स्तुति-मुक्तक-सङ्ग्रहः

॥ अनेकविषयमुक्तश्लोकाः ॥

पराशर-भट्टः, भगवान्

विश्वास-प्रस्तुतिः

यस्य प्रसाद-कलया बधिरः शृणोति
पङ्गुः प्रधावति, जवेन च वक्ति मूकः ।
अन्धः प्रपश्यति, सुतं लभते च वन्ध्या
तं देवम् एव वरदं शरणं गतोऽस्मि ॥१ ॥

मूलम्

यस्य प्रसादकलया बधिरः शृणोति
पङ्गुः प्रधावति जवेन च वक्ति मूकः ।
अन्धः प्रपश्यति सुतं लभते च वन्ध्या
तं देवमेव वरदं शरणं गतोऽस्मि ॥१ ॥

विश्वास-प्रस्तुतिः

“त्वं मे” “ऽहं मे” “कुतस् तत्” “तद् अपि कुत” “इदं वेद-मूल-प्रमाणात्”
“एतच् चानादि-सिद्धाद् अनुभव-विभवात्”, “+++(वेदादिग्रन्थः)+++ सोऽपि साक्रोश एव” ।
“क्वाक्रोशः, कस्य”, “गीतादिषु, मम”, “विदितः कोऽत्र साक्षी”, “सुधीः स्यात्”
“हन्त! त्वत्-पक्ष-पाती स” इति नृ-कलहे मृग्य-मध्य-स्थवत् त्वम् +++(जीव!)+++ ॥ ५॥
+++(इति पराशर-भट्टाभिषेक-श्लोकः)+++

राजगोपालः

“Bhagavān: You are mine.
The Jīva : I exist (only) for myself.
Bhagavān: Where is it stated ?
The Jīva: Where is the opposite stated ?
Bhagavān: In the original pramāṇa : the Veda.
The Jīva : The opposite view is based on the strength of my own enjoyment of myself from beginning less time.
Bhagavān: But protests have been recorded then and there.
The Jīva : Where is it objected to ? and by whom?’
Bhagavān: The protest or objection was made in such works as the Gita and it was made by me.
The Jīva : Is there any witness ?
Bhagavān: The wise man.
The Jīva : But he is an interested witness.
Thus in this dispute between Bhagavān and the Jīva , the need arises for an arbitrator.”

English

The above verse is the imagination of Sri Parashara Bhattar known as Tirumanjanam sloka. It is in the form of a conversation between the jeevaatma and paramaatma.

Paramatma – tvam me – I am your master. I own you.
Jeevatma – aham me – I am my own master
Paramatma – kuthastath – How do you claim that?
Jeevatma – tadhapi kutha – How do you claim that then?
Paramatma – idham veda moola pramaNaath – This is has been established in the Vedas
Jeevatma – yethacchaanaadhisiddhaath anubhavavibhavaath – I speak from my own experience from the begin of time
Paramatma – tarhi saakrosha yeva – But it is discarded as not true
Jeevatma – kvaakroshaha kasya – by whom and when?
Paramatma – Githaadheeshu mama vidhithaha – In Bhagavad Gita, I myself have said that Jeevatma – ko athra saakshee – Who is the witness for that? Paramatma – sudhee syaath – The wise men Jeevatma – hantha tvath pakshapaathee – They are all on your side. They are partial to you.

sa ithi nrukalahE mrugyamadhyasThavath tvam – Thus, the debate between the Jeevatma and Paramatma continued.

So, when Parasara Bhattar sees the Lord’s idol wrapped with wet clothes during abhishekam, he imagines that the Lord is trying to convince his superiority by wearing wet clothes and swearing. But the ignorant jeevatma is still not ready to accept!

मूलम्

त्वं मेऽहं मे कुतस्तत् तदपि कुत इदं वेदमूलप्रमाणात्
एतच्चानादिसिद्धादनुभवविभवात् सोऽपि साक्रोश एव ।
क्वाक्रोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीः स्यात्
हन्त! त्वत्पक्षपाती स इति नृकलहे मृग्यमध्यस्थवत्त्वम् ॥ ५॥

विश्वास-प्रस्तुतिः

सत्-+++(पक्षे हंस→)+++पक्ष-पातात् +++(पक्षे जलम्→)+++भुवनाश्रयत्वात्
सन्-मानसावास+++(←पक्षे सरः)+++-निबन्धनत्वात् ।
पद्माश्रयत्वाच् च भवान् इदानीं
हंसो यथा राजति रङ्गराज ॥

प्रस्तुतयः (द्रष्टुं नोद्यम्)
English

Bhattar gives several reasons for Namperumal being like a swan. Both the vedas and azhwars praise his avatara of appearing as a swan. The veda in “हंसः शुचिषत्” “அன்னமாய் அன்றங்கு அருமறை பயந்தான், அரங்கமாநகர் அமர்ந்தான்” he came as a hamsa giving the vedas and is the same one reclining in Srirangam.

  1. सत्पक्षपातात्: The swan has 2 beautiful wings. (paksha=wings). Srirangeshwaran is partial towards good devotees.(pakshapAta - partial)
  2. भुवनाश्रयत्वात् The swan has its residence, the waters of a lake(भुवन water) .Rangarajan is the support of the entire world of sentient and insentient being(भुवन-world)
  3. सन्मानसावासनिबन्धनत्वात् swans typically reside in the beautiful Manasarovar lake in the Himalayas While ranganatha resides in the minds of pious devotees. (sanmAnasa-mind of pious)
  4. पद्माश्रयत्वाच्च: Swans generally reside near padma i.e lotuses in a lake. On the other hand Namperumal is the residence of padma i.e lakshmi devi as Nammazhwar tells என் திருமகள் சேர்மார்வனே!

Therefore this charming display of Yours standing in the middle of all beings created by You(Ranganatha) makes us visualise you as a Swan Bhattar tells (भवानिदानीं हंसो यथा राजति रङ्गराज)

मूलम्

सत्पक्षपातात् भुवनाश्रयत्वात् सन्मानसावासनिबन्धनत्वात् । पद्माश्रयत्वाच्च भवानिदानीं हंसो यथा राजति रङ्गराज ॥

शौनकः

विश्वास-प्रस्तुतिः

अविद्यातो, देवे परिवृढतया वा विदितया
स्वभक्तेर् भूम्ना वा जगति गतिम् अन्याम् अविदुषाम् ।
गतिर् गम्यश् चासौ हरिर् इति जितन्ताह्वयमनोः+++(=??-)+++
रहस्यं व्याजह्रे +++(कुत्र??)+++ स खलु भगवान् शौनकमुनिः ॥६ ॥

मूलम्

अविद्यातो देवे परिवृढतया वा विदितया
स्वभक्तेर्भूम्ना वा जगति गतिमन्यामविदुषाम् ।
गतिर्गम्यश्चासौ हरिरिति जितन्ताह्वयमनोः
रहस्यं व्याजह्रे स खलु भगवान् शौनकमुनिः ॥

गुरुततिः

विश्वास-प्रस्तुतिः

वन्दे गोविन्द+++(=ऎम्बार्)+++-+++(तत्-)+++तातौ+++(→पराशरः)+++, मुनिम् अथ मनवै लक्ष्मणार्यं महान्तं
ध्यायेयं यामुनार्यं मम हृदि तनवै, रामम् एवाभियायाम्।
पद्माक्षं प्रेक्षिषीय, प्रथमम् अपि मुनिं नाथम् ईडे, शठारिं
स्तौमि, प्रेक्षेय लक्ष्मीं, शरणम् अशरणः श्रीधरं संश्रयेयम् ॥ ४॥

मूलम्

वन्दे गोविन्दतातौ मुनिमथ मनवै लक्ष्मणार्यं महान्तं
ध्यायेयं यामुनार्यं मम हृदि तनवैराममेवाभियायाम्।
पद्माक्षं प्रेक्षिषीय प्रथममपि मुनि नाथमीडे शठारि
स्तौमि प्रेक्षेय लक्ष्मीं शरणमशरणः श्रीधरं संश्रयेयम् ॥ ४॥

यामुनः

विश्वास-प्रस्तुतिः

आशैलाद् अद्रि-कन्या-चरण-किसलय-न्यास-धन्योपकण्ठात्
आ-रक्षो-नीत-सीता-मुख-कमल-समुल्लास-हेतोश् च सेतोः।
आ च प्राच्य-प्रतीच्य-क्षिति-धर-युगलाच् चन्द्र-सूर्यावतंसात्
मीमांसा-शास्त्र-युग्म–श्रम-विमल-मना मृग्यतां मादृशोऽन्यः ॥२ ॥

विश्वास-टिप्पनी

यामुनप्रौढोक्ती राजसभायां वादारम्भ इति श्रूयते।

मूलम्

आशैलादद्रिकन्याचरणकिसलयन्यासधन्योपकण्ठात्
आरक्षोनीतसीतामुखकमलसमुल्लासहेतोश्च सेतोः।
आचप्राच्यप्रतीच्यक्षितिधरयुगलाच्चन्द्रसूर्यावतंसात् /…युगलादर्कसोमावतंसात् ..
मीमांसाशास्त्रयुग्मश्रमविमलमना मृग्यतां मादृशोऽन्यः ॥२ ॥

विश्वास-प्रस्तुतिः

न वयं कवयस् तु केवलं
न वयं केवल-तन्त्रपारगाः।
अपि तु प्रतिवादि-वारण-
प्रकटाटोप-विपाटन-क्षमाः॥ ३॥

विश्वास-टिप्पनी

यामुनप्रौढोक्ती राजसभायां वादारम्भ इति श्रूयते।

मूलम्

न वयं कवयस्तु केवलं
न वयं केवलतन्त्रपारगाः।
अपि तु प्रतिवादिवारण
प्रकटाटोपविपाटनक्षमाः॥ ३॥

कूरेशः

विश्वास-प्रस्तुतिः

अर्वाञ्चो यत्-पद-सरसि-ज-द्वन्द्वम् आश्रित्य, पूर्वे
मूर्ध्ना यस्यान्वयम् उपगता देशिका मुक्तिम् आपुः ।
सोऽयं रामानुज-मुनिर् अपि स्वीय-मुक्तिं कर-स्थां
यत्-सम्बन्धाद् अमनुत कथं वर्ण्यते कूर-नाथः ॥ ८॥+++(5)+++

मूलम्

अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे
मूर्ध्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः ।
सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां
यत्सम्बन्धादमनुत कथं वर्ण्यते कूरनाथः ॥ ८॥

रामानुजः

विश्वास-प्रस्तुतिः

पुरा सूत्रैर् व्यासः श्रुति-शत-शिरोर्थं ग्रथितवान्
विवव्रे तं श्राव्यं वकुल-धरताम् एत्य स पुनः ।
उभावेतौ ग्रन्थौ घटयितुम् अलं युक्तिभिर् असौ
पुनर् जज्ञे रामावर-ज इति स ब्रह्म-मुकुरः ॥ ७॥

मूलम्

पुरा सूत्रैर्व्यासः श्रुतिशतशिरोर्थं ग्रथितवान्
विवव्रे तं श्राव्यं वकुलधरतामेत्य स पुनः ।
उभावेतौ ग्रन्थौ घटयितुमलं युक्तिभिरसौ
पुनर्जज्ञे रामावरज इति स ब्रह्ममुकुरः ॥ ७॥

विश्वास-प्रस्तुतिः

काषाय-शोभि कमनीय-शिखा-निवेशं
दण्ड-त्रयोज्ज्वल-करं विमलोपवीतम्।
उद्यद्-दिनेश-निभम् उल्लसद्-ऊर्ध्वपुण्ड्रं
रूपं तवास्तु यति-राज! दृशोर् ममाग्रे ॥११ ॥

मूलम्

काषायशोभि कमनीयशिखानिवेशं
दण्डत्रयोज्ज्वलकरं विमलोपवीतम्।
उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं
रूपं तवास्तु यतिराज! दृशोर्ममाग्रे ॥११ ॥

विश्वास-प्रस्तुतिः

एतानि तानि भुवन-त्रय-पावनानि
संसार-रोग शकली-करणौषधानि ।
जिह्वातले मम लिखानि यथा शिलायां
रामानुजेति चतुराण्य् अमृताक्षराणि ॥१२ ॥

मूलम्

एतानि तानि भुवनत्रयपावनानि
संसाररोग शकलीकरणौषधानि ।
जिह्वातले मम लिखानि यथा शिलायां
रामानुजेति चतुराण्यमृताक्षराणि ॥१२ ॥

विश्वास-प्रस्तुतिः

नमः प्रणव-शोभितं नव-कषाय-खण्डाम्बरं
त्रि-दण्ड-परिमण्डितं त्रिविध-तत्त्व-निर्वाहकम्।
दयाञ्चित-दृग्-अञ्चलं दलित-वादि-वाग्-वैभवं
शमादि-गुण-सागरं शरणम् एमि रामानुजम् ॥ १३ ॥

मूलम्

नमः प्रणवशोभितं नवकषायखण्डाम्बरं
त्रिदण्डपरिमण्डितं त्रिविधतत्त्वनिर्वाहकम्।
दयाञ्चितदृगञ्चलं दलितवादिवाग्वैभवं
शमादिगुणसागरं शरणमेमि रामानुजम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

न चेद् रामानुजेत्येषा
चतुरा चतुर्-अक्षरी।
काम् अवस्थां प्रपद्यन्ते
जन्तवो हन्त! मादृशः॥

मूलम्

न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी।
कामवस्थां प्रपद्यन्ते जन्तवो हन्त! मादृशः॥

विश्वास-प्रस्तुतिः

पुण्याम्भो-ज-विकासाय
पाप-ध्वान्त-क्षयाय च
श्रीमान् आविर्-अभूद् भूमौ
रामानुज-दिवाकरः॥१४ ॥

मूलम्

पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च
श्रीमानाविरभूद्भूमौ रामानुजदिवाकरः॥१४ ॥

विश्वास-प्रस्तुतिः

तृणी-कृत-विरिञ्चादि-
निरङ्कुश-विभूतयः।
रामानुज-पदाम्भोज-
समाश्रयण-शालिनः॥

मूलम्

तृणीकृतविरिञ्चादिनिरङ्कुशविभूतयः।
रामानुजपदाम्भोजसमाश्रयणशालिनः॥

विश्वास-प्रस्तुतिः

सत्यं सत्यं पुनस् सत्यं
यतिराजो जगद्-गुरुः।
स एव सर्वलोकानाम्
उद्धर्ता, नास्ति संशयः॥१५ ॥

मूलम्

सत्यं सत्यं पुनस्सत्यं यतिराजो जगद्गुरुः।
स एव सर्वलोकानामुद्धर्ता नास्ति संशयः॥१५ ॥

काञ्ची

विश्वास-प्रस्तुतिः

श्रीमद्-द्वार-वरं, महद्धि बलि-पीठाग्र्यं फणीन्द्र-ह्रदं
गोपीनां रमणं, वराह-वपुषं, श्री-भट्ट-नाथं मुनिम् ।
श्रीमन्तं शठ-वैरिणं कलि-रिपुं, श्री-भक्ति-सारं मुनिं,
पूर्णं, लक्ष्मण-योगिनं, मुनीवरान् आद्यान्, अथ द्वारपौ …॥ ९ ॥

मूलम्

श्रीमद्द्वारवरं महद्धि बलिपीठाग्र्यं फणीन्द्रह्रदं
गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं मुनिम् ।
श्रीमन्तं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनिं
पूर्णं लक्ष्मणयोगिनं मुनीवरानाद्यानथ द्वारपौ ॥ ९ ॥

विश्वास-प्रस्तुतिः

… श्रीमन्-मज्जन-मण्डपं, सरसि-जां, हेतीश-भोगीश्वरौ,
रामं, नील-मणिं, महा-नस-वरं, तार्क्ष्यं, नृसिंहं प्रभुम् ।
सेनान्यं, करि-भू-धरं, तद्-उपरि श्री-पुण्य-कोट्यां हरिं
तन्-मध्ये वरदं रमा-सहचरं वन्दे तदीयैर् वृतम् ॥ १० ॥

मूलम्

श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरौ
रामं नीलमणिं महानसवरं तार्क्ष्यं नृसिंहं प्रभुम् ।
सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोट्यां हरिं
तन्मध्ये वरदं रमासहचरं वन्दे तदीयैर्वृतम् ॥ १० ॥

विश्वास-प्रस्तुतिः

देवाधीश–नृ-सिंह–पाण्डव-महा-दूत–प्रवाल-प्रभान्
श्री-वैकुण्ठ-पतिं त्रि-विक्रम-हरिं नीरेश-मेघेश्वरौ ।
नील-व्योम-विभुं महोरग-हरिं ज्योत्स्नेन्दु-वक्त्रं हरिं
चोरेशं कृत-चिन्त-भक्त-हृदयावासं मुकुन्दाह्वयम् … ॥ १६ ॥

मूलम्

देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान्
श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ ।
नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं
चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

… कामावास-पतिं नृ-केसरि-वरं, दीप-प्रकाश-प्रभुं
श्री-युक्ताष्ट-भुजास्पदेशम् अनघं श्रीमद्-यथोक्त-क्रियम् ।
इत्य् अष्टा-दश दिव्य-मङ्गल-वपुर्-देवान् सरो-योगिना
साकं निस्तुल-काञ्च्य्-अभिख्य-नगरी-नाथान् नमामस् सदा॥१७ ॥

मूलम्

कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं
श्रीयुक्ताष्टभुजास्पदेशमनघं श्रीमद्यथोक्तक्रियम् ।
इत्यष्टादशदिव्यमङ्गलवपुर्देवान् सरोयोगिना
साकं निस्तुलकाञ्च्यभिख्यनगरीनाथान् नमामस्सदा॥१७ ॥

॥ इति अनेकविषयमुक्तश्लोकाः ॥