चक्रपाणिस्तोत्रम् (सूर्यविरचितं)

श्रीचक्रपाणिस्तोत्रम् ॥

सूर्यकृतम्॥
(कुम्भकोणे सुदर्शन-नरसिंह-घटित चक्रपाणिमूर्तेः स्तोत्रम् ।)

देवदेव जगन्नाथ नमस्ते भक्तवत्सल ।
प्रपन्नं पाहि मां विष्णो कृपया पुरुषोत्तम ॥ १॥

अपराधं क्षमस्वाद्य मयाऽज्ञानकृतं प्रभो ।
त्वां विना शरणं नास्ति त्वमेव शरणं मम ॥ २॥

चक्राम्बुजे समासीनं चक्राद्यायुधभूषणम् ।
चक्रमन्त्राधिदेवेशं चक्रराजमहं भजे ॥ ३॥

सर्वावयवसम्पूर्णमष्टबाहुं त्रिलोचनम् ।
दंष्ट्राकरालवदनं भयस्यापि भयङ्करम् ॥ ४॥

उग्रपिङ्गलकेशाढ्यं ज्वालामालापरिष्कृतम् ।
अप्रदृश्यमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् ॥ ५॥

अष्टायुधपरीवारं अष्टशक्तिसमन्वितम् ।
अष्टारं चक्रमत्युग्रं मुसलं चाङ्कुशं तथा ॥ ६॥

पद्मं दक्षिणपार्श्वे तु चतुर्भिर्बाहुभिर्वृतम् ।
वामतः शङ्खसशरचापपाशगदाधरम् ॥ ७॥

रक्तवस्त्रधरं देवं रक्तमाल्योपाशोभितम् ।
रक्तचन्दनलिप्ताङ्गं रत्नमालाविभूषितम् ॥ ८॥

दिव्यरत्नविचित्रेण मकुटेन विराजितम् ।
दुष्टनिग्रहकर्तारं भक्तानुग्रहरूपिणम् ।
सुदर्शनाभिधानं त्वामात्मनोऽभिमुखं भजे ॥ ९॥

अव्याद्भास्करसप्रभाभिरखिलाभाभिर्दिशो भासयन्
भीमाक्षस्फुरदट्टहासविलसद्दंष्ट्रः प्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाब्जमुसलान् शार्ङ्गं च पाशाङ्कुशौ
बिभ्रत्पिङ्गशिरोरुहोऽतिधवलश्चक्राभिधानो हरिः ॥ १०॥

मध्याह्नसूर्यप्रतिमप्रकाशं पिशङ्गकेशं स्फुरदट्टहासम् ।
त्रिरूपदीप्ताम्बरमुग्रमीडे चक्रस्थितं चक्रिणमष्टबाहुम् ॥ ११॥

कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलदहनं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदाब्जे पृथुतरमुसलं चापपाशाङ्कुशादीन्
बिभ्राणं दोर्भिरीड्यं मनसि मुररिपुं भावये चक्रपाणिम् ॥ १२॥

त्रिणेत्रं चतुश्चक्रसंशोभिहस्तं स्थितं तञ्च पङ्केरुहे योगपीठे ।
महोग्राकृतिं कालविद्युत्सकाशं नृसिंहं भजे चक्रपश्चात्सुसंस्थम् ॥ १३॥

इति सूर्यकृतं चक्रपाणिस्तोत्रं सम्पूर्णम् ।

विस्तारः (द्रष्टुं नोद्यम्)

Proofread by PSA Easwaran psaeaswaran at gmail.com