03 प्रभावपद्धतिः

विश्वास-प्रस्तुतिः

वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् ।
उन्नतानामवनतिः नतानां यत्र चोन्नतिः॥ 3.1

मूलम्

वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् ।
उन्नतानामवनतिः नतानां यत्र चोन्नतिः॥ 3.1

विश्वास-प्रस्तुतिः

निश्शेषमम्बरतलं यदि पत्रिका स्यात्
सप्तार्णवी यदि समेत्य मषी भवित्री ।
वक्ता सहस्रवदनः पुरुषः स्वयं चेत्
लिख्येत रङ्गपतिपादुकयोः प्रभावः॥ 3.2

मूलम्

निश्शेषमम्बरतलं यदि पत्रिका स्यात्
सप्तार्णवी यदि समेत्य मषी भवित्री ।
वक्ता सहस्रवदनः पुरुषः स्वयं चेत्
लिख्येत रङ्गपतिपादुकयोः प्रभावः॥ 3.2

विश्वास-प्रस्तुतिः

वेदोपबृह्मणकुतूहलिना निबद्धं
विश्वम्भराश्रुतिभवेन महर्षिणा यत् ।
व्यासेन यच्च मधुसूदनपादरक्षे !
द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः॥ 3.3

मूलम्

वेदोपबृह्मणकुतूहलिना निबद्धं
विश्वम्भराश्रुतिभवेन महर्षिणा यत् ।
व्यासेन यच्च मधुसूदनपादरक्षे !
द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः॥ 3.3

विश्वास-प्रस्तुतिः

प्रत्यक्षयन्ति परिशुद्धधियो यथावत्
रामायणे रघुपुरन्दरपादरक्षे ! ।
शश्वत्प्रपञ्चितमिदम् परयैव वृत्त्या
सङ्क्षेपविस्तरदशासु तवानुभावम्॥ 3.4

मूलम्

प्रत्यक्षयन्ति परिशुद्धधियो यथावत्
रामायणे रघुपुरन्दरपादरक्षे ! ।
शश्वत्प्रपञ्चितमिदम् परयैव वृत्त्या
सङ्क्षेपविस्तरदशासु तवानुभावम्॥ 3.4

विश्वास-प्रस्तुतिः

अल्पश्रुतैरपि जनैरनुमीयसे त्वं
रङ्गेशपादु ! नियतं निगमोपगीता ।
सारं तदर्थमुपबृंहयितुं प्रणीतं
रामायणं तव महिम्नि यतः प्रमाणम्॥ 3.5

मूलम्

अल्पश्रुतैरपि जनैरनुमीयसे त्वं
रङ्गेशपादु ! नियतं निगमोपगीता ।
सारं तदर्थमुपबृंहयितुं प्रणीतं
रामायणं तव महिम्नि यतः प्रमाणम्॥ 3.5

विश्वास-प्रस्तुतिः

तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत् पादुके !
तत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् ।
यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव-
स्पर्धादुर्धरपादबद्धफणितिर्वल्मीकजन्मा कविः॥ 3.6

मूलम्

तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत् पादुके !
तत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् ।
यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव-
स्पर्धादुर्धरपादबद्धफणितिर्वल्मीकजन्मा कविः॥ 3.6

विश्वास-प्रस्तुतिः

भक्तिप्रह्वपुरप्रभञ्जनजटावाट् ईसनीडस्फुर-
च्चूडारग्वधवासनापरिमळस्त्याने स्तुमः पादुके ।
रङ्गक्षोणिभृदङ्घ्रिपद्मयुगळीपूर्णप्रपत्तेः फलं
निश्चिन्वन्ति विपश्चितः शमधना नित्यं
यदुत्तंसनम्॥ 3.7

मूलम्

भक्तिप्रह्वपुरप्रभञ्जनजटावाट् ईसनीडस्फुर-
च्चूडारग्वधवासनापरिमळस्त्याने स्तुमः पादुके ।
रङ्गक्षोणिभृदङ्घ्रिपद्मयुगळीपूर्णप्रपत्तेः फलं
निश्चिन्वन्ति विपश्चितः शमधना नित्यं
यदुत्तंसनम्॥ 3.7

विश्वास-प्रस्तुतिः

मातर्माधवपादुके ! तव गुणान् कः स्तोतुमस्तोकधीः
कोट् ईरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् ।
अन्योन्यं क्षिपतामहंप्रथमिकासम्मर्दकोलाहलं
विष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति॥ 3.8

मूलम्

मातर्माधवपादुके ! तव गुणान् कः स्तोतुमस्तोकधीः
कोट् ईरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् ।
अन्योन्यं क्षिपतामहंप्रथमिकासम्मर्दकोलाहलं
विष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति॥ 3.8

विश्वास-प्रस्तुतिः

योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक-
स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च ।
दूत्यादिष्वपि दुर्वचानि पदयोः कृत्यानि मत्वेव यत्
धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे
रङ्गिणः॥ 3.9

मूलम्

योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक-
स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च ।
दूत्यादिष्वपि दुर्वचानि पदयोः कृत्यानि मत्वेव यत्
धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे
रङ्गिणः॥ 3.9

विश्वास-प्रस्तुतिः

वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयं
यत्तद् भक्तिभरानतेन शिरसा यत्र क्वचित् बिभ्रति ।
द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर-
त्रासोत्कम्पदशाविसंस्थुळधृतिस्त्रैविष्टपानांगणः॥ 3.10

मूलम्

वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयं
यत्तद् भक्तिभरानतेन शिरसा यत्र क्वचित् बिभ्रति ।
द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर-
त्रासोत्कम्पदशाविसंस्थुळधृतिस्त्रैविष्टपानांगणः॥ 3.10

विश्वास-प्रस्तुतिः

पद्माकान्तपदान्तरङ्गविभवोद्रिक्तं पदत्रं भजे
यद्भक्त्या नमतां त्रिविष्टपसतां चूडापदेष्वर्पितम् ।
नित्यापीतनखेन्दुदीधितिसुधासन्दोहमुच्चैर्वम-
त्यन्तर्नूनममान्तमन्तिकलसच्छेषापटच्छद्मना॥ 3.11

मूलम्

पद्माकान्तपदान्तरङ्गविभवोद्रिक्तं पदत्रं भजे
यद्भक्त्या नमतां त्रिविष्टपसतां चूडापदेष्वर्पितम् ।
नित्यापीतनखेन्दुदीधितिसुधासन्दोहमुच्चैर्वम-
त्यन्तर्नूनममान्तमन्तिकलसच्छेषापटच्छद्मना॥ 3.11

विश्वास-प्रस्तुतिः

तद्विष्णोः परमं पदत्रयुगळं त्रय्यन्तपर्यन्तगं
चिन्तातीतविभूतिकं वितरतु श्रेयांसि भूयांसि नः ।
यत् विक्रान्तिदशासमुत्थितपदप्रस्यन्दिपाथस्विनी-
सख्येनेव सदा नतस्य तनुते मौळौ स्थितिं शूलिनः॥ 3.12

मूलम्

तद्विष्णोः परमं पदत्रयुगळं त्रय्यन्तपर्यन्तगं
चिन्तातीतविभूतिकं वितरतु श्रेयांसि भूयांसि नः ।
यत् विक्रान्तिदशासमुत्थितपदप्रस्यन्दिपाथस्विनी-
सख्येनेव सदा नतस्य तनुते मौळौ स्थितिं शूलिनः॥ 3.12

विश्वास-प्रस्तुतिः

अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद् गम्यते
क्लेशेनापि कियद् व्यलङ्घि रभसोत्तुङ्गैः प्लवङ्गेश्वरैः ।
विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरता
किं तैः केशवपादुकागुणमहाम्भोधेः तटस्था
वयम्॥ 3.13

मूलम्

अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद् गम्यते
क्लेशेनापि कियद् व्यलङ्घि रभसोत्तुङ्गैः प्लवङ्गेश्वरैः ।
विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरता
किं तैः केशवपादुकागुणमहाम्भोधेः तटस्था
वयम्॥ 3.13

विश्वास-प्रस्तुतिः

पदकमलरजोभिर्वासिते रङ्गभर्तुः
परिचितनिगमान्ते पादुके धारयन्तः ।
अविदितपरिपाकं चन्द्रमुत्तंसयन्ते
परिणतभुवनं तत् पद्ममध्यासते वा॥ 3.14

मूलम्

पदकमलरजोभिर्वासिते रङ्गभर्तुः
परिचितनिगमान्ते पादुके धारयन्तः ।
अविदितपरिपाकं चन्द्रमुत्तंसयन्ते
परिणतभुवनं तत् पद्ममध्यासते वा॥ 3.14

विश्वास-प्रस्तुतिः

सकृदपि किल मूर्ध्ना शार्ङ्गिणः पादुके ! त्वां
मनुजमनुवहन्तं देहबन्धव्यपाये ।
उपचरति यथार्हं देववर्गस्त्वदीयः
स तु नियमितभृत्यो जोषमास्ते कृतान्तः॥ 3.15

मूलम्

सकृदपि किल मूर्ध्ना शार्ङ्गिणः पादुके ! त्वां
मनुजमनुवहन्तं देहबन्धव्यपाये ।
उपचरति यथार्हं देववर्गस्त्वदीयः
स तु नियमितभृत्यो जोषमास्ते कृतान्तः॥ 3.15

विश्वास-प्रस्तुतिः

पदसरसिजमेतत् पादुके ! रङ्गभर्तुः
प्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना ।
तदिदमपरधा चेत् तिष्ठतस्तस्य नित्यं
कथमिव विदितार्थाः त्वां भजन्ते महान्तः॥ 3.16

मूलम्

पदसरसिजमेतत् पादुके ! रङ्गभर्तुः
प्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना ।
तदिदमपरधा चेत् तिष्ठतस्तस्य नित्यं
कथमिव विदितार्थाः त्वां भजन्ते महान्तः॥ 3.16

विश्वास-प्रस्तुतिः

श्रुतिशिरसि निगूढं कर्मणां चोदितानां
त्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् ।
परिहसति मुरारेः पादुके ! बालिशानां
पशुवधपरिशेषान् पण्डितो नामयज्ञान्॥ 3.17

मूलम्

श्रुतिशिरसि निगूढं कर्मणां चोदितानां
त्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् ।
परिहसति मुरारेः पादुके ! बालिशानां
पशुवधपरिशेषान् पण्डितो नामयज्ञान्॥ 3.17

विश्वास-प्रस्तुतिः

जनयितुमलमर्घ्यं दैत्यजित्पादरक्षे !
नमति महति देवे नाकसिन्धोर्विशीर्णाः ।
मुहुरहिपतिचूडामौळिरत्नाभिघातात्
परिणतलघिमानः पाथसामूर्मयस्ते॥ 3.18

मूलम्

जनयितुमलमर्घ्यं दैत्यजित्पादरक्षे !
नमति महति देवे नाकसिन्धोर्विशीर्णाः ।
मुहुरहिपतिचूडामौळिरत्नाभिघातात्
परिणतलघिमानः पाथसामूर्मयस्ते॥ 3.18

विश्वास-प्रस्तुतिः

पदसरसिजयोस्त्वं पादुके ! रङ्गभर्तुः
मनसि मुनिजनानां मौळिदेशे श्रुतीनाम् ।
वचसि च सुकवीनां वर्तसे नित्यमेका
तदिदमवगतं ते शाश्वतं वैश्वरूप्यम्॥ 3.19

मूलम्

पदसरसिजयोस्त्वं पादुके ! रङ्गभर्तुः
मनसि मुनिजनानां मौळिदेशे श्रुतीनाम् ।
वचसि च सुकवीनां वर्तसे नित्यमेका
तदिदमवगतं ते शाश्वतं वैश्वरूप्यम्॥ 3.19

विश्वास-प्रस्तुतिः

परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिं
परिणमयसि शौरेः पादुके ! त्वं सुवर्णम् ।
कुहकजनविदूरे सत्पथे लब्धवृत्तेः
क्व नु खलु विदितस्ते कोऽप्यसौ धातुवादः॥ 3.20

मूलम्

परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिं
परिणमयसि शौरेः पादुके ! त्वं सुवर्णम् ।
कुहकजनविदूरे सत्पथे लब्धवृत्तेः
क्व नु खलु विदितस्ते कोऽप्यसौ धातुवादः॥ 3.20

विश्वास-प्रस्तुतिः

बलिमथनविहारात् वर्धमानस्य विष्णोः
अखिलमतिपतद्भिर्विक्रमैरप्रमेयः ।
अवधिमनधिगच्छन् पापराशिर्मदीयः
समजनि पदरक्षे ! सावधिस्त्वन्महिम्ना॥ 3.21

मूलम्

बलिमथनविहारात् वर्धमानस्य विष्णोः
अखिलमतिपतद्भिर्विक्रमैरप्रमेयः ।
अवधिमनधिगच्छन् पापराशिर्मदीयः
समजनि पदरक्षे ! सावधिस्त्वन्महिम्ना॥ 3.21

विश्वास-प्रस्तुतिः

तटभुवि यमुनायास्तस्थुषी यन्निवेशात्
वहति निगमशाखावैभवं नीपशाखा ।
पदकमलमिदं तत् पादुके ! रङ्गभर्तुः
त्वयि भजति विभूतिं पश्य शाखानुशाखाम्॥ 3.22

मूलम्

तटभुवि यमुनायास्तस्थुषी यन्निवेशात्
वहति निगमशाखावैभवं नीपशाखा ।
पदकमलमिदं तत् पादुके ! रङ्गभर्तुः
त्वयि भजति विभूतिं पश्य शाखानुशाखाम्॥ 3.22

विश्वास-प्रस्तुतिः

शिरसि विनिहितायां भक्तिनम्रे भवत्यां
सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति ।
मधुरिपुपदरक्षे ! यद्वशेनैव तेषाम्
अनितरसुलभं तद्धाम हस्तापचेयम्॥ 3.23

मूलम्

शिरसि विनिहितायां भक्तिनम्रे भवत्यां
सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति ।
मधुरिपुपदरक्षे ! यद्वशेनैव तेषाम्
अनितरसुलभं तद्धाम हस्तापचेयम्॥ 3.23

विश्वास-प्रस्तुतिः

सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके ! त्वाम्
उपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः ।
नरकमिव महान्तो नाकमुल्लङ्घयन्तः
परिषदि निविशन्ते प्राक्तनानां गुरूणाम्॥ 3.24

मूलम्

सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके ! त्वाम्
उपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः ।
नरकमिव महान्तो नाकमुल्लङ्घयन्तः
परिषदि निविशन्ते प्राक्तनानां गुरूणाम्॥ 3.24

विश्वास-प्रस्तुतिः

शमदगुणदान्तोदन्तवैदेशिकानां
शरणमशरणानां मादृशां माधवस्य ।
पदकमलमिदं ते पादुके ! रक्ष्यमासीत्
अनुदयनिधनानामागमानां निधानम्॥ 3.25

मूलम्

शमदगुणदान्तोदन्तवैदेशिकानां
शरणमशरणानां मादृशां माधवस्य ।
पदकमलमिदं ते पादुके ! रक्ष्यमासीत्
अनुदयनिधनानामागमानां निधानम्॥ 3.25

विश्वास-प्रस्तुतिः

परिचितपदपद्मां पादुके ! रङ्गिणस्त्वां
त्रिभुवनमहनीयां सादरं धारयन्तः ।
निजशिरसि निलीनं देवि ! मन्दारमाल्यं
निगमपरिमळैस्ते वासयन्तीव देवाः॥ 3.26

मूलम्

परिचितपदपद्मां पादुके ! रङ्गिणस्त्वां
त्रिभुवनमहनीयां सादरं धारयन्तः ।
निजशिरसि निलीनं देवि ! मन्दारमाल्यं
निगमपरिमळैस्ते वासयन्तीव देवाः॥ 3.26

विश्वास-प्रस्तुतिः

कनकसरिदनूपे कल्पवृक्षस्य भूष्णोः
पदकिसलयलग्ना पादुके ! मञ्जरी त्वम् ।
परिणतिमधुराणां या फलानां सवित्री
वहसि निगमबृन्दैः सम्पदं षट्पदानाम्॥ 3.27

मूलम्

कनकसरिदनूपे कल्पवृक्षस्य भूष्णोः
पदकिसलयलग्ना पादुके ! मञ्जरी त्वम् ।
परिणतिमधुराणां या फलानां सवित्री
वहसि निगमबृन्दैः सम्पदं षट्पदानाम्॥ 3.27

विश्वास-प्रस्तुतिः

परिकलयसि चेन्मां पद्मवासानिषेव्ये
पदकमलयुगे त्वं पादुके ! रङ्गभर्तुः ।
अविदितनिगमानां नूनमस्मादृशानाम्
अघटितघटनी ते शक्तिराविष्कृता स्यात्॥ 3.28

मूलम्

परिकलयसि चेन्मां पद्मवासानिषेव्ये
पदकमलयुगे त्वं पादुके ! रङ्गभर्तुः ।
अविदितनिगमानां नूनमस्मादृशानाम्
अघटितघटनी ते शक्तिराविष्कृता स्यात्॥ 3.28

विश्वास-प्रस्तुतिः

श्रुतिशतशिरश्चूडापीडौ निपीडयितुं क्षमे
दुरितसरितामोघान् एतान् अमोघविसर्पिणः ।
क्रमपरिणमद्वेधः श्रेणीशिखामणिघट् टना-
मसृणिततले रङ्गक्षोणीभृतो मणिपादुके॥ 3.29

मूलम्

श्रुतिशतशिरश्चूडापीडौ निपीडयितुं क्षमे
दुरितसरितामोघान् एतान् अमोघविसर्पिणः ।
क्रमपरिणमद्वेधः श्रेणीशिखामणिघट् टना-
मसृणिततले रङ्गक्षोणीभृतो मणिपादुके॥ 3.29

विश्वास-प्रस्तुतिः

जगज्जननरक्षणक्षपणसङ्गिनो रङ्गिणः
पवित्रतममाद्रिये भगवतः पदत्रद्वयम् ।
शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनं
प्रधाव्य चरणं निजं प्रणिदधाति यत्र प्रभुः॥ 3.30

मूलम्

जगज्जननरक्षणक्षपणसङ्गिनो रङ्गिणः
पवित्रतममाद्रिये भगवतः पदत्रद्वयम् ।
शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनं
प्रधाव्य चरणं निजं प्रणिदधाति यत्र प्रभुः॥ 3.30

विश्वास-प्रस्तुतिः

यदध्वरभुजां शिरः पदयुगं च रङ्गेशितुः
दृढं घटयितुं क्षमं भवति शेषशेषित्वतः ।
शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिन्धयम्
कदध्वविहतिक्षमं किमपि तत् पदत्रद्वयम्॥ 3.31

मूलम्

यदध्वरभुजां शिरः पदयुगं च रङ्गेशितुः
दृढं घटयितुं क्षमं भवति शेषशेषित्वतः ।
शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिन्धयम्
कदध्वविहतिक्षमं किमपि तत् पदत्रद्वयम्॥ 3.31

विश्वास-प्रस्तुतिः

समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकी
मुकुन्दमणिपादुके ! मुहुरुपासनावासना ।
उदर्कपरिकर्कशान् उपरिपर्वणा खर्वितान्
अनर्थशतगर्भितान् अमरशम्भळीविभ्रमान्॥ 3.32

मूलम्

समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकी
मुकुन्दमणिपादुके ! मुहुरुपासनावासना ।
उदर्कपरिकर्कशान् उपरिपर्वणा खर्वितान्
अनर्थशतगर्भितान् अमरशम्भळीविभ्रमान्॥ 3.32

विश्वास-प्रस्तुतिः

विगाहन्ते रङ्गक्षितिपतिपदत्रायिणि ! सकृद्-
वहन्तस्त्वामन्तर्विनिहितकुचेलव्यतिकराः ।
मदोद्दामस्तम्बेरमकरटनिर्यन्मधुझरी
परीवाहप्रेङ्खद्भ्रमरमुखरामङ्गणभुवम्॥ 3.33

मूलम्

विगाहन्ते रङ्गक्षितिपतिपदत्रायिणि ! सकृद्-
वहन्तस्त्वामन्तर्विनिहितकुचेलव्यतिकराः ।
मदोद्दामस्तम्बेरमकरटनिर्यन्मधुझरी
परीवाहप्रेङ्खद्भ्रमरमुखरामङ्गणभुवम्॥ 3.33

विश्वास-प्रस्तुतिः

अधिदैवतमापतत्सु कल्पे-
ष्वधिकारं भजतां पितामहानाम् ।
अभिरक्षतु रङ्गभर्तुरेषा
करुणा काचन पादुकामयी नः॥ 3.34

मूलम्

अधिदैवतमापतत्सु कल्पे-
ष्वधिकारं भजतां पितामहानाम् ।
अभिरक्षतु रङ्गभर्तुरेषा
करुणा काचन पादुकामयी नः॥ 3.34

विश्वास-प्रस्तुतिः

ध्रुवमिन्द्रियनागशृङ्खला वा
निरयद्वारनिवारणार्गळा वा ।
अनपायपदाधिरोहिणी वा
मम रङ्गेशविहारपादुके ! त्वम्॥ 3.35

मूलम्

ध्रुवमिन्द्रियनागशृङ्खला वा
निरयद्वारनिवारणार्गळा वा ।
अनपायपदाधिरोहिणी वा
मम रङ्गेशविहारपादुके ! त्वम्॥ 3.35

विश्वास-प्रस्तुतिः

शरणागतसार्थवाहशीलां
श्रुतिसीमन्तपदप्रसाधनार्हाम् ।
अधिरङ्गमुपास्महे मुरारेः
महनीयां तपनीयपादुके ! त्वाम्॥ 3.36

मूलम्

शरणागतसार्थवाहशीलां
श्रुतिसीमन्तपदप्रसाधनार्हाम् ।
अधिरङ्गमुपास्महे मुरारेः
महनीयां तपनीयपादुके ! त्वाम्॥ 3.36

विश्वास-प्रस्तुतिः

इह ये भवतीं भजन्ति भक्त्या
कृतिनः केशवपादुके ! नियुक्ताः ।
कथयाम्ब तिरोहितं तृतीयं
नयनं त्रीणि मुखानि वा किमेषाम्॥ 3.37

मूलम्

इह ये भवतीं भजन्ति भक्त्या
कृतिनः केशवपादुके ! नियुक्ताः ।
कथयाम्ब तिरोहितं तृतीयं
नयनं त्रीणि मुखानि वा किमेषाम्॥ 3.37

विश्वास-प्रस्तुतिः

मधुवैरिपरिग्रहेषु नित्यं
क्षमया त्वं मणिपादुके ! समेता ।
तदपि क्षमसे न किं परेषां
त्रिदशाधीश्वरशेखरे निवेशम्॥ 3.38

मूलम्

मधुवैरिपरिग्रहेषु नित्यं
क्षमया त्वं मणिपादुके ! समेता ।
तदपि क्षमसे न किं परेषां
त्रिदशाधीश्वरशेखरे निवेशम्॥ 3.38

विश्वास-प्रस्तुतिः

द्वितयं प्रतियन्ति रङ्गभर्तुः
कतिचित् काञ्चनपादुके ! शरण्यम् ।
अभयान्वितमग्रिमं करं वा
भवतीशेखरितं पदाम्बुजं वा॥ 3.39

मूलम्

द्वितयं प्रतियन्ति रङ्गभर्तुः
कतिचित् काञ्चनपादुके ! शरण्यम् ।
अभयान्वितमग्रिमं करं वा
भवतीशेखरितं पदाम्बुजं वा॥ 3.39

विश्वास-प्रस्तुतिः

भरताश्वसनेषु पादशब्दं
वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः ।
पठति त्वयि पादुके ! ततस्त्वं
नियतं रामपदादभिन्नभूमा॥ 3.40

मूलम्

भरताश्वसनेषु पादशब्दं
वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः ।
पठति त्वयि पादुके ! ततस्त्वं
नियतं रामपदादभिन्नभूमा॥ 3.40

विश्वास-प्रस्तुतिः

मकुटेषु निविश्य दिक्पतीनां
पदमेव प्रतिपद्य रङ्गभर्तुः ।
परिरक्षसि पादुके ! पदं त्वं
क्व नु भिद्येत गरीयसां प्रभावः॥ 3.41

मूलम्

मकुटेषु निविश्य दिक्पतीनां
पदमेव प्रतिपद्य रङ्गभर्तुः ।
परिरक्षसि पादुके ! पदं त्वं
क्व नु भिद्येत गरीयसां प्रभावः॥ 3.41

विश्वास-प्रस्तुतिः

जगतामभिरक्षणे त्रयाणाम्
अधिकारं मणिपादुके ! वहन्त्योः ।
युवयोः परिकर्मकोटिलग्नं
चरणद्वन्द्वमवैमि रङ्गभर्तुः॥ 3.42

मूलम्

जगतामभिरक्षणे त्रयाणाम्
अधिकारं मणिपादुके ! वहन्त्योः ।
युवयोः परिकर्मकोटिलग्नं
चरणद्वन्द्वमवैमि रङ्गभर्तुः॥ 3.42

विश्वास-प्रस्तुतिः

पदरक्षिणि ! वत्सला निकामं
रघुवीरस्य पदाम्बुजादपि त्वम् ।
यदसौ भरतस्त्वयांशवत्त्वान्न
पुनस्तादृशमन्वभूद्वियोगम्॥ 3.43

मूलम्

पदरक्षिणि ! वत्सला निकामं
रघुवीरस्य पदाम्बुजादपि त्वम् ।
यदसौ भरतस्त्वयांशवत्त्वान्न
पुनस्तादृशमन्वभूद्वियोगम्॥ 3.43

विश्वास-प्रस्तुतिः

अभिगम्य मुकुन्दपादुके ! त्वाम्
अपनीतातपवारणैः शिरोभिः ।
हरितां पतयो दुरापमन्यै-
रनघच्छायमवाप्नुवन्ति भोगम्॥ 3.44

मूलम्

अभिगम्य मुकुन्दपादुके ! त्वाम्
अपनीतातपवारणैः शिरोभिः ।
हरितां पतयो दुरापमन्यै-
रनघच्छायमवाप्नुवन्ति भोगम्॥ 3.44

विश्वास-प्रस्तुतिः

अपहाय सितासितान् उपायान्
अरविन्देक्षणपादुके ! महान्तः ।
त्वदनन्यतया भजन्ति वृत्तिं
त्वदसाधारणभोगसाभिलाषाः॥ 3.45

मूलम्

अपहाय सितासितान् उपायान्
अरविन्देक्षणपादुके ! महान्तः ।
त्वदनन्यतया भजन्ति वृत्तिं
त्वदसाधारणभोगसाभिलाषाः॥ 3.45

विश्वास-प्रस्तुतिः

प्रणमन्ति न वा विधेर्विपाकात्
य इमे रङ्गनरेन्द्रपादुके ! त्वाम् ।
उपजातमनुत्तमाङ्गमेषां
उभयेषामपि चित्रमुत्तमाङ्गम्॥ 3.46

मूलम्

प्रणमन्ति न वा विधेर्विपाकात्
य इमे रङ्गनरेन्द्रपादुके ! त्वाम् ।
उपजातमनुत्तमाङ्गमेषां
उभयेषामपि चित्रमुत्तमाङ्गम्॥ 3.46

विश्वास-प्रस्तुतिः

तव केशवपादुके ! प्रभावो
मम दुष्कर्म च नन्वनन्तसारे ।
नियमेन तथाऽपि पश्चिमस्य
प्रथमेनैव पराभवं प्रतीमः॥ 3.47

मूलम्

तव केशवपादुके ! प्रभावो
मम दुष्कर्म च नन्वनन्तसारे ।
नियमेन तथाऽपि पश्चिमस्य
प्रथमेनैव पराभवं प्रतीमः॥ 3.47

विश्वास-प्रस्तुतिः

अस्त्रभूषणतयैव केवलं
विश्वमेतदखिलं बिभर्ति यः ।
अक्लमेन मणिपादुके ! त्वया
सोऽपि शेखरतयैव धार्यते॥ 3.48

मूलम्

अस्त्रभूषणतयैव केवलं
विश्वमेतदखिलं बिभर्ति यः ।
अक्लमेन मणिपादुके ! त्वया
सोऽपि शेखरतयैव धार्यते॥ 3.48

विश्वास-प्रस्तुतिः

रामपादसहधर्मचारिणीं
पादुके ! निखिलपातकच्छिदम् ।
त्वामशेषजगतामधीश्वरीं
भावयामि भरताधिदेवताम्॥ 3.49

मूलम्

रामपादसहधर्मचारिणीं
पादुके ! निखिलपातकच्छिदम् ।
त्वामशेषजगतामधीश्वरीं
भावयामि भरताधिदेवताम्॥ 3.49

विश्वास-प्रस्तुतिः

चूडाकपालव्यतिषङ्गदोषं
विमोचयिष्यन्निव विष्णुपद्याः ।
कृतादरः केशवपादरक्षे !
बिभर्ति बालेन्दुविभूषणस्त्वाम्॥ 3.50

मूलम्

चूडाकपालव्यतिषङ्गदोषं
विमोचयिष्यन्निव विष्णुपद्याः ।
कृतादरः केशवपादरक्षे !
बिभर्ति बालेन्दुविभूषणस्त्वाम्॥ 3.50

विश्वास-प्रस्तुतिः

त्वयैव नित्यं मणिपादरक्षे !
राजन्वती सृष्टिरियं प्रजानाम् ।
स्त्रीराज्यदोषप्रशमाय नूनं
निर्दिश्यसे नाथविशेषणेन॥ 3.51

मूलम्

त्वयैव नित्यं मणिपादरक्षे !
राजन्वती सृष्टिरियं प्रजानाम् ।
स्त्रीराज्यदोषप्रशमाय नूनं
निर्दिश्यसे नाथविशेषणेन॥ 3.51

विश्वास-प्रस्तुतिः

बिभर्षि नित्यं मणिपादुके ! त्वं
विश्वम्भरं धाम निजेन भूम्ना ।
तवानुभावश्चुळकीकृतोऽयं
भक्तैरजस्रं भवतीं दधानैः॥ 3.52

मूलम्

बिभर्षि नित्यं मणिपादुके ! त्वं
विश्वम्भरं धाम निजेन भूम्ना ।
तवानुभावश्चुळकीकृतोऽयं
भक्तैरजस्रं भवतीं दधानैः॥ 3.52

विश्वास-प्रस्तुतिः

परस्य पुंसः पदसन्निकर्षे
तुल्याधिकारां मणिपादुके ! त्वाम् ।
उत्तंसयन्ति स्वयमुत्तमाङ्गैः
शेषासमं शेषगरुत्मदाद्याः॥ 3.53

मूलम्

परस्य पुंसः पदसन्निकर्षे
तुल्याधिकारां मणिपादुके ! त्वाम् ।
उत्तंसयन्ति स्वयमुत्तमाङ्गैः
शेषासमं शेषगरुत्मदाद्याः॥ 3.53

विश्वास-प्रस्तुतिः

मुकुन्दपादाम्बुजधारिणि ! त्वां
मोहादनुत्तंसयतां जनानाम् ।
मूर्ध्नि स्थिता दुर्लिपयो भवन्ति
प्रशस्तवर्णावळयस्तदीयाः॥ 3.54

मूलम्

मुकुन्दपादाम्बुजधारिणि ! त्वां
मोहादनुत्तंसयतां जनानाम् ।
मूर्ध्नि स्थिता दुर्लिपयो भवन्ति
प्रशस्तवर्णावळयस्तदीयाः॥ 3.54

विश्वास-प्रस्तुतिः

भूमिः श्रुतीनां भुवनस्य धात्री
गुणैरनन्ता विपुला विभूत्या ।
स्थिरा स्वयं पालयितुं क्षमा नः
सर्वंसहा शौरिपदावनि ! त्वम्॥ 3.55

मूलम्

भूमिः श्रुतीनां भुवनस्य धात्री
गुणैरनन्ता विपुला विभूत्या ।
स्थिरा स्वयं पालयितुं क्षमा नः
सर्वंसहा शौरिपदावनि ! त्वम्॥ 3.55

विश्वास-प्रस्तुतिः

स्थैर्यं कुलक्षोणिभृतां विधत्से
शेषादयस्त्वां शिरसा वहन्ति ।
पदप्रसूता परमस्य पुंसः
पृथ्वी महिम्ना मणिपादुके ! त्वम्॥ 3.56

मूलम्

स्थैर्यं कुलक्षोणिभृतां विधत्से
शेषादयस्त्वां शिरसा वहन्ति ।
पदप्रसूता परमस्य पुंसः
पृथ्वी महिम्ना मणिपादुके ! त्वम्॥ 3.56

विश्वास-प्रस्तुतिः

दैत्याधिपानां बलिनां किरीटा
निक्षेपणं ते यदि नाभ्यनन्दन् ।
रङ्गेशपादावनि ! रङ्गधाम्नः
सोपानतां प्राप्य वहन्त्यमी त्वाम्॥ 3.57

मूलम्

दैत्याधिपानां बलिनां किरीटा
निक्षेपणं ते यदि नाभ्यनन्दन् ।
रङ्गेशपादावनि ! रङ्गधाम्नः
सोपानतां प्राप्य वहन्त्यमी त्वाम्॥ 3.57

विश्वास-प्रस्तुतिः

शेषो गरुत्मान् मणिपादपीठी
त्वं चेति पादावनि ! विश्वमान्याः ।
तुल्याधिकारा यदि किन्नु सन्तः
त्वामेव नित्यं शिरसा वहन्ति॥ 3.58

मूलम्

शेषो गरुत्मान् मणिपादपीठी
त्वं चेति पादावनि ! विश्वमान्याः ।
तुल्याधिकारा यदि किन्नु सन्तः
त्वामेव नित्यं शिरसा वहन्ति॥ 3.58

विश्वास-प्रस्तुतिः

परस्य पुंसः परमं पदं तत्
बिभर्षि नित्यं मणिपादुके ! त्वम् ।
अन्यादृशां व्योमसदां पदानि
त्वय्यायतन्ते यदिदं न चित्रम्॥ 3.59

मूलम्

परस्य पुंसः परमं पदं तत्
बिभर्षि नित्यं मणिपादुके ! त्वम् ।
अन्यादृशां व्योमसदां पदानि
त्वय्यायतन्ते यदिदं न चित्रम्॥ 3.59

विश्वास-प्रस्तुतिः

पादौ मुरारेः शरणं प्रजानां
तयोस्तदेवासि पदावनि ! त्वम् ।
शरण्यतायास्त्वमनन्यरक्षा
संदृश्यसे विश्रमभूमिरेका॥ 3.60

मूलम्

पादौ मुरारेः शरणं प्रजानां
तयोस्तदेवासि पदावनि ! त्वम् ।
शरण्यतायास्त्वमनन्यरक्षा
संदृश्यसे विश्रमभूमिरेका॥ 3.60

विश्वास-प्रस्तुतिः

अन्येषु पद्माकमलासनाद्यैः
अङ्गेषु रङ्गाधिपतेः श्रितेषु ।
पदावनि ! त्वामधिगम्य जातं
पदं मुरारेरधिदैवतं नः॥ 3.61

मूलम्

अन्येषु पद्माकमलासनाद्यैः
अङ्गेषु रङ्गाधिपतेः श्रितेषु ।
पदावनि ! त्वामधिगम्य जातं
पदं मुरारेरधिदैवतं नः॥ 3.61

विश्वास-प्रस्तुतिः

क्षणं सरोजेक्षणपादुके ! यः
कृतादरः किङ्कुरुते भवत्याः ।
अकिञ्चनस्यापि भवन्ति शीघ्रं
भ्रूकिङ्करास्तस्य पुरन्दराद्याः॥ 3.62

मूलम्

क्षणं सरोजेक्षणपादुके ! यः
कृतादरः किङ्कुरुते भवत्याः ।
अकिञ्चनस्यापि भवन्ति शीघ्रं
भ्रूकिङ्करास्तस्य पुरन्दराद्याः॥ 3.62

विश्वास-प्रस्तुतिः

वहन्ति ये माधवपादुके ! त्वां
उह्यन्त एते दिवि निर्विघाताः ।
हंसेन नित्यं शरदभ्रभासा
कैलासगौरेण ककुद्मता वा॥ 3.63

मूलम्

वहन्ति ये माधवपादुके ! त्वां
उह्यन्त एते दिवि निर्विघाताः ।
हंसेन नित्यं शरदभ्रभासा
कैलासगौरेण ककुद्मता वा॥ 3.63

विश्वास-प्रस्तुतिः

रुद्रं श्रितो देवगणः स रुद्रः
पद्मासनं सोऽपि च पद्मनाभम् ।
स त्वामनन्तो न पुनस्त्वमन्यं
क एष पादावनि ! ते प्रभावः॥ 3.64

मूलम्

रुद्रं श्रितो देवगणः स रुद्रः
पद्मासनं सोऽपि च पद्मनाभम् ।
स त्वामनन्तो न पुनस्त्वमन्यं
क एष पादावनि ! ते प्रभावः॥ 3.64

विश्वास-प्रस्तुतिः

परस्य धाम्नः प्रतिपादनार्हां
वदन्ति विद्यां मणिपादुके ! त्वाम् ।
यतस्तवैवाधिगमे प्रजानां
दूरीभवत्युत्तरपूर्वमंहः॥ 3.65

मूलम्

परस्य धाम्नः प्रतिपादनार्हां
वदन्ति विद्यां मणिपादुके ! त्वाम् ।
यतस्तवैवाधिगमे प्रजानां
दूरीभवत्युत्तरपूर्वमंहः॥ 3.65

विश्वास-प्रस्तुतिः

धन्या मुकुन्दस्य पदानुषङ्गात्
धनीयता येन समर्चिता त्वम् ।
वासस्तदीयो मणिपादरक्षे !
लक्ष्म्याऽळकामप्यधरीकरोति॥ 3.66

मूलम्

धन्या मुकुन्दस्य पदानुषङ्गात्
धनीयता येन समर्चिता त्वम् ।
वासस्तदीयो मणिपादरक्षे !
लक्ष्म्याऽळकामप्यधरीकरोति॥ 3.66

विश्वास-प्रस्तुतिः

पदेन विष्णोः किमुतेतरेषां
विसृज्य सङ्गं समुपासते त्वाम् ।
करोषि तान् किं त्वमपेतकामान्
कालेन पादावनि ! सत्यकामान्॥ 3.67

मूलम्

पदेन विष्णोः किमुतेतरेषां
विसृज्य सङ्गं समुपासते त्वाम् ।
करोषि तान् किं त्वमपेतकामान्
कालेन पादावनि ! सत्यकामान्॥ 3.67

विश्वास-प्रस्तुतिः

अभ्यासयोगेन निगृह्यमाणैः
अन्तर्मुखैरात्मविदो मनोभिः ।
मातस्त्वया गुप्तपदं प्रभावात्
अन्वेषयन्त्यागमिकं निधानम्॥ 3.68

मूलम्

अभ्यासयोगेन निगृह्यमाणैः
अन्तर्मुखैरात्मविदो मनोभिः ।
मातस्त्वया गुप्तपदं प्रभावात्
अन्वेषयन्त्यागमिकं निधानम्॥ 3.68

विश्वास-प्रस्तुतिः

मूर्ध्ना दधानां मणिपादुके !
त्वामुत्तंसितं वा पुरुषं भवत्या ।
वदन्ति केचित् वयमामनामः
त्वामेव साक्षादधिदैवतं नः॥ 3.69

मूलम्

मूर्ध्ना दधानां मणिपादुके !
त्वामुत्तंसितं वा पुरुषं भवत्या ।
वदन्ति केचित् वयमामनामः
त्वामेव साक्षादधिदैवतं नः॥ 3.69

विश्वास-प्रस्तुतिः

मूर्ध्ना सतामधस्ताद् उपरि च विष्णोः पदेन सङ्घटिताम् ।
अदवीयसीं विमुक्तेः पदवीमवयन्ति पादुके ! भवतीम्॥ 3.70

मूलम्

मूर्ध्ना सतामधस्ताद् उपरि च विष्णोः पदेन सङ्घटिताम् ।
अदवीयसीं विमुक्तेः पदवीमवयन्ति पादुके ! भवतीम्॥ 3.70