भजे भुजङ्गशैलेशभुजान्तरपरिष्क्रियाम् ।
तनयां दुग्धजलधेर्दयामिव कृतोदयाम् ॥ १ ॥
जननि जीवयितुं जगदर्दितं दशमुखप्रमुखैस्त्रिदशारिभिः ।
जनकयज्ञमहीजठरे जनिं कृतवती भवती कृपया रमे ॥ २ ॥
अकरुणा करुणा ध्रुवमम्ब ते क्षितितले भवतीमवतार्य या ।
अहह यातुपुरस्थितिवेदनाम् अगमय(अयमदा)ज्जगदार्तिनिवृत्तये ॥ ३ ॥
अविरतविविधापराधकारिण्यपि मयि देवि दयां करिष्यसीति ।
जननि मम भयातुरस्य धैर्यं जनयति वायसदानवापदानम् ॥ ४ ॥
राघवस्य हृदयं स्थिराघवद्वायसं प्रति नवायसक्रमम् ।
देवि जानकि दयारसात्त्वया पादयोजनकृता द्रवीकृतम् ॥ ५ ॥
अब्धेः कन्ये जननि महतामागसां जन्मगेहे-
ष्वस्मादृक्षेष्वपि च करुणामादधासि ध्रुवं त्वम् ।
साक्षी तस्मिन् युधि दशमुखे सारसाक्षि व्यपेते
यातुस्त्रीणां कबलनविधिं याचमानो हनूमान् ॥ ६ ॥
रामस्तिष्ठतु नाम यो न विदयो(मृधे) जिह्रेति निर्हेतुकं
सुग्रीवैकविरोधिनं क्षितिसुते संहृत्य तं वालिनम् ।
कारुण्याम्बुनिधिस्त्वमेव नियतं कॢप्तात्म(र्द्र)पीडं यतो
रक्षःस्त्रीनिकरं ररक्षिथ तमप्यार्द्रागसं वायसम् ॥ ७ ॥
गुरुणा प्लवेन करुणात्मना विना हरिणाङ्कसोदरि गुणाम्बुधे तव ।
जननाधिरोगमरणादिवेदनावरुणालयस्य तरणाय का गतिः ॥ ८ ॥
त्वय्येवायतते कृपा रघुपतेर्देवस्य सत्यं यतो
वैदेहि त्वदसन्निधौ भगवता वाली निरागा हतः ।
निन्ये कापि वधं वधूः(वधं) तव तु सान्निध्ये त्वदङ्गव्यथां
कुर्वाणोऽप्यवितः पतन्नशरणः काको विवेकोज्झितः ॥ ९ ॥
द्विपञ्चग्रीवाज्ञाचकितसमुदञ्चन्निशिचर-
प्रपञ्चप्रक्षिप्तः पवनसुतवाले हुतवहः ।
यतो जातः शीतस्तमिह भवसन्तापविवशे
कृपापूरं स्वैरं किरतु मयि लोकाम्ब भवती ॥ १० ॥
विष्णावुष्णांशुवंशं गतवति विबुधद्वेषिशोषाय रोषात्
एष्यत्तद्योषिदागःशतमपि कृपया क्षन्तुकामे(मै)व नूनम् ।
धत्ते कन्या जनन्या गुणमिति निपुणं किंवदन्तीं वि(व)दन्ती
पूर्वं सर्वंसहायामुदयमकुरुथा भोगिशैलेन्द्रकान्ते ॥ ११ ॥
अवितुमिह दया ते देवि मार्गत्यशक्तान्
अहमपि शरणार्थी हन्त मज्जन् भवाब्धौ ।
घटनमुचितमासीदावयोर्दैवयोगात्
कलशजलधिकन्ये हातुमेतत्(नं) न युक्तम् ॥ १२ ॥
कार्येषु कारणगुणा नियतं भवन्ती-
त्युक्तिं सतामवितथामवधारयामः ।
चान्द्री कला च भवती च पयोधिमध्यात्
जाते यदम्ब सुधया दयया च शीते ॥ १३ ॥
आसादितोन्नतपदेषु गिरीशमुख्ये-
ष्वारोढुमब्जनिलये शिथिलाभिलाषा ।
नीचे तु मादृशि दयारसनिम्नगा ते
प्राप्तादरा प्रवहतीत्यनुरूपमेतत् ॥ १४ ॥
शौरिश्चकास्ति हृदयेषु शरीरभाजां
तस्यापि देवि हृदयं त्वमनुप्रविष्टा ।
पद्मे तवापि हृदये प्रथते(थिता) दयेयं
तामेव जाग्रदखिलातिशयां श्रयामः ॥ १५ ॥
नित्यं विश्वं वशयति हरिर्निग्रहानुग्रहाभ्याम्
आद्ये शक्तिं विघटयति ते हन्त कारुण्यपूरः ।
ईषन्न्यूनं तदिह दयितादीशितृत्वं भवत्याः
तच्छेषत्वं कथमितरथा देवि तुल्येऽपि भूम्नि ॥ १६ ॥
विहितं जहतं विवेकहानात् अहितं कर्म च नित्यमाचरन्तम् ।
अपयातगुणं हरिप्रिये मां कृपया केवलयैव पालयेथाः ॥ १७ ॥
क्षणमप्यसह(नव)स्थितौ जनागः कमिता न क्षमितेति सानुकम्पा ।
अवतारदशासु देवि रूपैः अनुरूपैरनुगाहसे मुकुन्दम् ॥ १८ ॥
ग(च)लति कलितायासे श्वासे कफार्गलिते गले
भ्रमति नयने भ्रान्ते स्वान्ते यियासुषु चासुषु ।
त्वरयति दया जन्तोर्हन्तोत्क्रमे भवतीं रमे
त्वमपि कृपणत्राणे प्राणेश्वरं च पराङ्मुखम् ॥ १९ ॥
दुःखाक्रान्तं भवजलनिधिं दुस्तरं योगिवर्यैः
पापानां नस्तरितुमधुना का कथा लोकधात्रि ।
एवं यद्यप्युदयति मतिस्तावकीमब्धिकन्ये
धन्ये दृष्ट्वा तदपि करुणां धैर्यमेत्यन्तरात्मा ॥ २० ॥
तपोभिरिह योगिनस्तव दयामविन्दन्त याम्
अकिञ्चनतयैव(यापि) ताममृतसोदरि प्राप्नुमः ।
समाधिपटवः श्रमादनुभवन्ति यद्दैवतं
तदेव यमुनातटीतरुगणः सुखेनान्वभूत् ॥ २१ ॥
अपारपरितापकृद्भवतपातपान्धा वयं
प्रपामिव सुपावनीं तव कृपामुपासीमहि ।
उदञ्चितधनञ्जयः प्रभुरुदारहेतिर्यया
ययावुदधिकन्यके तपनमध्यगः शीतताम् ॥ २२ ॥
कंसारातिप्रेयसि संसाराब्धौ भ्रमन्ननाथोऽहम् ।
अम्ब तव साध्वकम्पामनुकम्पान्ना(मना)वमवलम्बे ॥ २३ ॥