02 द्वितीयाश्वासः

लीलाखेलं ललितगमनाश्चारुनादं सशिञ्जाः
भल्लाक्षं त्वां स्मरशरदृशो गौरमापाण्डुराङ्ग्यः ।
मुग्धालापं मधुरवचसो मानसार्हं मनोज्ञाः
यत्रानीतास्सुर युवतयो रञ्जयेयुस्समक्षम् ॥ 2.1 ॥उग्रैश्शापैरुपहतिभिया रक्षसा दूर मुक्ताः
दग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।
उत्पश्यन्तो जनकतनयातेजसैव स्वरक्षां
रोधं यस्यामनुविदधते लोकपालावरोधाः ॥ 2.2 ॥अध्यासीना बहुमणिमयं तुङ्गशृङ्गं त्रिकूटं
दिक्पालेषु प्रथितयशसा रक्षसा रक्ष्यमाणा ।
अग्रे मेरोरमरनगरीं या परिष्कारभूम्ना
त्वाहूयेव ध्वजपटमयानग्रहस्तान् धुनोति ॥ 2.3 ॥काले यस्यां व्यपगतघने त्वद्विहारोचितेऽस्मिन्
चन्द्रालोकैर्विलुलितधियां शर्वरीगर्वहासैः
स्वर्गस्त्रीणां विरहजनितं बाष्पमुद्वेलयन्त्यः
निष्यन्दन्ते सलिलकणीकाश्चन्द्रकान्त स्थलिनाम् ॥ 2.4 ॥भासा तादृक्परिणतिजुषा मैथिलीशोकवह्नेः
भस्मीभूतां पवनतनयस्नेहिना पावकेन ।
अन्तस्त्रासादवहितधियस्संविधास्यन्त्यवश्यं
प्रत्यादिष्टप्रथमरचनं विश्वकर्मादयस्ताम् ॥ 2.5 ॥मध्ये तस्या निशिचरपतेस्सद्म रुद्धान्तरिक्षं
युग्मं नेयैर्दिवि सुमनसां सेव्यमानं विमानैः ।
कारागारं विबुधसुदृशां वीक्षमाणो विचित्रं
शोकप्रीतिव्यतिकरवतीं वक्ष्यसे चित्तवृत्तिम् ॥ 2.6 ॥ईषत्कोपाच्चकित पवनामिन्दुसन्दिग्धसूर्यां
नित्योदारामृतुभिरखिलैर्निष्कुटे वृक्षवाट् ईम् ।
सीताशोकज्वलनसहजैस्तत्र दीप्तामशोकैः
आपद्येथाः प्रथमलुलितामाञ्जनेय प्रचारैः ॥ 2.7 ॥तस्यामन्यैर्वियति विहगैस्सार्धमानन्दनिघ्नैः
स्थानेस्थाने निहितनयनो वर्तयन्मण्डलानि ।
द्रक्ष्यस्येकां जनकदुहितुस्सौम्यदुर्जातबन्धुं
न्यस्ताकल्पां क्वचन विटपे शिं शुपां सान्द्रशाखाम् ॥ 2.8 ॥मूले तस्याः किमपि सवनक्षेत्रसं स्कारजातं
यत्र क्वापि स्थितमपि सखे त्रासहीनं महिम्ना ।
काले तस्मिन्कथमपि मया वीर्यशुल्केन लब्धं
दृश्यं तत्ते दिनकरकुलद्योतकं दिव्यरत्नम् ॥ 2.9 ॥सा मे दृष्टिश्शफरनयना सन्नतभ्रूस्सुकेशी
तन्वी तुङ्गस्तनभरनता तप्तजाम्बुनदाभा ।
बाला युष्मत्प्रतिमगमना वेदिमध्या वराङ्गी
शृङ्गाराख्यं निधिमधिगता श्रेयसी देवतेव ॥ 2.10 ॥सा ते यावन्नयनपदवीं याति मोहालसा वा
सन्देशं वा मदुपगतये श्रावयन्ती शकुन्तान् ।
अत्यासन्नप्रियवचनतां सूचयद्भिर्निमित्तैः
एतामश्रुस्थगितनयनं वीक्षमाणा दिशं वा ॥ 2.11 ॥आकल्पान्वा सविधनिहितानालपन्ती विमोहात्
अङ्गस्पर्शो रघुकुलपतेः स्मर्यते वा न वेति ।
ध्यायन्ती वा चिरविरहितानेकशय्याविहारान्
तस्या नूनं नियतिजनिता तादृशी कालयात्रा ॥ 2.12 ॥शुद्धामिन्दोश्श्वपचभवने कौमुदीं विष्फुरन्तीं
आनीतां वा विषतरुवने पारिजातस्य शाखाम् ।
सूक्तिं रम्यां खलपरिसरे सत्कवेः कीर्त्यमानां
मन्ये दीनां निशिचरगृहे मैथिलस्यात्मजाताम् ॥ 2.13 ॥वर्षाकीर्णामिव कमलिनीं व्याहतार्थामिवोक्तिं
पङ्काश्लिष्टामिव बिसलतां पत्यपेतामिवेभीम् ।
मेघच्छन्नामिव शशिकलां विघ्नरुद्धामिवाशां
व्याघ्रोपेतामिव मृगवधूं भूतले ज्यामिवास्ताम् ॥ 2.14 ॥स्मृत्वा पूर्वं स्मरशरभये मत्परिष्वङ्गरक्षां
आश्लिष्यन्तीमलसवलितैरङ्गकैर्मातरं स्वाम् ।
आकल्पेऽपि श्रममधिगतैरङ्गरागेऽपि खिन्नै
अक्षाम्यद्भिः स्मृतिमपि मुहुस्सौकुमार्यातिरेकात् ॥ 2.15 ॥भूयोभूयः करसरसिजे न्यस्य रोमाञ्चिताङ्गीं
मौळौ चूडामणिविरहिते निर्विशन्तीं निधाय ।
अन्तस्तापादधिगतरुजोरादारादर्पयन्तीं
पर्यायेण स्तनकलशयोरङ्गुळियं मदीयम् ॥ 2.16 ॥अम्बातुल्या सुचरितफलं दिव्यमालेपनं प्राक्
अङ्गेष्वस्याः स्थिरमनुगुणं यद्वितेनेऽनसूया ।
धाराकारैः स्तनकलशयोरापतद्भिस्समन्तात्
सन्तापोष्णैस्तदपि बहुळैरश्रुभिः क्षाळयन्तीम् ॥ 2.17 ॥अग्राह्यवत्वाद्विषमयमितं केशहस्तं मया प्राक्
आबिभ्राणां तनुपरिमळश्रद्धयेवावकीर्णम् ।
अर्चा हेतोर्भुवि रतिपतेरप्सरोभिर्विमुक्तां
अन्वग्यातामिव सुरतरोर्मञ्जरीं चञ्चरीकैः ॥ 2.18 ॥आनीतं यत्त्वरितमचलादुत्तरियं प्लवङ्गैः
अस्याकारैस्सदृशमभितस्त्वत्प्रियारूपचिह्नम् ।
बालादित्यद्युतिसहचरं चारु वासो वसानां
सन्ध्यारागव्यतिकरवतीं चन्द्रलेखामिवान्याम् ॥ 2.19 ॥वक्तुं मार्गं किल वुसुमतीं जग्मुषस्तत्पदाब्जात्
मञ्जीरस्य त्वदुपमरुतेर्दक्षिणस्यास्य तुल्यम् ।
अङ्कारूढे चरणकमले मत्करेणोपधेयं
वामं शाखाशिखरनिहितं वीक्ष्य गाढं विषण्णाम् ॥ 2.20 ॥अङ्गैर्म्लायत्किसलयसमैरुज्झिताकल्पपुष्पैः
गाढाश्लिष्टां वपुषि विमले बिम्बिताभिर्लताभिः ।
सन्तापोष्णश्वसनपरुषछायया किञ्च दूनां
बन्दीभूतां निशिचरगृहे नन्दनस्येव लक्ष्मीम् ॥ 2.21 ॥चेतोवृत्तिं शमयति बहिस्सार्वभौमे निरोधे
मय्येकस्मिन्प्रणिहितधियं मान्मथेनागमेन ।
अभ्यस्यन्तीमनितरजुषो भावनायाः प्रकर्षात्
स्वान्तेनान्तर्विलयमृदुना निर्विकल्पं समाधिम् ॥ 2.22 ॥शून्या दृष्टिश्श्वसितमधिकं मीलितं वक्त्रपद्मं
धाराकारं नयनसलिलं सानुबन्धो विलापः ।
इत्थं दैन्यं किमपि विधिना दुर्निवारेण नीता
सा मे सक्ता तनुतरतनुस्तप्यते नूनमन्तः ॥ 2.23 ॥दृष्ट्वा तस्यास्त्वमपि करुणां तादृशीं तामवस्थां
शक्ष्यस्यन्तस्स्वयमुपनतं शोकवेगं न सोढुम् ।
क्रव्यादानां दशवदनवत् क्वापि जातवजाताः
नालम्बन्ते कथमिव दयां निर्मलत्वोपपन्नाः ॥ 2.24 ॥नेदीयस्यामधिगतरसो दीर्घिकायां निकामं
संवेशेन श्रममपनयन् शर्वरीं यापयेथाः ।
इत्थं निद्रासमयमुचितं वीक्ष्य नक्तञ्चरीणां
प्रत्यूषे त्वं प्रणयमधुरां श्रावयिष्यन्
मदुक्तिम् ॥ 2.25 ॥शीतैरध्वश्रमविनयनैस्सेवितो गन्धवाहैः
सुप्तस्स्वैरं पुळिनशयने स्वन्तरे चन्द्रपादैः ।
क्रीडागीतैः कमलमुकुळे लीयतां षट्पदानां
कार्याकाङ्क्षी कलयतु भवान् राजहंस प्रबोधम् ॥ 2.26 ॥तामारूढश्चलकिसलयां शिंशुपां स्वैकलक्ष्यः
मन्दीकुर्वन्मनसिजधनुर्घोषतीव्रं निनादम् ।
मोहादीषन्मुषितमनसं बोधय प्रेयसीं मे
रम्यामादौ रघुजनकयोर्वर्णयन् वंशकीर्तिम् ॥ 2.27 ॥पत्युर्देवि प्रणयसचिवं विद्धि दीर्घायुषो मां
जीवातुं ते दधतमनघं तस्य सन्देशमन्तः ।
शूराणां यश्शरदुपगमे वीरपत्नीवराणां
संमानार्हं समयमुचितं सूचयेत्कूजितैस्स्वैः ॥ 2.28 ॥मत्प्रस्तावप्रवणमथ सा मैथिली मानयेत्त्वां
म्लानं शोकाद्वदनकमलं किञ्चिदुन्नम्य भीरुः ।
अन्तस्तोषादमृतलहरीलब्धसब्रह्मचर्यैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ॥ 2.29 ॥पश्यन्ती सा रघुपतिवधूस्त्वामशेषावदातं
प्रत्याश्वासादधिगतरुचिः प्राक्तनीवेन्दुलेखा ।
मत्सन्देशे तदनु सुमुखी सावधाना भवित्री
किं न स्त्रीणां जनयति मुदं कान्तवार्ताऽऽगमोपि ॥ 2.30 ॥पश्चादेवं कथय भवतीभागधेयेन जीवन्
कल्याणीं त्वां कुशलमनघः कोसलेन्द्रोऽनुयुङ्क्ते ।
येषु श्रेयो भवति नियतं तानि सर्वाणि सन्तः
लक्ष्म्या देव्यास्तव च भुवने लक्षणान्यामनन्ति ॥ 2.31 ॥यस्या यस्मिन् व्यवधिरभवद्भूषणालेपनादिः
नीतामेनां नियतिविभवादन्तरीपं दवीयः ।
प्रत्यासीदन्निव नयनयोर्वर्त्मनि स्थापयित्वा
स त्वामेवं वदति कुशली देवि सख्या मुखेन ॥ 2.32 ॥वेलातीतप्रणयविवशं भावमासेदुषोर्नौ
भोगारम्भे क्षणमिव गता पूर्वमालिङ्गनाद्यैः ।
सम्प्रत्येषा सुतनु शतशः कल्पना सङ्गमैस्ते
चिन्तादीर्घैरपि शकलिता शर्वरी नापयाति ॥ 2.33 ॥उद्दामैस्ते कुचकलशयोरूष्मभिर्निर्जितेन
छिद्रं लब्ध्वा विरहसमये तत्क्षणादुन्नतेन ।
कुन्दामोदैस्सुरभितदिशा गन्धवाहेन दैन्यं
सम्प्राप्तोऽहं सह सरसिजैस्त्वन्मुखाम्भोजमित्रैः ॥ 2.34 ॥माध्वीदिग्धैर्विरहिवनितास्वाद लुब्धैरमोघैः
आवृण्वन्तं कुसुमधनुषश्चित्रपुङ्खैर्दिगन्तान् ।
सीतापार्श्वे न भवतु भवानित्यवोचद्वसन्तं
रामस्त्रासादनमितधनुर्मौळिना सन्नतेन ॥ 2.35 ॥पार्श्वे लोलैः परभृतकुलैर्मुक्तकोलाहलानां
मल्लीरेणुस्थगितवपुषां मन्दरं निर्गतानाम् ।
भीतेनाहं भ्रमरपटली शृङ्खलासङ्कुलानां
मार्गे तिष्ठन्मलयमरुतां वारितो लक्ष्मणेन ॥ 2.36 ॥मन्दो वक्ष्ये किमिव जनकं किं नु योगीश्वरो मां
इत्येवं मे सुतनु मनस वर्तयन्ति स्म खेदम् ।
रक्ताशोके ज्वलति सविधे लाजवर्षाभिरामैः
पुष्पौघैस्त्वत्परिणयदशां व्यञ्जयन्तः करञ्जाः ॥ 2.37 ॥चेतो नैव त्यजति चपलाहेमकोणाभिघातात्
धीरोदात्तस्तनितजलदात्ताण्डवारम्भमिच्छन् ।
वातोन्मुक्तैः कुटजकुसुमैर्वासिते शैलशृङ्गे
रक्षः पीडारहितदयिताश्लेषधन्यो मयूरः ॥ 2.38 ॥शैलव्यक्तप्रतिविलपितां सान्द्रतापानुविद्धां
तन्वानानां नयनसलिलैर्मातरं ते सबाष्पाम् ।
पश्यन्तीनां प्रबलमदनोन्मादपर्याकुलं मां
प्रायो जातं किमपि रुदितं व्योम्नि कादम्बिनीनाम् ॥ 2.39 ॥देहस्पर्शं मलयपवने दृष्टिसं भेदमिन्दौ
धामैकत्वं जगति भुवि चाभिन्नपर्यङ्कयोगम् ।
ताराचित्रे वियति विततिं श्रीवितानस्य पश्यन्
दूरीभूतां सुतनु विधिना त्वामहं निर्विशामि ॥ 2.40 ॥प्राप्तैस्सख्यं तव नयनयोः पद्मकोशैः प्रबुद्धैः
सन्नाहं नस्समयनियतं साधु सन्धुक्षयन्ती ।
सेनायोग्यां सरणिमधुना दर्शयन्ती शुभाशा
सीते नूनं त्वरयति शरत्त्वत्समीपं निनीषुः ॥ 2.41 ॥तातादेशात्सपदि भरते न्यस्तराज्याभिषेकं
या मामेका वनमनुगता राजधानीं विहाय ।
तामेव त्वामुचितशयनां बाहुमध्ये मदीये
दूरे कर्तुर्गुणवति मुहुर्दूयते जीवितं मे ॥ 2.42 ॥सेतुं बध्वा विपुलमचलैस्सायकैर्वा पयोधौ
कृत्वा लङ्कां स्रजमिव करे खेलतां वानराणाम् ।
अल्पीयोभिस्सुमुखि दिवसैर्योधयन् यातुधानान्
कर्णे शीधुं तव रचयिता लक्ष्मणश्चापघोषैः ॥ 2.43 ॥रक्षोमौळिस्तबकलवनाद्वैरबन्धे विमुक्ते
गत्वा चोर्वीं गगनपदवीस्वैरिणा पुष्पकेण ।
सिद्धारम्भौ सपदि भवतामाधिराज्याभिषेकात्
संप्राप्स्यावश्चिरविरहतस्सञ्चितान्देवि भोगान् ॥ 2.44 ॥चित्ते कुर्यात्तदपि भवति यज्जनस्थानयुद्धात्
संप्राप्तं मां दशमुखसमान् पारयित्वा खरादीन् ।
शस्त्राघातं स्तनकलशयोरूष्मणा रोपयद्भिः
गाढाश्लेषैरपिहितवती गद्गदा हर्षबाष्पैः ॥ 2.45 ॥शच्याः क्लेशं क्वचन समये तादृशं चिन्तयित्वा
स्मृत्वा देवीमचलतनयां विप्रयुक्तां शिवेन ।
रक्षात्मानं कथमपि शुभे जीवितालम्बनं मे
पत्युश्चन्दाद्व्यसनमपि हि श्लाघनीयं वधूनाम् ॥ 2.46 ॥अप्येतत्ते मनसि निहितं साह्यमव्याजबन्धो
प्रत्याख्यातुं प्रभवति न खल्वानृशंस्यं त्वदीयम् ।
प्रागप्येवं परिणतगुणां नैषधे वीक्ष्य वार्तां
आर्तत्राणं व्रतमिति विदुर्हंस शुद्धात्मनां वः ॥ 2.47 ॥इत्थं हृद्यैर्जनकतनयां जीवयित्वा वचोभिः
सख्यं पुष्यन्दिनकरकुले दीप्यमानैर्नरेन्द्रैः ।
स्वैरं लोकान् विचरनिखिलान् सौम्य लक्ष्यमेव विष्णुः
सर्वाकारैस्त्वदनुगुणया सेवितो राजहंस्या ॥ 2.48 ॥सन्दिश्यैवं सह कपिकुलैस्सेतुना लङ्घिताब्धिः
पङ्क्तिग्रीवे युधि विनिहते प्राप्य सीतां प्रतीतः ।
राज्यं भूयस्स्वयमनुभवन् रक्षितं पादुकाभ्यां
रामश्श्रीमानतनुत निजां राजधानीं सनाथाम् ॥ 2.49 ॥विद्याशिल्पप्रगुणमतिना वेङ्कटेशेन कॢप्तं
चिन्ताशाणोल्लिखितमसकृच्छ्रेयसां प्राप्तिहेतुम् ।
सीताहंसव्यतिकरसखं राम सन्देशरत्नं
पश्यन्त्वन्तश्श्रवणमनघं चक्षुरुज्जीव्य सन्तः ॥ 2.50 ॥