1.1 अहन्ते नाहं ते विहरणपदं देशिकगिरस्स्वदन्ते नः स्वान्ते सपदि गतसन्देहविषयाः ।
अनायासा यासामहिपतिशया सा भगवती धराधारा धाराधरनिकरसाधारणरुचिः ॥
1.2 सूते सूकरयुवतिस्सुतशतमत्यन्तदुर्भगं झटिति ।
करिणी चिराय सूते कमपि, सकलमहीपाललालितं कलभम् ॥
1.3 कर्मावलम्बकाः केचित् केचित् ज्ञानावलम्बकाः ।
वयं तु हरिदासानां पादरक्षावलम्बकाः ॥
1.4 तर्केषु कर्कशधियो वयमेव नान्ये काव्येषु कोमलधियो वयमेव नान्ये ।
तन्त्रेषु निश्चितधियो वयमेव नान्ये कृष्णे निवेशितधियो वयमेव नान्ये ॥
1.5 असिना तत्त्वमसिना परजीवप्रभेदिना ।
विद्यारण्यमहारण्यमक्षोभ्यमुनिरच्छिनत् ॥
1.6 स्पर्धन्तां सह जन्मकुञ्जरतया दिक्कुञ्जरैः कुञ्जराः
ग्राम्या वा वनवासिनो मदजलप्रस्विन्नगण्डस्थलाः ।
आः कालस्य विपर्यये शृणु सखे! प्राचीरपालीमला-
स्वादस्निग्धकपोलभित्तिरवमः कोलोऽपि संस्पर्धते ॥
1.7 बाह्यैर्वर्णाडम्बरैर्मा भ्रमन्तु छित्त्वा गर्भाभ्यन्तरं शोधयन्तु ।
निर्णेतारो नीरसत्वेन को वा डिण्डीराणां डिण्डिमानां च भेदः ॥
1.8 आनीयानीलशृङ्गद्युतिरचितजगद्रञ्जनादञ्जनाद्रेः
चेञ्च्यामाराध्य कञ्चित्समयमथ निहत्योद्धनुष्कान् तुरुष्कान् ।
लक्ष्मीभूभ्यामुभाभ्यां सह निजनिलये स्थापयन् रङ्गनाथं
सन्त्रवर्यां सपर्यां पुनरकृत यशोदर्पणो गोप्पणार्यः ॥