वंशे जातस्सवितुरनघे मानयन्मानुषत्वं
देवश्श्रीमान् जनक तनयान्वेषणे जागरूकः ।
प्रत्यायाते पवनतनये निश्चितार्थस्स कामी
कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ 1.1 ॥काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन्
दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा ।
क्रीडाखेलं कमलसरसि क्वापि कालोपयातं
राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ 1.2 ॥तस्मिन्सीतागतिमनुगते तद्दुकूलाङ्कमूर्तौ
तन्मञ्जीरप्रतिमनिनदे न्यस्तनिस्पन्ददृष्टिः ।
वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तं
शङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ 1.3 ॥लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मा
सन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् ।
चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यां
कान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ 1.4 ॥कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेयात्
गाढोन्मादः प्रणयपदवीं प्राप वार्ताऽनभिज्ञे ।
विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौ
याञ्चादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ 1.5 ॥वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेः
आहुस्सिद्धाः कमलवसतेरौपवाह्यं भवन्तम् ।
लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशात्
तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ 1.6 ॥मध्ये केचिद्वयमिह सखे केवलं मानुषाणां
व्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् ।
स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतोः
विश्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥ 1.7 ॥इच्छामात्राज्जगदपरथा संविधातुं क्षमाणां
इक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् ।
लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटे
लङ्कां गन्तुं तवसमुचितं राक्षसीं राजधानीम् ॥ 1.8 ॥स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यां
मुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् ।
अस्मत्प्रीत्यै जनकतनया जीवतार्थं च गच्छन्
एकं रक्षः पदमिति सखे दोषलेशं सहेथाः ॥ 1.9 ॥वाचालानामिव जडधियां सत्कवौ दूरयाते
कैलासाय त्वयि गतवति क्षीबतामाश्रितानाम् ।
संमोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानां
मेघापाये विपिनशिखिनां वीक्ष्य वाचं यमत्वम् ॥ 1.10 ॥आरक्तानां नवमधुशनैरापिबन्पद्मिनीनां
कालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् ।
स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वां
आमोदानामहमहमिकामादिशन्गन्धवाहाः ॥ 1.11 ॥पर्याप्तं ते पवनचलितैरङ्गरागं परागैः
स्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः ।
येनान्वेष्यस्यचलतनया पादलाक्षानुषक्तं
चूडाचन्द्रं पुरविजयिनस्स्वर्णदीफेनपूर्णम् ॥ 1.12 ॥सूक्ष्माकारैर्दिनकरकरैः कल्पितान्तश्शलाकाः
शारोपान्ताश्शतमखधनुश्शेषचित्रां शुकेन ।
ऊढाः पश्चादुचितगतिना वायुना राजहंसः
छत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥ 1.13 ॥द्रक्ष्यस्येवं प्रियसख सुखं लङ्घिताध्वा सखीं ते
सीतां क्षेत्रे जनकनृपतेरुत्थितां सीरकृष्टे ।
गोपायन्ती तनुमपि निजां या कथञ्चिन्मदर्थं
भूमौ लोके वहति महतीमेकपत्नी समाख्याम् ॥ 1.14 ॥प्रक्षीणां त्वद्विरहसमये जातहर्षामिदानीं
प्रत्यायास्यन्ननुनय शनैर्पद्मिनीं स्वादुवाचा ।
सा ते तन्त्रीस्वनसुभगया स्यादितीहाभ्यनुज्ञां
मन्ये कुर्यान्मधुकरगिरा मैथिलीसौहृदेन ॥ 1.15 ॥सार्धं कान्तैश्शबरसुदृशामद्रिकुञ्जेषु रागात्
आसीनानां क्षणमसमये दृश्यचन्द्रोदयश्रीः ।
उड्डीयेथास्सरसिजवनाद्दक्षिणाशानुसारी
पश्यन्दूरात्प्रबलगरुतां पक्षिणां दत्तवर्त्मा ॥ 1.16 ॥अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं
छायामन्तस्तव मणिमयो माल्यवानेष शैलः ।
शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोः
देवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥ 1.17 ॥मार्गौ सम्यङ्मम हनुमता वर्णितौ द्वौ तयोस्ते
सह्यासन्नोऽप्यनति सुभगः पश्चिमोनित्यवर्षः ।
प्राचीने तु प्रतिजनपदं संहतावद्भुतानां
मग्ना दृष्टिः कथमपि सखे मत्कृते ते निवार्या ॥ 1.18 ॥श्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणां
प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानाम् ।
अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैः
देशानेतान्वनगिरिनदी संविभक्तान् व्यतीयाः ॥ 1.19 ॥इक्षुच्छाये किसलयमयं तल्पमातस्थुषीणां
सल्लापैस्तैर्मुदितमनसां शालिसं रक्षिकाणाम् ।
कर्णाटान्ध्रव्यतिकरवशात्कर्बुरे गीतिभेदे
मुह्यन्तीनां मदनकलुषं मौग्ध्यमास्वादयेथाः ॥ 1.20 ॥विष्णोर्वासादवनिवहनाद्बद्धरत्नैश्शिरोभिः
शेषस्साक्षादयमिति जनैस्सम्यगुन्नीयमानः ।
आभ्रैर्युक्तोऽलघुभिरचिरान्मुक्त निर्मोक कल्पैः
अग्रेभावी तदनु नयने रञ्जयन्नञ्जनाद्रिः ॥ 1.21 ॥तत्रारूढैर्महति मनुजैस्स्वर्गिभिश्चावतीर्णैः
सत्त्वोन्मेषाद्व्यपगतमिथस्तारतम्यादिभेदैः ।
साधारण्यात्फलपरिणतेस्सङ्घशो बद्ध्यमानं
शक्त्या कामं मधुविजयिनस्त्वं च कुर्यास्सपर्याम् ॥ 1.22 ॥स्तोकोन्मग्नस्फुरितपुलिनां त्वन्निवासेच्छयेव
द्रक्ष्यस्यारात्कनकमुखरीं दक्षिणामञ्जनाद्रेः ।
आसन्नानां वनविटपिनां वीचीहस्तैः प्रसूना-
न्यर्चाहेतोरुपहरति या नूनमर्धेन्दु मौळेः ॥ 1.23 ॥निर्विश्यैनां निभृतमनभिव्यक्तमञ्जुप्रणादो
मन्दाधूतः पुळिनपवनैर्वञ्जुळामोदगर्भैः ।
अव्यासङ्गस्सपदि पदवीं संश्रयान्यैरलङ्घ्यो
बन्दीकुर्युस्तटवसतयो मा भवन्तं किराताः ॥ 1.24 ॥तुण्डीराख्यं तदनु महितं मण्डलं वीक्षमाणः
क्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्याम् ।
पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवतायाः
सेतुर्जज्ञे सकलजगतामेकसेतुस्स देवः ॥ 1.25 ॥नानारत्नैरुपचितगुणां नित्यसङ्गीतनादां
भूमेर्द्रक्ष्यस्युचितविभवं भूषणं तत्र काञ्चीम् ।
यस्यां नित्यं निहितनयनो हस्तिशैलाधिवासी
द्वन्द्वातीतस्स खलु पुरुषो दृश्यते सत्यकामः ॥ 1.26 ॥तामासीदन्प्रणम नगरीं भक्तिनम्रेण मूर्ध्ना
जातामादौ कृतयुगमुखे धातुरिच्छावशेन ।
यद्वीथीनां करिगिरिपतेर्वाहवेगावधूतान्
धन्यान् रेणूं स्त्रिदशपतयो धारयन्त्युत्तमाङ्गैः ॥ 1.27 ॥मन्दाधूतात्तदनु महितो निस्सृतश्चूतषण्डात्
पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही ।
दूरात्प्राप्तं प्रियसखमिव त्वामुपैष्यत्यवश्यं
कम्पापाथः कमलवनिका कामुको गन्धवाहः ॥ 1.28 ॥वर्णस्तोमैरिव परिणता सप्तभेदैर्महौघैः
मान्या मध्येनगरमभितस्सेविता देवताभिः ।
स्वच्छस्वादुप्रसरसुभगा स्वामिनी वः कवीनां
वेगासञ्ज्ञां वहति महतीं वल्लभा पद्मयोनेः ॥ 1.29 ॥तीर्थे पुंसां शमितकलुषे तत्र सारस्वताख्ये
स्नात्वा सार्धं मुनिभिरनघैस्सम्यगुल्लासिताङ्गः ।
विश्वं चित्ते विगतरजसि व्यञ्जयन्तीमशेषं
वक्ष्यस्यन्तर्बहिरपि परां शुद्धिमक्षेपणीयाम् ॥ 1.30 ॥तस्यास्तीरे सरसिजभुवस्सौम्य वैतानवेदिः
दिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः ।
यस्योपान्ते कृतवसतयो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ 1.31 ॥सञ्चिन्वाना तरुणतुळसी दामभिस्स्वामभिख्यां
तस्यां वेद्यामनुविदधती श्यामळं हव्यवाहम् ।
भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः
भुयश्श्यामा भुवनजननी देवता सन्निधत्ते ॥ 1.32 ॥लक्ष्मीविद्युल्ललितवपुषं तत्र कारुण्यपूर्णं
मा भैषीस्त्वं मरकतशिलामेचकं वीक्ष्य मेघम् ।
शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देवहंसैः
हंसीभूतस्स खलु भवतामन्ववायाग्रजन्मा ॥ 1.33 ॥सारास्वादी सवनहविषां स्वामिनस्ते स देवः
शुद्धं चक्षुश्श्रुतिपरिषदां चक्षुषां भागधेयम् ।
अङ्गीकुर्याद्विनतममृतासारसं वादिभिस्त्वां
आविर्मोदैरभिमतवरस्थूललक्षैः कटाक्षैः ॥ 1.34 ॥मध्वासक्तं सरसिजमिव स्विन्नमालम्बमानः
देव्या हस्तं तदितरकरन्यस्तलीलारविन्दः ।
देवश्श्रिमान् स यदि विहरेत्स्वैरमारामभूमौ
व्यक्तो वालव्यजनवपुषा वीजयेस्तं त्वमेव ॥ 1.35 ॥जातप्रीतिर्जनपदमथो मध्यमं लङ्घयित्वा
दूराल्लक्ष्यक्रमुक निवहश्यामळान्याहि चोळान् ।
प्रत्युद्गच्छन्मकरवलन स्तम्भितैस्सह्यजायाः
स्रोतोभेदैर्विविध गतिभिस्संविभक्तावकाशन् ॥ 1.36 ॥सन्ध्यारागं सुरभिरजनी संभवैरङ्गरागैः
केशैर्ज्योत्स्नाकलहि तिमिरं पाळिकापीडगर्भैः ।
आबिभ्राणास्सरसिजदृशो हंसदोलाधिरोहात्
आधास्यन्ते मदकलगिरस्तेषु नेत्रोत्सवं ते ॥ 1.37 ॥पृथ्वीलीलातिलकसुभगं पश्चिमं भागमेषां
नाम्ना वर्षं जलचरनदी मातृकं गाहमानः ।
द्रक्ष्यस्यारात्परिमिततया मग्नकैलासदृश्यं
श्वेतं शैलं फणिपतिमिव क्ष्मातलादुज्जिहानम् ॥ 1.38 ॥स्फारालोकप्रशमिततमस्सञ्चयं तत्र पुंसां
प्रत्यग्रूपं प्रगुणविभवं प्रार्थनीयं बुधानाम् ।
नेदीयां संकुशलनिवहं नन्तुराधास्यते ते
दिव्यं तेजो जलधितनया स्नेहनित्यानुषक्तम् ॥ 1.39 ॥स्निग्धच्छायं तदनु विततं तस्य धामेव नीलं
नीलीरक्षानियतललितं काननं संविचीयाः ।
दृष्टे तस्मिन्ननिमिषवधू नित्यनिर्वेश्य योग्ये
स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते ॥ 1.40 ॥कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानं
पूगारण्ये मृदुविचलयन्पाळिकाचामराणि ।
पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैः
प्रायो वायुः परिजनविधिं पञ्चबाणस्य धत्ते ॥ 1.41 ॥स्रोतोवेगादथ जनपदं सौम्य सीमन्तयन्ती
प्रत्यादेशो विबुधसरितस्स्यन्दते सह्यकन्या ।
कालेकाले परिणतिवशात्पर्वभेदावकीर्णैः
पुण्ड्रेक्षूणां पुळिनविशदैर्गद्गदा मौक्तिकौघैः ॥ 1.42 ॥सह्योत्सङ्गात्सपदि मरुता सागरं नीयमानां
भद्रालापैर्विहितकुशलां त्वादृशानां द्विजानाम् ।
यामस्कन्नास्सरसकुहळी पत्रपातैर्निशान्ते
मन्दस्मेरां मधुपरिमळैर्वासयन्तीव पूगाः ॥ 1.43 ॥तस्मिन् द्रक्ष्यस्यमरमहिळामौळि गन्धैरवन्ध्यां
आतन्वानां व्यपगतरसं मानसे मानसं वः ।
तीर्थैरन्यैरपि परिगतां शुद्धिहेतोस्समन्तात्
चन्द्रोल्लास प्रथितयशसस्संपदं पुष्करिण्याः ॥ 1.44 ॥तीरे तस्या विरचितपदं साधुभिस्सेव्यमानं
श्रद्धायोगाद्विनमिततनुश्शेषपीठं भजेथाः ।
यस्मिन्नस्मत्कुलधनतया सौम्य साकेतभाजः
स्थानं भाव्यं मुनिभिरुदितं श्रीमतो रङ्गधाम्नः ॥ 1.45 ॥सत्त्वे दिव्ये स्वयमुदयतस्तस्य धाम्नः प्रसङ्गात्
मञ्जूषायां मरकतमिव भ्राजमानं तदन्तः ।
चेतो धावत्युपहितभुजं शेषभोगे शयानं
दीर्घापाङ्गं जलधितनयाजीवितं देवमाद्यम् ॥ 1.46 ॥चोराक्रान्तं तदनु विपिनं चोळपाण्ड्यान्तरस्थं
झिल्लीनादश्रवणपरुषं शीघ्रमेव व्यतीयाः ।
तीर्णे तस्मिन्प्रकटय सखे शीतलांस्ते निनादान्
शब्दायन्ते न खलु कवयस्सन्निधौ दुर्जनानाम् ॥ 1.47 ॥स्रस्तापीडं प्रचलदलकं व्यक्तताटङ्करत्नं
मुक्ताचूर्णस्फुरिततिलकं वक्त्रमुत्तानयन्त्यः ।
देशे तस्मिन् कुवलयदृशो जातकौतूहलास्त्वां
मालादीर्घैर्मधुरविरुतं मानयिष्यन्त्यपाङ्गैः ॥ 1.48 ॥नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोः
प्रत्यासीदन्सपदि विनमद्भागधेयं नतस्स्याः ।
यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तं
पाथो दिव्यं पशुपतिजटास्पर्शशून्यं विभाति ॥ 1.49 ॥ईशादस्त्राण्यधिगतवतां क्षत्रियाणां प्रभावात्
काराऽऽवासस्मरणचकितैस्सिक्तसस्यां पयोदैः ।
पश्यन्यायाः परमलकया स्पर्धमानैरजस्रं
पुण्यावासैः पुरजनपदैर्मण्डितान्पाण्ड्यदेशान् ॥ 1.50 ॥मुक्ताजालैर्जनितपुळिनां शुक्तिसन्तानमुक्तैः
तारापूर्णां दिवमिव ततस्ताम्रपर्णीं भजेथाः ।
प्रत्यासत्त्या नियतविशदं पीतसिन्धोर्महर्षेः
पानीयं ते परिणमयिता तत्र मुक्तामयत्वम् ॥ 1.51 ॥तस्यास्स्वैरं सरसिजमुखास्वादसं प्रीतचेताः
शीतीभूतस्तरळलहरीबाहुसंश्लेषणेन ।
अध्यासीनः पुलिनमलिनैर्वीजितश्चन्दनाद्रेः
श्रान्तिं शान्तिं गमयतु भवान् सागरं लङ्घयिष्यन् ॥ 1.52 ॥सव्यं तस्याः कियदिव गतश्श्यामताळीतमालां
त्वत्प्रायाणां तरुणवयसां चेतसो नन्दयित्रीम् ।
वेलामब्धेर्विविधलहरीदत्तमुक्ताभिरामां
द्रक्ष्यस्याराद्द्विगुणपुलिनां केतकीनां परागैः ॥ 1.53 ॥स्थित्वा तत्र क्षणमुभयतश्शैलशृङ्गावतीर्णैः
स्रोतोभेदैरधिगतगुणं चारुविष्फारघोषैः ।
लक्षीकुर्वन् दशमुखपुरीं सौम्य पत्रप्रकृष्टो
वेलाचापं शर इव सखे वेगतस्त्वं व्यतीयाः ॥ 1.54 ॥दावासक्तं वनमिव नभस्सन्ध्ययेवानुविद्धं
सिन्दूराङ्कं द्विपमिव हरिं स्वाम्बरेणेव जुष्टम् ।
विद्युद्भिन्नं घनमिव सखे विद्रुमारण्ययोगात्
देहेनैकं मिथुनमिव च द्रक्ष्यसि त्वं पयोधिम् ॥ 1.55 ॥अस्मत्पूर्वैस्सुरपतिहृतं द्रष्टुकामैस्तुरङ्गं
भित्वा क्षोणीमगणितबलैस्सागरो वर्द्धितात्मा ।
सत्कारार्थं तव यदि गिरीनादिदेशाद्गुप्तपक्षान्
अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ॥ 1.56 ॥तत्रासीनः क्वचन सरसि स्मेरहेमारविन्दे
लब्धास्वादो मधुभिरमितैस्संविनीताध्वखेदः ।
द्रक्ष्यस्यग्रे लघुतरगतिश्शेषमुल्लङ्घ्य सिन्धोः
तोयाघातान्मसृणितशिलारम्यवेलं सुवेलम् ॥ 1.57 ॥यस्यासन्ने पयसि जलधेस्त्वत्प्रतिच्छन्दचन्द्राः
पक्षच्छेदक्षरितरुधिरस्तोमसन्दर्शनीयाः ।
वीचिप्राप्तैर्विषमितरुचो मौक्तिकैस्तारकाभैः
सन्ध्यामन्यां नियतमवनौ दर्शयन्ति प्रवाळाः ॥ 1.58 ॥यत्रारण्यं वरुणवसतेर्वीचिवेगापनीतैः
मुक्तारत्नस्तबकशबलैर्विद्रुमैरुत्प्रवाळम् ।
रक्षोभीतैस्स्वयमनिमिषैराहृतस्थापितानां
मन्दाराणां मधुपरिमळैर्वासितं मौळिदघ्नैः ॥ 1.59 ॥तस्मिन्दृश्या तदनु भवतश्चारुसौधावदाता
लङ्का सिन्धोर्महति पुलिने राजहंसीव लीना ।
त्वामायान्तं पवनतरळैर्या पतकापदेशैः
पक्षैरभ्युज्जिगमिषुरिव स्थास्यति श्राव्यनादा ॥ 1.60 ॥