कर्तृत्वम् (द्रष्टुं नोद्यम्)
No citation from it prior to the 14th century.
Unlikely to be the work of kulashekhara ALvAr.
विश्वास-प्रस्तुतिः
(घुष्यते यस्य नगरे रङ्गयात्रा दिनेदिने ।
तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥)
मूलम्

श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासेति आलापिनं प्रतिपदं कुरु मां मुकुन्द ॥ १ ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेधश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥

मुकुन्द! मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवेभवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावेभावे हृदयभवने भावयेयं भवन्तम् ॥ ४ ॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्यद्भव्यं भवतु भगवन्! पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ५ ॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक! प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयानि ॥ ६ ॥

कृष्ण! त्वदीयपदपङ्कजपञ्जरान्तः अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७ ॥

चिन्तयामि हरिमेव सन्ततं मन्दमन्दहसिताननाम्बुजम् ।
नन्दगोपतनयं परात्परं नारदादिमुनिबृन्दवन्दितम् ॥ ८ ॥

करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ ९ ॥

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरम स्वचित्त! रन्तुम् ।
सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ १० ॥

माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११ ॥

भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२ ॥

भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मास्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३ ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च ।

संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद! भवतो भक्तिनावं प्रयच्छ ॥ १४ ॥
विश्वास-प्रस्तुतिः
माद्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान् पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् ।
मास्मार्षं माधव! त्वामपि भुवनपते! चेतसाऽपह्नुवानान् माभूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ १५ ॥

जिह्वे! कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व! समर्चयाच्युतकथाः श्रोत्रद्वय! त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण! मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ १६ ॥

हे लोकाः! शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञास्समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १७ ॥

हे मर्त्याः! परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ १८ ॥

पृथ्वी रेणुरणुः पयांसि कणिका फल्गुः स्फुलिङ्गो लघुः तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटास्समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमाऽवधूतावधिः ॥ १९ ॥

बद्धेनाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ २० ॥

हे गोपालक! हे कृपाजलनिधे! हे सिन्धुकन्यापते! हे कंसान्तक! हे गजेन्द्रकरुणापारीण! हे माधव! ।
हे रामानुज! हे जगत्त्रयगुरो! हे पुण्डरीकाक्ष! मां हे गोपीजननाथ! पालय परं जानामि न त्वां विना ॥ २१ ॥

भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणिः गोपीलोचनचातकाम्बुदमणिस्सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वंद्वैकभूषामणिः श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २२ ॥

शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं संसारोत्तारमन्त्रं समुपचिततमस्सङ्घनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २३ ॥

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ २४ ॥

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयस्सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वन्द्वाम्भोरुहसंस्मृतीर्विजयते देवस्स नारायणः ॥ २५ ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर्वाञ्च्छितं पापिनोऽपि ।
हा! नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६ ॥

मज्जन्मनः फलमिदं मधुकैटभारे! मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर लोकनाथ! ॥ २७ ॥

नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥ २८ ॥

मदन! परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९ ॥

तत्वं ब्रुवाणानि परं परस्मान्मधु क्षरन्तीव सतां फलानि ।
प्रावर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥ ३० ॥

इदं शरीरं परिणा(म्य)मपेशलं पतत्यवश्यं श्लथसन्धिजर्झरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते! निरामयं कृष्णरसायनं पिब ॥ ३१ ॥

दारा वाराकरवरसुता ते तनूजो विरिञ्चः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्माया जगदविकलं तावकी देवकी ते माता मित्रं वलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥ ३२ ॥

कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण! संरक्ष माम् ॥ ३३ ॥

स त्वं प्रसीद भगवन्! कुरु मय्यनाथे विष्णो! कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनन्त! दीनम् उद्धर्तुमर्हसि हरे! पुरुषोत्तमोऽसि ॥ ३४ ॥

नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ३५ ॥

श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ ३६ ॥

अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ ३७ ॥

ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् ।
समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां च वैष्णवीम् ॥ ३८ ॥

क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ ३९ ॥

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूताम् ।
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४० ॥