दिव्यदेशमङ्गलाशासनानि

श्रीः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

सारसारम् - (श्रीरङ्गम्)

विश्वास-प्रस्तुतिः

विधि-विहित-सपर्यां वीत-दोषानुषङ्गां
उपचित-धन-धान्याम् उत्सवैः स्त्यान-हर्षाम् ।
स्वयम् उपचिनु नित्यं रङ्ग-धामन् स्व-रक्षां
शमित-विमत-पक्षां शाश्वतीं रङ्ग-लक्ष्मीम् ॥

मूलम्

विधिविहितसपर्यां वीतदोषानुषङ्गां
उपचितधनधान्यामुत्सवैः स्त्यानहर्षाम् ।
स्वयमुपचिनु नित्यं रङ्गधामन् स्वरक्षां
शमितविमतपक्षां शाश्वतीं रङ्गलक्ष्मीम् ॥

रहस्यनवनीतम् - (वेङ्कटाद्रिः)

विश्वास-प्रस्तुतिः

प्रशमित-कलि-दोषां प्राज्य-भोगानुबन्धां
समुदित-गुण-जातां सम्यग्-आचार-युक्ताम् ।
श्रित-जन-बहु-मान्यां श्रेयसीं वेङ्कटाद्रौ
श्रियम् उपचिनु नित्यं श्रीनिवास त्वम् एव ॥

मूलम्

प्रशमितकलिदोषां प्राज्यभोगानुबन्धां
समुदितगुणजातां सम्यगाचारयुक्ताम् ।
श्रितजनबहुमान्यां श्रेयसीं वेङ्कटाद्रौ
श्रियमुपचिनु नित्यं श्रीनिवास त्वमेव ॥

तत्वनवनीतम् - ( काञ्चीपुरम् )

विश्वास-प्रस्तुतिः

वरद विरचय त्वं वारिताशेष-दोषां
पुनर्-उपचित-पुण्यां भूषितां पुण्य-कोट्या ।
सितम् उदित-मनोभिस्, तावकैर् नित्य-सेव्यां
हत-रिपु-जन-योगां हस्ति-धाम्नस् समृद्धिम् ॥

मूलम्

वरद विरचय त्वं वारिताशेषदोषां
पुनरुपचितपुण्यां भूषितां पुण्यकोट्या ।
सितमुदितमनोभिस्तावकैर्नित्यसेव्यां
हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम् ॥

तिरुनारायणपुरम्

विश्वास-प्रस्तुतिः

नव-नव-बहु-भोगां नाथ नारायण त्वं
विरचय दुरितौघैस् ताम् अन्-आघ्रात-गन्धाम् ।
सहज–सु-लभ–दास्यैस् सद्भिर् अभ्यर्थनीयां
यति-परिवृढ-हृद्यां यादवाद्रेस् समृद्धिम् ॥

मूलम्

नवनवबहुभोगां नाथ नारायण त्वं
विरचय दुरितौघैस्तामनाघ्रातगन्धाम् ।
सहजसुलभदास्यैस्सद्भिरभ्यर्थनीयां
यतिपरिवृढहृद्यां यादवाद्रेस्समृद्धिम् ॥

(रहस्यपदवी)

विश्वास-प्रस्तुतिः

श्रीरङ्ग–द्वि-रद–वृषाद्रि-पूर्वकेषु
स्थानेषु स्थिर-विभवा भवत्-सपर्या ।
आकल्पं वरद विधूत-वैरि-पक्षा
भूयस्या भवद्-अनुकम्पयैव भूयात्

मूलम्

श्रीरङ्गद्विरदवृषाद्रिपूर्वकेषु
स्थानेषु स्थिरविभवा भवत्सपर्या ।
आकल्पं वरद विधूतवैरिपक्षा
भूयस्या भवदनुकम्पयैव भूयात् ॥

इति श्रीमन्निगमान्तमहादेशिकविरचिताः
दिव्यदेशमङ्गलाशासनश्लोकाः ।

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com