01 प्रस्तावपद्धतिः

विश्वास-प्रस्तुतिः

सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः ।
जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ 1.1

मूलम्

सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः ।
जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ 1.1

विश्वास-प्रस्तुतिः

भरताय परं नमोऽस्तु तस्मै
प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः पृथिव्यां
प्रथितो राघवपादुकाप्रभावः ॥ 1.2

मूलम्

भरताय परं नमोऽस्तु तस्मै
प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः पृथिव्यां
प्रथितो राघवपादुकाप्रभावः ॥ 1.2

विश्वास-प्रस्तुतिः

वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्तीम्
आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् ।
पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः
त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ 1.3

मूलम्

वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्तीम्
आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् ।
पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः
त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ 1.3

विश्वास-प्रस्तुतिः

दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना
पादन्यासं प्रथममनघा भारती यत्र चक्रे ।
योगक्षेमं सकलजगतां त्वय्यधीनं स जानन्
वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥ 1.4

मूलम्

दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना
पादन्यासं प्रथममनघा भारती यत्र चक्रे ।
योगक्षेमं सकलजगतां त्वय्यधीनं स जानन्
वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥ 1.4

विश्वास-प्रस्तुतिः

नीचेऽपि हन्त मम मूर्धनि निर्विशेषं
तुङ्गेऽपि यन्निविशते निगमोत्तमाङ्गे ।
प्राचेतसप्रभृतिभिः प्रथमोपगीतं
स्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥ 1.5

मूलम्

नीचेऽपि हन्त मम मूर्धनि निर्विशेषं
तुङ्गेऽपि यन्निविशते निगमोत्तमाङ्गे ।
प्राचेतसप्रभृतिभिः प्रथमोपगीतं
स्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥ 1.5

विश्वास-प्रस्तुतिः

धत्ते मुकुन्दमणिपादुकयोर्निवेशात्
वल्मीकसम्भवगिरा समतां ममोक्तिः ।
गङ्गाप्रवाहपतितस्य कियानिव स्यात्
रथ्योदकस्य यमुनासलिलाद्विशेषः ॥ 1.6

मूलम्

धत्ते मुकुन्दमणिपादुकयोर्निवेशात्
वल्मीकसम्भवगिरा समतां ममोक्तिः ।
गङ्गाप्रवाहपतितस्य कियानिव स्यात्
रथ्योदकस्य यमुनासलिलाद्विशेषः ॥ 1.6

विश्वास-प्रस्तुतिः

विज्ञापयामि किमपि प्रतिपन्नभीतिः
प्रागेव रङ्गपतिविभ्रमपादुके त्वाम् ।
व्यङ्क्तुं क्षमास्सदसती विगताभ्यसूयाः
सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥ 1.7

मूलम्

विज्ञापयामि किमपि प्रतिपन्नभीतिः
प्रागेव रङ्गपतिविभ्रमपादुके त्वाम् ।
व्यङ्क्तुं क्षमास्सदसती विगताभ्यसूयाः
सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥ 1.7

विश्वास-प्रस्तुतिः

अश्रद्दधानमपि नन्वधुना स्वकीये
स्तोत्रे नियोजयसि मां मणिपादुके त्वम् ।
देवः प्रमाणमिह रङ्गपतिस्तथात्वे
तस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥ 1.8

मूलम्

अश्रद्दधानमपि नन्वधुना स्वकीये
स्तोत्रे नियोजयसि मां मणिपादुके त्वम् ।
देवः प्रमाणमिह रङ्गपतिस्तथात्वे
तस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥ 1.8

विश्वास-प्रस्तुतिः

यदाधारं विश्वं गतिरपि च यस्तस्य परमा
तमप्येका धत्से दिशसि च गतिं तस्य रुचिराम् ।
कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमा
कवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥ 1.9

मूलम्

यदाधारं विश्वं गतिरपि च यस्तस्य परमा
तमप्येका धत्से दिशसि च गतिं तस्य रुचिराम् ।
कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमा
कवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥ 1.9

विश्वास-प्रस्तुतिः

श्रुतप्रज्ञासम्पन्महितमहिमानः कति कति
स्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः ।
अहं त्वल्पस्तद्वद्यदिह बहु जल्पामि तदपि
त्वदायत्तं रङ्गक्षितिरमणपादावनि! विदुः ॥ 1.10

मूलम्

श्रुतप्रज्ञासम्पन्महितमहिमानः कति कति
स्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः ।
अहं त्वल्पस्तद्वद्यदिह बहु जल्पामि तदपि
त्वदायत्तं रङ्गक्षितिरमणपादावनि! विदुः ॥ 1.10

विश्वास-प्रस्तुतिः

यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि! ततो
महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः ।
शुना लीढा कामं भवतु सुरसिन्धुर्भगवती
तदेषा किम्भूता स तु सपदि सन्तापरहितः ॥ 1.11

मूलम्

यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि! ततो
महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः ।
शुना लीढा कामं भवतु सुरसिन्धुर्भगवती
तदेषा किम्भूता स तु सपदि सन्तापरहितः ॥ 1.11

विश्वास-प्रस्तुतिः

मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदा
मदुक्तिस्त्वय्येषा महितकविसंरम्भविषये ।
न कस्येयं हास्या हरिचरणधात्रि! क्षितितले
मुहुर्वात्याधूते मुखपवनविष्फूर्जितमिव ॥ 1.12

मूलम्

मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदा
मदुक्तिस्त्वय्येषा महितकविसंरम्भविषये ।
न कस्येयं हास्या हरिचरणधात्रि! क्षितितले
मुहुर्वात्याधूते मुखपवनविष्फूर्जितमिव ॥ 1.12

विश्वास-प्रस्तुतिः

निस्सन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदयप्रत्यूढक्रमभक्तिवैभवभवद्वैयात्यवाचालितः ।
रङ्गाधीशपदत्रवर्णनकृतारम्भैर्निगुम्भैर्गिरां नर्मास्वादिषु वेङ्कटेश्वरकविर्नासीरमासीदति ॥ 1.13

रङ्गक्ष्मापतिरत्नपादु! भवतीं तुष्टूषतो मे जवात् जृम्भन्तां भवदीयशिञ्जितसुधासन्दोहसन्देहदाः ।
श्लाघाघूर्णितचन्द्रशेखरजटाजङ्घालगङ्गापयस्त्रासादेशविशृङ्खलप्रसरणोत्सिक्ताः स्वयं सूक्तयः ॥ 1.14

हिमवन्नलसेतुमध्यभाजां
भरताभ्यर्चितपादुकावतंसः ।
अतपोधनधर्मतः कवीनाम्
अखिलेष्वस्मि मनोरथेष्वबाह्यः ॥ 1.15

मूलम्

हिमवन्नलसेतुमध्यभाजां
भरताभ्यर्चितपादुकावतंसः ।
अतपोधनधर्मतः कवीनाम्
अखिलेष्वस्मि मनोरथेष्वबाह्यः ॥ 1.15

विश्वास-प्रस्तुतिः

अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके! त्वाम् ।
गतभीतिरभिष्टुवन् विमोहात् परिहासेन विनोदयामि नाथम् ॥ 1.16

मूलम्

अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके! त्वाम् ।
गतभीतिरभिष्टुवन् विमोहात् परिहासेन विनोदयामि नाथम् ॥ 1.16

विश्वास-प्रस्तुतिः

वृत्तिभिर्बहुविधाभिराश्रिता
वेङ्कटेश्वरकवेः सरस्वती ।
अद्य रङ्गपतिरत्नपादुके!
नर्तकीव भवतीं निषेवताम् ॥ 1.17

मूलम्

वृत्तिभिर्बहुविधाभिराश्रिता
वेङ्कटेश्वरकवेः सरस्वती ।
अद्य रङ्गपतिरत्नपादुके!
नर्तकीव भवतीं निषेवताम् ॥ 1.17

विश्वास-प्रस्तुतिः

अपारकरुणाम्बुधेस्तव खलु प्रसादादहं
विधातुमपि शक्नुयां शतसहस्रिकां संहिताम् ।
तथापि हरिपादुके! तव गुणौघलेशस्थितेः
उदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥ 1.18

मूलम्

अपारकरुणाम्बुधेस्तव खलु प्रसादादहं
विधातुमपि शक्नुयां शतसहस्रिकां संहिताम् ।
तथापि हरिपादुके! तव गुणौघलेशस्थितेः
उदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥ 1.18

विश्वास-प्रस्तुतिः

अनुकृतनिजनादां सूक्तिमापादयन्ती
मनसि वचसि च त्वं सावधाना मम स्याः ।
निशमयति यथाऽसौ निद्रया दूरमुक्तः
परिषदि सह लक्ष्म्या पादुके! रङ्गनाथः ॥ 1.19

मूलम्

अनुकृतनिजनादां सूक्तिमापादयन्ती
मनसि वचसि च त्वं सावधाना मम स्याः ।
निशमयति यथाऽसौ निद्रया दूरमुक्तः
परिषदि सह लक्ष्म्या पादुके! रङ्गनाथः ॥ 1.19

विश्वास-प्रस्तुतिः

त्वयि विहिता स्तुतिरेषा पदरक्षिणि! भवति रङ्गनाथपदे ।
तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥ 1.20

मूलम्

त्वयि विहिता स्तुतिरेषा पदरक्षिणि! भवति रङ्गनाथपदे ।
तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥ 1.20