लक्ष्मीवदनलावण्यसुधोदधिकृतोदयः ।
कल्पवृक्षः कटाक्षात्मा काङ्क्षितानि करोतु नः ॥ १ ॥
क्षमाकुमारि क्षणमीक्षणं त्वं यदृच्छया न्यस्यसि यत्र जन्तौ ।
स ईक्षणानां त्रयमष्टकं वा सहस्रकं वा सहसा दधाति ॥ २ ॥
अम्ब स्तोकालोकसुधाशीकरलेशैः
अङ्गं जन्तोरार्द्रयसे यस्य स एषः ।
हस्तात् स्वीयाद्वारणमस्ताच्च गलद्भिः
दानाम्भोभिः पङ्किलगेहाङ्गणभूः स्यात् ॥ ३ ॥
त्वद्वीक्षणामृतकणोऽपि न येषु तेषां
सद्मानि जीर्णशिथिलच्छदिराप्तिरक्तैः ।
अभ्रच्युतैः उदक(सलिल)बिन्दुभिरश्रुमिश्रैः
जम्बालितानि जगदम्ब चिरं भवन्ति ॥ ४ ॥
कनकशिबिकारूढाः प्रौढाधिराज्यपदे स्थिताः
कतिचिदतुलंमन्या धन्याश्चरन्ति यदिन्दिरे ।
यदपि च वहन्त्येनान् दीनाः परे फलमम्ब तद्
द्वयमपि तव स्तोकालोकान्वयव्यतिरेकयोः ॥ ५ ॥
जडं मामप्यार्तं जननि शिशिरापाङ्गविसरैः
कृपापूरस्मेरैः क्षणमिह(मपि) कृतार्थीकुरु मुदा ।
ततः को वा दोषस्तव भवति दैत्या(कंसा)रिदयिते
मरौ वा मेरौ वा भगवति समं वर्षति घनः ॥ ६ ॥
द्वारि द्वारि दुरीशकिङ्करकृतैरातङ्कदैर्हुङ्कृतैः
अप्युच्चैरतिमात्रवेत्रपरुषाघातैरनुच्चाटितः ।
दुर्दारिद्र्यदशापिशाचनिचयो दूरात्समुत्सार्यते
देवि त्वत्करुणाकटाक्षतटिनीस्नानार्ज(ज्ज)वेनाधुना ॥ ७ ॥
शुचौ वंशे जन्म श्रुतिनयमतिर्मातरतुला
विकम्पा संपत्तिर्विशदमविगीता च कविता ।
प्रपत्ति(सक्ति)र्दैत्यारौ हितपरमपत्यं शुभयशो
विवर्त्ताः सप्तामी ध्रुवमसदृशां तावकदृशाम् ॥ ८ ॥
अलमलमनुसृत्य स्वामिनि ज्ञानहीनान्
अकलित बहु(बुध)मानानन्वहं किम्पचानान् ।
शरणमुपगतं मां चारुकारुण्यतुङ्गैः
स्नपय जननि संपन्नृत्तरङ्गैरपाङ्गैः ॥ ९ ॥
कृती वसुमतीपतीन् कृतचटुस्तवः सेवतां
दिशः स्फुटमटाट्यतां दिशतु धातुवादे दृशम् ।
जपत्वपि बहून् मनून् जलनिधेः सुते यस्तु ते
दृशामिह दयास्पृशामविषयो दरिद्राति सः ॥ १० ॥
कृपणदशापिशाचगणमोचनवेत्रलताः
मधुरिपुभक्तिवल्लिपरिवृद्धि(षिक्ति)सुधाम्बुधराः ।
हृदयतमोविमोक्षहिमधामकराः कमले
भगवति नः पुनन्तु भवदीयकटाक्षलवाः ॥ ११ ॥
उदीता दुग्धाब्धेः कुवलयपरीतापशमनी
पदे विष्णोर्भान्ती रजनिचरचक्रव्यसनदा ।
दिश(भज)न्ती सार्वज्ञ्यं(ज्ञं) भज(गव)ति शिर(ः)सा क्वा(का)पि कमले
शुभालोकैः शोकं हरतु शशिलेखेव भवती ॥ १२ ॥
दूराजावसथाभिधाननिरयद्वाराग्रजाग्रन्नर-
क्रूरालापशराहतिव्यतिकरं दूरान्निराकुर्वतीः ।
पारावारसुते तरङ्गय मयि स्मेराम्बुजस्पर्धिनीः
घोरापारसमस्तदुष्कृतपरीहाराय धीरा दृशः ॥ १३ ॥
अघटितघटनापटीयसी ते हरिगृहिणि प्रकटा कटाक्षरेखा ।
स्थिरवसुमवनीपकं विधत्ते जननि वनीपकमेव हन्त जन्तुम् ॥ १४ ॥
नयने फणीन्द्रशयनेष्टनायि(य)के यदि नादधासि सुदिनाब्जशोभने ।
व(ब)लभेदनोऽपि न लभेत संपदं मरुतामयेत मरुतामपि स्थली ॥ १५ ॥
करुणारसेन वरुणालयात्मजे म्रदिमानमेत्य यदि मामवेक्षसे ।
मलिनात्मनापि कलिना क्रियेत किं मम किं करोतु यमकिङ्करोऽपि वा ॥ १६ ॥
मामपाङ्गलहरी गरीयसी तावकी स्पृशतु देवकीस्नुषे ।
अन्तकस्य तु रुषा कषायिताः मा पतन्तु मयि दृष्टिवृ(दुष्टदृ)ष्टयः ॥ १७ ॥
बन्धुरगुणे कृपणबन्धुमनपायं सिन्धुतनये तव कटाक्षमकरन्दम् ।
इन्दुकरबृन्दजडचन्दनमहीभृत्कन्दरमरुच्छिशिरसुन्दरमुपासे ॥ १८ ॥
आर्तिं लुम्पत्वम्ब तवापाङ्गसुधात्मा गङ्गा सैषा चित्रगतिर्वर्जितभङ्गा ।
नेत्री शोषं प्रत्युत भवमेवमजस्रं प्राज्ञानां या भासितरूपं च विधत्ते ॥ १९ ॥
उच्चकोरकनवाभ्युदयं ते वीक्षितं मनुमहे मकरन्दम् ।
यत्र तल्लगति षट्पदमन्त्रः तत्र भाति शतपत्रगृहे यत् ॥ २० ॥
वीक्षितानि तव वारिधिकन्ये यत्र पालितजगन्ति लगन्ति ।
चित्रमत्र स परत्र च देही देहिशब्दमपहाय चकास्ति ॥ २१ ॥
दुग्धाब्धिकन्ये त्वदपाङ्गभृत्याः वित्ताधिपत्यादिपदाभिषिक्ताः ।
हृत्तापयुक्तास्तव देव्यभक्ताः मर्त्या जगत्यां विलपन्ति रिक्ताः ॥ २२ ॥
यक्षश्रीजननचणैस्तवावलोकैः लक्ष्मि श्रीक्षयपिशुना निरस्यमाना ।
नालीकासनलिपिरप्यलीकलीना(लग्ना) नालीका भवति नृणां प्रतीपगत्या ॥ २३ ॥
तव देवि पटुर्नटः कटाक्षो गुणवत्तालसदुच्छ्रयः स नूनम् ।
ननु नर्तयते सरस्वतीं यः सततं संश्रितमञ्जुलास्यरङ्गे ॥ २४ ॥
भावत्कैर्भगवति कज्जलानुविद्धैः
कृष्णो यैर्भवति विधुः कटाक्षपूरैः(लेशैः) ।
तल्लेशै(त्पूरै)रधिकतमश्रियां निदानैः
मालिन्यं हरसि विचित्रमान्तरं नः ॥ २५ ॥
विकस्वरामोदभरं वितन्वती पुरोवसन्तं प्रथितागमाञ्चिता ।
कटाक्षवल्ली तव माधवप्रिये प्रसौत्यनन्तं सुमिताप्यसौ फलम् ॥ २६ ॥
न विप्रयोगिव्यसनाय कल्पते न मार्गणानां सहते च पञ्चताम् ।
भवं जवात् प्रत्युत दन्दहीत्ययं जयत्यपाङ्गस्तव चित्रमिन्दिरे ॥ २७ ॥
विकचकमलशोभाविभ्रमोद्भूतिसीमा
विधुमिह सदुपास्यं तन्वती सुप्रसन्नम् ।
शरदिव तव वीक्षा शार्ङ्गिणः प्राणकान्ते
शमयति(तु) किल मेघाटोपमुज्जृम्भितापम् ॥ २८ ॥
नित्यामेव विभूतिमम्ब दद(दिश)तो निर्व्याजबन्धोर्भवद्-
दिव्यापाङ्गलवस्य वर्णनविधौ को लब्धवर्णो भुवि ।
जुष्टो दृष्टिभिरष्टभिश्च तिसृभिः प्रायः सहस्रेण वा
देवि द्वादशभिश्च दैवतगणो यस्मै चिरं तिष्ठते ॥ २९ ॥
त(त्व)त्तादृक्षकटाक्षकङ्कटधरः श्रीवेङ्कटाधीशितुः
प्राणप्रेयसि भूयसीं प्रभजते शौर्याभिमुख्यश्रियम् ।
सत्कीर्त्या सहसामरोत्तमजयं प्राप्तः स चोपाश्रितो
वाग्बाणैर्न विहन्यते क्षितिभुजां निर्जित्य नित्यं द्विषः ॥ ३० ॥
यावद्भावत्कवीक्षा विश(चर)ति तनुभृतामिन्दिरे मन्दिरेषु
व्यक्तं नृत्तं विधत्ते धनपतिविभवादुत्तरा वित्तराजिः ।
द्वारे तारेशगौरास्तुरगपरिबृढाः ब(सि)न्धुराः सि(ब)न्धुरा वा(ङ्गाः)
गर्वात्पुष्यन्त्यखर्वाभ्युदयमधि(भि)मुखं राजते राजतेजः ॥ ३१ ॥
धन्यः कश्चिज्जगति विषयस्तावकालोकितानाम्
अत्रामुत्राप्यखिलजननि प्राप्य गोत्राधिकृत्त्वम् ।
सत्सन्तानप्रभवसुमनःसेवयामोदशाली
जैत्रस्थानं किमपि भजति श्रीमदुच्चामरं च ॥ ३२ ॥
शय्योत्थायं जननि धनिनां वासमासायमित्थं
गत्वा गत्वाप्यनुदिनमनुच्छिन्नतृष्णोद्गमोऽहम् ।
हृद्यापाङ्गामिव भवदवप्लोषशान्त्यै रमे त्वां
हृद्यापाङ्गां मधुरिपुवशीकारविद्ये प्रपद्ये ॥ ३३ ॥
वितन्वन्त्यामिष्टं विविधमचिरादीक्षण(क्षित)लवैः
भवत्यां जाग्रत्यां भगवति नरान् सेवितुमनाः ।
क्षरन्तीमभ्यर्णे कमलसुरभिस्वादुसलिलां
स्रवन्तीमुल्लङ्घ्य श्रयति मृगतृष्णामतितृषा ॥ ३४ ॥
अजीर्यदघनाशनं दृढगदाकरं देवि यत्
पुराणमपि पूरुषं पुनरलङ्घनं पुष्यति ।
तदेतदिह पातु नस्तव कटाक्षदिव्यौषधं
फणीन्द्रशयजीविके भवविपन्मयादामयात् ॥ ३५ ॥
दुर्लङ्घ्य(ङ्घ)संसृतिदुरर्णवकर्णधाराः संपद्वधूसततनर्तनसूत्रधाराः ।
अज्ञानकाननविदारकुठारधाराः पद्मे जयन्ति भवदीयकटाक्षधाराः ॥ ३६ ॥
देवि कटाक्षलवस्तव रिक्ते संपदमाधिपदेऽपि निधत्ते ।
सिन्धुकुमारि तथाप्यतमस्के सिध्यति तत्र समाधिरदृ(तृ)प्ते ॥ ३७ ॥
करुणया कलशोदधिकन्यके जडतमे(नतजने)ष्ववलोकमघापहम् ।
वितनुषे सकृदेष पुनस्तनोत्यनवलोकमधन्यदुरासदम् ॥ ३८ ॥
स्वादुशीतलदयारसपूर्णं सेवितं द्विजवरैरमृतोत्कैः ।
देवि तावककटाक्षतटाकं विश्वतापविगमाय विगाहे ॥ ३९ ॥
प्रागेव स्यात् प्रार्थितार्थस्य सिद्धिः पश्चादम्ब त्वत्कटाक्षोपलम्भः ।
दृष्टान्तो नस्तत्र ते दृष्टिपातात् प्रागम्भोधिं लङ्घयन् पावमानिः ॥ ४० ॥
वक्षोरक्षे शार्ङ्गिणः स्थूललक्षे तत्तादृक्षे जाग्रति त्वत्कटाक्षे ।
सूनश्रीभिः सान्द्रगन्धे परोक्षे कुर्यादास्थामल्पधीः कल्पवृक्षे ॥ ४१ ॥
रचयति तव वीक्षां(क्षा) नूनमज्ञेऽपि रक्षां
दुरितचरितभेदी देशिको मन्त्रवादी ।
तदिह गलितमोहो द्रागयं पद्मगेहे
विषयरुचिपिशाचीविक्रियाभिर्व्यमोचि ॥ ४२ ॥
जगदम्ब तवापाङ्गो जलजातशरः प्रपु(कृ)ष्टमधुकालः ।
कमले कथय कथं वा करोत्यसौ सर्वमङ्गलेनाप्तिम् ॥ ४३ ॥
तिष्ठन्त्वष्टम एव भूसुतशनिप्रष्ठाश्च दुष्टा ग्रहाः
फा(भा)ले कामपि लेलिखीतु जगतः स्रष्टापि कष्टां दशाम् ।
ते किं कुर्युरपाङ्गतो मयि सकृद्देवि त्वयाङ्गीकृते(तं)
नीहारो न करस्थमम्बरमणेर्लीलाम्बुजं बाधते ॥ ४४ ॥
विजयापजयौ रमे भवेतां त्वदपाङ्गान्वयतद्विपर्ययाभ्याम् ।
अजयत्तव वीक्षया हनूमान् अधिलङ्कं विकटाक्षराक्षसौघम् ॥ ४५ ॥
प्रतिघोष्णमधीशितुर्न पद्मे भवदीक्षाविषयं प्रवेष्टुमीष्टे ।
त्वदपाङ्गसुधार्द्रितस्तुषारीभवदग्निर्हनुमानिह प्रमाणम् ॥ ४६ ॥
कटाक्षप्रत्यूषे तव मिषति कंसारिदयिते
तमः शाम्यत्यन्तर्गतमपि च सूर्याकलनतः ।
स्वयं दोषोन्मेषो विरमति पुनस्सारसवन-
श्रियः सम्पद्यन्ते दिवि च भविता भासनमपि ॥ ४७ ॥
सुरभिस्तनुते तवावलोकः सुमनःसंपदमम्ब भूमिजानाम् ।
अविपल्लवतां विधाय पुष्णात्यपि चामोदमदीप्तिकाननानाम् ॥ ४८ ॥
कमले गभीरकरुणाजलधे(धौ) त्वयि मन्दरक्षणविकासि(स)हृदि ।
कलितोदया मृदुकटाक्षसुधा प्रथयत्यसौ सुमनसां प्रमदम् ॥ ४९ ॥
प्रतिघानलं भुजगशैलपतेः प्रशमं नयन्त्यतितरां शिशिरा ।
कमलालये तव कटाक्षझरी विधुनोतु मे(नो) वृजिनतापभरम् ॥ ५० ॥
दृशो लेशं देयास्त्रियुगसखि देयं कियदिदं
महोदारायास्ते मम तु सुमहानेष विभवः ।
कणानत्र द्वित्रान् गणयति न वारां जलधरः
प्रपद्यन्ते शुक्तौ परिणतिममी मौक्तिकतया ॥ ५१ ॥
बिलेशयकुलेशभूधरपतिप्रिये त्वद्दया-
तरङ्गितमपाङ्गितं(तरङ्गमघभङ्गदं) धृतवतश्चिरं दृश्यते ।
विकस्वरपिकस्वरव्यतिकरस्फुरन्निष्कुटं
नटद्युवतिनूपुरक्वणितसुन्दरं मन्दिरम् ॥ ५२ ॥
नारायणप्रणयिनि त्वमपाङ्गदुग्ध-
धाराभिराभिरभिषिञ्च दयाम्बुधे माम् ।
स्मेरानवद्यनिरुपाख्यसुखं यतो मे
स्वाराज्यभाग्यमपि सेत्स्यति शाश्वतं तत् ॥ ५३ ॥
भो भूपभूमौ भ्रम भीमपापभूमेति मे मूर्ध्नि लिपिं विधातुः ।
पवर्गगर्भां परिमृज्य पद्मे लिखस्य(करोत्य)पा(ङ्गो ह्य)ङ्गैरपवर्गगर्भाम् ॥ ५४ ॥
यं त्वं देवि निरीक्षसे यदुपतेः कान्ते दृशा तादृशा
तत्र स्तोत्रगिरश्चरन्ति विदुषां तत्रैव चित्रा गुणाः ।
तेनैव व्यपदेशमृच्छति(मर्हति) कुलं तस्मै(स्मिन्) मतिस्तिष्ठते
द्रष्टा पृष्ठमरेस्स एव न पुनर्धन्यं तदन्यं विदुः ॥ ५५ ॥
अपारसंसारतपातपार्तिव्यपायदच्छायमपास्तदोषम् ।
कृपामरन्दैः शिशिरं रमे त्वदपाङ्गकल्पद्रुमुपाश्रयामः ॥ ५६ ॥
भावत्कमार्तिशमनं विरजातरङ्गं पश्याम्यपाङ्गमखिलाम्ब यदाप्लुताङ्गः ।
पीताम्बराकलितदीप्ति पदं परार्ध्यं मुक्तादिभूषितमुपेत्य मुदं दधाति ॥ ५७ ॥
दुर्वर्णमर्णवसुते नमतां ललाटे लोकाम्ब लुम्पति कटाक्षझरस्त्वदीयः ।
ते राजताभ्युदयिनः पुनरुल्लसन्तीत्येतत् करोति हृदि विस्मयमस्मदीये ॥ ५८ ॥
देवि दुर्गतमरौ तव वीक्षा कालिका दिशति काञ्चनवृष्टिम् ।
तस्य सिद्ध्यति सुकीर्तिरुदञ्चद्धीरसस्यविभवश्च ततः स्यात् ॥ ५९ ॥
वरुणालयसार्वभौमकन्ये करुणापाङ्गमधुव्रतस्त्वदीयः ।
मधुनाशनमेत्य वृद्धिमृ(मि)च्छन्नधुना नीरज(कुत्र स) सङ्गतिं(तीः)विधत्ताम् ॥ ६० ॥
निद्राजुषां भवविषादमये निशीथे स्वापाङ्गमर्पयसि शोभनमौषधं नः ।
चित्रं ततोऽपि जगदम्ब चिरं विनिद्रं वेत्स्यामहे विगतदुःखपदं(थं) प्रबोधम् ॥ ६१ ॥
स्वालोकं शिशिरं चिराय नयसे यं जाय(याज)मानं जनं
संपश्येन्मधुकाल एव सुमनःसत्त्वावहस्तं ततः ।
पाथोजायतने रजांसि जनयन् वेधोदृगूष्मागमो
रौद्रालोकघनागमश्च तमसां कर्ता न तत्रास्पदी ॥ ६२ ॥
प्रायः कञ्चिददृष्टवन्तमवनौ पद्मे दृशा स्वीयया
संयोज्य प्रसभं क्षणेन तनुषे जन्तुं सहस्रेक्षणम् ।
आधित्सस्यसदृक्पदे त्रिदशनेत्राकारभाजं तम-
प्येणाङ्कस्वसरीदृशं घटयितुं द्रागीशिषे दुर्घटम् ॥ ६३ ॥
मुखरुचिसरित्तरङ्गाः स्मितसितशतपत्रलोलकलभृङ्गाः ।
संपन्नर्तनरङ्गा जयन्ति जगदम्ब तावकापाङ्गाः ॥ ६४ ॥