विश्वास-प्रस्तुतिः
प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे ।
आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम्॥ 5.1
मूलम्
प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे ।
आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम्॥ 5.1
विश्वास-प्रस्तुतिः
भृशातुरसहोदरप्रणयखण्डनस्वैरिणा
पदेन किमनेन मे वनमिहावनादिच्छता ।
इतीव परिहाय तन्निववृते स्वयं यत् पुरा
पदत्रमिदमाद्रिये धृतजगत्त्रयं रङ्गिणः॥ 5.2
मूलम्
भृशातुरसहोदरप्रणयखण्डनस्वैरिणा
पदेन किमनेन मे वनमिहावनादिच्छता ।
इतीव परिहाय तन्निववृते स्वयं यत् पुरा
पदत्रमिदमाद्रिये धृतजगत्त्रयं रङ्गिणः॥ 5.2
विश्वास-प्रस्तुतिः
दशवदनविनाशं वाञ्छतो यस्य चक्रे
दशरथमनघोक्तिं दण्डकारण्ययात्रा ।
स च भरतविमर्दे सत्यसन्धस्त्वयासीत्
रघुपतिपदरक्षे ! राजधानीं प्रयान्त्या॥ 5.3
मूलम्
दशवदनविनाशं वाञ्छतो यस्य चक्रे
दशरथमनघोक्तिं दण्डकारण्ययात्रा ।
स च भरतविमर्दे सत्यसन्धस्त्वयासीत्
रघुपतिपदरक्षे ! राजधानीं प्रयान्त्या॥ 5.3
विश्वास-प्रस्तुतिः
अभ्युपेतविनिवृत्तिसाहसा देवि ! रङ्गपतिरत्नपादुके ।
अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम्॥ 5.4
मूलम्
अभ्युपेतविनिवृत्तिसाहसा देवि ! रङ्गपतिरत्नपादुके ।
अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम्॥ 5.4
विश्वास-प्रस्तुतिः
अव्याहतां रघुपतेः वहतः प्रतिज्ञाम्
अंसाधिरोहणरसे विहते धरण्याः ।
प्रादान्निवृत्य भवती मणिपादरक्षे !
स्पर्शं पदेन विगतव्यवधानखेदम्॥ 5.5
मूलम्
अव्याहतां रघुपतेः वहतः प्रतिज्ञाम्
अंसाधिरोहणरसे विहते धरण्याः ।
प्रादान्निवृत्य भवती मणिपादरक्षे !
स्पर्शं पदेन विगतव्यवधानखेदम्॥ 5.5
विश्वास-प्रस्तुतिः
मन्त्राभिषेकविरहाद्भजता विशुद्धिं
संस्कारवर्जनवशादभिसंस्कृतेन ।
मूर्ध्ना निनाय भरतो मणिपादुके ! त्वां
रामाज्ञया विनिहितामिव राज्यलक्ष्मीम्॥ 5.6
मूलम्
मन्त्राभिषेकविरहाद्भजता विशुद्धिं
संस्कारवर्जनवशादभिसंस्कृतेन ।
मूर्ध्ना निनाय भरतो मणिपादुके ! त्वां
रामाज्ञया विनिहितामिव राज्यलक्ष्मीम्॥ 5.6
विश्वास-प्रस्तुतिः
रक्षार्थमस्य जगतो मणिपादरक्षे !
रामस्य पादकमलं समये त्यजन्त्योः ।
किं दुष्करं तव विभूतिपरिग्रहो वा
किं वा विदेहदुहितुः कृपणा दशा सा॥ 5.7
मूलम्
रक्षार्थमस्य जगतो मणिपादरक्षे !
रामस्य पादकमलं समये त्यजन्त्योः ।
किं दुष्करं तव विभूतिपरिग्रहो वा
किं वा विदेहदुहितुः कृपणा दशा सा॥ 5.7
विश्वास-प्रस्तुतिः
सीतासखस्य सहसा चरणारविन्दात्
भक्त्या नते कृतपदा भरतोत्तमाङ्गे ।
आरुह्य नागमभितो भवती वितेने
मायूरचामरभरं मणिरश्मिजालैः॥ 5.8
मूलम्
सीतासखस्य सहसा चरणारविन्दात्
भक्त्या नते कृतपदा भरतोत्तमाङ्गे ।
आरुह्य नागमभितो भवती वितेने
मायूरचामरभरं मणिरश्मिजालैः॥ 5.8
विश्वास-प्रस्तुतिः
मूर्ध्ना मुकुन्दपदरक्षिणि ! बिभ्रतस्त्वाम्
आविर्मदस्य रघुवीरमदावळस्य ।
आमोदिभिस्सपदि दानजलप्रवाहैः
लेभे चिराद्वसुमती रुचिरं विलेपम्॥ 5.9
मूलम्
मूर्ध्ना मुकुन्दपदरक्षिणि ! बिभ्रतस्त्वाम्
आविर्मदस्य रघुवीरमदावळस्य ।
आमोदिभिस्सपदि दानजलप्रवाहैः
लेभे चिराद्वसुमती रुचिरं विलेपम्॥ 5.9
विश्वास-प्रस्तुतिः
आशाः प्रसाधयितुमम्ब ! तदा भवत्यां
दैवादकाण्डशरदीव समुत्थितायाम् ।
स्तोकावशेषसलिलास्सहसा बभूवुः
साकेतयौवतविलोचनवारिवाहाः॥ 5.10
मूलम्
आशाः प्रसाधयितुमम्ब ! तदा भवत्यां
दैवादकाण्डशरदीव समुत्थितायाम् ।
स्तोकावशेषसलिलास्सहसा बभूवुः
साकेतयौवतविलोचनवारिवाहाः॥ 5.10
विश्वास-प्रस्तुतिः
अन्ते वसन्नचरमस्य कवेस्स योगी
वन्यान् प्रगृह्य विविधान् उपदाविशेषान् ।
आतस्थुषीं रघुकुलोचितमौपवाह्यम्
प्रत्युज्जगाम भवतीं भरतोपनीताम्॥ 5.11
मूलम्
अन्ते वसन्नचरमस्य कवेस्स योगी
वन्यान् प्रगृह्य विविधान् उपदाविशेषान् ।
आतस्थुषीं रघुकुलोचितमौपवाह्यम्
प्रत्युज्जगाम भवतीं भरतोपनीताम्॥ 5.11
विश्वास-प्रस्तुतिः
मातस्त्वदागमनमङ्गळदर्शिनीनां
साकेतपक्ष्मळदृशां चटुलाक्षिभृङ्गैः ।
जातानि तत्र सहसा मणिपादरक्षे !
वातायनानि वदनैश्शतपत्रितानि॥ 5.12
मूलम्
मातस्त्वदागमनमङ्गळदर्शिनीनां
साकेतपक्ष्मळदृशां चटुलाक्षिभृङ्गैः ।
जातानि तत्र सहसा मणिपादरक्षे !
वातायनानि वदनैश्शतपत्रितानि॥ 5.12
विश्वास-प्रस्तुतिः
साकेतसीम्नि भवती मणिपादरक्षे !
माङ्गल्यलाजनिकरैरवकीर्यमाणा ।
कीर्तिस्वयंवरपतेर्भरतस्य काले
वैवाहिकी जननि ! वह्निशिखेव रेजे॥ 5.13
मूलम्
साकेतसीम्नि भवती मणिपादरक्षे !
माङ्गल्यलाजनिकरैरवकीर्यमाणा ।
कीर्तिस्वयंवरपतेर्भरतस्य काले
वैवाहिकी जननि ! वह्निशिखेव रेजे॥ 5.13
विश्वास-प्रस्तुतिः
छत्रेन्दुमण्डलवती मणिपादुके ! त्वं
व्याधूतचामरकलापशरप्रसूना ।
सद्यो बभूविथ समग्रविकासहेतुः
साकेतपौरवनितानयनोत्पलानाम्॥ 5.14
मूलम्
छत्रेन्दुमण्डलवती मणिपादुके ! त्वं
व्याधूतचामरकलापशरप्रसूना ।
सद्यो बभूविथ समग्रविकासहेतुः
साकेतपौरवनितानयनोत्पलानाम्॥ 5.14
विश्वास-प्रस्तुतिः
प्रैक्षन्त वक्त्रैर्मणिपादरक्षे !
शत्रुञ्जयं शैलमिवाधिरूढाम् ।
रामाभिधानप्रतिपन्नहर्षैः
उत्तानितैरुत्तरकोसलास्त्वाम्॥ 5.15
मूलम्
प्रैक्षन्त वक्त्रैर्मणिपादरक्षे !
शत्रुञ्जयं शैलमिवाधिरूढाम् ।
रामाभिधानप्रतिपन्नहर्षैः
उत्तानितैरुत्तरकोसलास्त्वाम्॥ 5.15
विश्वास-प्रस्तुतिः
द्रष्टुं तदा राघवपादरक्षे !
सीतामिव त्वां विनिवर्तमानाम् ।
आसन् अयोध्यापुरसुन्दरीणाम्
औत्सुक्यलोलानि विलोचनानि॥ 5.16
मूलम्
द्रष्टुं तदा राघवपादरक्षे !
सीतामिव त्वां विनिवर्तमानाम् ।
आसन् अयोध्यापुरसुन्दरीणाम्
औत्सुक्यलोलानि विलोचनानि॥ 5.16
विश्वास-प्रस्तुतिः
आस्थाय तत्र स्फुटबिन्दुनादं
स्तम्बेरमं तादृशसन्निवेशम् ।
अदर्शयस्त्वं पुरमध्यभागे
पादावनि ! त्वत्प्रणवाश्रयत्वम्॥ 5.17
मूलम्
आस्थाय तत्र स्फुटबिन्दुनादं
स्तम्बेरमं तादृशसन्निवेशम् ।
अदर्शयस्त्वं पुरमध्यभागे
पादावनि ! त्वत्प्रणवाश्रयत्वम्॥ 5.17
विश्वास-प्रस्तुतिः
दशग्रीवस्तम्बेरमदळनदुर्दान्तहृदये
विहारस्वाच्छन्द्यात् विशति रघुसिंहे वनभुवम् ।
स्ववात्सल्यक्रोडीकृतभरतशाबेव भवती
निराबाधां पादावनि ! न विजहौ कोसलगुहाम्॥ 5.18
मूलम्
दशग्रीवस्तम्बेरमदळनदुर्दान्तहृदये
विहारस्वाच्छन्द्यात् विशति रघुसिंहे वनभुवम् ।
स्ववात्सल्यक्रोडीकृतभरतशाबेव भवती
निराबाधां पादावनि ! न विजहौ कोसलगुहाम्॥ 5.18
विश्वास-प्रस्तुतिः
कैकेयीवरदानदुर्दिननिरालोकस्य लोकस्य यत्
त्राणार्थं भरतेन भव्यमनसा साकेतमानीयत ।
रामत्यागसहैरसह्यविरहम् रङ्गक्षितीन्द्रस्य तत्
पादत्राणमनन्यतन्त्रफणितेरापीडमीडीमहि॥ 5.19
मूलम्
कैकेयीवरदानदुर्दिननिरालोकस्य लोकस्य यत्
त्राणार्थं भरतेन भव्यमनसा साकेतमानीयत ।
रामत्यागसहैरसह्यविरहम् रङ्गक्षितीन्द्रस्य तत्
पादत्राणमनन्यतन्त्रफणितेरापीडमीडीमहि॥ 5.19
विश्वास-प्रस्तुतिः
समुपस्थिते प्रदोषे सहसा
विनिवृत्य चित्रकूटवनात् ।
अभजत पुनर्जनपदं वत्सं
धेनुरिव पादुके ! भवती॥ 5.20
मूलम्
समुपस्थिते प्रदोषे सहसा
विनिवृत्य चित्रकूटवनात् ।
अभजत पुनर्जनपदं वत्सं
धेनुरिव पादुके ! भवती॥ 5.20