स्रोतः - श्रीशष्ठकोपतातार्यः
“श्रीनारायणमामे"ति
विश्रुतः साधु-संसदि।
कुर्वन् हश्तीशकैङ्कर्यं
जीयात् वर्षशतं भुवि॥ 1.
यस्य भक्ति-प्रकर्षेण
स्वर्ण-दिव्यायुधैस् सह।
भ्राजते वरदो नित्यं
ध्रूव-रूपे हि पर्वते॥ 2.
यस्य कैङ्कर्य-मात्रेण
मोदते दर्पणान्विते।
मण्टपे वरदस् तुष्टः
श्रिया चैव भुवाऽन्वहम्॥ 3.
यस्य देशिक-भक्त्यैव
देशिकस्य महोत्सवे।
अर्पिते स्वर्ण-पद्मे हि
देव्याः देशिक-बाहुना॥ 4.
यस्य वित्तं प्रयुज्यैव
स्नान-पीठं च राजतम्।
कल्पितं देवराजस्य
मज्जनार्थं सदा मुदा॥ 5.
देवराज-महिष्याश् च
माङ्गल्यं रत्न-संयुतम्।
रम्याम् मोहन-मालाम् च
दत्वा तुष्टिम् अवाप यः॥ 6.
आलयो यतिराजस्य
यद्-वित्तेन नवीकृतः।
मण्टपाश् च तथा सर्वे
रामादीनाम् नवीकृताः॥ 7
उपवीतं, हंस-युक्तं
भूषणं रत्न-संयुतम्।
श्रुत्य्-अन्त-गुरु-वर्यस्य
जन्म-क्षेत्रे समर्पितम्॥ 8.
श्रुत्य्-अन्तार्य-गुरोः क्षेत्रे
ह्य् अन्नदानाय मण्टपः।
नूतनो निर्मितो येन
तस्मै भवतु मङ्गलम्॥ 9
उत्सवेषु करीशस्य
वेद-विद्भ्यो दिवे दिवे।
यो ददाति धनम् नित्यं
तस्मै भवतु मङ्गलम्॥10.
इत्य् अहं प्रार्थये देवं,
देशिकं भक्त-वत्सलम्।
नारायणार्य-जन्म-र्क्षे
चित्रायाम् अमृतोत्सवे॥ 11