02 समाख्यापद्धतिः

विश्वास-प्रस्तुतिः

वन्दे विष्णु-पदा-सक्तं
तम् ऋषिं, ताञ् च पादुकाम् ।
यथार्था शठ-जित्-संज्ञा
मच्-चित्त-विजयाद् ययोः॥ 2.1 +++(4)+++

मूलम्

वन्दे विष्णुपदासक्तं तमृषिं ताञ्च पादुकाम् ।
यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः॥ 2.1

विश्वास-प्रस्तुतिः

द्रमिडोपनिषन्-निवेश-शून्यान्
अपि लक्ष्मी-रमणाय रोचयिष्यन्
ध्रुवम् आविशति स्म पादुकात्मा
शठ-कोपः स्वयम् एव माननीयः॥ 2.2

मूलम्

द्रमिडोपनिषन्निवेशशून्यान्
अपि लक्ष्मीरमणाय रोचयिष्यन् ।
ध्रुवमाविशति स्म पादुकात्मा
शठकोपः स्वयमेव माननीयः॥ 2.2

विश्वास-प्रस्तुतिः

नियतं मणि-पादुके ! दधानः
स मुनिस् ते शठ-कोप इत्य् अभिख्याम् ।
त्वद्-उपाश्रित-पाद-जात-+++(शूद्र-)+++वंश-
प्रतिपत्त्यै परम् आततान रूपम्॥ 2.3

मूलम्

नियतं मणिपादुके ! दधानः
स मुनिस्ते शठकोप इत्यभिख्याम् ।
त्वदुपाश्रितपादजातवंश-
प्रतिपत्त्यै परमाततान रूपम्॥ 2.3

विश्वास-प्रस्तुतिः

मुनिना मणि-पादुके !, त्वया च
प्रथिताभ्यां +++(समानया)+++ शठ-कोप-संज्ञयैव ।
द्वितयं सकलोपजीव्यम् आसीत्
प्रथमेन +++(द्राविड-वेद-कर्त्रा)+++ श्रुतिर्, अन्यतस् +++(त्वया)+++ तद्-अर्थः +++(विष्णुः)+++॥ 2.4

मूलम्

मुनिना मणिपादुके ! त्वया च
प्रथिताभ्यां शठकोपसंज्ञयैव ।
द्वितयं सकलोपजीव्यमासीत्
प्रथमेन श्रुतिरन्यतस्तदर्थः॥ 2.4

विश्वास-प्रस्तुतिः

आकर्ण्य कर्णामृतम् आत्मवन्तो
गाथा-सहस्रं शठ-कोप-सूरेः ।
मञ्जु-प्रणादां मणि-पादुके ! त्वां,
+++(शठारिर् इति)+++ तद्-एक-नामानम् अनुस्मरन्ति॥ 2.5

मूलम्

आकर्ण्य कर्णामृतमात्मवन्तो
गाथासहस्रं शठकोपसूरेः ।
मञ्जुप्रणादां मणिपादुके ! त्वाम्
तदेकनामानमनुस्मरन्ति॥ 2.5

विश्वास-प्रस्तुतिः

यः +++(दासस्य दासस्य … दास इति)+++ सप्त-पर्व-व्यवधान-तुङ्गां
शेषत्व-काष्ठाम् अभजन् मुरारेः ।
तस्यापि +++(शठारिर् इति)+++ नामोद्वहनात् त्वया ऽसौ
लघू-कृतो ऽभूच् छठकोपसूरिः॥ 2.6

मूलम्

यः सप्तपर्वव्यवधानतुङ्गां
शेषत्वकाष्ठामभजन्मुरारेः ।
तस्यापि नामोद्वहनात् त्वयाऽसौ
लघूकृतोऽभूच्छठकोपसूरिः॥ 2.6

विश्वास-प्रस्तुतिः

शय्यात्मना मधुरिपोर् असि शेषभूता,
पादाश्रयेण च पुनर् द्वि-गुणी-कृतं तत् ।
भूयोऽपि भागवत-शेषतया तद् एव
व्यङ्क्तुं पदावनि ! शठारि-पदं बिभर्षि॥ 2.7

मूलम्

शय्यात्मना मधुरिपोरसि शेषभूता
पादाश्रयेण च पुनर्द्विगुणीकृतं तत् ।
भूयोऽपि भागवतशेषतया तदेव
व्यङ्क्तुं पदावनि ! शठारिपदं बिभर्षि॥ 2.7

विश्वास-प्रस्तुतिः

पद्येन देवि ! शठकोपमुनिस्तवासीत्
तस्यापि नामवहनान्मणिपादुके ! त्वम् ।
शेषी बभूव युवयोरपि शेषशायी
शेषं त्वशेषमपि शेषपदे स्थितं वः॥ 2.8

मूलम्

पद्येन देवि ! शठकोपमुनिस्तवासीत्
तस्यापि नामवहनान्मणिपादुके ! त्वम् ।
शेषी बभूव युवयोरपि शेषशायी
शेषं त्वशेषमपि शेषपदे स्थितं वः॥ 2.8

विश्वास-प्रस्तुतिः

विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः
कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा ।
नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात्ते
प्राचीनानां श्रुतिपरिषदां पादुके ! पूर्वगण्या॥ 2.9

मूलम्

विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः
कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा ।
नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात्ते
प्राचीनानां श्रुतिपरिषदां पादुके ! पूर्वगण्या॥ 2.9

विश्वास-प्रस्तुतिः

शठकोप इति समाख्या तव रङ्गधुरीणपादुके ! युक्ता ।
सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती॥ 2.10

मूलम्

शठकोप इति समाख्या तव रङ्गधुरीणपादुके ! युक्ता ।
सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती॥ 2.10