श्रीः श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः ॥ श्री सौलभ्यचूडामणिस्तोत्रम् ॥
ब्रह्मोवाच चक्राम्भोजे समासीनं चक्राद्यायुधधारिणम् । चक्ररूपं महाविष्णुं चक्रमन्त्रेण चिन्तयेत् ॥ १ ॥
सर्वावयवसंपूर्णं भयस्यापि भयङ्करम् । उग्रं त्रिनेत्रं केशाग्रैर्ज्वालामालासमाकुलम् ॥ २ ॥
अप्रमेयमनिर्देश्यं ब्रह्माण्डव्यासविग्रहम् । अष्टायुधपरिवारम् अष्टापदसमद्युतिम् ॥ ३ ॥
अष्टारचक्रमध्यगं
संवर्ताग्निसमप्रभम् ।
दक्षिणैर् बाहुभिश् चक्र-
मुसलाङ्कुश-पत्रिणम् ॥ ४ ॥
दधानं वामतश् शङ्ख-चाप-पाश-गदाधरम् । रक्ताम्बरधरं देवं रक्तमाल्योपशोभितम् ॥ ५ ॥
रक्त-चन्दन-लिप्ताङ्गं रक्तवर्णम् इवाम्बुदम् । श्रीवत्सकौस्तुभोरस्कं दीप्त-कुण्डल-धारिणम् ॥ ६ ॥
हार-केयूर-कटक-
शृङ्खलाद्यैर् अलङ्कृतम् ।
दुष्ट-निग्रह-कर्तारं
शिष्टानुग्रहकारिणम् ॥ ७ ॥
एवं सौदर्शनं नित्यं
पुरुषं हृदि भावयेत् ।
सौलभ्य-चूडामण्य्-आख्यं
मया भक्त्या समीरितम् ॥ ८ ॥
चूडायुक्तं त्रिसन्ध्यायां
यः पठेत् स्तोत्रम् उत्तमम् ।
भयं च न भवेत् तस्य
दुरितं च कदाचन ॥ ९ ॥
जले वा ऽपि स्थले वा ऽपि
चोर-दुःख-महापदि ।
सङ्ग्रामे राज-समर्दे
शत्रुभिः परिपीडिते ॥ १० ॥
बन्धने निगले वा ऽपि
सङ्कटे ऽपि महाभये ।
यः पठेत् परया भक्त्या
स्तोत्रम् एतज् जितेन्द्रियः ।
सर्वत्र च सुखी भूत्वा
सर्वान् कामान् अवाप्नुयात् ॥ ११ ॥
॥ श्री सौलभ्यचूडामणिस्तोत्रं समाप्तम् ॥