विश्वास-प्रस्तुतिः
अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्॥ 6.1
मूलम्
अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्॥ 6.1
विश्वास-प्रस्तुतिः
मोचितस्थिरचरान् अयत्नतः
कोसलान् जनपदान् उपास्महे ।
येषु कांश्चन बभूव वत्सरान्
दैवतं दनुजवैरिपादुका॥ 6.2
मूलम्
मोचितस्थिरचरान् अयत्नतः
कोसलान् जनपदान् उपास्महे ।
येषु कांश्चन बभूव वत्सरान्
दैवतं दनुजवैरिपादुका॥ 6.2
विश्वास-प्रस्तुतिः
साम्राज्यसम्पदिव दासजनोचिता त्वं
रामेण सत्यवचसा भरताय दत्ता ।
स त्वां निवेश्य चरणावनि ! भद्रपीठे
पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्॥ 6.3
मूलम्
साम्राज्यसम्पदिव दासजनोचिता त्वं
रामेण सत्यवचसा भरताय दत्ता ।
स त्वां निवेश्य चरणावनि ! भद्रपीठे
पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्॥ 6.3
विश्वास-प्रस्तुतिः
भोगान् अनन्यमनसां मणिपादुके ! त्वं
पुष्णासि हन्त भजतामनुषङ्गसिद्धान् ।
तेनैव नूनमभवत् भरतस्य साधोः
अप्रार्थितं तदिह राज्यमवर्जनीयम्॥ 6.4
मूलम्
भोगान् अनन्यमनसां मणिपादुके ! त्वं
पुष्णासि हन्त भजतामनुषङ्गसिद्धान् ।
तेनैव नूनमभवत् भरतस्य साधोः
अप्रार्थितं तदिह राज्यमवर्जनीयम्॥ 6.4
विश्वास-प्रस्तुतिः
रामप्रयाणजनितं व्यपनीय शोकं
रत्नासने स्थितवती मणिपादरक्षे ! ।
पृथ्वीं निजेन यशसा विहितोत्तरीयाम्
एकातपत्रतिलकां भवती वितेने॥ 6.5
मूलम्
रामप्रयाणजनितं व्यपनीय शोकं
रत्नासने स्थितवती मणिपादरक्षे ! ।
पृथ्वीं निजेन यशसा विहितोत्तरीयाम्
एकातपत्रतिलकां भवती वितेने॥ 6.5
विश्वास-प्रस्तुतिः
रामाज्ञया परवती परिगृह्य राज्यं
रत्नासनं रघुकुलोचितमाश्रयन्ती ।
शुद्धां पदावनि ! पुनर्भवती वितेने
स्वातन्त्र्यलेशकलुषां भरतस्य कीर्तिम्॥ 6.6
मूलम्
रामाज्ञया परवती परिगृह्य राज्यं
रत्नासनं रघुकुलोचितमाश्रयन्ती ।
शुद्धां पदावनि ! पुनर्भवती वितेने
स्वातन्त्र्यलेशकलुषां भरतस्य कीर्तिम्॥ 6.6
विश्वास-प्रस्तुतिः
पौलस्त्यवीरवदनस्तबकावसानात्
पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।
रक्षाधुरं धृतवती मणिपादुके ! त्वं
रामस्य मैथिलसुतासहिते प्रचारे॥ 6.7
मूलम्
पौलस्त्यवीरवदनस्तबकावसानात्
पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।
रक्षाधुरं धृतवती मणिपादुके ! त्वं
रामस्य मैथिलसुतासहिते प्रचारे॥ 6.7
विश्वास-प्रस्तुतिः
पादावनि ! प्रचलचामरबृन्दमध्ये
भद्रासनास्तरगता भवती विरेजे ।
आकीर्णदिव्यसलिले कटके सुमेरोः
अम्भोजिनीव कलहायितहंसयूथा॥ 6.8
मूलम्
पादावनि ! प्रचलचामरबृन्दमध्ये
भद्रासनास्तरगता भवती विरेजे ।
आकीर्णदिव्यसलिले कटके सुमेरोः
अम्भोजिनीव कलहायितहंसयूथा॥ 6.8
विश्वास-प्रस्तुतिः
मान्ये रघूद्वहपदे मणिपादुके ! त्वां
विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।
आलोलम् अक्षवलयी भरतो जटावान्
आलम्ब्य चामरम् अनन्यमनाः सिषेवे॥ 6.9
मूलम्
मान्ये रघूद्वहपदे मणिपादुके ! त्वां
विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।
आलोलम् अक्षवलयी भरतो जटावान्
आलम्ब्य चामरम् अनन्यमनाः सिषेवे॥ 6.9
विश्वास-प्रस्तुतिः
प्राप्ते दिवं दशरथे भरते विलक्षे
पर्याकुलेषु भृशमुत्तरकोसलेषु ।
त्वं चेत् उपेक्षितवती क इवाभविष्यद्
गोपायिता गुहसखस्य विभोः पदं तत्॥ 6.10
मूलम्
प्राप्ते दिवं दशरथे भरते विलक्षे
पर्याकुलेषु भृशमुत्तरकोसलेषु ।
त्वं चेत् उपेक्षितवती क इवाभविष्यद्
गोपायिता गुहसखस्य विभोः पदं तत्॥ 6.10
विश्वास-प्रस्तुतिः
भ्रातुर्यदम्ब ! विरहात् भरते विषण्णे
दाक्षिण्यमाश्रितवती मणिपादुके ! त्वम् ।
आसीदशेषजगतां श्रवणामृतं तत्
वाचालकाहळसहं बिरुदं तदा ते॥ 6.11
मूलम्
भ्रातुर्यदम्ब ! विरहात् भरते विषण्णे
दाक्षिण्यमाश्रितवती मणिपादुके ! त्वम् ।
आसीदशेषजगतां श्रवणामृतं तत्
वाचालकाहळसहं बिरुदं तदा ते॥ 6.11
विश्वास-प्रस्तुतिः
राज्यं तदा दशरथादनु रामतः प्राक्
बिभ्राणया चरणरक्षिणि ! वीतखेदम् ।
तुल्याधिकारभजनेन बभूव धन्यो
वंशस्त्वयाऽम्ब ! मनुवंशमहीपतीनाम्॥ 6.12
मूलम्
राज्यं तदा दशरथादनु रामतः प्राक्
बिभ्राणया चरणरक्षिणि ! वीतखेदम् ।
तुल्याधिकारभजनेन बभूव धन्यो
वंशस्त्वयाऽम्ब ! मनुवंशमहीपतीनाम्॥ 6.12
विश्वास-प्रस्तुतिः
वर्षाणि तानि वृषळो न तपांसि तेपे
बालो न कश्चिदपि मृत्युवशं जगाम ।
राज्ये तवाम्ब ! रघुपुङ्गवपादरक्षे !
नैवापरं प्रतिविधेयमभूत् प्रसक्तम्॥ 6.13
मूलम्
वर्षाणि तानि वृषळो न तपांसि तेपे
बालो न कश्चिदपि मृत्युवशं जगाम ।
राज्ये तवाम्ब ! रघुपुङ्गवपादरक्षे !
नैवापरं प्रतिविधेयमभूत् प्रसक्तम्॥ 6.13
विश्वास-प्रस्तुतिः
विश्वं त्वदाश्रितपदाम्बुजसम्भवायां
यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ! ।
आसीदनन्यशरणा समये यथावत्
साऽपि त्वया वसुमती विहितप्रतिष्ठा॥ 6.14
मूलम्
विश्वं त्वदाश्रितपदाम्बुजसम्भवायां
यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ! ।
आसीदनन्यशरणा समये यथावत्
साऽपि त्वया वसुमती विहितप्रतिष्ठा॥ 6.14
विश्वास-प्रस्तुतिः
प्रायेण रामविरहव्यथिता तदानीम्
उत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।
तामेव देवि ! ननु जीवयितुं जलार्द्राम्
अङ्गीचकार भवती भरतोपनीताम्॥ 6.15
मूलम्
प्रायेण रामविरहव्यथिता तदानीम्
उत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।
तामेव देवि ! ननु जीवयितुं जलार्द्राम्
अङ्गीचकार भवती भरतोपनीताम्॥ 6.15
विश्वास-प्रस्तुतिः
वीरव्रतप्रणयिनि प्रथमे रघूणां
प्राप्ते चिराय भरते व्रतमासिधारम् ।
त्यक्त्वा पदावनि ! तदा विविधान् विहारान्
एकासिकाव्रतमपूर्वमवर्तयस्त्वम्॥ 6.16
मूलम्
वीरव्रतप्रणयिनि प्रथमे रघूणां
प्राप्ते चिराय भरते व्रतमासिधारम् ।
त्यक्त्वा पदावनि ! तदा विविधान् विहारान्
एकासिकाव्रतमपूर्वमवर्तयस्त्वम्॥ 6.16
विश्वास-प्रस्तुतिः
काकुत्स्थपादविरहप्रतिपन्नमौनां
निष्पन्दतामुपगतां मणिपादरक्षे ! ।
आश्वासयन्निव मुहुर्भरतस्तदानीं
शीतैरवीजयत चामरमारुतैस्त्वाम्॥ 6.17
मूलम्
काकुत्स्थपादविरहप्रतिपन्नमौनां
निष्पन्दतामुपगतां मणिपादरक्षे ! ।
आश्वासयन्निव मुहुर्भरतस्तदानीं
शीतैरवीजयत चामरमारुतैस्त्वाम्॥ 6.17
विश्वास-प्रस्तुतिः
यत्र क्वचिद्विहरतोऽपि पदारविन्दं
रक्ष्यं मया रघुपतेरिति भावयन्त्या ।
निश्शेषमेव सहसा मणिपादरक्षे !
निष्कण्टकं जगदिदं विदधे भवत्या॥ 6.18
मूलम्
यत्र क्वचिद्विहरतोऽपि पदारविन्दं
रक्ष्यं मया रघुपतेरिति भावयन्त्या ।
निश्शेषमेव सहसा मणिपादरक्षे !
निष्कण्टकं जगदिदं विदधे भवत्या॥ 6.18
विश्वास-प्रस्तुतिः
रामं त्वया विरहितं भरतं च तेन
त्रातुं पदावनि ! तदा यदभूत् प्रतीतम् ।
रामानुजस्य तव चाम्ब ! जगत् समस्तं
जागर्ति तेन खलु जागरणव्रतेन॥ 6.19
मूलम्
रामं त्वया विरहितं भरतं च तेन
त्रातुं पदावनि ! तदा यदभूत् प्रतीतम् ।
रामानुजस्य तव चाम्ब ! जगत् समस्तं
जागर्ति तेन खलु जागरणव्रतेन॥ 6.19
विश्वास-प्रस्तुतिः
अन्तः पुरे परिजनैः समयोपयातैः
अभ्यर्चिता भवसि या विनयोपपन्नैः ।
सा कोसलेश्वरपदावनि ! भूपतीनां
सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम्॥ 6.20
मूलम्
अन्तः पुरे परिजनैः समयोपयातैः
अभ्यर्चिता भवसि या विनयोपपन्नैः ।
सा कोसलेश्वरपदावनि ! भूपतीनां
सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम्॥ 6.20
विश्वास-प्रस्तुतिः
प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै
भद्रासनं भरतवन्दितमाश्रयन्त्या ।
मध्येऽवतीर्णमिव माधवपादरक्षे !
मातस्त्वयाऽपि मनुवंशमहीपतीनाम्॥ 6.21
मूलम्
प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै
भद्रासनं भरतवन्दितमाश्रयन्त्या ।
मध्येऽवतीर्णमिव माधवपादरक्षे !
मातस्त्वयाऽपि मनुवंशमहीपतीनाम्॥ 6.21
विश्वास-प्रस्तुतिः
राजासने रघुकुलोद्वहपादरक्षे !
नीराजनं समभवत् समयोचितं ते ।
श्लाघावशेन बहुशः परिघूर्णिताभिः
सामन्तमौळिमणिमङ्गळदीपिकाभिः॥ 6.22
मूलम्
राजासने रघुकुलोद्वहपादरक्षे !
नीराजनं समभवत् समयोचितं ते ।
श्लाघावशेन बहुशः परिघूर्णिताभिः
सामन्तमौळिमणिमङ्गळदीपिकाभिः॥ 6.22
विश्वास-प्रस्तुतिः
पृथ्वीपतीनां युगपत् किरीटाः
प्रत्यर्थिनां प्राणितुमर्थिनां च ।
प्रापुस्तदा राघवपादरक्षे !
त्वदीयमास्थानिकपादपीठम्॥ 6.23
मूलम्
पृथ्वीपतीनां युगपत् किरीटाः
प्रत्यर्थिनां प्राणितुमर्थिनां च ।
प्रापुस्तदा राघवपादरक्षे !
त्वदीयमास्थानिकपादपीठम्॥ 6.23
विश्वास-प्रस्तुतिः
प्रणम्य रङ्गेश्वरपादरक्षे !
दूरोपनीतैरुपदाविशेषैः ।
सभाजयन्ति स्म तदा सभायाम्
उच्चैस्तरामुत्तरकोसलास्त्वाम्॥ 6.24
मूलम्
प्रणम्य रङ्गेश्वरपादरक्षे !
दूरोपनीतैरुपदाविशेषैः ।
सभाजयन्ति स्म तदा सभायाम्
उच्चैस्तरामुत्तरकोसलास्त्वाम्॥ 6.24
विश्वास-प्रस्तुतिः
अपावृतद्वारमयन्त्रिताश्वं
रङ्गेशपादावनि ! पूर्वमासीत् ।
त्वया यदृच्छासुखसुप्तपान्थं
रामे वनस्थेऽपि पदं रघूणाम्॥ 6.25
मूलम्
अपावृतद्वारमयन्त्रिताश्वं
रङ्गेशपादावनि ! पूर्वमासीत् ।
त्वया यदृच्छासुखसुप्तपान्थं
रामे वनस्थेऽपि पदं रघूणाम्॥ 6.25
विश्वास-प्रस्तुतिः
अनन्यभक्तिर्मणिपादुके ! त्वाम्
अभ्यर्चयन् दाशरथिर्द्वितीयः ।
विकल्प्यमानः प्रथमेन कीर्त्या
वन्द्यः स्वयं व्योमसदां बभूव॥ 6.26
मूलम्
अनन्यभक्तिर्मणिपादुके ! त्वाम्
अभ्यर्चयन् दाशरथिर्द्वितीयः ।
विकल्प्यमानः प्रथमेन कीर्त्या
वन्द्यः स्वयं व्योमसदां बभूव॥ 6.26
विश्वास-प्रस्तुतिः
अरण्ययोग्यं पदमस्पृशन्ती
रामस्य राजार्हपदे निविष्टा ।
आस्थाननित्यासिकया निरास्थः
स्वर्गौकसां स्वैरगतेर्विघातम्॥ 6.27
मूलम्
अरण्ययोग्यं पदमस्पृशन्ती
रामस्य राजार्हपदे निविष्टा ।
आस्थाननित्यासिकया निरास्थः
स्वर्गौकसां स्वैरगतेर्विघातम्॥ 6.27
विश्वास-प्रस्तुतिः
राजासने चेद्भवती निषण्णा
रङ्गेशपादावनि ! तन्न चित्रम् ।
यत्राधिरूढाः क्रमशः पुरा त्वाम्
उत्तंसयन्ते रघुसार्वभौमाः॥ 6.28
मूलम्
राजासने चेद्भवती निषण्णा
रङ्गेशपादावनि ! तन्न चित्रम् ।
यत्राधिरूढाः क्रमशः पुरा त्वाम्
उत्तंसयन्ते रघुसार्वभौमाः॥ 6.28
विश्वास-प्रस्तुतिः
भद्रासनं चेत् परिवृत्तमासीत्
देवि ! क्षणं दक्षिणतोमुखं ते ।
कथं भवेत् काञ्चनपादरक्षे !
रामस्य रक्षोमृगयाविहारः॥ 6.29
मूलम्
भद्रासनं चेत् परिवृत्तमासीत्
देवि ! क्षणं दक्षिणतोमुखं ते ।
कथं भवेत् काञ्चनपादरक्षे !
रामस्य रक्षोमृगयाविहारः॥ 6.29
विश्वास-प्रस्तुतिः
यावत् त्वया राघवपादरक्षे !
जिगीषिता राक्षसराजधानी ।
मालेव तावल्लुळिता मदान्धैः
उद्यानशाखामृगयूथपैस्ते॥ 6.30
मूलम्
यावत् त्वया राघवपादरक्षे !
जिगीषिता राक्षसराजधानी ।
मालेव तावल्लुळिता मदान्धैः
उद्यानशाखामृगयूथपैस्ते॥ 6.30
विश्वास-प्रस्तुतिः
महीक्षितां राघवपादरक्षे !
भद्रासनस्थां भवतीं स्पृशन्तः ।
पूर्वं तथात्वे नियतेऽपि भूयः
कल्याणतामानशिरे किरीटाः॥ 6.31
मूलम्
महीक्षितां राघवपादरक्षे !
भद्रासनस्थां भवतीं स्पृशन्तः ।
पूर्वं तथात्वे नियतेऽपि भूयः
कल्याणतामानशिरे किरीटाः॥ 6.31
विश्वास-प्रस्तुतिः
अनिच्छतः पाण्डरमातपत्रं
पित्रा वितीर्णं मणिपादरक्षे ! ।
आसीत् त्वदर्थं विधृतेन तेन
छाया समग्रा भरतस्य मौळौ॥ 6.32
मूलम्
अनिच्छतः पाण्डरमातपत्रं
पित्रा वितीर्णं मणिपादरक्षे ! ।
आसीत् त्वदर्थं विधृतेन तेन
छाया समग्रा भरतस्य मौळौ॥ 6.32
विश्वास-प्रस्तुतिः
पादुके ! रघुपतौ यदृच्छया
प्रस्थिते वनविहारकौतुकात् ।
आधिराज्यमधिगम्य ते युवाम्
अक्षतं वसुमतीमरक्षतम्॥ 6.33
मूलम्
पादुके ! रघुपतौ यदृच्छया
प्रस्थिते वनविहारकौतुकात् ।
आधिराज्यमधिगम्य ते युवाम्
अक्षतं वसुमतीमरक्षतम्॥ 6.33
विश्वास-प्रस्तुतिः
रघुवीरपदानुषङ्गमात्रात्
परिबर्हेषु निवेशिता यदि त्वम् ।
अधिकारदिने कथं पुनस्ते
परिवारास्तव पादुके ! बभूवुः॥ 6.34
मूलम्
रघुवीरपदानुषङ्गमात्रात्
परिबर्हेषु निवेशिता यदि त्वम् ।
अधिकारदिने कथं पुनस्ते
परिवारास्तव पादुके ! बभूवुः॥ 6.34
विश्वास-प्रस्तुतिः
पुरुषार्थचतुष्टयार्थिनीनां
परिषत् ते महिता वसिष्ठमुख्यैः ।
क्रयविक्रयपट्टणं प्रजानाम्
अभवत् काञ्चनपादुके ! तदानीम्॥ 6.35
मूलम्
पुरुषार्थचतुष्टयार्थिनीनां
परिषत् ते महिता वसिष्ठमुख्यैः ।
क्रयविक्रयपट्टणं प्रजानाम्
अभवत् काञ्चनपादुके ! तदानीम्॥ 6.35
विश्वास-प्रस्तुतिः
मनुजत्वतिरोहितेन शक्ये
वपुषैकेन विरोधिनां निरासे ।
अभजत् भरतादिभेदमीशः
स्वयमाराधयितुं पदावनि ! त्वाम्॥ 6.36
मूलम्
मनुजत्वतिरोहितेन शक्ये
वपुषैकेन विरोधिनां निरासे ।
अभजत् भरतादिभेदमीशः
स्वयमाराधयितुं पदावनि ! त्वाम्॥ 6.36
विश्वास-प्रस्तुतिः
मगधाङ्गकळिङ्गवङ्गमुख्यान्
विमतान् रन्ध्रगवेषिणः ससैन्यान् ।
रघुपुङ्गवपादुके ! विजिग्ये
भरतः शासनमुद्वहन् भवत्याः॥ 6.37
मूलम्
मगधाङ्गकळिङ्गवङ्गमुख्यान्
विमतान् रन्ध्रगवेषिणः ससैन्यान् ।
रघुपुङ्गवपादुके ! विजिग्ये
भरतः शासनमुद्वहन् भवत्याः॥ 6.37
विश्वास-प्रस्तुतिः
अनितरवहनीयं मन्त्रिमुख्यैर्यदा तत्
त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।
रघुपतिपदरक्षे ! रत्नपीठे तदानीं
श्रियमिव ददृशुस्त्वां सादरं लोकपालाः॥ 6.38
मूलम्
अनितरवहनीयं मन्त्रिमुख्यैर्यदा तत्
त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।
रघुपतिपदरक्षे ! रत्नपीठे तदानीं
श्रियमिव ददृशुस्त्वां सादरं लोकपालाः॥ 6.38
विश्वास-प्रस्तुतिः
परिहृतदण्डकाध्वगमनं पदरक्षिणि ! तत्
परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।
रघुपतिरत्नपीठमधिरुह्य तदा विदधे
व्यपगतवैरिभूपनिलयं वसुधावलयम्॥ 6.39
मूलम्
परिहृतदण्डकाध्वगमनं पदरक्षिणि ! तत्
परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।
रघुपतिरत्नपीठमधिरुह्य तदा विदधे
व्यपगतवैरिभूपनिलयं वसुधावलयम्॥ 6.39
विश्वास-प्रस्तुतिः
प्राप्तोदया तदानीं
किमपि तमस्तन्निराकरोत् भवती ।
तनुरिव मनुकुलजनुषां
प्रसवित्री रत्नपादुके ! सवितुः॥ 6.40
मूलम्
प्राप्तोदया तदानीं
किमपि तमस्तन्निराकरोत् भवती ।
तनुरिव मनुकुलजनुषां
प्रसवित्री रत्नपादुके ! सवितुः॥ 6.40