भजे दुग्धाम्बुधिं यत्र परिष्कर्तुं हरेरुरः ।
कठिनं सुकुमारं च रत्नं प्रादुरभूत् द्विधा ॥ १ ॥
चतुर्मुखादीन् जगदम्ब डिम्भान् दुग्धैः बहून् वर्धयितुं समृद्धैः ।
पयः पयोधेः भवती दयालुः सत्यं प्रजज्ञे सह कामधेन्वा ॥ २ ॥
त्वयोज्ज्वलद्दुग्धपयोधिमध्ये महोद्वयं देवि सहोदियाय ।
हररुरोभूषणमेकमासीत् अन्यच्छिरोभूषणमष्टमूर्तेः ॥ ३ ॥
जीवं जीवं प्रत्युदारां समृद्धिं कर्तुं हर्तुं कञ्जधामे तमांसि ।
सर्वं त्रातुं सत्कदम्बं पुराब्धेः चान्द्री मूर्तिः जायते तावकी च ॥ ४ ॥
विश्वासेचनकं मुखं तव पयःसिन्धोरुदञ्चत्तदा
शङ्कित्वा विगलत्कलङ्कमपरं चन्द्राङ्कुरं शङ्करः ।
न्यस्तं मस्तपदे विधुं प्रथमतो नूनं भृशं नून इ-
त्यम्ब भ्रंशयितुं स्तुवन्निव शिरःकम्पं रमे निर्ममे ॥ ५ ॥
दातुं त्वां पुरुषोत्तमाय तनयां पद्मे गृहीतव्रतः
प्रादात्कामगवीं मुदे सुमनसां पानीयमप्यम्बुधिः ।
कञ्चित् सप्तिमनुत्तमं मघवते कल्पद्रुमं चेष्टदं
सर्वज्ञाय सितांशुकं धृतजटावर्गाय दिग्वाससे ॥ ६ ॥
हर्षादब्धेरमृतकलशं त्वाददे देवसङ्घः
श्रीमानुच्चैश्श्रवसममरक्ष्मापतिः चन्द्रमीशः ।
तेषामेकं न किल जगृहे त्वां शुभामेव शार्ङ्गी
पद्मे सारग्रहणनिपुणः पारिशेष्याद्गृहीतुम् ॥ ७ ॥
छाया मुखे जननि चान्द्रमसी तवासीत्
कल्पद्रुपल्लवरुचिः करयोः पदोश्च ।
सौधारसी वचसि सम्पदतो न मिथ्या
भ्रातृश्रियं सहभुवः परिबिभ्रतीति ॥ ८ ॥
सुधादयस्सन्तु तथापि तोयधिः
ध्रुवं भवत्यैव भवत्यपत्यवान् ।
गुणा रमे जाग्रतु विक्रमादयः
गुणी महोदारतयैव भूपतिः ॥ ९ ॥
श्राम्यत्पन्नगवक्त्रकोटरमरुन्नुन्नोर्मिसङ्घट्टना-
झाटित्योर्ध्वविसारिदुग्धकणिका निष्पन्नपुष्पाञ्जलिः ।
सिन्धुर्मन्थवसुन्धराभृदुदयद्धुन्धुंध्वनिच्छद्मना
स्तुत्वा माधवमद्भुतामलभत त्वामम्ब कन्यामणिम् ॥ १० ॥
सिन्धुक्रोडस्थपुटविलुढन्मन्थलब्धावतारैः
धुन्धुङ्कारैस्त्वदुदयमहे दुन्दुभिश्रीमति श्रीः ।
प्राञ्चो झञ्झानिलपटुनटोन्नाटितप्रौढवीची-
वल्लीहल्लीसकमकलयन्नन्तरुल्लीढहर्षाः ॥ ११ ॥
बर्हं भ्रान्त्वा चिकुरमुदधेरुद्भवन्त्या भवत्या
बद्धा मन्थक्षितिभृति सुरैः पन्नगाः स्विन्नगात्राः ।
तत्कालैकोचितमतिजुषः त्रासतस्त्यक्तचेष्टाः
राजीवाक्षप्रणयिनि भृशं रज्जुतामभ्यनैषुः ॥ १२ ॥
आलोक्य तत्र भवतीमवतीर्णरूपां
वृष्टा मुदा सुमनसस्सुमनःप्रधानैः ।
पिण्डीभवद्भिरखिलाम्ब पयःपयोधेः
डिण्डीरखण्डनिवहैः सममाप्लवन्त ॥ १३ ॥
अम्ब स्वयं त्वयि चिरादवतीर्णवत्यां
मन्थश्रमव्यपनयाय मखाशनानाम् ।
श्रान्ताहिरज्जुकबलीकृतिशङ्कयेव
क्षीरोदरोधसि शनैरनिलश्चचचार ॥ १४ ॥
सान्द्रोत्कण्ठामसृणमधुजित्सादरापाङ्गधारा-
सध्रीचीभिः श्वसनविसरद्दुग्धवीचीभिरब्धिः ।
उद्वाहाख्यं कमपि भवतीमुत्सवं लप्स्यमानां
मातस्तातो मधुरमनयन्मङ्गलं स्नानकर्म ॥ १५ ॥
सुधोदधिसमुद्भवत्सुरतरुच्छटान्तर्गते
मनोज्ञमणिमण्टपे महति रत्नसिंहासने ।
स्थितां मणिसरोरुहि त्रिदशसुन्दरीसेवितां
जयाय भवतीमहं जननि सन्ततं चिन्तये ॥ १६ ॥
अभ्यर्णस्फुरदप्सरःकरधृतैः उद्दामदुग्धाम्बुधि-
स्वैरोत्सृत्वरवीचिकासहचरैः संवीजितां चामरैः ।
हस्तालङ्कृतपङ्कजामभिनवाकल्पैरनल्पैः शुभां
अम्ब त्वामुषसि स्मरामि जगतामातङ्ककूलङ्कषाम् ॥ १७ ॥
भूयासुस्ते त्वदीया मयि हरिदयिते स्थूललक्षाः कटाक्षाः
यल्लिप्साव्यग्रभर्गाद्यमरविरचितैरञ्जलीनां प्रपञ्चैः ।
मन्थाद्रिक्षोभदुःस्थं कलशजलनिधेः मध्यमुत्सृज्यवेलां
प्राप्तै रेजे सरोजैरिव नवरजनीनायकालोकमूकैः ॥ १८ ॥
अग्रे मुरारेररविन्दपीठे
हरित्करीन्द्रैरभिषिच्यमानाम् ।
अवेक्ष्य पुत्रीमखिलेश्वरीं त्वाम्
आनन्दसिन्धौ निममज्ज सिन्धुः ॥ १९ ॥
प्रसभमुदधिकन्ये पश्यतां दैवतानां
परमपुरुषवक्षःपीठमाढौकथास्त्वम् ।
सह दयिततमेन स्वैरकेलौ सतीनां
न खलु निजशिशूनां सन्निधिर्वीडहेतुः ॥ २० ॥
कलितकलशसागरोर्मिगङ्गं
कमपि मुकुन्दमहःकलिन्दजौघम् ।
कनकसुहृदभूषयत्तवाभा-
विततिरतीव रमे सरस्वतीव ॥ २१ ॥
द्युनदीशिशिरं शिरः पुरारेः
भजतीन्दुर्भवती दयारसार्द्रम् ।
हृदयं मुरहर्तुरब्धिजे वाम्
उचितैव स्थितिरुद्भवानुरूपा ॥ २२ ॥
कमले तोषयितुं त्वां
कान्तभुजान्तरनिशान्तमुपयान्तीम् ।
प्रायच्छदूर्मिहस्तैः
प्रत्नं रत्नगणमम्बुधिर्हरणम् ॥ २३ ॥