03 वक्षस्थलावस्थानस्तबकः

श्रये शेषाचलमणेः शार्ङ्गिणो हृदयङ्गमाम् ।
अनुकम्पामिवाकम्पाम् अम्बामम्बुजवासिनीम् ॥ १ ॥

कल्याणदिव्यकरुणादिगुणाम्बुराशे
काङ्क्षाधिकाभ्युदयदायिकटाक्षलेशे ।
भद्राय दैत्यजिदुरःकृतनित्यवासे
भक्तिस्थिरेण मनसा भवतीमुपासे ॥ २ ॥

नालीकसम्भवभवादिसुराभिवाद्ये
नानाविधाकृतकवाङ्मयमौलिवेद्ये ।
पाथोधिपुत्रि पतिवक्षसि नित्यहृद्ये
भान्तीमनन्यशरणो भवतीं प्रपद्ये ॥ ३ ॥

शय्यागृहं तव पिता जगतां नियन्तुः
भ्राता दृगेक इतरः पुनरङ्गभूषा ।
वक्षस्यमुष्य वरदे त्वमवस्थिता तद्-
वाल्लभ्यमम्ब भवदीयमनन्यलभ्यम् ॥ ४ ॥

भ्रातुर्विधोर्वसुसमृद्ध्यसहेषु पद्मे-
ष्वास्ते रमेत्यपयशःप्रशमाय नूनम् ।
सोदर्यकौस्तुभशुभावहमब्धिकन्ये
वक्षस्त्वमावससि वेङ्कटनायकस्य ॥ ५ ॥

भगवतः प्रतिघो हृदि मा स्म भूत्
समुदयद्वृजिनेषु जनेष्विति ।
अवहिता जगदम्ब हिताय नः
हृदयमेव हरेरधितिष्ठसि ॥ ६ ॥

फणिशैलपतेस्त्वमिन्दिरे
भवसि प्राणसमेति साम्प्रतम् ।
अमुना भवती यतस्स्वयं
हृदये प्राणपदे निवेशिता ॥ ७ ॥

उरगाद्रिपतेरुरःस्थलस्था
कमले तद्गलशङ्खगर्भमुक्तैः ।
शुचिहारमहस्सुरस्रवन्ती-
सलिलैरम्ब सदाऽभिषिच्यसे त्वम् ॥ ८ ॥

कुमारि क्षीराब्धेः कुसुमसुकुमाराङ्गि भवती
नवं पद्मं सद्म म्रदिमरमणीयं विजहती ।
शरण्ये त्रातुं नः शरकिणघनं कौस्तुभशिला-
कठोरं गाढोरः श्रयसि कृपया कैटभरिपोः ॥ ९ ॥

श्रीवत्साङ्कं चिरतरमुरस्सीमगोष्ठं मुरारेः
अध्यासीनामनघहरितोदारकान्त्याभिरामम् ।
कल्याणि त्वां सुलभममृतं संश्रितानां दुहानां
क्षीराम्भोधेः समुदितवतीं ब्रूमहे कामधेनुम् ॥ १० ॥

विश्वातीतो जयति वृजिनह्रासदो वासुदेवः
पद्मे तस्याप्युपरि महिमा भासते तावकीनः ।
क्षेत्रज्ञानां हृदयमनिशं कञ्जनाभोऽधिशेते
तस्यापि त्वं हृदि हृततमोराजसे राजसे यत् ॥ ११ ॥

वीक्षन्ते ये वेङ्कटक्ष्माभृदिन्दोः
सूरस्थाने शोभमानामिह त्वाम् ।
दुग्धोदन्वत्पुत्रि दिव्यं पदं ते
सूरस्थानं हन्त भित्वा विशन्ति ॥ १२ ॥

बलिवसुमुषः प्रहर्षादुच्चोरस्थलमुपेत्य कमले त्वम् ।
अस्माकमपथगानां हरसे चिरकालसञ्चितानर्थान् ॥ १३ ॥

शशिरेखा भवती च श्रीरब्धेरुद्गते तयोराद्या ।
धारयति कृष्णमन्तः कृष्णेनान्तस्तु धार्यते च रमा ॥ १४ ॥

वनमालायामुषितां विश्वविभोर्भुजतमालविटपान्तः ।
कामपि कनकलतां त्वां कलशाकूपारकन्यके मन्ये ॥ १५ ॥

परमतुलसीतमनघे वनमालाप्तं सुलक्ष्मणाकलितम् ।
कलयसि सद्रूपयुतं कमले वक्षो हरेर्महारामम् ॥ १६ ॥

दृष्टात्मप्रतिबिम्बितेषु मणिषु द्रागिन्दिरे मा स्म भूत्
अन्तस्तेष्वबलान्तरस्थितिधिया कोपस्तवेत्यच्युतः । शङ्कोन्मेषकथापथातिपतितं सन्त्यक्तरत्नान्तरः
तं त्वत्सोदरमेव कौस्तुभमणिं धत्ते भुजाभ्यन्तरे ॥ १७ ॥

सस्नेहपूर्तिरुदितत्रिदशोपसेवः
दीप्तो हरेरुरसि देवि तवेष्टगेहे ।
अस्माकमान्तरतमः प्रशमय्य मुक्तेः
मार्गं प्रकाशयतु कौस्तुभरत्नदीपः ॥ १८ ॥

सरसिजनिलयापि वैभवेन
स्फुरसि निरेनसि मानसे मुनीनाम् ।
उरसि मुररिपोरुपोढहारे
शिरसि च देवि गिरां पुरातनीनाम् ॥ १९ ॥

शुभश्रीवत्साङ्कं शुचिरुचिरहारं मुररिपोः
तमालाभं वक्षस्तरलवनमालासुरभिलम् ।
परिष्कुर्वाणां त्वां भवजलधिशोषाय कलये
जगन्मातः प्रातस्तनजलजदायादवदनाम् ॥ २० ॥

प्राचीनवाक्परिषदां परतत्त्वचिन्तां
व्यालेन्द्रभूधरपतिः व्यपनेतुकामः ।
कान्तो बिभर्ति भवतीं कलशाब्धिकन्ये ।
भूषाविशेषमिव देवि भुजान्तराले ॥ २१ ॥

स्वभावादुन्मीलद्वकुलसुमनःकोमलतनोः
तव क्लेशाशङ्काकुलितहृदयेनापि हरिणा ।
त्वदाक्रान्ते हन्त व्युदसितुमुरस्यम्ब पुलकान्
अशक्यं ते पद्मे न खलु सुलभः कण्टकजयः ॥ २२ ॥

निरत्ययं नीलमहोनिधानं
कान्तं मुकुन्दाभिधमिन्दिरे त्वम् ।
निरञ्जनैरेव जनैर्गृहीतं
वीक्ष्य स्थिता वक्षसि रक्षितुं किम्? ॥ २३ ॥

जननि पुष्यसि तामरसं पदं
वितनुषे च नतामरसम्पदम् ।
परमुरस्फुरणप्रतिरोधिनं
परमुरस्फुरणन्नयसेऽद्भुतम् ॥ २४ ॥

यदि नाम विष्णुवक्षः
क्षणमत्यक्षः क्षमामयि रमे त्वम् ।
आगस्विनस्तदा नः
नैवारक्षिष्यदूष्मलो नाथः ॥ २५ ॥

हृदये कमलदलाक्षि
त्वत्पदलाक्षीयलक्ष्म भवतीञ्च ।
दधदूष्मलोऽपि कृष्णो-
ऽप्यधिकारुण्यं वहत्यहिगिरीशः ॥ २६ ॥