श्रीमद्व्योमपुरीशस्य
कृपया प्राप्तजन्मने।
पौण्डरीकपुरोद्भूत
शठकोपाय मङ्गलम्।
पाल्गुने मासि ज्येष्ठायाम्
अवतीर्णाय धीमते।
श्रीवासराघवाख्याय
शठकोपाय मङ्गलम्।
वरदार्यः पिता यस्य
श्रीवासयुतराघवः।
पितामहो ऽभवत् तस्मै
शठकोपाय मङ्गलम्।
यो मालोलपदद्वन्द्वे स्वात्मरक्षाभरार्पणात्।
कृतकृत्योभवत् तस्मै
शठकोपाय मङ्गलम्।
लक्ष्मी-नृसिंह-पादाब्ज-
त्राण-सेवा-रतात्मनः।
नारायण-यतीन्द्रस्य
प्रीदिपात्राय मङ्गलम्।
शरणागति-शास्त्रस्य
दिपिकाख्य बृहत्-स्तुतेः ।
व्याख्याम् चकार यस्तस्मै
शठकोपाय मङ्गलम्।
दीपिकाव्याख्यया पूर्वम्
गुरवे भूरि सद्धनम्।
योऽदापयन्मुदा तस्मै
महोदाराय मङ्गलम्।
त्रय्यन्तार्य-पदद्वन्द्वे
व्याख्याभिर् निजकौशलात्।
भक्तिम् एवासृजत् पुम्साम्
यस् तस्मै भूरि मङ्गलम्।
लक्ष्मीनृसिंहपादाब्ज
सेवायाम् रसिकोऽपि सन्।
शृत्यन्तार्य-गुरोस् सेवाम्
योऽकरोत् तस्य मङ्गलम्।
वेदान्तार्यपदद्वन्द्व-
सेवारसिक ! भाजय।
त्वदीयमित्र(शिष्य)वर्गाणाम्
श्रीमतां नित्यमङ्गलम्।