01 प्रारम्भस्तबकः

लक्ष्मीचरणराजीवलाक्षालक्षितवक्षसे ।
विश्वसर्गादिलीलाय वेङ्कटब्रह्मणे नमः ॥१॥

असदृशमरुणाब्जदृशं प्रस्विन्नपयोधरस्फुरन्मूर्तिम् ।
मनसि दधीमहि सततं मातारं मातरं च लोकानाम् ॥२॥

प्रातरम्बुजविडम्बिलोचनां मातरं त्रिजगतामुपास्महे ।
शीतरम्यकरुणावलोकनैः या तरङ्गयति मङ्गलानि नः ॥३॥

आचक्रायुधमा च मामकगुरोः आचार्यवर्गं भजे
मध्यस्थैरिह नाथयामुनमुखैर्मान्यैस्सनाथीकृतम् ।
क्षीराम्भोधिसुतापयोधरपयःपूरा इवोदित्वराः
यद्वाचां विसरा जगन्ति नितरामुज्जीवयन्ति स्वयम् ॥४॥

भुवनजननीन्तुष्टूषन्ती पुरोरसनाऽधुना
रचयति नमो वाचे प्राचेतसाननजन्मने ।
जनकतनयादिव्योदन्तामृतद्रववर्षिणीं
जगति कवयः श्राव्यं काव्यं गृणन्त्यवलम्ब्य याम् ॥५॥

पराशरमुनीशितुः प्रणतिकर्म कुर्मस्तराम्
अहीनगुणशोभितैरमृतसाधनोत्कण्ठिभिः ।
यदीयकृतिसिन्धुना विमथितेन यत्नाद्बुधैः
प्रकाशमिह नीयते परमपूरुषप्रेयसी ॥६॥

दद्यादद्य कुदृष्टिसर्पगरुडस्त्रय्यन्तविद्यागुरुः
श्रीमान्वेङ्कटनाथदेशिकमणिः श्रेयांसि भूयांसि नः ।
दत्से दृष्टिलवेन देवि भजतां या त्वं विभुत्वं रमे
तस्या हन्त तवापि येन विभुता सुष्ठु प्रतिष्ठापिता ॥७॥

शीतज्योतिःशिखरिनगरीसागराम्भोधरादेः
जल्पंजल्पं जलधितनये हन्त मिथ्यासमृद्धिम् ।
निर्विण्णा मे ननु भगवती भारतीयं त्वदीयं
स्तोत्रं चित्रं स्फुरति जननि स्वैरमारब्धुकामा ॥८॥

मदान्धक्षोणीपत्यपशदमनःप्रीणनकृते
नमस्कारान् ब्रूमो भगवति चमत्कारवचसे ।
विधात्रीमानन्दं विपुलमिह चामुत्र च तव
स्तुतिं प्रस्तौत्वंहोभरनिरसनायाद्य रसना ॥९॥

तत्तादृग्रचनाविदग्धरसनाकण्डूतिनिर्धूतये
केचिन्नीचविचारगोचरगिरो गृध्नन्ति मिथ्याकृतिम् ।
स्वं वाग्ब्रह्म पुराणजिह्मगशिरःकम्पावहं पावनी-
कर्तुं देवि वयं पुनस्तव कथारम्भाय जृम्भामहे ॥१०॥

शय्या शब्दगुणानुशासनचणा छन्दोमयं वाहनं
सोदर्यस्तु कलानिधिस्तव रमे सूनुश्च वाणीपतिः ।
तस्यास्ते पुरतः स्तवं मितमतिः प्राज्ञोचितं श्रावयन्
गुञ्जाविक्रयिणः श्रयामि पदवीं माणिक्यपुञ्जापणे ॥११॥

कवीनां प्रत्नानां कबलितसुधास्वादिममदैः
अनूचीनैः स्तोत्रैः श्रुतिजडिमभाजो जननि ते ।
अजामित्वायैव स्तवमिममकूपारतनये
वियाता ग्रथ्नीमो विहसनपदैः कैरपि पदैः ॥१२॥

विद्वद्भ्यः स्वदमानया यदनया विश्वाम्ब नाधीयते
स्तुत्या ते सुखमज्ञचेतसि दृषत्प्राये न दूये ततः ।
गान्धर्वी हि पुरन्दरादिशिरसामान्दोलयित्री चिरं
गीतिस्सा बधिरान् न नन्दयति चेत् किं छिन्नमेतावता? ॥१३॥

वक्तुं नैव चतुर्विधा श्रुतिरसावीष्टे न चाष्टश्रुतिः
नो चक्षुःश्रुतिरप्यहो तव गुणान् नारायणप्रेयसि ।
स्तोतुं त्वामपि तामहं व्यवसितो दूरं हनूमन्मुखैः
दुर्लङ्घं जलधिं तरीतुमनसः पङ्गोर्दधे चापलम् ॥१४॥

गर्वद्दुर्वसुधापतिस्तुतिपरव्याहारकूहान्धता-
निर्विण्णाशय एष वेङ्कटकविः पङ्केरुहावासिनि ।
अद्य त्वद्गुणवर्णनामृतरसैरानन्दितुं जृम्भते
चिञ्चापर्णरसावसान्नरसनः पुण्ड्रेक्षुसारैरिव ॥१५॥

नाहं जाने नवरसगतीः नार्थमक्षुण्णमन्यैः
नालङ्कारानपि च न वचोगुम्भगम्भीरिमाणम् ।
स्तोतुं मातस्तदपि भवतीं त्यक्तलज्जो यतेऽहं
मन्तुं किन्तु प्रथितकरुणा क्षन्तुमर्हस्यमुं त्वम् ॥१६॥

चक्षुष्मन्तः चरणकमले चक्षुषा श्रोत्रवन्तः
श्रोत्रे भूमेः जननि जगतां जन्मवन्तोऽपि न स्मः ।
वक्त्राण्यासन् भगवति न षट् पञ्च चत्वारि वा नः
कस्मादस्मान्न हसतु जनः स्तोष्यतः त्वद्गुणौघम् ॥१७॥

अभूमिस्त्वद्भूमा जननि जरतीनामपि गिराम्
असौ कस्मादस्मादृशकृशमनीषोक्तिविषयः ।
अशक्यानाम् और्वाग्निभिरपि निपातुं निधिमपाम्
अपारं तं पातुं मशकशिशुकः किं प्रभवति? ॥१८॥

प्रकृष्यन्तामस्मत्परमितरकाले विधिमुखाः
वयं मातस्ते वा तव नुतिदशायां समधियः ।
निकर्षोत्कर्षौ स्तां निशि तु शशिखद्योतमहसोः
दिवा को वा भेदो दिनकरकरव्रातजटिले ॥१९॥

वाग्भिः कोरकितानि ते रचयतः स्तोत्राणि वाणीपतेः
अस्माकं सुमितां स्तुतिं कलयताम् अप्यम्ब तुल्यं फलम् ।
कौबेरीं श्रियमानशे बहुतरैः कश्चित्तपोभिश्चिरात्
एनामाशु कुचेल एव जगृहे धानाप्रदानादपि ॥२०॥

आसन् धन्यतमाः गुणांस्तव बहूनास्वाद्य शक्रादयः
गृह्णन्तोऽपि गुणार्णवामृतकणान्मातः कृतार्था वयम् ।
आचामन्ति सुधाझरान् सुमनसो द्वित्रांश्चकोराः करान्
नैणाङ्कानविशेषमार्तिशमनं तत्रोभयेषामपि ॥२१॥

देवि श्रीर्वृषशैलदेवदयिते दाक्षिण्यपुण्यक्षिते
मातस्साहसतस्तव स्तवमिमं कर्तुं प्रवृत्तस्य मे ।
उन्मीलन्तु परं गिरस्तव करालङ्कारपङ्केरुह-
प्रेखत्तुङ्गषडङ्घ्रिसङ्घविसरज्झङ्कारशङ्काकराः ॥२२॥

पद्यानां दशभिः यदस्तुत शतैः त्वत्प्रेयसः पादुकां
त्रय्यन्तार्यगुरुः परो हयमुखस्तत्राम्ब को विस्मयः? ।
स्तोकप्रज्ञमतीव मूकमपि मां श्लोकैः सहस्रेण ते
स्तोतारं समवेक्ष्य सूक्ष्ममतिभिः कस्मान्न विस्मीयते? ॥२३॥

मन्ये सत्स्वपि वाङ्मयेषु विदुषामन्येषु धन्यैः बुधैः
उक्तिर्मे भुवि देवि तावकगुणस्पर्शादुपादीयते ।
भद्रे त्वद्रमणप्रशस्तचरणद्वन्द्वैकसंसर्गतः
भर्गः स्वर्गधुनीं बिभर्ति शिरसा भूयस्सु सत्स्वम्बुषु ॥२४॥

तव स्तोत्रे मन्दाः कतिचिदतिचित्रेऽपि कमले
न विन्दन्त्यानन्दं यदि तदपि न म्लायति मनः ।
सृजेदेव स्रष्टा स किल विपुलेऽस्मिन् क्षितितले
चमत्कारानन्दानुभवचतुरान् द्वित्रिचतुरान् ॥२५॥

सुचारुमधुवीचिकारसमुचो वचोदेवता-
कुचामृतकचाकचिप्रथनचातुरीमेदुराः ।
नरास्सततमिन्दिरागुणकथासुधादोहिनीः
उपाध्वमिह वेङ्कटाध्वरिकवेरुदारा गिरः ॥२६॥

स्वैरं प्ररोहयतु पद्यसहस्रमेतत्
दासस्य मे वदनसीम्नि तवाऽवलोकः ।
यः क्वापि हन्त सकृदञ्जलिबन्धभाजि
जन्तौ जगज्जननि सौति सहस्रमक्ष्णाम् ॥२७॥

पङ्कजनिलये स्तोत्रं वेङ्कटकविगीतमेतदविगीतम् ।
किङ्करकृतमिति कृपया त्वङ्कलयितुमर्हसि प्रसीदन्ती ॥२८॥

रसिकालिभिरास्वाद्यं रम्यं श्रीकरविलसदलङ्करणम् ।
विकसतु सूर्यालोकात्पद्यसहस्रं सहस्रपत्रमिव ॥२९॥