04 समर्पणपद्धतिः

विश्वास-प्रस्तुतिः

भजामः पादुके ! याभ्यां भरतस्याग्रजस्तदा ।
प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत्॥ 4.1

मूलम्

भजामः पादुके ! याभ्यां भरतस्याग्रजस्तदा ।
प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत्॥ 4.1

विश्वास-प्रस्तुतिः

राज्यं विहाय रघुवंशमहीपतीनां
पौरांश्च पादरसिकान् पृथिवीं च रक्ताम् ।
त्वामेव हन्त चरणावनि ! सम्प्रयास्यन्
आलम्बत प्रथममुत्तरकोसलेन्द्रः॥ 4.2

मूलम्

राज्यं विहाय रघुवंशमहीपतीनां
पौरांश्च पादरसिकान् पृथिवीं च रक्ताम् ।
त्वामेव हन्त चरणावनि ! सम्प्रयास्यन्
आलम्बत प्रथममुत्तरकोसलेन्द्रः॥ 4.2

विश्वास-प्रस्तुतिः

प्राप्ते प्रयाणसमये मणिपादरक्षे !
पौरानवेक्ष्य भवती करुणप्रलापान् ।
मञ्जुप्रणादमुखरा विनिवर्तनार्थं
रामं पदग्रहणपूर्वमयाचतेव॥ 4.3

मूलम्

प्राप्ते प्रयाणसमये मणिपादरक्षे !
पौरानवेक्ष्य भवती करुणप्रलापान् ।
मञ्जुप्रणादमुखरा विनिवर्तनार्थं
रामं पदग्रहणपूर्वमयाचतेव॥ 4.3

विश्वास-प्रस्तुतिः

मत्वा तृणाय भरतो मणिपादरक्षे !
रामेण तां विरहितां रघुराजधानीम् ।
त्वामेव सप्रणयमुज्जयिनीमवन्तीम्
मेने महोदयमयीं मधुरामयोध्याम्॥ 4.4

मूलम्

मत्वा तृणाय भरतो मणिपादरक्षे !
रामेण तां विरहितां रघुराजधानीम् ।
त्वामेव सप्रणयमुज्जयिनीमवन्तीम्
मेने महोदयमयीं मधुरामयोध्याम्॥ 4.4

विश्वास-प्रस्तुतिः

रामात्मनः प्रतिपदं मणिपादरक्षे !
विश्वम्भरस्य वहनेन परीक्षितां त्वाम् ।
विश्वस्य देवि वहने विनिवेशयिष्यन्
विस्रब्ध एव भरतो भवतीम् ययाचे॥ 4.5

मूलम्

रामात्मनः प्रतिपदं मणिपादरक्षे !
विश्वम्भरस्य वहनेन परीक्षितां त्वाम् ।
विश्वस्य देवि वहने विनिवेशयिष्यन्
विस्रब्ध एव भरतो भवतीम् ययाचे॥ 4.5

विश्वास-प्रस्तुतिः

भक्त्या परं भवतु तद् भरतस्य साधोः
त्वत्प्रार्थनं रघुपतौ मणिपादरक्षे ! ।
केनाशयेन स मुनिः परमार्थदर्शी
भद्राय देवि ! जगतां भवतीमवादीत्॥ 4.6

मूलम्

भक्त्या परं भवतु तद् भरतस्य साधोः
त्वत्प्रार्थनं रघुपतौ मणिपादरक्षे ! ।
केनाशयेन स मुनिः परमार्थदर्शी
भद्राय देवि ! जगतां भवतीमवादीत्॥ 4.6

विश्वास-प्रस्तुतिः

रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते
राज्यापवादचकिते भरते तदानीम् ।
आश्वासयेत् क इव कोसलवासिनस्तान्
सीतेव चेत् त्वमपि साहसवृत्तिरासीः॥ 4.7

मूलम्

रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते
राज्यापवादचकिते भरते तदानीम् ।
आश्वासयेत् क इव कोसलवासिनस्तान्
सीतेव चेत् त्वमपि साहसवृत्तिरासीः॥ 4.7

विश्वास-प्रस्तुतिः

पादावनि ! प्रभवतो जगतां त्रयाणां
रामादपि त्वमधिका नियतं प्रभावात् ।
नो चेत् कथन्नु भरतस्य तमेव लिप्सोः
प्रत्यायनं परिपणं भवती भवित्री॥ 4.8

मूलम्

पादावनि ! प्रभवतो जगतां त्रयाणां
रामादपि त्वमधिका नियतं प्रभावात् ।
नो चेत् कथन्नु भरतस्य तमेव लिप्सोः
प्रत्यायनं परिपणं भवती भवित्री॥ 4.8

विश्वास-प्रस्तुतिः

मन्ये नियुज्य भवतीं मणिपादरक्षे !
पार्ष्णिग्रहस्य भरतस्य निवारणार्थम् ।
रत्नाकरं सपदि गोष्पदयन् विजिग्ये
रामः क्षणेन रजनीचरराजधानीम्॥ 4.9

मूलम्

मन्ये नियुज्य भवतीं मणिपादरक्षे !
पार्ष्णिग्रहस्य भरतस्य निवारणार्थम् ।
रत्नाकरं सपदि गोष्पदयन् विजिग्ये
रामः क्षणेन रजनीचरराजधानीम्॥ 4.9

विश्वास-प्रस्तुतिः

पादावनि ! प्रभुतरानपराधवर्गान्
सोढुम् क्षमा त्वमसि मूर्तिमती क्षमैव ।
यत् त्वां विहाय निहताः परिपन्थिनस्ते
देवेन दाशरथिना दशकण्ठमुख्याः॥ 4.10

मूलम्

पादावनि ! प्रभुतरानपराधवर्गान्
सोढुम् क्षमा त्वमसि मूर्तिमती क्षमैव ।
यत् त्वां विहाय निहताः परिपन्थिनस्ते
देवेन दाशरथिना दशकण्ठमुख्याः॥ 4.10

विश्वास-प्रस्तुतिः

वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्या
मातुर्मनोरथमशेषमवन्ध्ययिष्यन् ।
मन्ये तदा रघुपतिः भरतस्य तेने
मातस्त्वयैव मणिमौलिनिवेशलक्ष्मीम्॥ 4.11

मूलम्

वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्या
मातुर्मनोरथमशेषमवन्ध्ययिष्यन् ।
मन्ये तदा रघुपतिः भरतस्य तेने
मातस्त्वयैव मणिमौलिनिवेशलक्ष्मीम्॥ 4.11

विश्वास-प्रस्तुतिः

पादाम्बुजाद्विगळितां परमस्य पुंसः
त्वामादरेण विनिवेश्य जटाकलापे ।
अङ्गीचकार भरतो मणिपादरक्षे !
गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम्॥ 4.12

मूलम्

पादाम्बुजाद्विगळितां परमस्य पुंसः
त्वामादरेण विनिवेश्य जटाकलापे ।
अङ्गीचकार भरतो मणिपादरक्षे !
गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम्॥ 4.12

विश्वास-प्रस्तुतिः

अविकलमधिकर्तुं रक्षणे सप्तलोक्याः
रघुपतिचरणेन न्यस्तदिव्यानुभावाम् ।
अभजत भरतस्त्वामञ्जसा पादरक्षे !
मणिमकुटनिवेशत्यागधन्येन मूर्ध्ना॥ 4.13

मूलम्

अविकलमधिकर्तुं रक्षणे सप्तलोक्याः
रघुपतिचरणेन न्यस्तदिव्यानुभावाम् ।
अभजत भरतस्त्वामञ्जसा पादरक्षे !
मणिमकुटनिवेशत्यागधन्येन मूर्ध्ना॥ 4.13

विश्वास-प्रस्तुतिः

इयमविकलयोगक्षेमसिद्ध्यै प्रजानाम्
अलमिति भरतेन प्रार्थितामादरेण ।
रघुपतिरधिरोहन् अभ्यषिञ्चत् स्वयं त्वां
चरणनखमणीनां चन्द्रिकानिर्झरेण॥ 4.14

मूलम्

इयमविकलयोगक्षेमसिद्ध्यै प्रजानाम्
अलमिति भरतेन प्रार्थितामादरेण ।
रघुपतिरधिरोहन् अभ्यषिञ्चत् स्वयं त्वां
चरणनखमणीनां चन्द्रिकानिर्झरेण॥ 4.14

विश्वास-प्रस्तुतिः

प्रणयिनि पदपद्मे गाढमाश्लिष्यति त्वां
विधिसुतकथितं तद्वैभवं ते विदन्तः ।
अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यगारे
रघुपतिपदरक्षे ! रामगिर्याश्रमस्थाः॥ 4.15

मूलम्

प्रणयिनि पदपद्मे गाढमाश्लिष्यति त्वां
विधिसुतकथितं तद्वैभवं ते विदन्तः ।
अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यगारे
रघुपतिपदरक्षे ! रामगिर्याश्रमस्थाः॥ 4.15

विश्वास-प्रस्तुतिः

नियतमधिरुरोह त्वामनाधेयशक्तिं
निजचरणसरोजे शक्तिमाधातुकामः ।
स कथमितरथा त्वां न्यस्य रामो विजह्रे
दृषदुपचितभूमौ दण्डकारण्यभागे॥ 4.16

मूलम्

नियतमधिरुरोह त्वामनाधेयशक्तिं
निजचरणसरोजे शक्तिमाधातुकामः ।
स कथमितरथा त्वां न्यस्य रामो विजह्रे
दृषदुपचितभूमौ दण्डकारण्यभागे॥ 4.16

विश्वास-प्रस्तुतिः

रघुपतिपदपद्माद्रत्नपीठे निवेष्टुम्
भरतशिरसि लग्नां प्रेक्ष्य पादावनि ! त्वाम् ।
परिणतपुरुषार्थः पौरवर्गः स्वयं ते
विधिमभजत सर्वो वन्दिवैताळिकानाम्॥ 4.17

मूलम्

रघुपतिपदपद्माद्रत्नपीठे निवेष्टुम्
भरतशिरसि लग्नां प्रेक्ष्य पादावनि ! त्वाम् ।
परिणतपुरुषार्थः पौरवर्गः स्वयं ते
विधिमभजत सर्वो वन्दिवैताळिकानाम्॥ 4.17

विश्वास-प्रस्तुतिः

अनन्यराजन्यनिदेशनिष्ठां
चकार पृथ्वीं चतुरर्णवान्ताम् ।
भ्रातुर्यियासोः भरतस्तदा त्वां
मूर्ध्ना वहन् मूर्तिमतीमिवाज्ञाम्॥ 4.18

मूलम्

अनन्यराजन्यनिदेशनिष्ठां
चकार पृथ्वीं चतुरर्णवान्ताम् ।
भ्रातुर्यियासोः भरतस्तदा त्वां
मूर्ध्ना वहन् मूर्तिमतीमिवाज्ञाम्॥ 4.18

विश्वास-प्रस्तुतिः

यद् भ्रात्रे भरताय रङ्गपतिना रामत्वमातस्थुषा
नित्योपास्यनिजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितम् ।
योगक्षेमवहं समस्तजगतां यद्गीयते योगिभिः
पादत्राणमिदं मितम्पचकथामह्नाय मे निह्नुताम्॥ 4.19

मूलम्

यद् भ्रात्रे भरताय रङ्गपतिना रामत्वमातस्थुषा
नित्योपास्यनिजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितम् ।
योगक्षेमवहं समस्तजगतां यद्गीयते योगिभिः
पादत्राणमिदं मितम्पचकथामह्नाय मे निह्नुताम्॥ 4.19

विश्वास-प्रस्तुतिः

भरतस्येव ममापि प्रशमित विश्वापवाददुर्जाता ।
शेषेव शिरसि नित्यं विहरतु रघुवीरपादुके ! भवती॥ 4.20

मूलम्

भरतस्येव ममापि प्रशमित विश्वापवाददुर्जाता ।
शेषेव शिरसि नित्यं विहरतु रघुवीरपादुके ! भवती॥ 4.20