्यषेचि भवती तपोधनैः
पारिजातलतिकेव पादुके !॥ 7.21
मूलम्
पादपादुपहृता रघूद्वहाद्
आलवालमिव पीठमाश्रिता ।
अभ्यषेचि भवती तपोधनैः
पारिजातलतिकेव पादुके !॥ 7.21
विश्वास-प्रस्तुतिः
अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते
दिनकरकुलदैन्यं पादुके ! क्षाळयिष्यन् ।
स खलु कमलयोनेः सूनुराधत्त मन्त्रेषु
अधिकनियमयोगां शक्तिमाथर्वणेषु॥ 7.22
मूलम्
अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते
दिनकरकुलदैन्यं पादुके ! क्षाळयिष्यन् ।
स खलु कमलयोनेः सूनुराधत्त मन्त्रेषु
अधिकनियमयोगां शक्तिमाथर्वणेषु॥ 7.22
विश्वास-प्रस्तुतिः
दिनकरकुलजानां देवि ! पृथ्वीपतीनां
निरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् ।
अजनिषत समस्ताः पादुके ! तावकीन-
स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः॥ 7.23
मूलम्
दिनकरकुलजानां देवि ! पृथ्वीपतीनां
निरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् ।
अजनिषत समस्ताः पादुके ! तावकीन-
स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः॥ 7.23
विश्वास-प्रस्तुतिः
तव विधिवदुपात्ते सार्वभौमाभिषेके
भरतसमयविद्भिः पादुके ! मन्त्रिमुख्यैः ।
त्वदवधिनिजकर्मस्थायिनीनां प्रजानां
प्रथमयुगविशेषाः प्रादुरासन् विचित्राः॥ 7.24
मूलम्
तव विधिवदुपात्ते सार्वभौमाभिषेके
भरतसमयविद्भिः पादुके ! मन्त्रिमुख्यैः ।
त्वदवधिनिजकर्मस्थायिनीनां प्रजानां
प्रथमयुगविशेषाः प्रादुरासन् विचित्राः॥ 7.24
विश्वास-प्रस्तुतिः
अवसितरिपुशब्दानन्वभूस्त्वं तदानीं
रघुपतिपदरक्षे ! लब्धराज्याभिषेका ।
चलितभुजलतानां चामरग्राहिणीनां
मणिवलयनिनादैर्मेदुरान् मन्त्रघोषान्॥ 7.25
मूलम्
अवसितरिपुशब्दानन्वभूस्त्वं तदानीं
रघुपतिपदरक्षे ! लब्धराज्याभिषेका ।
चलितभुजलतानां चामरग्राहिणीनां
मणिवलयनिनादैर्मेदुरान् मन्त्रघोषान्॥ 7.25
विश्वास-प्रस्तुतिः
समुचितमभिषेकं पादुके ! प्राप्नुवत्यां
त्वयि विनिपतितानां देवि ! तीर्थोदकानाम् ।
ध्वनिरनुगतमन्त्रः सीदतां कोसलानां
शमयितुमलमासीत् सङ्कुलान् आर्तनादान्॥ 7.26
मूलम्
समुचितमभिषेकं पादुके ! प्राप्नुवत्यां
त्वयि विनिपतितानां देवि ! तीर्थोदकानाम् ।
ध्वनिरनुगतमन्त्रः सीदतां कोसलानां
शमयितुमलमासीत् सङ्कुलान् आर्तनादान्॥ 7.26
विश्वास-प्रस्तुतिः
दिविषदनुविधेयं देवि ! राज्याभिषेकं
भरत इव यदि त्वं पादुके ! नान्वमंस्थाः ।
कथमिव रघुवीरः कल्पयेदल्पयत्नः
त्रिचतुरशरपातैस्तादृशं देवकार्यम्॥ 7.27
मूलम्
दिविषदनुविधेयं देवि ! राज्याभिषेकं
भरत इव यदि त्वं पादुके ! नान्वमंस्थाः ।
कथमिव रघुवीरः कल्पयेदल्पयत्नः
त्रिचतुरशरपातैस्तादृशं देवकार्यम्॥ 7.27
विश्वास-प्रस्तुतिः
कतिचन पदपद्मस्पर्शसौख्यं त्यजन्ती
व्रतमतुलमधास्त्वं वत्सरान् सावधाना ।
रघुपतिपदरक्षे ! राक्षसैस्त्रासितानां
रणरणकविमुक्तं येन राज्यं सुराणाम्॥ 7.28
मूलम्
कतिचन पदपद्मस्पर्शसौख्यं त्यजन्ती
व्रतमतुलमधास्त्वं वत्सरान् सावधाना ।
रघुपतिपदरक्षे ! राक्षसैस्त्रासितानां
रणरणकविमुक्तं येन राज्यं सुराणाम्॥ 7.28
विश्वास-प्रस्तुतिः
अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां
वसिष्ठादीनामप्युपचितचमत्कारभरया ।
त्वदास्थान्या रङ्गक्षितिरमणपादावनि ! तदा
लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः॥ 7.29
मूलम्
अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां
वसिष्ठादीनामप्युपचितचमत्कारभरया ।
त्वदास्थान्या रङ्गक्षितिरमणपादावनि ! तदा
लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः॥ 7.29
विश्वास-प्रस्तुतिः
अभिषेचयतु स रामः
पदेन वा स्पृशतु पादुके ! भवतीम् ।
अविशेषितमहिमा त्वं
क्व वा विशेषः क्षमासमेतानाम्॥ 7.30
मूलम्
अभिषेचयतु स रामः
पदेन वा स्पृशतु पादुके ! भवतीम् ।
अविशेषितमहिमा त्वं
क्व वा विशेषः क्षमासमेतानाम्॥ 7.30