(रामभद्राचार्यम् उद्दिश्य)
संस्तुत्या स्वर्णयात्रा
→ जगद्गुरु-रामानुजाचार्य-पदभाक्
स्वामी वासुदेवाचार्यः
[स्वर्णयात्रा ९९]
वेदान्ते व्यासदेवः मति-गत-विभवैस् तर्क-मार्गे कणादः
न्याये चैवाक्ष-पादः गुरु-वर-कपिलस् सांख्य-सिद्धान्त-बोधे ।
योगे-पातञ्जलाभो निगम-जल-निधिर् भाष्यकारो महीयान्
रामानन्दार्यवर्यो जगति गुरुतमो रामभद्रो यतीन्द्रः ॥
शास्त्रं संरक्षयन्ती कु-मति-जन-मदं खण्डयन्ती पृथिव्यां
सत्-सिद्धान्त-प्रबोधैर् अ-खिल-बुध-गणं रजयन्ती जयन्ती ।
श्रौत-ध्वान्ते दिनन्ती मधुमय-भणितिं स्यन्दयन्ती समन्तात्
पुण्यार्द्रा स्वर्ण-यात्रा शमयतु दुरितं वर्धयन्ती शुभौघम् ॥
विश्वं सम्भाषयन्ती बुध-जन-मनसि प्रीति-बीजं वपन्ती
कल्याणाब्धिं सृजन्ती सुर-तरु-महसां दर्शयन्ती प्रकाशम् ।
श्रीराम-प्रेम-धारा-धवलित-यशसाम् मानसम् मोहयन्ती
सत्त्वाढ्या स्वर्णयात्रा प्रहरतु विनत-क्लान्तिम् उद्भाव्य शान्तिम् ।
दिव्य-प्रज्ञा-प्रकाशन् दिशि दिशि मृदुलं स्मेरयन्ती प्रसन्ना
मृद्वीका+++(=द्राक्षा-रसः)+++ पाक-रस्या क्लम-शमन-विधौ देव-भूतिन् दधाना ।
पुण्य-प्राण-क्रियाभिवितत-जन-मनो-म्लानि-मानं हरन्ती
कल्याणी स्वर्णयात्रा प्रतिदिशम् अनिशं स्वर्ण-वृष्टिं तनोतु ॥
प्रज्ञानन् द्योतयन्ती शमयति तिमिरं चिद्-गतन् दुर्-निरीक्ष्यं
सत्-कर्म-प्रेरणाभिः स्रजयति सुमनो-वृन्दम् उद्भिन्न-भेदम्
मृद्नन्ती वैमनस्यम् प्रथयति महितां सौमनस्याग्र-दीप्तिम्
भास्वन्ती स्वर्णयात्रा हरि-पद-रजसि प्रीतिम् आर्द्रा विदध्यात्
गाढ-श्रद्धान् दधाना श्रुति-चरित-पथे तापसीं वृत्तिम् आप्त्वा
शास्त्राभ्यासं श्रयन्ती शिथिलित-विषम-ग्रन्थि-गूढाग्र-भावा
वैदुष्याऽदुष्य-भावोन्नत-मणि-निकरैर् भूषिता भूति-दिग्धा
सद्-गेया स्वर्ण-यात्रा नमयति निखिलान् मञ्जु-मार्गं दिशन्ती ॥
आशाः सर्वास् तपोभिर् भृत-यम-नियमैस् सादरम् पूरयन्ती
पारावारोग्र-वीची-प्रतिम-नव-नवोद्दाम-सत्-कीर्ति-रम्या ।
श्रीमद्-रामाङ्घ्रि-सेवा समधिगत-महा-शक्ति-सत्-कार-भूषा
संस्तुत्या स्वर्ण-यात्रा रमयतु जगताम् मानसं स्वैर्विशेषैः ।।