गोदा-दण्डकः

Source: TW

मङ्गलम्

॥ श्रीः ॥ श्रीमत्यै गोदायै नमः
श्रीमते रामानुजाय नमः
॥ श्री गोदादण्डकः ॥

विष्णुचित्ताब्धिजां गोदां
स्वर्-धेनुं भक्ति-रूपिणीम् ।
अमन्दानन्द-सन्दोग्ध्रीं
वन्दे गोविन्दवल्लभाम् ॥

१ गुणोद्भवादि

जय जय जननि
प्रजार्थे व्युदस्त–+++(विष्णु=)+++त्रि-धामाद्य्–
अधाम-प्रभूताद्भुतात्मानुकूलातिकूल–स्व-भोगे 1नभो-गे ।

महा-मोह-गर्ते निपत्यासहायान्य्-अपत्यान्य्-अकम्पानुकम्पावशात् त्रातुम् अत्रावतीर्णे
ऽग्र्य-वर्णे सु-वर्णे स्रवत्-स्वच्छ-वात्सल्य-पूर्णे
पुरे धन्वि-नव्ये +++(राशौ)+++ ऽर्यम-र्क्षे शुचौ मासि भट्टाधिनेतुस्+++(=विष्णुचित्तस्य)+++ तुलस्य्-उद्भवारण्य-भूमेः समुद्भिद्य सीतेव जाते
स्वतः सद्-गुणत्व-प्रतीते ।
क्षमे वर्ष्म-युक्त-क्षमे सर्व-पापापनोद-क्षमे

भोगि-रूपेण भर्त्रा स्फटा+++(=फणा)+++-रत्न-रोचिश्-छटा-राजि-नीराजिते सूरि-संपूजिते
तृष्णयोढे वराहेण, गाढोपगूढे च भक्त्या,
जनित्वा ऽवनित्वं तिरोधाप्य,
गानात् समाह्लादित-स्वान्त-कान्ते,
प्रशान्ते तमो-ध्वंसनोद्यन्-निशान्ते2

स्व-जन्मापवर्गी-कृत–क्ष्मा-तले
पूरिताशेष-वाञ्छा-फले स्वर्-लते निस्तुले ।
विष्णु-चित्तोदयात्+++(→“चन्द्रमा मनसो जातः”)+++
स्वस्य गोभिस्+++(=किरणैः)+++ सुधा-स्यन्दनाच्,
चापि पूर्तेः कलानां, सुधांशोस् स-कुल्ये
रमायाश् च तुल्ये
ऽविताशेष-भूते वधू-रत्न-भूते ।

[[2]]

भुवः संभवाद् अर्थवद्-रत्न-गर्भाभिधाने ऽपदाने+++(=सत्-कर्मणि)+++
हरेर् दत्त-चित्तावधाने, प्रहर्षं सताम् आदधाने

यशोदा-किशोरेतिहासोक्ति–सारस्वत-स्तन्य-पानेन लब्धात्म–पोषे विदोषे ।
महानन्द-गोविन्द-लीला-विलासानुकारि–स्व-लीलैक-लोले3 सचित्तालि+++(=स्नेहिता)+++-माले।
सदानन्द-गोपाल-बाले ऽनुरक्ते, ऽपरस्मिन् विरक्ते
विमुक्तेतरारम्भणे युक्त-नारायणे,
सद्-गुणे क्लृप्त-वाक्-पुष्प-संदर्भणे+++(=रचने)+++ ।
विप्र-वंशोदिते, भावनायाः प्रकर्षेण गोपी-दशाम् आस्थिते, वैदिकैस् सेविते
गोकुली-भूत-जन्म-स्थले शाद्वल-श्यामले शीतले ।
नन्द-पुत्रायितानेक-पात्+++(=वट)+++–पर्ण4–शयि–प्रिये सर्व-लोक-प्रिये
वाक्-सुधा+++(रूप-)+++-ऽऽमुक्त-माल्य-प्रदानाहितात्यन्त-मोदे
परस्यापि गोदे प्रसीदेष्टदे

२ पादादि

विलसतु तव दिव्य-रूपं ममाम्ब!+++(←अम्बाऽर्थनद्योर्ह्रस्वः)+++ +अधिचित्तं+++(→विलसतु)+++
सदा विष्णु-चित्तोदये विष्णु-चित्त-प्रिये ऽनर्गलोद्यद्-दये

वासरारम्भ-काल–प्रफुल्लारविन्दावलेपावलोप–क्षमालक्त-लेपातिरक्तातुल–
श्रीमद्-अङ्घ्रि-द्वये ऽनुष्ठितार्थ-द्वये5 निर्भये ।
भर्तृ-लिप्साश्रितानङ्ग-तूणीर-शङ्का-ऽऽकर-+अ-रोम-जङ्घा–लते हंस-लीला-गते ।
क्षौम-संवीत–माहेन्द्र-दन्तावल-श्वेत-शुण्डायमानाति-चारूरु-काण्डे कृतानेक-विद्वत्-प्रकाण्डे ।

निशान्त-6द्विज-व्रात7-गीत-श्रुति–प्रीति-क्रुद्–घोष–जुष्टारुणादित्य–
बिम्बानुकारि-क्वणत्-किङ्किणी-जाल-सौवर्ण–काञ्ची–
स्फुरत्-पद्म-राग-प्रभा–शोणित-श्रोणि-बिंबे वितीर्ण-स्व-हस्तावलम्बे ।

[[3]]

स्तनाद्रि-स्थल-स्थूल-मुक्तावली-कान्ति-पुञ्जाख्य–
गङ्गा-झरी-पात-सञ्जात-गर्तात्मक+
उद्यद्–धर-क्रोध-वह्नि-प्रदाहावगहि-स्मरोज्जीवन+
अनन्त-सौन्दर्य-पीयूष8-वापी–स-नाभि–स्व-नाभे समाह्लादिताम्भोज-नामे ।

समुत्तुङ्ग-पीन-स्तन-श्रोणि-बन्धान्तरालावघर्षावलुप्त+अवलग्ने+++(=उदर-देशे)+++ मुकुन्देऽतिलग्ने ।

समुज्जीवितानङ्ग-साम्राज्य-सिंहासनोत्तुङ्ग–वक्षो-ज–पीठी–
समारोह-सोपान-राजी-वली-राजि–संराजिताल्पोदरि प्राज्य-संपत्-करि ।+++(5)+++

9प्राक्तनात्यल्प-हार्दाविकाशानवच्छेद-वर्धिष्णु-भाव-प्रकाश–
प्रदृश्योद्गत–प्रेम-वर्ष्मायितोत्तुङ्ग–वक्षो-ज–भारावनम्रे रमा-नाथ-कम्रे+++(=कामुके)+++ ।

स्स्व-सौन्दर्य-गर्वोन्नमद्-बाहुक10+++(=सुन्दरबाहु-देव)+++–श्री-वन-क्ष्मा-धराधीश+++(=तिरुमाळ्-इरुं-चोलै??)+++–संमज्जन-+
+अत्युल्बणोज्जृम्भणा-पूर्ण-लावण्य-नीर–
स्व-देहाभिधागाध-पाथो-धि–कल्प-ह्रदोद्गीर्ण–निर्यत्-परीवाह–युग्म+++(→दोर्-वल्लिका)+++–
श्रमापादक-स्वैर–दुर्मोच-बन्ध-+
+अवकुण्ठ–स्व-तन्त्रत्व11
वैकुण्ठ–कण्ठी-रवेन्द्र–स्फुरद्-रत्न-केयूर-रश्मि-च्छटा-पल्लवोल्लासि12
दोर्-वल्लिकाऽलङ्कृते सूरि-वृन्दावृते ॥

३ प्रकोष्ठादि

13चिद्-अभिध-पृथिवी-महेन्द्रावृती14-भूत-
कर्माख्य-दुर्गाटवी-पर्यटद्–रङ्ग-राजान्तरङ्गाख्य-सारङ्ग–
खेदापनोदार्ह-हृद्यात्म–पारार्थ्य–बोधाख्य-दूर्वाङ्कुर-स्थल्य्-अभिज्ञापक-+
+अन्योऽन्य-घर्षोत्थ–घोषाह्वयत्15-कङ्कणाली-विराजत्-प्रकोष्ठे
प्रथा-पूरिताशेष-काष्ठे गरिष्ठे परीचार-कर्मात्मक-स्वीय-चेष्टे ।

[[4]]

ज्वलद्-रत्न-जालोर्मिका-राजि-रज्यन्–नखेन्दूदयोल्लासि-
रत्नाकर-स्पर्धि-शुम्भत्-करे प्रेम-वश्येश्वरे
स्वीय-सौन्दर्य16-पाटच्-चरी+++(=चोर)+++-भावकोपारुणोदीर्ण–
पाणि17-प्रणेयी-कृत–स्वर्ण-वर्णोज्ज्वलत्-पुष्करे+++(=कमले)+++ भास्वरे कीर-मञ्जु-स्वरे ।

स्वीय-दिव्य-स्तुति18-प्रीत–पङ्के-रुहाक्षोद्धृत–
क्षीर-रूपोल्लसत्-पाञ्चजन्य-प्रकॢप्तात्म-साधर्म्य–दूर्वाऽऽभ-
देहोच्च-पाटीर+++(=चन्दन)+++–लेप-स्फुट-श्वेत–कण्ठे19
20+++(उज्ज्वल=)+++ऽवदाताच्छ-मुक्तावली-संपरीतोपकण्ठे ।

प्रचण्डांशु-तापावकुण्ठ+++(→इन्दु)+++-+
+++(केतु→)+++अहि-तुण्डावगुण्ठ+++(→इन्दु)+++–
स्वर्-ओकस्-समूहोपभुक्तोझितोद्यत्-कलङ्काङ्कितेन्दु-
प्रतिद्वन्द्वि-तापोपराग+-उपभुक्तावशेषादि-दोषावकाश-प्रसङ्गासह-+
+आनन्दनास्वादनार्हामृत-स्यन्दि-शुम्भत्-कला-पूर्ण-राका-21मृगाङ्कानने
स्वीय-सूक्त्या प्रचारार्हतापन्न-वेदाख्य-वाक्-कानने ।

चन्द्रिका-सम्मिलद्-विद्रुमाभ-स्मितोद्भासमानाधरे निस्समानामृताप्यायित-श्रीधरे ।

सर्वदेवाधिप-श्वेत-चेतोऽभिरक्ती-कृति–व्यक्त–विस्मापकत्व-प्रभाव-+
+अवदातेषद्-आलक्ष्य-कुन्देन्दु-मुक्ताभ-दन्तावली–कान्ति–
मन्द-स्मिते छिन्न-मूलास्मिते 22

स्पर्धमान-स्फुरन्-मीन-मध्योत्थ–संयद्-विघातार्थ-वल्ली–तुला-भृद्–
विलोलाक्षि-युग्मान्तरोल्लासि-नासा-पुटे23 गाढ-रागावटे ।

मन्-मथेष्व्-आस-वैयर्थ्य-कृत्–
सन्नत-भ्रू-धनुर्-द्वन्द–सन्धीयमान-स्फुटेन्दीवराख्याशु-ग-द्वन्द्व–
सन्देह-कृल्-लोचने संश्रिताघौघ-संमोचने ॥

४ अपाङ्गादि

[[5]]

निज-जन–विहितापराधावली-संतिरोधायक-प्रेम-भूम-+
-24अतिगाढान्धकाराञ्चजनालेपनात्यन्त-नील-+
+अनिमित्त-प्रणीतास्मद्-आद्याप्लवोद्वेल-खेलत्–कृपा-नीर–
पूरोल्लसन्-नील-फुल्लोत्पल-त्विट्–
तरङ्गान्तरङ्गायित+अपाङ्ग-लीले प्रहृष्टादिमूले ।

सुपात्र-प्रभावाधिलब्ध+++(=??)+++-25द्वि-भाव–श्रवो-मूल–
देदीप्यमानोपदिष्टैक26+++(ॐ→)+++–वर्णात्मनोत्प्रेक्ष्यमाण–
ज्वलद्-रत्न-ताटङ्क-भूषा-विशेषातिशोभाऽभिराजत्-कपोले
निजाचार्य-निष्ठा-ख्य-कीर्त्य्-आलवाले ।

27तमोर्धावमुक्तेन्दु–पीयूष-तृष्णा-मिलत्–तत्-तमो–
लोल–बालायमानाति-नीलालक-श्रेणि-
जुष्टाष्टमी-चन्द्र-तुल्याभ-भाले, महा-सूरि-बाले ।

मुखाब्जासवास्वाद-निष्कम्प-रोलम्ब-
संबाध-सन्दोह-सन्देह-कृच्–छ्यामलार्चिः-कलिन्दापगा
कुङ्कुमालिप्त–सीमन्त-सारस्वत-स्यन्दिनी–
मालती-पुष्प-रोचिस्-सित–स्वच्छ-गङ्गा-नदी-तीर्थ-
सम्मेलनावाप्त-जन्म-स्थलोद्भूत–
तीर्थ-त्रयाविष्ट-28कासार-भाव-स्फुटद्-भङ्गि-कैश्ये,
29सुमल्लयाख्य-देश्ये परार्थैक-दास्ये ।

विलासः

सुवर्णासनं प्रेयसा, पक्षि-राजेन चास्थाय
मन्द-स्मित-प्रेम-गर्भेक्षणाभ्यां ध्रुवं भाषसे

रङ्ग-राट्+++(←अ)+++—पक्षिराड्भ्यां+++(←म्)+++ सह भ्राजमाना+++(←उ)+++
समीक्षार्हम् ओङ्-कारम् अक्ष्णोर् विधत्से30

विनीतेन तार्क्ष्यण संसेविते
हर्षिणा रङ्ग-राजेन संभाविते
मुख्य31-नेत्री त्वम् अर्चा-दशायां स्फुटं दृश्यसे

[[6]]

वस्त्र-माला+++(=??)+++-प्रदाह्व-स्तवाभ्यर्थ्य-वासः प्रगृह्णाति मूर्ध्ना
ऽखिलानां फलानां प्रदाता त्वद्-आमुक्त-पुष्पाभिलाषी
यतीशो ऽग्रजस् ते मतस्
सौम्य-जामातृ-योगी–समुत्कण्ठते
त्वन्-महः सेवितुं वेद-शीर्षार्य-वर्यस् स्तुतिं हृद्य-पद्यां विधत्ते
समस्तेतरैश् च प्रशस्ते
नमस् ते, क्षमस् ते न कश्चिद् विपश्चित् स्तुतौ
तोक-वाकं स्तुतित्वेन संपादयेथा दयेथाश् च मे ॥

उपसंहारः

अवीवदत् स्तोक-धीकं
तोकं माम् आत्म-दण्डकम् ।
गोदा यथा स्वकं कीरं
प्राशित-क्षीरम् आदरात् ॥
भक्त्या तिरुमलै-नल्लान्–
रामकृष्णेन सूरिणा ।
गीतो गोदा-दण्डकोऽयं
सद्भिर् आद्रियतां मुदा ॥

इति तिरुमलै-नल्लान्-रामकृष्ण-कवेः कृतिषु श्री-गोदा-दण्डकः संपूर्णः ॥

शुभम्

श्रीमत्यै विष्णुचित्तार्य-
मनो-नन्दन-हेतवे ।
नन्द-नन्दन-सुन्दर्यै
गोदायै नित्य-मङ्गलम् ॥


  1. परमाकाशः ↩︎

  2. निशान्तः तत्त्वविवेकः ↩︎

  3. समानाभिप्राय । ↩︎

  4. वटपत्रम् । ↩︎

  5. मन्त्रः । ↩︎

  6. पक्षिणो ब्राह्मणाश्च । ↩︎

  7. श्रोतं वेदश्च । ↩︎

  8. गर्तात्मकपीयूषवापी । ↩︎

  9. आधुनिकस्थानादुरसः प्राक्तनः । ↩︎

  10. सुन्दर-बाहुर् भगवान् । ↩︎

  11. बहुव्रीहिः कण्ठीरवेन्द्रे ऽन्वेति । ↩︎

  12. भ्रमापादिका अवकुण्ठस्वतन्त्रत्व-कण्ठीरवेन्द्रा च । ↩︎

  13. “ उत्क्रामतीश्वरः" इत्युक्तो जीवः । ↩︎

  14. आवरणम् । ↩︎

  15. अभिज्ञापिका आह्वयन्ती च कङ्कणाली । “पतिव्रतानिमित्तं हि वलयादिविभूषणं" इति ह्युच्यते । ↩︎

  16. चोर । ↩︎

  17. वश्य। ↩︎

  18. " कर्पूरं नारुमो " दशकम् । ↩︎

  19. " अङ्गगातकण्ठेभ्यो वक्तव्यं " इति ङीषोविकल्पः । ↩︎

  20. मुक्ताहारपरीतकण्ठप्रान्तत्वं च प्रतीयते । ↩︎

  21. सूर्यतापावकुण्ठनं, उपरागः, देवोच्छिष्ठत्वंच इन्दोर्दोषाः तद्दोष-रहित-चन्द्रानने । ↩︎

  22. अहन्ता । ↩︎

  23. युद्धम् । ↩︎

  24. प्रेम्णः अपराध-तिरोधायकत्वाद् अन्धकारत्वं तादृशान्धकार-रूपम् अञ्जनम् । ↩︎

  25. द्वित्वम् । ↩︎

  26. ओङ्कारः ↩︎

  27. राहुः । ↩︎

  28. तिरुमुक्कुलम् । ↩︎

  29. तिरुमल्लिनाडु । ↩︎

  30. अकारेण देवस्य उकारेण देव्याः मकारेण जीवस्य च प्रतीतेः । ↩︎

  31. पुरुषकारः ↩︎