विश्वास-प्रस्तुतिः
वात्सल्याद्, अभय-प्रदान-समयाद्, आर्तार्ति-निर्वापणाद्
औदार्याद्, अघ-शोषणाद्, अ-गणित-श्रेयः-पद-प्रापणात् ।
सेव्यः श्री-पतिर् एक एव जगताम् - एते ऽभवन् साक्षिणः
प्रह्लादश् च, विभीषणश् च, करि-राट्, पाञ्चाल्य्, अहल्या, ध्रुवः ॥ १ ॥+++(5)+++
मूलम्
वात्सल्याद् अभय-प्रदान-समयाद् आर्तार्ति-निर्वापणाद्
औदार्याद् अघशोषणाद् अ-गणित-श्रेयः-पद-प्रापणात् ।
सेव्यः श्रीपतिर् एक एव जगताम् - एते ऽभवन् साक्षिणः
प्रह्लादश् च विभीषणश् च करि-राट् पाञ्चाल्य् अहल्या ध्रुवः ॥ १ ॥
विश्वास-प्रस्तुतिः
“प्रह्लादास्ति यदीश्वरो वद हरिः”, “सर्वत्र” “मे दर्शय”
“स्तम्भे” “चैवम्” इति ब्रुवन्तम् असुरं तत्राविर् आसीद्+हरिः ।
वक्षस् तस्य विदारयन् निज-नखैर् वात्सल्यम् आपादयन्
आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ २ ॥
मूलम्
प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तम्भे चैवम् इति ब्रुवन्तम् असुरं तत्राविर् आसीद्+हरिः ।
वक्षस् तस्य विदारयन् निज-नखैर् वात्सल्यम् आपादयन्
आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ २ ॥
विश्वास-प्रस्तुतिः
श्रीरामोऽत्र विभीषणोऽयम् अनघो रक्षो ऽभयाद् आगतः
“सुग्रीवानय पालयैनम् अधुना पौलस्त्यम् एवागतम्” ।
इत्य् उक्त्वा ऽभयम् अस्य सर्व-विदितं यो राघवो दत्तवान्
आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ २ ॥
मूलम्
श्रीरामोऽत्र विभीषणोऽयम् अनघो रक्षो ऽभयाद् आगतः
सुग्रीवानय पालयैनम् अधुना पौलस्त्यम् एवागतम् ।
इत्य् उक्त्वा ऽभयम् अस्य सर्व-विदितं यो राघवो दत्तवान्
आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ २ ॥
विश्वास-प्रस्तुतिः
“नक्र-ग्रस्त-पदं समुद्धृत-करं ब्रह्मादयो भोः सुरा
रक्षन्ताम्” इति दीन-वाक्य-करिणं देवेष्व् अशक्तेषु यः ।
“मा भैषीर्” इति तस्य नक्र-हनने चक्रायुधः श्रीधरो
ह्य् आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ४ ॥
मूलम्
नक्र-ग्रस्त-पदं समुद्धृत-करं ब्रह्मादयो भोः सुरा
रक्षन्ताम् इति दीन-वाक्य-करिणं देवेष्व् अशक्तेषु यः ।
मा भैषीरिति तस्य नक्र-हनने चक्रायुधः श्रीधरो
ह्य् आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
“भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनाद्य्-अपहृतां भो रक्ष माम् आतुराम् ।”
इत्य् उक्तोऽक्षय-वस्त्र-सम्भृत-तनुर् योऽपालयद् द्रौपदीम्
आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ५ ॥
मूलम्
भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनाद्य्-अपहृतां भो रक्ष माम् आतुराम् ।
इत्य् उक्तोऽक्षय-वस्त्र-सम्भृत-तनुर् योऽपालयद् द्रौपदीम्
आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ५ ॥
विश्वास-प्रस्तुतिः
यत्-पादाब्ज-नखोदकं त्रिजगतां पापौघ-विध्वंसनं
यन्-नामामृत-पूरकं च पिबतां संसार-सन्तारकम् ।
पाषाणोऽपि यद्-अङ्घ्रि-पद्म-रजसा शापान् मुनेर् मोचितो
ह्य् आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ६ ॥
मूलम्
यत्-पादाब्ज-नखोदकं त्रिजगतां पापौघ-विध्वंसनं
यन्-नामामृत-पूरकं च पिबतां संसार-सन्तारकम् ।
पाषाणोऽपि यदङ्घ्रि-पद्म-रजसा शापान् मुनेर् मोचितो
ह्य् आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
पित्रा भ्रातरम् उत्तमासन-गतं ह्य् औत्तान-पादिर् ध्रुवो
दृष्ट्वा तत्-समम् आरुरुक्षुर् अधिकं मात्रा ऽवमानं गतः ।
यं गत्वा शरणं यद् आप तपसा हेमाद्रि-सिंहासनं
ह्य् आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ७ ॥
मूलम्
पित्रा भ्रातरम् उत्तमासनगतं ह्य् औत्तानपादिर् ध्रुवो
दृष्ट्वा तत्-समम् आरुरुक्षुर् अधिकं मात्राऽवमानं गतः ।
यं गत्वा शरणं यद् आप तपसा हेमाद्रि-सिंहासनं
ह्य् आर्त-त्राण-परायणः स भगवान् नारायणो मे गतिः ॥ ७ ॥
विश्वास-प्रस्तुतिः
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायण-शब्द-मात्रं
विमुक्त-दुःखाः सुखिनो भवन्ति ॥ ८ ॥
मूलम्
आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायण-शब्द-मात्रं
विमुक्त-दुःखाः सुखिनो भवन्ति ॥ ८ ॥
विश्वास-टिप्पनी
इति श्री कूरेशस्वामि-कृत-श्री-नारायणाष्टकम् ।
इत्य् उच्यते। किञ्च नायम् प्रसिद्धः कूरेशः - बालकृतं भाति।