श्रीनिवासस्य महिषीं श्रेयसे तामुपास्महे ।
यदर्थमेव विदधे यत्नं भूयांसमच्युतः ॥ १ ॥
कमले कमलेक्षणस्त्वदर्थे कठिनं कर्म करोत्यसौ न किं वा ।
कलशोदधिमन्थनप्रयासादपरं किं श्रमदायि कर्म लोके ॥ २ ॥
तव गुरुस्तनशैलभरं सदा जननि वोढुमना जगतां पिता ।
गुरुभरोद्वहनाभ्यसनाय किं तमपि मन्दरमम्बुनिधौ दधौ ॥ ३ ॥
नादत्तमध्यवनि सिध्यति किञ्चनेति निश्चिन्वता भगवतापि विवित्स(वक्ष)ता त्वाम् ।
वैदेहि कामपि शिलामबलां विधाय कन्याप्रदानविधिरक्षपदाय चक्रे ॥ ४ ॥
विद्यां बलां रघुपतिः पथि गाधिपुत्रात् सम्प्राप्य निह्नुतसमस्ततनुक्लमोऽपि ।
अम्बाऽतनुक्लमहरामबलामिह त्वां स्वस्य ध्रुवं घटयितुं तमुपास्त भूयः ॥ ५ ॥
शंसन्ति पङ्क्तिरथयागविधेः फलं यं(किं) सोऽयं मखा(घा)वनिभवां जनकात्मजे त्वाम् ।
प्राप्तुं व्यधात् कुशिकनन्दनयज्ञरक्षां रक्षांसि हन्त दमयन् युधि रामचन्द्रः ॥ ६ ॥
भगवति क्षितिपुत्रि भवत्कृते भवहरोऽपि भवन् रघुनन्दनः ।
समभवद् भवचापलतान्तधीः स इति विस्मयवन्त इहास्महे ॥ ७ ॥
त्वद्भ्रूभटस्य धनुषा विजितः सुमेषो रामस्तमेव नितरामभिराद्धुकामः ।
तत्प्रीतये जनकनन्दिनि तद्विपक्षकोदण्डभङ्गमुपहारमिवाजहार ॥ ८ ॥
कर्तव्ये जनकेन मैथिलि तवोद्वाहक्रमालोचने सोऽयं वागुपकारमारचयितेत्यालोच्य भाविस्थितिम् ।
तद्वंशैकपुरोहितस्य हि शतानन्दस्य हर्षाय तन्मातुर्ग्रावदशां हरन् रघुपतिस्तस्योपकारं व्यधात् ॥ ९ ॥
सुन्दस्त्रीतनुभूसुबाहुकुहनोपज्ञं तु यज्ञक्रियाप्रत्यूहं शमयन् प्रहर्ष्य (र्ष)घटकं शुश्रूषया(यन्) कौशिकम् ।
दुर्दर्शं शशिखण्डमण्डनमहादोर्दण्डकोदण्डमप्युर्वीनन्दिनि खण्डयन्नुदवहत्त्वामम्ब रामः श्रमात् ॥ १० ॥
त्वां मार्गमाणस्त्वदुदन्तशंसिने वृद्धाय गृध्राय रमे रघूद्वहः ।
योग्येकयोग्यानि पदान्यदादहो(होऽदिशत्) सन्तोऽपि वेलामतियन्ति रागतः ॥ ११ ॥
अपि सकलशरण्यो मानिनामग्रगण्यो भगवति भवदर्थे भानुवंशाधिनाथः ।
कपिमपि शरणोत्कः कञ्चिदानञ्ज(र्च) कष्टं गणयति न फलार्थी गौरवं लाघवं वा ॥ १२ ॥
त्वद्दाने जनकेन मैथिलि पुरा शुल्कीकृतं स्वामिनः
पाण्यङ्गुष्ठकिणं व्यधात् पशुपतेश्चापे गुणारोपणम् ।
त्वत्संप्राप्तिसहायवानरपतेः (ति)प्रत्यायनार्थं त्वभूत्
पादाङ्गुष्ठकिणाय दुन्दुभितनोस्तद् दूरतः क्षेपणम् ॥ १३ ॥
निशिचरपतिमन्तं नेष्यता तद्गृहीतां पुनरवनिसुते त्वां प्राप्स्य(प्रेप्स)ता राघवेण ।
तरणिजमभिराद्धुं तत्र कार्ये सहायं सपदि निरपराधः सादितो हन्त वाली ॥ १४ ॥
परोरजसि धामनि श्रुतिशिरोभुवि च्छान्दसे महामहसि योगिनां दहरमन्दिरे च स्थितः ।
धरादुहितरादरात्तव कृते कपीन्द्रागतिं प्रतीक्ष्य दिवसान् बहूनवसदृश्यमूके प्रभुः ॥ १५ ॥
रघुकुलपतिना ते लोकनायैव सीते कृतरविसुतसेवः कोऽपि दत्तानुभावः ।
वनशिखरिविहारी वानरब्रह्मचारी जलधिमपि ललङ्घेऽजातखेदं ललन् खे ॥ १६ ॥
द्रष्टुं त्वां ननु हनुमन्तमग्निदाहाद्यातङ्कं बहुमधिलङ्कमाप्तवन्तम् ।
सर्वस्वायितपरिरम्भसौख्यदानात् काकुत्स्थो जननि चकार निर्व्रणं तम् ॥ १७ ॥
दरादुपनतं रमे दशशिरोऽनुजं त्वत्कृते समस्तनयकोविदः सपदि संगृ(ग्र)हीतुं प्रभुः ।
असाधितरिपुस्थलोऽप्यभिषिषेच तं तत्पदे नरः कुश(कि)ल (स)मश्नुते न खलु साहसिक्यादृते ॥ १८ ॥
स्त्रीहेतोः प्रथमं निजेन गुरुणा व्युत्पादितं ज्यायसः
साम्राज्यानुभवे(वो) भवेदनुज इत्येतत्(वं) विगीतक्रमम् ।
सुग्रीवे च विभीषणे च भगवानाम्रेडयामास तं
भूमेः पुत्रि भवत्कृते पितृगुणः पुत्रे हि धत्ते पदम् ॥ १९ ॥
देवि त्वदर्थे दयितं नदीनां सतां शरण्यः शरणं स गच्छन् ।
कुशेशयाक्षोऽपि कुशेशयत्वं प्राप त्वदावासपदाशयेव ॥ २० ॥
प्रत्यानेतुमुपागताय भवतीमासन्नलङ्कोषितां
वात्सल्यादिव ते विभा(यो)गचकितो वारां निधिस्त्वद्गुरुः ।
काकुत्स्थाय चिराय मार्गमदिशत् कालाग्निनेवामुना
शोणाक्षेण रुषा शुशोषयिषितः सीते शितैः सायकैः ॥ २१ ॥
प्रपात्य महतो गिरीन् प्रसभमन्तरिन्द्रेण योऽप्यधायि वसुधासुते तदनुजस्त्वदर्थं प्रभुः(बुधः) ।
अमुं बहिरिलाधरैरपिदधन्निधिं पाथ(याद)सां कपिव्रजकरार्पितैः किमिह शेषपूर्तिं व्यधात् ॥ २२ ॥
अङ्घ्र्योरक्ष्णोरपि किल फलं वानराणां नराणाम् आराद्राशिं तरितुमनसामम्भसामंहसां च ।
मानार्हस्त्वामहितभवनान्मानिनीमानिनीषुः काकुत्स्थोऽसौ जननि विदधे कौतुकात् सेतुकार्यम् ॥ २३ ॥
अन्तर्यः स्फुटमनलेन वारितोऽभूत्(प्सु) विश्वेषां जननि विधातुमेष सेतुम् ।
त्वल्लिप्साकुलरघुनाथचोदनातः पाथोधिर्बहिरपि वारितो नलेन ॥ २४ ॥
सेतुं देवि भवत्कृते रघुपतिः सृष्ट्वा जनांश्चापुनात्
एतेषां सगरान्ववायजनुषामेष स्वभावो ध्रुवम् ।
स्वर्गादेव भगीरथः पितृकृते भर्गाच्च रोषाविलात्
आनीतैरपुनीत लोकमखिलं गाङ्गैस्तरङ्गैः कृती ॥ २५ ॥
प्रभोरलङ्कोपनिरोधमम्ब कृतेऽ(ता)पराधेऽपि करिष्यसीति ।
लङ्कोपरोधं रघुवीरदासा हन्त त्वदर्थं हरयो वितेनुः ॥ २६ ॥
प्रीतिं निनीषुः प्रियदेवतां त्वां समुद्रतीरे ऽभि(हि) चरन् स रामः ।
महाहवं मैथिलि वर्धयिष्यन्नयोमुखेन व्यलुनात् पलाशान् ॥ २७ ॥
त्वल्लिप्सयैव धर्मेष्वासक्तो विप्रयोगिवद्व्यसनी ।
काञ्चन दानसमृद्धिं भुवि वरदेवि प्रहस्तमनयदिनः ॥ २८ ॥
सदस्युदारेऽप्यतिकायमानमहालये सत्यभितोरणाग्रे ।
जयश्रिया हन्त बलाद्वृतोऽपि त्वय्येव विन्यस्तमनाः स नाथः ॥ २९ ॥
विष्णुः स्वयं त्वद्विरहासहिष्णुरपांसुले हंसकुलावतंसः ।
तपस्वरूपस्य कृतप्रभेदं निनिन्द भूनन्दिनि मेघनादम् ॥ ३० ॥
उच्चैरावणपुष्टः(सहभूः) कुम्भस्तव देवि कुम्भिनीतनये ।
सद्यस्तनवैरीति क्रोधादेनं जघान रघुनाथः ॥ ३१ ॥
लोकव्रातालम्भकं कुम्भकर्णं लुम्पन्नम्ब त्वत्कृते रामचन्द्रः ।
अर्थादेष त्वज्जनन्या धरण्या भूरिं भारं देवि दूरीचकार ॥ ३२ ॥
निर्णीय भूयस्तरपुण्यलभ्यं रामः क्षमापुत्रि समागमं ते ।
नीत्वाहवं पुण्यजनाननेकान् अकारयत् स्वर्वनिताविवाहम् ॥ ३३ ॥
धर्मं हि पूर्वमवलम्ब्य कृते जनन्याः कालं निनाय कुतुकादधिकाननं यः ।
देवि त्वदर्थमवलम्ब्य तमेव रामः कालं निनाय कुतुकाद(पुनरप्य)धिकाननं सः ॥ ३४ ॥
पापपञ्चकनिरासहेतुना सेतुना तव कृते महीसुते ।
एत्य पापदशकं विनाशयन्नीशिता चतुरतामदर्शयत् ॥ ३५ ॥
परमार्थयितुं हुताशनाच्छ्रियमिच्छेदिति साधु भाषितम् ।
भवतीं श्रियमम्ब पावकाज्जगृहे जानकि लक्ष्मणाग्रजः ॥ ३६ ॥
प्राणव्ययं कृतवतः प्लवगांस्त्वदर्थं(र्थे) भूयोऽपि जानकि जिजीवयिषुः स रामः ।
वव्रे वरं त्रिजगतां वरदोऽपि देवान्(त्) कार्यार्थिनो हि पुरुषस्य कुतोऽवलेपः ॥ ३७ ॥
काकुत्स्थः कमनीयभूषणमणिक्षौमाग्र्यहेमादिभिः
तोषं देवि निनाय वानरभटांस्त्वत्कार्यधुर्यान् प्रभुः ।
एतद् युक्तमिदं तु विस्मयकरं यत् सर्वनिर्वाहिणे
रङ्गं हन्त विभीषणाय दिदिशे रत्नादियोग्याय सः ॥ ३८ ॥
अवतारान् दश भगवानपत्यभूतं जगत् समस्तं ते ।
त्रातुं मातरकार्षीत् त्वदिष्टकरणादृते न तस्य फलम् ॥ ३९ ॥