गुण-रत्न-कोशः

वीरराघवः

श्रीः
श्रीमते रामानुजाय नमः
पराशरभट्टैर् विरचितः
श्रीगुणरत्नकोशः

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे

वीरराघवः - व्याख्यातृप्रतिज्ञा

[वात्स्य-वीरराघव-कृत–वसु-राश्य्-अभिधा-व्याख्या-सहितः]

श्रीगुरुपङ्क्तिपादसरसीरुहसम्विनतः
श्रीगुणरत्नकोशविवृतिं वसुराश्यभिधाम् ।
श्रीनगदेशिकेन्द्रतनयः शुभवात्स्यकुलः
श्रीयुतवीरराघवगुरुर्वितनोतितराम् ॥

श्रीमन्महाहरितवंशविशुद्धवृत्त-
मुक्तामणिः सकलशास्त्रविदग्रगण्यः ।
भट्टारको विरचयन् गुणरत्रकोशं
स्तोत्रं श्रियो नमति तामिह विघ्रशान्त्यै ॥

वीरराघवः - अवतारिका

श्रीमत्-कुर-कुल–पयः-पारावार–सुधा-करः
श्रीमद्-रामानुज-मुनीन्द्र-कृपा-लब्ध–श्रीभाष्य-द??प्रबन्ध-परिचय-महिमोल्लास-बुद्धिः,
द्रविडोपनिषद्-गम्भीराशय-विवरण–श्रीरङ्ग-राज–कमला-पद-लालितः,
श्रीरङ्गनाथ-दिव्याज्ञा-लब्ध-पराशर-भट्टारक-नाम-धेयः,

कैशिक-पुराण-श्रवण-समुदित–महिमोल्लास-भासुर–
रङ्ग-रमण-करुणा-प्रसाद-समासादित–ब्रह्म-रथ-वैभवः,
यति-वर-चरणाम्भोरुह-प्रवणान्तेवासि-जनाग्रेसर-कूरेश-तनू-भवः,
स-कल-शास्त्र-विद्-अग्रे-सरः,
श्रीभट्टाख्य-देशिकः

निखिल-जगद्-उदय-विभव-लय-लीला-शालि–भगवत्-प्रापक-भूतां श्रियं

तत्-कृत-महोपकारातिशयानुसन्धानेन
दया-वात्सल्यादि-गुणातिशय-परिशीलनेन स्तोतु-कामः,

प्रारिप्सित-ग्रन्थनिर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारपरम्परा- प्राप्तम् मङ्गलमाचरम्स्तामेव स्तौति –

विश्वास-प्रस्तुतिः

श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।
अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥

मूलम्

श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।
अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥

वीरराघवः

श्रिया इति । हरेः – हरति परिहरति स्वासंश्लिष्टान् करोति पाप्मन इति हरिः “अपहतपाप्मा”(छा.उ.८-४-१) इति श्रुतेः । अनेन हेयगुण-प्रतिभटत्वमुक्तम् भवति । हरत्याश्रितपापानीति वा हरिः । “हरिर्हरति पापानि (हर्यष्टकम्.१) इति स्मृतेः । अनेन संश्रितानां स्वप्राप्तिविरोधि-सर्वपापहरणोक्त्या मोक्षप्रदत्वम् पापहरणस्य तज्ज्ञान तन्निवर्तककृपा-क्षमादिसापक्षत्वेन कल्याणगुणाकरत्वं च फलितम् । हरति सर्वं स्ववशीकरोतीति वा हरिः । “सर्वस्य वशी” (बृ.उ.६-४-२२) “यत्र कामगमो वशी” इति श्रुतिस्मृत्योस्सद्भावात् । वशीत्यस्य सर्व वशे यस्य स वशी इति श्रुतप्रकाशिकाचार्यैर् व्याख्यानं कृतम् । अनेन उभयविभूतियोगः फलितः । “हरिं हरन्तमनुयन्ति देवाः” (तै.आर.३-१५-१) “ब्रह्माणमीशं रुद्रं च यमं वरुणमेव च । प्रसह्य हरते यस्मात्तस्माद्धरिरिहोच्यते” ॥ इति श्रुतिनिर्वचनाभ्याम् भगवतस्सर्वस्मात्परत्वं सर्वदेवनियन्तृत्वं च सिद्धम् ।

तस्य समस्तचिदचिद्विधानव्यसनम् अत्र चिदचिच्छब्दाभ्याम् “अचिदविशेषितान् प्रलयसीमनि सम्सरतः करणकलेबरैर्घटयितुं दयमान- मनाः । वरद निजेच्छयेव परवानकरोः प्रकृतिम्महदभिमानभूतकरणावलि-

कोरकिणीम्’ ॥ (श्रीरम्.स्त.२-४१) इत्युक्तसृष्टियोग्यसम्सारिचेतनमिश्र-सत्वे गृह्येते । समस्तशब्देन ब्रह्मादिपिपीलिकान्तं चेतनजातं चतु-र्विंशतितत्त्वात्मकम् प्रकृतितत्कार्यजातं च विवक्षितम्, तेषां समस्त- चिदचितां विधानं करणकलेबरयोजनलक्षणा तदर्थम् महदहङ्कारभूत- करणग्रामोत्पादनलक्षणा च सृष्टिः, स्थितिलययोरप्य् एतदुपलक्षणम् ।
यद्वा समस्तचिदचिताम् बद्धमुक्तनित्यरूपाणां चेतनानां शुद्ध-सत्त्व-मिश्रसत्त्व-सत्त्वशून्यलक्षणानाम् अचेतनानां च विधानम् । “इच्छात एव तव विश्वपदार्थसत्ता । नित्यम् प्रियास्तव तु केचन ते हि नित्याः”(श्रीवै.स्त.३६) इति श्रीवत्साङ्कश्रीसूक्तिप्रकारेण भगवतो नित्ये-च्छया नित्यसूरीणां नित्यासङ्कुचितज्ञानतया सङ्कल्पनम्, मुक्ताना-माविर्भूतापहतपाप्मत्वादिगुणाष्टकतया सङ्कल्पनम्, बद्धानां करणादि-प्रदानकर्मतारतम्यज्ञानोत्पादनादि च, एवं चेतनविषये विधानं वेदितव्यम् ।
अचेतनविषये तु शुद्धसत्त्वस्य स्वेच्छया नित्यविभूतौ विमानगोपुर- मण्डपप्रासादादिरूपेण परिणमयितृत्वम् । मिश्रसत्त्वस्य सम्सारिचेत- नान्प्रति भोग्यभोगोपकरणभोगस्थानरूपेणाण्डतदावरणचतुर्दशभुवन- समस्तदेहेन्द्रियादिरूपेण चोत्पादनम् । सत्त्वशून्यस्य कालस्य चेतन- कर्मानुगुण्येन कलाकाष्ठामुहूर्तयामदिनपक्षमासायनसम्वत्सरादिरूपेण
परिणमयितृत्वं च विधानम् ।
तत्र व्यसनमभिनिवेशमायासं वा । अङ्गीकार एषामस्तीत्य् अङ्गी- कारिणस् तैरङ्गीकारसूचकैर् इत्यर्थः । आलोकैः कटाक्षैः “स्मितविकसित-गण्डं व्रीडविभ्रान्तनेत्रम् मुखमवनमयन्ती स्पष्टमाचष्ट सीता” इतिवन्न-यनलीलयैव अङ्गीकारस्सूच्यते न तु “पूर्णोक्ताद्दक्षिणापथाः” इतिवदेवमेव कार्यमिति स्पष्टोक्त्येत्यर्थः । सार्थयन्त्यै स्वानुमोदेन सफलं कुर्वत्यै । स्वानुमोदाजनने हरेर्जगत्सृष्ट्यादिलीला विरसा स्यात् । तदुक्तं श्रीस्तवे “क्रीडेयं खलु नान्यथास्य रसदा स्यादैकरस्यात्तया’ (श्रीस्त.१) इति । अनेन भगवत एव जगज्जन्मादिकारणत्वम्, श्रियस्तु तदनुमोदेन तदुत्त- म्भकत्वमात्रं सूचितम् । एवम् परत्वमुक्तम् ।
सौलभ्यमाह – श्रिया इति । श्रियै तत्तत्पुरुषार्थलाभाय सर्वसंश्रय- णीयायै श्रीरङ्गनायक्यै । अत्र श्रीशब्दस्य षोढा व्युत्पत्तिर्द्रष्टव्या, ततो घटकत्वसिद्धिः । व्युत्पत्तिषट्कय च मदीये श्रीगुणसुधासारलहरीस्तोत्रे
प्रदर्शितम् – “श्रितास्यन्यैस्सर्वैः श्रयसि रमणं संश्रितगिरः शृणोषि प्रेयाम्सं श्रितजनवचः श्रावयसि च । शृणास्येतद्दोषान् जननि ! निखि-लान्सर्वजगतीं गुणैः श्रीणासि त्वं तदिह भवतीं श्रीरिति विदुः” ॥ इति ।
अञ्जलिः स्वशेषत्वसूचकस्सुकरः क्षिप्रप्रसादहेतुश्च “अञ्जलिः परमा
मुद्रा क्षिप्रं देवप्रसादिनी’(ग.पु.२-११-२६) इत्युक्तेः । कृतः कृतो भवति ।
मयेति शेषः ।
अत्र हरेः समस्तचिदचिद्विधानव्यसनमालोकैस्सार्थयन्त्या इति वस्तुना यथा कस्यचित्प्रभोः प्रीत्यै केनचित्प्रयत्नसाध्ये कर्मणि कृते प्रभुणा तद्दर्श- नतदनुमोदने कर्तुर्महानन्दो भवति, तथा समस्तचिदचिद्विधानव्यसनिनो हरेरपि तत्प्रयत्ने श्रिया दर्शनेनानुमोदिते तस्यापि महानन्दो भवतीति वस्तु ध्वन्यत इत्यस्य स्तोत्रस्योत्तमत्वं सूचितम् । “ध्वनिप्रधानता यत्र तदुत्तममुदाहृतम्” इति लक्षणात् ।
अञ्जलिरिति कमलमुकुलाकारकरतलयुगलयोगरूपञ्जल्युक्त्या
कायिकनमस्कारः कृत इति वाचा तदनुवादेन वाचिकनमस्कार: “मनः
पूर्वो वागुत्तर:’ (ऐ.उ.१-१-२) इति मनः प्रसरणपूर्वकत्वाद्वाचो मानसिक- नमस्कारश्च कृत इति मन्तव्यम् ।
मङ्गलारम्भसम्भवाय स्तोत्रादौ श्रीशब्दप्रयोगः । “देवतावाचका-श्शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्यास्युर्लिपितो गणतोऽपि वा” ॥ इत्युक्तेरादौ रोगफलकजगणप्रयोगदोषो नेति ध्येयम् ॥ १ ॥

विश्वास-प्रस्तुतिः

उल्लासपल्लवितपालितसप्तलोकी
निर्वाहकोरकितनेमकटाक्षलीलाम् ।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां
श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥

मूलम्

उल्लासपल्लवितपालितसप्तलोकी
निर्वाहकोरकितनेमकटाक्षलीलाम् ।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां
श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥

वीरराघवः

उल्लासेति । अत्र उल्लासपदान्वयाय सप्तलोक्या इति षठ्यन्तम् पदं लभ्यते । तथा च सप्तलोक्या उल्लासेन उदयेन पल्लविता सञ्जातपल्लवा, पालिताया रक्षितायास्सप्तलोक्या, निर्वाहेण स्थित्या, कोरकिता सञ्जातकोरका पल्लवितकोरकितेत्युभयत्रापि “तदस्य सञ्जातम्” (पा.सू.५-२-३५) इति तारकादित्वादितच्प्रत्ययः । नेम-कटाक्षोऽर्धवीक्षणम् “नेम इत्यर्धे” इति सिद्धान्तकौमुद्याम् । तस्य तथा-भूता लीलाविलासो यस्यास्ताम् । उल्लासपल्लवितेत्यनेन लक्ष्मीकटाक्ष-लीलाया जगदुत्पत्तिप्राक्कालापेक्षया भूयस्त्वम् । निर्वाहकोरकिता इत्यने-नोत्पन्नजगत्स्थितिजनितहर्षेण ततोऽपि भूयस्त्वं च गम्यते । अनेन लक्ष्म्या जगदुत्पत्तिस्थितिप्रयोजकत्वमुक्तम् । ततः परत्वम् फलितम् ।
सौलभ्यमाह – श्रीरङ्गेति । श्रीरङ्गे दिव्यनगरे हर्म्यतलस्य दिव्य- विमानप्रदेशस्य श्रीरङ्गाख्यदिव्यविमानप्रदेशस्य वा मङ्गलदीपरेखां
शोभनदीपकलिकामिव श्रीरङ्गविमानान्तःप्रकाशिकामितिभावः । मङ्गले- त्यनेन अनुष्णत्वद्योतनात्प्रसिद्धदीपापेक्षया व्यावृत्तिः । दीपरेखामित्य्
औज्ज्वल्यं च द्योत्यते । श्रीरङ्गराजमहिषीं श्रीरङ्गराजेन सह विश्व-रक्षणे कृताभिषेकाम् । “कृताभिषेका महिषी”(अ.को.२-६५) इत्यमरः ।
श्रियं सर्वसमाश्रयणीयां लक्ष्मीम् आश्रयामः शरणं गच्छामः । कटाक्षलेशलीलाकल्पितजगदुत्पत्तिस्थितिकां सर्वसंश्रयणीयत्वाय श्रीरङ्गे कृतनित्यवासां श्रीरङ्गेश्वरवल्लभाम् । अत एव श्रियं शरणं गच्छाम इति भावः । अत्र सप्तलोक्युत्पत्तिस्थित्योर् लक्ष्मीनेमकटाक्ष-लीलापल्लव कोरकत्वरूपणात् कटाक्षलीलालतात्वमर्थसिद्धमिति सावयव-रूपकमलङ्कारः । एकदेशरूपणे सर्वरूपणमप्यर्थसिद्धम् । “प्रौढमौक्तिक-रुचः पयोमुचाम् बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्य-मण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियः”(सा.चिम्.) ॥ इत्यत्र पयोमुचाम् बिन्दवो नभसि नाट्यमण्डपे कुसुमाञ्जलिश्रियः कुर्वत इत्यनेन विद्युतां
नटीनामित्यर्थसिद्धमिति साहित्यचिन्तामणिकारोक्तेः । श्रीरङ्गहर्म्यतल-
मङ्गलदीपरेखामित्यत्र निरवयवरूपकमलङ्कार इति सावयवनिरवयव
रूपकयोस्सम्सृष्टिः । “भेदेनावस्थितिर्येषां सा सम्सृष्टिरुदाहृता” इति
लक्षणात् ॥ २ ॥
अथ मङ्गलभूयस्त्वसिद्ध्या एव श्लोकद्वयेन स्वस्मिन् लक्ष्मीकटाक्ष- प्रार्थनेनाशीर्वादमङ्गलमाचरति –

विश्वास-प्रस्तुतिः

अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्
प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफा
रचयतु मयि लक्ष्मीकल्पवल्लीकटाक्षान् ॥ ३ ॥

मूलम्

अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्
प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफा
रचयतु मयि लक्ष्मीकल्पवल्लीकटाक्षान् ॥ ३ ॥

वीरराघवः

अनुकलेति – अनुकलम् अनुक्षणम् इदं शुम्भदिति प्रकाशने अन्वेति । तनुः काण्ड इव तनुकाण्डः काण्डो दण्डः “काण्डोऽस्त्री दण्डबाणार्ववर्गाव- सरवारिषु” इत्यमरः (३-३-४३) । तस्य तनुकाण्डस्यालिङ्गनारम्भेण, तनुकाण्डेनालिङ्गनारम्भे वा शुम्भन्ती प्रकाशमाना । दिशासु दिशासु प्रतिदिशम् । “अव्ययं विभक्ति…"(पा.सू.२-१-६) इति सप्तम्यर्थेऽव्ययी- भावः । सर्वासु दिशास्वित्यर्थः । भुजाः शाखा इव भुजशाखाः । प्रति-दिशम् भुजशाखा यस्य स तथोक्तः । श्रियस्सखा श्रीसखः । “राजाहस्स-खिभ्यष्टच्”(पा.सू.५-४-९)इति टच्प्रत्ययान्ततया श्रीसखशब्दोऽकारान्तः । श्रीसखो ऽनोकह इव श्रीसखानोकहः । प्रतिदिशभुजशाखश्चासौ श्रीसखा-नोकहश्च स तथोक्तास् तस्य ऋद्धिर् ज्ञानशक्त्यादीनाम् आत्मगुणानाम् औज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्यादीनां विग्रहगुणानां च सम्पत् । अनुकलतनुकाण्डालिङ्गनारम्भशुम्भन्ती प्रतिदिशभुजशाख-श्रीसखानोकहर्द्धिर्यस्यास्सेति बहुव्रीहिः । स्वालिङ्गनारम्भप्रतिफलप्रकाश- मानभगवत्स्वरूपरूपगुणसमृद्धिरित्यर्थः ।
लक्ष्मीतनोः काण्डौपम्यादार्जवं सूचितम् । प्रतिदिशशब्देन भगव- द्भुजेषु चतुष्टुम् भुजाः शाखा इवेत्यनेन भुजानां शाखौपम्यादायतत्वं
सूचितम् । श्रीसख इत्यनेन सर्वस्मात् परत्वम्, अनोकह इत्यनेन
श्रीतनुकाण्डालिङ्गनसुखजनितं वैवश्यं च द्योतितम् । भगवतः श्री-सख इति रूढ्या श्रियो भगवत्स्वरूपनिरूपकत्वेन च प्रयोगः । अनोकह इति भगवत आनन्दनिर्भरत्वेन स्तब्धतयावस्थानाद् वृक्षौपम्यम् “वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः”(श्वे.उ.३-९) इति श्रुतेः । भवाध्वश्रान्त-
विश्रान्तिपदत्वेन वा वृक्षौपम्यम् “वासुदेवतरुच्छाया नातिशीता न घर्मदा”(गा.पु.१-२२२-२५, विह.सम्.२४-१४) इति स्मृतेः । एवं लक्ष्म्या विग्रहसौन्दर्यस्वाधीनपतिकत्वञ्चोक्तम् ।
अथावयवसौन्दर्यमाह – स्तननयनेति । स्तनौ च नयने च स्तन- नयनं गुलुच्छौ गुच्छौ स्फारपुष्पयोर् विकचपुष्पयोर् द्विरेफौ, भ्रमरौस्फारपुष्पद्विरेफौ गुलुच्छौ च स्फारपुष्पद्विरेफौ च गुलुच्छस्फारपुष्प-द्विरेफं स्तननयनं गुलुच्छस्फारपुष्पद्विरेफमिव यस्यास्सा तथोक्ता । स्तनयोर् गुलुच्छौपम्येन सौन्दर्यम्, नयनयोः स्फारपुष्पौपम्येन विकासो वैपुल्यं च गम्यते । कनीनकया द्विरेफौपम्येन नेल्यस्निग्धते द्योतिते। लक्ष्मीः कल्पवल्लीव लक्ष्मीकल्पवल्लीपुष्पादितुल्यावयवयोगेन सर्वाभीष्ट-प्रदत्वेन च लक्ष्म्याः कल्पवल्यौपम्यम् । मयि स्तुत्युद्यते । कटाक्षान् रचयतु मां कटाक्षलक्ष्यं करोत्वित्यर्थः । अत्र इवेत्युपमावाचका-प्रयोगाद् वाचकलुप्तोपमालङ्कारः ।
नन्वत्र तनौ काण्डत्वरूपणं तदालिङ्गनारम्भशोभिषु श्रीसखभुजेषु
नानादिग्व्यापिशाखत्वरूपणं तद्वति श्रीसखे वृक्षत्वरूपणं स्तनयोर्
गुलुच्छत्वरूपणं सतारकनयनयोस्सभ्रमरविकचपुष्पत्वरूपणं लक्ष्यां
कल्पवल्लीत्वरूपणं चेति सावयवरूपकमेवालङ्कारोऽस्तु स्फुटत्वाञ्चा-रुतातिशयावहत्वाच्चेति चेन् न; अर्थबाधे स्फुटत्वचारुतातिशयावहत्वयोर-
किञ्चित्करत्वात्, लक्ष्मीकल्पवल्लीकटाक्षात्रचयत्वित्यत्र लक्ष्म्यां
कल्पवल्लीत्वरूपणे कल्पवल्ल्याः कटाक्षरचनानुपपत्तेः । न हि लक्ष्म्या इव कल्पवल्ल्याः कटाक्षास्सभवन्ति स्थावरजाती-यत्वान् न च कल्पवल्ल्यास्सर्वफलप्रदत्वेन कटाक्षरचनमपि युज्यत इति वाच्यम् । विचित्र वसनाभरणाद्यपेक्षितप्रदत्वेऽपि तस्याः कटाक्षसद्भावे मानाभावादिति दिक् । न च तदुपपत्त्यै परिणाम एवात्रालङ्कारोऽस्त्विति वाच्यम्, तनुकाण्डेत्यादि सर्वविशेषणवैयर्थ्यप्रसङ्गात् । लक्ष्मीकल्प-वल्लीति विशेष्यमात्रे कटाक्षरचनौचित्याय परिणामप्राप्तेः । तस्माद् वाचकलुप्तोपमैवालङ्कार इति तत्त्वम् ॥ ३ ॥
भगवत्तस्स्थावरजङ्गमतरतमभावसृष्टिनियामक भ्रूविक्षेपा श्रुतिशिरसा- मपि परतत्त्वसंशयनिवर्तकपदरागा स्वभोगोपक्रमलीलाल्पीकृत भगव- द्वैश्वरूप्यविभवा लक्ष्मीः सुधातरङ्गान्तरङ्गैर् अपाङ्गैरस्मानभिषिञ्चत्व् इत्याशास्ते –

विश्वास-प्रस्तुतिः

यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेर्
वेदान्तास्तत्त्वचिन्ताम् मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।
भोगोपोद्घातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा
सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ ॥

मूलम्

यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेर्
वेदान्तास्तत्त्वचिन्ताम् मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।
भोगोपोद्घातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा
सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ ॥

वीरराघवः

यद्भ्रूभङ्गा इति – मुरारे: मुरद्विषः श्रीरङ्गराजस्य स्थिरचररचना- तारतम्ये स्थावरजङ्गमसृष्टिनीचोच्चभावे । स्थावरसृष्टौ नीचोच्चभावः – कल्पवृक्ष चन्दनरसालाश्वत्थनारिकेलाद्यपेक्षया स्नुहिबुर्बूरार्ककण्टकि- द्रुमाणां नीचभावस्तत्प्रतियोगिनामुक्तानां कल्पवृक्षादीनामुच्चभावः । चरसृष्टिनीचोच्चभावस्तु देवापेक्षया मनुष्याणाम् मनुष्येषु च ब्राह्मणा-पेक्षया क्षत्रियाणां तदपेक्षया वैश्यानां तदपेक्षया शूद्रादीनां नीचभावस् तदपेक्षया तिरश्चां तेष्वपि हम्सगरुशुकसारिकामयूरकोकिलाद्यपेक्षया क्ङ्कगृध्रकाकघूकादीनां नीचभावस्तत्प्रतियोगिनामुक्तानान्देवादीनामुच्च भावश्चेति बोद्धव्यम् । तत्र यस्या लक्ष्म्या भ्रूभङ्गा भ्रूविक्षेपाः प्रमाणं नियामकाः श्रीभ्रूभङ्गतारतम्यं दृष्ट्वा हरिः स्थावरजङ्गमात्मकं जगत्तरतमभावेन सृजतीति भावः । श्रीभ्रूभङ्गतारतम्ये च तत्तत्कर्म-तारतम्यं हेतुरिति श्रियो न वैषम्यनैर्घृण्य- प्रसङ्गः । भ्रूभङ्गाः प्रमाणमित्यनेन धातुर्जगत्सृष्टौ यथा वेदाः प्रमाणं तथा भगवतोऽपि स्थिरचररचनातारतम्ये श्रीभ्रूभङ्गाः प्रमाणमिति भावः ।

वेदान्ता उपनिषदस् तत्त्वचिन्ताम् ब्रह्मा शिवो विष्णुर्वा परतत्त्वमिति
संशयम् मुरभिदुरसि श्रीरङ्गेशवक्षसि यत्पादचिह्नैर् यस्याः श्रियः
पादचिह्नैः पादालक्तकाङ्कैः । तरन्ति – निरतिशयदीप्त्यापादकश्रीपद-
मुद्रितश्रीरङ्गराज एव परतत्त्वमिति निर्णयेन निवृत्तसंशया भवन्ति ।
अत्र वेदान्तशब्देन चैतन्ययोगिनस्तदधिष्ठातृपुरुषा उच्यन्ते । तेषामेव
तत्त्वचिन्ताया देवतान्तरासम्भवन्मुरभिद्वक्षोनिष्ठलक्ष्मीचरणलाक्षाचिह्न-दर्शनस्य ततस्तदङ्कितो मुरभिदेव परतत्त्वमिति निवृत्तसंशयत्वस्य चोपपत्तेः । “अतश्च वेदान्तपुरुषा वेदेषु” “न किरिन्द्रत्वदुत्तरः”(ऋ.वे. ४-३०-१) “अग्निरग्रे प्रथमो देवतानाम्”(तै.ब्रा.२-४-३-३) “एक एव रुद्रो श्श
न द्वितीयाय तस्थे”(श्वे.उ.३-४, ४-१२) “विश्वाधिको रुद्रो महर्षिः”(तै.सम्. ४-१-८) “हिरण्यगर्भः समवर्तताग्रे”(ऋवे.१०-१२१-१) इति नानादेवता-पारम्यप्रतिपादनात्, “एको ह वै नारायण आसीत्”(महो.उ.१-१) “अग्नि-रवमो देवतानां विष्णुः परमः”(तै.सम्.५-५-१-४) इति तत्सा-धारण्येन विष्णुपारम्यस्यापि प्रतिपादनादुक्तेष्वेतेषु कः परतत्त्वमिति संशये सति स्वयं निर्णेतुमसमर्थाः श्रीरङ्गधामनि मुरभिदं श्रीरङ्ग-राजमासेव्य तदुरस्यसाधारणश्रीपदलाक्षालाञ्छनदर्शनेन अयमेव परतत्त्वमिति निश्चिन्वत इति भगवतः श्रीपराशरभट्टार्यस्य तात्पर्यम् । यद्वा वेदान्ता उपनिषदस्तत्त्वचिन्ताम् “न किरिन्द्र त्वदुत्तरः”(ऋ.वे. ४-३०-१) इत्याद्युक्तरीत्या स्वैर्नानादेवपारम्यप्रतिपादनादिषु कः परतत्त्वमिति पर-तत्त्वविषये श्रोतृसंशयजनननिमित्तां चिन्तां खेदम् मुरभिदुरसि भगव- द्वक्षसि यत्पादचिह्नैर् इत्यनेन लक्ष्मीसम्बन्धो लक्ष्यते । तरन्त्य् अतिवर्त्तन्ते । प्राशस्त्यप्रतिपादनसाधारण्येऽपिकारणवाक्येषु “एको ह वै नारायण आसीन् न ब्रह्मा नेशानः”(महो.उ.१-१) इतीतरनिषेधपूर्वकम् भगवतः प्रलयसमयावस्थितिम् प्रतिपाद्य “अथ पुरुषो ह वै नारायणो
अकामयत प्रजास्सृजेयेति”(ना.उ.१) इत्यादिना तस्य पुरुषशब्दवाच्यतां जगत्सृष्ट्यादिकर्तृतां च प्रतिपाद्य “सहस्रशीर्षा पुरुषः”(तै.आर. ३-१२-१)
इत्यारभ्य “तस्य धीराः परिजानन्ति योनिम्”(तै.आर.३-१३-२) इत्यन्तेन
वाक्यजातेन नारायण पुरुषशब्दवाच्यस्य सहस्रशिरः पादादिमत्त्वविश्व-
शरीरत्व-मोक्षप्रदत्व-महामहिमत्व, सर्वतोज्यायस्त्व-सर्वभूतैकपादत्व-
त्रिपाद्विभूतिमत्त्व-विश्वाक्रमणकर्तृत्व-चराचरोत्पादकनानावयवत्त्वतमः-
पारवर्त्तित्व-सर्वनामरूपव्याकर्तृत्व-कर्मकृतजन्मरहितत्वस्वेच्छाकृतानेका-
वतारत्वतदवतारहेत्वपारकारुणिकत्वानि प्रतिपाद्य एवं विभवो नारायण-शब्दवाच्यश्च क इत्यपेक्षायाम् “ह्रीश्चते लक्ष्मीश्च पत्न्यौ “(तै.आर.३-१३-२) श्रियं लोके देवजुष्टामुदाराम्’ (श्री.सू.५) इति तस्य लक्ष्मीपतित्वप्रति-पादनाल्लक्ष्मीपतिरेव नारायणपुरुषशब्दवाच्यः पूर्वोक्त-सर्ववैभवयुक्तः परतत्त्वं चेति श्रोतारो निश्चिनुयुस्ततो नास्माभिश्चिन्ता कार्येति खेदम् मुञ्चन्तीत्यर्थः । तरन्तीत्यनेन मातापितृसहस्रेभ्यो वत्सलतरतया वेदान्तानां तत्खेदस्य दुस्तरत्वं सूचितम् । अनेन लक्ष्म्या वेदान्त-वेद्यत्वं सूचितम् । भोगोपोद्धातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा भोगस्य श्रीविषयस्य भगवत्कृतस्यालिङ्गनचुम्बनालोकनश्लाघनादि- रूपोद्धात उपक्रमः, तस्मिन्केल्या लीलया चुलुकितः प्रसृति-पीतोऽल्पीकृतो वा भगवद्वैश्वरूप्यस्य विश्वशरीरत्वस्य अनन्तभुजवक्त्रनेत्रशीर्षत्वरूपस्य अनुभावो माहात्म्यं यस्यास्सा तथोक्ता स्वालिङ्गनचुम्बनाद्युपक्रम-केल्यपर्याप्तभगवद्विश्वविग्रहविभवेत्यर्थः । तदुक्तं यामुनार्यैः “स्ववैश्व-रूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया”(स्तो.र.३८) इति । वक्ष्यति चायम् “दशशतपाणिपादे"त्यादिना ।

यद्वा भोगस्य श्रीकृतस्वभगवत्स्वरूपरूपगुणविभूत्यनुभवस्य
उपोद्घातकेलीत्यादेः पूर्ववदर्थः । पूर्वयोजनायां स्वानुभवसाधनत्वा-पर्याप्तभगवद्विश्वविग्रहविभवत्वम् । द्वितीययोजनायां स्वानुभवविषया-पर्याप्तभगवद्विश्वविग्रहविभवत्वं चार्थ इति भेदः । पूर्वयोजनायां लक्ष्म्यास्सौन्दर्यातिशयस्सूचितः । द्वितीययोजनायां तद्ज्ञानशक्ति-चातुर्यादिवैलक्षण्यं सूचितम् । सा पूर्वोक्तगुणविशिष्टा भगवत्स्वरूप-निरूपकत्वेन प्रसिद्धा वा । पादत्रयेणापि परत्वमुक्तम् । अथ सौलभ्यमाह – श्रीरिति । स्वेतरैः श्रीयत इति श्रीः । अमृतलहरिधीलङ्घनीयैर् अमृत-लहरीधिया अम्य् अमृततरङ्गा इति बुद्ध्या लङ्घनीयैः प्राप्यैः । लघेर्ग-त्यर्थत्वात् स्वेष्व् अमृततरङ्गबुद्धिजनकैरित्यर्थः । यद्वा अमृतलहरिधीर् अमृततरङ्गबुद्धिस्तदपेक्षया लङ्घनीया त्याज्या यैस्तैः प्रयोजकैस्सर्वे-षामिति शेषः । अमृततरङ्गेभ्योप्यतिमधुरतया सर्वेषाममृततरङ्गाशा-निवर्तकैर् इत्यर्थः । अपाङ्गैः कटाक्षैः । नो ऽस्मान् । आस्तृणीताम् – आच्छादयत्व् अभिषिञ्चत्व् इत्यर्थः । आङ्पूर्वात् “स्तृञ् आच्छादने” (धा. पा.२५३) इत्यस्माद्धातोः श्नाप्रत्यये “ईहल्यघोः”(पा.सू.६-४-१३) इतीत्वे लोडात्मनेपदप्रथमपुरुषैकवचनम् ॥ ४ ॥
श्लोकद्वयप्रार्थितप्रकारेण लक्ष्मीकटाक्षामृतवीचिविशदीकृतविज्ञान-विषयीकृततत्स्वरूपरूपगुणविभूतिर् ब्रह्माद्यशक्यस्तव तद्वैभववैपुल्यं
स्ववाक्फल्गुतां चानुसन्धाय तत्स्तुतिसाहसप्रवृत्तस्य स्वस्य वाक्प्रशस्त्ये स्वस्तीति साभिप्रायमाह –

विश्वास-प्रस्तुतिः

यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्यादयः ।
अप्येवं तव देवि वाङ्मनसयोर्भाषानभिज्ञम् पदं
कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥ ५ ॥

मूलम्

यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्यादयः ।
अप्येवं तव देवि वाङ्मनसयोर्भाषानभिज्ञम् पदं
कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥ ५ ॥

वीरराघवः

यद्यावत्तवेति – हे देवि श्रीरङ्गेश्वरि ! तव वैभवं यद् यत्स्वरूपं
यावद् यावत्परिमाणं तदुचितस्तोत्राय तदुभयानुरूपस्तवनाय “क्रिया- र्थोपपद”….. (पा.सू.२-३-१४) इत्यादिना चतुर्थी । स्पृहा इच्छा दूरे दूरत एव न सम्भवतीत्यर्थः । इच्छा जाताऽपि विफलैव निरवधिकविभवस्तुतेर् अशक्यत्वादित्यर्थः । इच्छादूरे इत्यत्र सम्बन्ध्यनिर्देशात् सर्वेषामिति गम्यते ।
ननु मद्विभवस्य स्तोतुमशक्यत्वे विरिञ्ज्यादयः कथं तुष्टुवु-रित्यत्राह – स्तोतुं क इति । प्राञ्चः प्राचीना नाद्यतनास् तेन ज्ञान-शक्तिवैपुल्यं सूचितम् । विरिञ्चिर् ब्रह्मा “ब्रह्मा ब्रह्मविदाम्वरः”(वि.स.ना.) इति प्रसिद्धविभवश्चतुर्मुख आदिर्येषां ते तथोक्ताः। आदिशब्देन शिवशत- मखादयो गृह्यन्ते । अदश्चेत्यत्र चशब्दो भिन्नक्रमः विरिञ्ज्यादयश्च
इत्यर्थः । ते च वयम् मितप्रज्ञा इत्यर्थः । अद इदं वैभवम् अद-श्शब्देन “यतो वाचः”(तै.आर.२-४-५) इति श्रुत्युक्त-वाङ्मनसागोचरत्वं सूच्यते । स्तोतुं के कियच्छक्तिका इति इदं वचनं जगृहुर् अवदन् न तुष्टुवुरित्यर्थः ।
यद्वा वयं स्तोतुं क इति वचनम् । अदश्च इदं वैभवं च जगृहुः । स्तोतुमशक्यमिति वदन्त एव तूष्णीम् भवितुमशक्ता वैभवं यथाशक्तितुष्टुवुरित्यर्थः । तेन स्तुतावसाकल्यं सूचितम् ।

अप्येवम् एवमपि ब्रह्माद्यशक्यस्तवत्वेऽपि वाङ्मनसयोर् वाक्यचित्तयो- रुपनिषदामपीति शेषः । वाङ्मनसशब्दोऽकारान्तः “अचतुरविचतुर”(पा.सू. ५-४-८८) इति सूत्रेण निपातितः । भाषा भाषणम् । वाक्चित्ताभ्याम् परिच्छेदस् तदनभिज्ञं वाङ्मनसागोचरमित्यर्थः । यद्वा वाङ्मनसयोर्भाषा वाङ्मनसवाचकशब्द स्तदनभिज्ञं तद्वाचकशब्दमेव न जानाति कुतस्ते जानीयात् तद्गोचरत्वं दूरापास्तमिति भावः । तव पदम् पद्यत इति पदं त्वत्स्वरूपम् । कवयितुं वर्णयितुम् । कावाचः कुत्सितवाचः । “ईषदर्थे च”(पा.सू.६-३-१०४) इति कुशब्दस्य कादेशः । अनेन स्तुति-सामग्रीवैकल्यं सूचितम् । प्रयतामहे प्रकृष्टयत्नं कुर्महे अहो साहसि-कत्वम् अस्माकमिति भावः । गिरां स्तुतिवचसाम् प्रशस्त्यै प्रसिद्ध्यै । स्वस्ति मङ्गलद्ध्यै स्यादितिशेषः । स्यादिति काकुर् न स्यादित्यर्थः । अतिसाहसिकप्रयत्नोऽयं न फलतीति हृदयम् । स्तुतिप्रयत्नस्य साहस- कृत्यत्वेऽपि शेषत्वस्वरूपोचितकिञ्चित्काररूपत्वाद् वाक्प्रसिद्ध्यै स्वस्ति भवत्विति प्रार्थनायां वा तात्पर्यम् ॥ ५ ॥
ब्रह्माद्यशक्यस्तवत्वेऽपि श्रियस्तद्गुणविस्तारेण न स्तोतृत्वं स्वस्मि- न्नेव पर्यवस्यतीत्याह –

विश्वास-प्रस्तुतिः

स्तोतारं तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।
यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः
क्षान्त्यौदार्यदयादयो भगवति स्वाम् प्रस्नुवीरन्प्रथाम् ॥ ६ ॥

मूलम्

स्तोतारं तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।
यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः
क्षान्त्यौदार्यदयादयो भगवति स्वाम् प्रस्नुवीरन्प्रथाम् ॥ ६ ॥

वीरराघवः

स्तोतारमिति – हे देवि ! स्तोतव्यस्य स्तुत्यस्य गुणान् यो विस्तृणीते विस्तारयति विपूर्वात् स्तृञ् आच्छादने”(धा.पा.२५३) इति धातोः श्नाप्रत्यये “ई हल्यघोः”(पा.सू.६-४-११३) इतीत्वे त इत्यस्य एत्वे कृते विस्तृणीत इति रूपम् । तं कवयः पण्डिताः । “सङ्ख्यावान् पण्डितः कविः” इत्यमरः (अ.को.२-७५) । स्तोतारं स्तावकम् उशन्ति कथयन्ते । “वश कान्तौ”(धा.पा.१०८०) इत्यस्माद्धातोः “ग्रहिज्या”(पा.सू. ६-१-१६) इति सम्प्रसारणे “झोऽन्तः”(पा.सू.७-१-३)इत्यन्तादेशे उशन्तीति रूपम् ।
ततः गुणविस्तारकस्यैव स्तोतृत्वकथनात् । चेति चकारेण पूर्वश्लोक- सूचितस्वरूपोचितकिञ्चित्काररूपस्तुतिप्रवृत्तिर्हेतुत्वेन समुच्चीयते । ते स्तुतिधुरा त्वद्विषयस्तोत्रभारः । धुराशब्द आकारान्तः हलन्तानाम्
भावन्तत्वम् भागुरिर्मन्यते । मय्येव न विरिञ्ज्यादिषु तेषां श्रुतिमधुर- वाक्त्वादिति भावः । विश्राम्यति पर्यवस्यति स्तोतृत्वं च ममैवोचित-मित्यर्थः ।
कथं त्वया मद्गुणा विस्तीर्यन्ते येन तवैव स्तोतृता स्यादित्यत
आहयस्मादिति । यस्माद् यतो हेतोर् अस्मदमर्षणीयफणितिस्वीकारतो
मत्कठोरवचनविषयीभावतस् ते तव क्षान्त्यौदार्यदयादयः वाग्दोषसहनेन
क्षान्तिर् अयोग्येनापि मया स्वस्तुतिनिर्वर्तनादौदार्यम् । स्तुत्यकरणे
दुःखितस्य मे फणिति स्वीकारेणानुकम्पना दया । आदिशब्देन फणिति-दोषे गुणत्वबुद्धेर्वात्सल्यं चेति गुणाः स्वां स्वकीयाम् । प्रथां सिद्धिम् प्रकाशं वा प्रस्नुवीरन् जनयेयुः । “ष्णु प्रस्रवणे”(धा.पा.१०३८) इत्यस्माद्धातोर् लिङात्मनेपदबहुवचने “लिङस्सीयुट:"(पा.सू.३-४-१०२) सलोपे उवङि झस्यरनादेशेप्रस्नुवीरन् इति रूपम् ॥ ६ ॥
एवं स्वस्य स्तोत्राधिकारम् प्रसाध्य लक्ष्म्यनुग्रहेण स्वसूक्तिसमग्र-ताम् प्रार्थयते –

विश्वास-प्रस्तुतिः

सूक्तिं समग्रयतु नःस्वयमेव लक्ष्मीः
श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।
वैदग्ध्यवर्णगुणगुम्फनगौरवैर्यां
कण्डूलकर्णकुहराः कवयो धयन्ति ॥ ७ ॥

मूलम्

सूक्तिं समग्रयतु नःस्वयमेव लक्ष्मीः
श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।
वैदग्ध्यवर्णगुणगुम्फनगौरवैर्यां
कण्डूलकर्णकुहराः कवयो धयन्ति ॥ ७ ॥

वीरराघवः

सूक्तिमिति – श्रीरङ्गराजमहिषी श्रीरङ्गेश्वरवल्लभा । लक्ष्मीः श्रीः । श्रीरङ्गराजमहिषी लक्ष्मीरिति विशेषणविशेष्याभ्याम् पतिवाल्लभ्यकृतं
स्वविभवसामर्थ्यं सूचितम् । मधुरैः स्वादुभिः प्रियैश्च “स्वादुप्रियौ तु
मधुरौ”(अ.को.३-३-१९) इत्यमरः । कटाक्षैः – अपाङ्गैर् न त्वध्यापनैर्
नोऽस्माकम् । सूक्तिम् – शोभनां वाचम् । स्वस्तुतिं स्वयमेव अस्म- त्प्रयत्नमनपेक्ष्यैव अस्मत्प्रयत्नापेक्षणे शोभनत्वं न सिध्येदिति भावः ।
समग्रयतु समग्रां करोतु सम्पूर्णां निर्वर्तयत्व् इत्यर्थः ।
उत्तरार्धेनोक्तशोभनतामेव विशदयति – वैदग्ध्येति । यामुक्तिं
वैदग्ध्यवर्णगुणगुम्फनगौरवैर् वैदग्ध्येन चातुर्येण वर्णानाम् अक्षराणां
गुणानाम् ओजःप्रसादशय्यापाकादीनां गुम्फनगौरवैर् ग्रथनातिशयैः ।
यद्वा वैदग्ध्यम् अर्थकल्पना वर्णगुणा वर्णधर्माः प्रसादमाधुर्यादयस् तेषां गुम्फनं रचना तद्गैरवैस् तदतिशयैर् निमित्तैः । कवयः पण्डिताः । कण्डूलकर्णकुहराः कण्डूरेषामस्तीति कण्डूलानि मत्वर्थे लच् तथाभूतानि
कर्णकुहराणि श्रोतृविवराणि येषां ते तथोक्ताः श्रवणसकुतूहलश्रुतिविवराः
सन्तः सदा दत्तकर्णा इत्यर्थः । धयन्ति पिबन्ति “धेट् पाने” (धा.पा. ९०२) इत्यस्माद्धातोस् तिङि शप् प्रत्यये अयादेशे “झोऽन्तः”(पा.सू.७-१-३) इत्यन्तादेशे धयन्तीतिरूपम् । धयन्तीति पानोक्त्या सूक्त्याः सुधा-साम्यं सूचितम् ॥ ७ ॥
सङ्ग्रहेणोक्तं विवक्षितोक्तिगौरवं विवृण्वन् स्वस्मै श्रीरेव तद्विस्ता- रयत्व् इति प्रार्थयते –

विश्वास-प्रस्तुतिः

अनाघ्रातावद्यम् बहुगुणपरीणाहि मनसो
दुहानं सौहार्दम् परिचितमिवाथापि गहनम् ।
पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोस्
त्वमेव श्रीर्मह्यम् बहुमुखय वाणीविलसितम् ॥ ८ ॥

मूलम्

अनाघ्रातावद्यम् बहुगुणपरीणाहि मनसो
दुहानं सौहार्दम् परिचितमिवाथापि गहनम् ।
पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोस्
त्वमेव श्रीर्मह्यम् बहुमुखय वाणीविलसितम् ॥ ८ ॥

वीरराघवः

अनाघ्रातेति – हे श्रीः । अनाघ्रातावद्यम् – अनाघ्रातमस्पृष्टमवद्यं
वर्णपदवाक्यगतः श्रुतिकट्वश्लीलप्रक्रमभङ्गादिदोषो यस्य तत् तथोक्तम् । बहूनां गुणानाम् पाकवृत्तिशब्दार्थालङ्कारादीनाम् परीणाहो विशालता-स्यास्तीति तथोक्तम् । मनसः सौहार्दं सन्तोषम्। दुहानं दोग्धृ सम्पूर्णरसमित्यर्थः । अनेन विशेषणत्रयेण काव्यसामान्यलक्षणमुक्तम् । निर्दोषसगुणसरसशब्दार्थयोरेव काव्यत्वात् । परिचितमिव ज्ञातार्थमिव स्थितम् । श्रोतॄणामिति शेषः । अथापि गहनम् अज्ञातार्थबहुलं ध्वनि-प्रधानमित्यर्थः । अनेन उत्तमकाव्यत्वं सूचितम् । “ध्वनिप्रधानता यत्र तदुत्तममुदाहृतम्” इति लक्षणात् ।
पदानां सुप्तिङन्तानां सौभ्रात्रात् स्नेहात् शय्याया इत्यर्थः । “या
पदानाम्परान्योन्यमैत्री शय्येति कथ्यते” इति लक्षणात् । श्रवणयोः श्रोत्रयोः । अनिमिषं निर्निमेषं सावधानं साश्चर्यं वा निषेव्यं सेवितुमर्हम्, ग्राह्यमित्यर्थः । वाण्याः सरस्वत्याः । “गीर्वा-ग्वाणी सरस्वती” इत्यमरः (अ.को.१-६-१) । विलसितम् भाषारूपं विलासं कर्म भावे क्तः । त्वमेव मह्यम् बहुमुखय बहुमुखीकुरु । न त्वहं वाणीम् प्रसादयामि । अनन्यदैवत्वस्वरूपविरुद्धत्वात् । त्वत्प्रा-सादलक्षणराजकुलमाहात्म्यलब्धस्यैव तद्विलसितस्य स्वरसत्वाच्चेति भावः ॥ ८ ॥

स्वप्रार्थनानुगुण्येन लक्ष्मीकटाक्षलब्धवाग्विलासपूर्वं श्रीरङ्गराज-
स्तवे त्रिंशदुत्तराभ्याम् पूर्वोत्तरशतकाभ्यां श्रीरङ्गराजमुच्चैरभिष्टूय एक-षष्ठिश्लोकपरिमितत्वेन ततः शब्दसङ्कोचेप्यर्थपौष्कल्येन, रसपौष्कल्येन सन्दर्भविशेषविशिष्टतया च ततोप्यतिशयितां श्रीस्तुतिं चिकीर्षुः स्वापेक्षया श्रियोऽधिकतया स्तवने श्रीरङ्गराजः कुपितः स्यादिति तत्कोपशान्तये तं श्रियः श्रीःश्रीरङ्गेशयेतिविशेषणविशेष्याभ्याम् प्रसाद्य स्ववाल्लभ्येन चिकीर्षितं सप्रागल्भ्यम् प्रतिजानीते –

विश्वास-प्रस्तुतिः

श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्याम् भगवतीं
श्रियं त्वत्तोऽप्युञ्चैर्वयमिह (भ) फणामः शृणुतराम् ।
दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥ ९ ॥

मूलम्

श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्याम् भगवतीं
श्रियं त्वत्तोऽप्युञ्चैर्वयमिह (भ) फणामः शृणुतराम् ।
दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥ ९ ॥

वीरराघवः

श्रियः श्रीरिति । श्रियः सर्वसमाश्रयणीयायाः श्रीर् आश्रयणीयः श्रिय इति सर्वेषां श्रीसमाश्रयणेन स्वरूपलाभः । श्रीरिति श्रियो भगवत्समाश्र- यणेन स्वरूपलाभश्च सूचितः । तथा श्रिय इति श्रियः स्वव्यतिरिक्तैकोन- सर्वशेषित्वम् । श्रीरितिभगवतः स्वव्यतिरिक्तसर्वशेषित्वं सूचितम् । श्रीरङ्गे दिव्यनगरे श्रीरङ्गाख्ये दिव्यविमाने वा शेत इति श्रीरङ्गेशय सर्वसमाश्रयणोचितसौलभ्यसीमाभूमे! एवं विशेषणविशेष्य पदाभ्यां श्रीरङ्गेशः प्रसादितः । तव च हृद्यामिति साभिप्रायं वचनं स्वेतरसर्व- जनहृद्यस्त्वमुच्चैः फणितः । तव च हृद्यायास्त्वत्तोऽप्युच्चैः फणनमुचित- मिति त्वया न कोपः कार्य इति । हृद्यां हृदयङ्गमाम् भोग्यां वक्षः- स्थलनिवासिनीं वा भगवतीम् – षाड्गुण्यपरिपूर्णाश्रीकाममाहात्म्यादि-युक्तां वा अत एव श्रियम् पुरुषकारत्वेनास्मदाद्याश्रयणीयाम्। त्वत्तोऽप्यु- च्चैर् भवतोऽप्यतिशयेन त्वदपेक्षया श्रियमतिशयितत्वेन त्वं श्रीस्तुतिं करोषि चेद्यथाकुर्यास्ततोऽप्यतिशयेनेतिवार्थः ।
मत्तोऽप्युच्चैः के फणिष्यन्तीत्यत आह – वयमिति । वयं युष्मत्प्र-सादैकलब्धविशदतमज्ञानाः। अनेन स्वप्रयत्नपूर्वकाविशदज्ञानब्रह्मादि- व्यावृत्तिः । वयमिति बहुवचनेन स्वसमानज्ञानश्रीवत्साङ्कमिश्रयतिवर-
यामुनाचार्या गृह्यन्ते । इह त्वत्समक्षमेव फणामः स्तुमः, न तु परोक्षे यत्किञ्चत्प्रगल्भवचनम् ब्रूमः । अत्र स्तुतिर्नाम नाविद्यमानगुणारोपो
विद्यमानयावद्गुणपरिच्छेदो “वा किन्तु यथावज्ज्ञातगुणवर्णनं तत्तथैव क्रियते शृणुतरां सम्यक्छ्रवणं कुर्यास् त्वमेव साक्षीभवेति भावः ।
न केवलं श्रीस्तुतिश्रवणेन ते कोपाभावः प्रत्युत श्रवणसुखेन चक्षु- षोर्वैवश्यं सन्तोषातिशयादपरिमितकञ्चुकस्फुटनहेतुर्गात्रपरिपोषश्च
भवेदित्याह – दृशौ त इत्यादिना । श्रवणतः स्तुतिश्रवणात् ते दृशौ
सुखेन तरले चञ्चले तारके कनीनिके ययोस्ते तथोक्तम् भूयास्ताम् पुनः
किञ्चेत्यर्थः । हर्षोत्कर्षाद् आनन्दातिशयात् । भुजयोर् अधिकरणे
सप्तमी कञ्चुकशतं स्फुटतु प्रथममेककञ्चुकस्फोटे ततोऽपि पृथुत्वे-नापरकञ्चुकधारणे गात्रजृम्भणेन तस्यापि स्फुटने ततोऽपि विपुल-कञ्चुकधृतौ विग्रहविवृद्ध्या अस्यापि स्फोट इत्येव प्रकारेणापरिमित-कञ्चुकस्फोटो भवत्वित्यर्थः । पुनरित्यस्य मुहुरिति वा अर्थः ॥ ९ ॥
प्रतिज्ञातक्रमेण श्रियं स्तोष्यन् मानाधीना मेयसिद्धिरिति न्यायेन
श्रीस्वरूपरूपगुणादिषु सपरिकरां श्रुतिम् प्रमाणयन् अर्थतः श्रीगुणरत्न- कोशाख्यां स्तुतेः सूचयति –

विश्वास-प्रस्तुतिः

देवि श्रुतिम् भगवतीम् प्रथमे पुमाम्सस्
त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।
तद्द्वारपाटनपटूनि च सेतिहास-
सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥ १० ॥

मूलम्

देवि श्रुतिम् भगवतीम् प्रथमे पुमाम्सस्
त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।
तद्द्वारपाटनपटूनि च सेतिहास-
सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥ १० ॥

वीरराघवः

देवीति । हे देवि! प्रथमे पूर्वे “प्रथमचरम”(पा.सू.१-१-३३) इत्यादिना विकल्पेन सर्वनामसञ्ज्ञा । पुमाम्सः वसिष्ठवाल्मीकिपराशरपाराशर्यादि- परमर्षयः । श्रीपराङ्कुशपरकालयतिवरादयश्च । भगवतीं स्वतःप्रमाण-त्वसकलपुरुषार्थप्रतिपादकत्वरूपमाहात्म्ययुक्तां श्रुतिं नित्यं श्रूय- माणां त्रयीम् अनेनापौरुषेयत्वनिर्दोषत्वादीनि सूचितानि । त्वत्सद्गु-णौघास् त्वत्कल्याणगुणगणाः । ओघशब्देन गुणानामानन्त्यं सूचितम् । त एव मणिकोशारत्नराशयः । “कोशोऽस्त्रीसञ्चयेऽपि च” इति रत्नमाला । गुणानामुज्ज्वलत्वमङ्गलावहत्वाभ्याम्मणित्वरूपणं तेषाम् मणिकोशानां गृहम् भाण्डागारं गृणन्ति व्यक्तं कथयन्ति । उपनिषदमित्यनुक्त्वा श्रुतिमिति सामान्यवचनेन पूर्वोत्तरभागात्मक- कृत्स्नवेदेऽपि श्रीवैभवप्रतिपादनं क्रियत इति भावः ।
तथैव “गृणाहि” “घृतवती”(ऋ.वे.६-७०-१) इत्यादिना पूर्वकाण्डे
“सुमज्जानये विष्णवे”(तै.ब्रा.४-४-३-९) “श्रद्धया देवो देवत्वमश्नुते”(तै.ब्रा. ३-१२-३-१) “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”(तै.आर.३-१३-२) “हिरण्यवर्णां हरिणीम्”(श्री.सू.१) इत्यादिना परस्सहस्राणि वाक्यान्य् उत्तरकाण्डे च श्रीवैभवप्रतिपादकानि सन्ति । अत्र त्वत्सद्गुणेति श्रीगुणेत्यस्य मणि-कोशेति रत्नकोशेत्यस्य च सूचनादर्थतः श्रीगुणरत्न-कोशाख्यस्तोत्रनाम सूचितम् ।
इतिहासाः श्रीरामायणादयः । सम्यक् तर्कणं सन्तर्कणं समीचीन तर्क इत्यर्थः । “यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतर:’ (म.स्मृ.१२-१०६) इति स्मृतेः । सन्तर्कणं वेदार्थविचाररूपमीमाम्सा वा । इतिहाससन्तर्कणैस्सहितानि सेतिहाससन्तर्कणानि । स्मृतयो मन्वादिस्मृतयः । पुराणानि श्रीविष्णुपुराणप्रभृतीनि स्मृतयश्च पुराणानि च स्मृतिपुराणानि तान्येव पुरस्सराणि प्रमुखानि येषां तानि तथोक्तानि सेतिहाससन्तर्कणानि च तानि स्मृतिपुराणपुरस्सराणि चेति कर्मधारयः । पुरस्सराणीति लक्ष्मीतन्त्रादीनि द्राविडदिव्यप्रबन्धरूपाणि प्रमाणानि च स ङ्गृह्यन्ते ।
पटूनि च इत्यत्र चकारो भिन्नक्रमः । पुरस्सराणि चेति चस्त्वर्थः । तानि तु तद्द्वारपाटनपटूनि तस्य श्रुतिलक्षणत्वगुणमणिकोशगृहस्य द्वारपाटने कवाटविवृतौ त्वद्गुणवैभवतात्पर्यविवृतौ इत्यर्थः । पटूनि समर्थानि कुञ्चिकारूपाणि गृणन्तीत्यनुषङ्गः । तदुक्तम् – “इतिहास-पुराणाभ्यां वेदं समुपबृम्हयेत् । बिभेत्यल्पश्रुताद्वेदो मामयम् प्रतरिष्यति” (महाभा.आदि.१-२७३) इति श्रुतिं त्वद्गुणौघमणिकोशगृहं स्मृतिपुराणपुरस्सराणि तद्द्वारपाटनपटूनि च गृणन्ति इति यथाश्रुत-मेवान्वयः । इतिहासेषु श्रीरामायणस्य वेदोपबृम्हणत्वं श्रीविभव- प्रतिपादकत्वं च “वेदोपबृम्हणार्थाय तावग्राहयत प्रभुः । काव्यं
रामायणं कृत्स्नं सीतायाश्चरितम् महत्”(रा.बा.का.४-६) ॥ इति तत्रैव
प्रसिद्धम् । महाभारतादेस्तु भगवद्वैभवप्रतिपादने श्रियस्तदन्तर्भावात्
तद्वैभवप्रतिपादकत्वं च सिद्धम् । श्रीविष्णुपुराणस्य श्रीवैभवप्रति-पादकत्वम् “नमामि सर्वलोकानां जननीम्”(वि.पु.१-९-११७) इत्यादिना स्पष्टमेव । एवमन्यत्रापि योजनीयम् ॥ १० ॥
इत्थं श्रीविभवे सपरिकरां श्रुतिम् प्रमाणीकृत्य यावत्परमतं न
निराक्रियते तावत्स्वमतमस्थिरमिति न्यायेन बाह्यकुदृष्टिमतानि निरसितुं तन्मतान्युपक्षिप्य बाह्यप्रभृतयो न मया निरसनीयाः, किन्तु मिथो विरोधात् परस्परमेव प्रतिहता बभूवुर् यतस्तव कटाक्षलक्ष्यतां न गता इति श्रियं सम्बोध्याह –

विश्वास-प्रस्तुतिः

आहुर् वेदान् अ-मानं, कतिचन कति चाराजकं विश्वम् एतद्,
राजन्वत् केचिद् ईशं, गुणिनम् अपि गुणैस् तं दरिद्राणम् अन्ये ।
भिक्षाव् अन्ये सुराजम्, भवम् इति च जडास् ते तलातल्य् अकार्षुर्
ये ते श्रीरङ्ग-हर्म्याङ्गण-कनकलते क्षणं लक्ष्यम् आसन् ॥ ११ ॥

मूलम्

आहुर्वेदानमानं कतिचन कति चाराजकं विश्वमेतद्
राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये ।
भिक्षावन्ये सुराजम् भवमिति च जडास्ते तलातल्यकार्षुर्
ये ते श्रीरङ्गहर्म्याङ्गणकनकलते न क्षणं लक्ष्यमासन् ॥ ११ ॥

वीरराघवः

आहुरिति । हे श्रीरङ्गहर्म्याङ्गणकनकलते, श्रीरङ्गे पुरे हर्म्यस्य
दिव्यविमानस्य श्रीरङ्गाख्यस्य दिव्यविमानस्य वा अङ्गणमजिरम् पुरःप्रदेशः । “अङ्गणं चत्वराजिरे”(अ.को.२-१-१३) इत्यमरः । तस्य कनकलते तत्रोद्भूत-कनकलतेवस्थिते ! कनकेत्यनेनौज्वल्यलावण्य-सौन्दर्यानि सूचितानि, लतेत्यनेन सौगन्ध्यसौकुमार्ययौवनानि सूचितानि । ये पुरुषास् ते तव लक्ष्यं जायमानकटाक्षविषयाः । क्षणं क्षणमपि जन्मपरम्परासु कदापि नासन् नाभवन् “जायमानं हि पुरुषं यम् पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः” । (महाभा.मो.प.३५८-७३) इति वचनं लक्ष्मीजायमानकटाक्ष-स्याप्युपलक्षणम् । तत्कटाक्षतदुपेक्षयोर् इष्टानिष्टसाधनत्वं स्पष्टं श्रीविष्णुपुराणे “सः श्लाघ्यः स गुणी धन्यः स
कुलीनः स बुद्धिमान् । स शूरः स तु विक्रान्तो यं त्वं देवि ! निरीक्षसे ! सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे”(वि.पु.१-९-१३१,१३२) ॥ इति जडा: –
तत्त्वज्ञानहेतुत्वतत्कटाक्षविषयराहित्यादेव जडा अज्ञानान्यथाज्ञान-
विपरीतज्ञानव्याकुलास्ते । कतिचन सुगतचार्वाकादयो वेदबाह्यास्
तेषामव्यपदेश्यत्वात् कतिचनेत्युक्तिः । एवं कतिचेत्यादिष्वपि बोध्यम् । वेदान् अपौरुषेयत्वनित्यत्वनिर्दोषत्वाखिलपुरुषार्थाऽऽवेदकत्वादिभिः
प्रमाणतमान् अमानम् अप्रमाणम् आहुरिति साहसिकत्वं सूचितम् ।
कतिचन कापिला एतत्क्षेत्रज्ञा ज्ञातोपादानकविविधविचित्र-
भूधरसमुद्रादिरूपम् ब्रह्मादिपिपीलिकान्तं च विश्वं जगद् अराजकं
राजशून्यमनाथमाहुरित्यनुषङ्गः । ते हि प्रकृतिपुरुषावेव जगत्कारणम्
प्रकृतिः पुरुषसन्निधानात्स्वव्यतिरिक्तत्रयोविंशतितत्त्वात्मना विकुरुते ।
प्रकृतिपुरुषाभ्यां सह पञ्चविंशतितत्त्वान्येव सन्ति तदतिरिक्त ईश्वरो
नास्तीत्युपगच्छन्ति, उदाहरन्ति च “मूलप्रकृतिरविकृतिर्महदाद्याः
प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः”
(सां.का.३) इति ।
केचित् काणादा राजन्वत् सुराजकम् आनुमानिकनिमित्तमात्रेश्वरम् “सुराज्ञिदेशे राजन्वान्” इत्यमरः (अ.को.२-१-१२) ।
विश्वमित्यनुषङ्गः । आहुरिति सर्वत्रान्वेति ।
अन्ये मृषावादिन ईशं नियन्तारं गुणिनमपि “परास्य
शक्तिर्विविधैव श्रूयतेस्वाभाविकौ ज्ञानबलक्रिया च”(श्वे.उ.६-८) “यस्सर्वज्ञ- स्सर्ववित्”(मुं.उ.२-२-७) अपहतपाप्मा………….सत्यकामःसत्यसङ्कल्पः”(छां.उ.८-१-१) “तस्मिन्यदन्तस्तदन्वेष्टव्यम्”(छां.उ.८-१-५) “तस्मिन्कामाः समाहिताः”(छां.उ.८-१-५) “काम्यन्त इतिकामाः कल्याणगुणाः”(श्री.भा.१-१९९) इति भाष्यम् । “तेजोबलैश्वर्यमहावबोध-
सुवीर्यशक्त्यादिगुणैकराशिः”(वि.पु.६-५-८५) “सङ्ख्यातुं नैव शक्यन्ते गुणा दोषाश्च शार्ङ्गिणः । आनन्त्यात्प्रथमोराशिरभावादेव पश्चिमः” ॥
इत्यादिपरस्सहस्रवेदान्तस्मृतीतिहासपुराणागमादिप्रसिद्धापरिमितगुण-
सागरमपि तमेव सर्वप्रमाणविरोधेन गुणैर्दरिद्राणं शून्यम् “दरिद्रा दुर्गतौ” (धा.पा.१०७३) इत्यतश् चानशि दरिद्राणमिति रूपम् । आहुरित्यन्वयः ।
ते हि निर्गुणश्रुतितात्पर्यमजानन्तः सजातीय-विजातीय-स्वगतभेद- शून्यं निर्गुणमेव ब्रह्म तदेवाविद्यापरिकल्पितं सगुणत्वमनुभवतीति
कथयन्ति । तेषाम् “स्वाभाविकी ज्ञानबलक्रिया च”(श्वे.उ.६-८) इत्यादि-भिर्विरोधः स्फुट एव । निर्गुणश्रुतितात्पर्यं वर्णितं श्रीवत्साङ्कमिश्रैः
“दूरे गुणास्तव तु सत्त्वरजस्तमाम्सि तेन श्रुतिः प्रथयति त्वयि निर्गुण-त्वम्”(श्रीवै.स्त.४९) इति ।
अन्ये शैवाः । भिक्षौ स्वकुक्षिपूरणेऽप्यशक्ते भिक्षुके कपालिनीत्यर्थः । सुराजे भवं सुराजत्वम् । “कर्तृकर्मणोश्च भूकृञोः”(पा.सू.३-३-१२७) इति भूधातोः खच्प्रत्यये कृते भावे सुराजम् भवमिति रूपम् । आहुरिति हेलनम् । “ब्रूञ् व्यक्तायां वाचि”(धा.पा.१०४४) इत्यस्माद्धातोः “ब्रुवः पञ्चानाम्”(पा.सू.३-४-८४) इत्यादिसूत्रेण आहादेशे लिट्परस्मैपदबहु- वचनस्य झेरुसादेशे च कृते आहुरिति रूपम् । इत्य् उक्तप्रकारेण तलैश्च तलैश्च प्रहृत्येदबहु युद्धम् प्रवर्तते इति तलातलि तलप्रहारम् अकार्षुर् अकुर्वन् मिथ इति शेषः । इति चेत्यत्र चकारेण गुणगुण्यभेदमुक्तितार-
तम्यवादादिना केचन तलातल्यकार्षुरिति ते च सङ्गृह्यन्ते ॥ ११ ॥

त्वत्कटाक्षविषयताविधुरा मिथः प्रतिहता इत्युक्त्वा तद्विषयत्व-भाग्यशालिनस् त्वन्महिमानमनुभवन्तीत्याह –

विश्वास-प्रस्तुतिः

मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसि निगूढं लक्ष्मि ! ते वीक्षमाणाः ।
निधिमिव महिमानम् भुञ्जते येऽपि धन्या
ननु भगवति ! दैवीं सम्पदं तेऽभिजाताः ॥ १२ ॥

मूलम्

मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसि निगूढं लक्ष्मि ! ते वीक्षमाणाः ।
निधिमिव महिमानम् भुञ्जते येऽपि धन्या
ननु भगवति ! दैवीं सम्पदं तेऽभिजाताः ॥ १२ ॥

वीरराघवः

मनसीति । भगवति सकलकल्याणगुणसम्पन्ने ! ननु लक्ष्मि हे
श्रीः! धन्यास् त्वत्कटाक्षविषयत्वरूपभाग्यवन्तःयेऽपि ये केचन पुरुषाः ।
येऽपीत्यनेन तेषामतिशयो वाचामगोचर इति सूचितम् । भक्तिसिद्धाञ्ज-नेन भक्तिर् युष्मत्स्वरूपरूपगुणविभूतिष्व् अनितरसाधारणप्रावण्यं सिद्धा-ञ्जनमिव गूढार्थप्रकाशकाञ्जनविशेष इव यस्य तेन भक्तिविशदीकृते-नेत्यर्थः । अत एव मनसि हृदये । विलसता प्रकाशमानेन अक्ष्णा दृष्ट्या ज्ञानेनेत्यर्थः । श्रुतिशिरसि वेदान्ते श्रुतिशिरसीति जात्येकवचनं श्रुतिशिरस्वित्यर्थः । निगूढं नितरां गूढं वेदरहस्यं वस्तुत्वादिति-भावः । ते तव महिमानं स्वरूपरूपादिविभवम्, भक्तिसिद्धाञ्जनेन भक्ति- युक्तं रचनायुक्तं सिद्धाञ्जनं सिद्ध्यञ्जनं यस्य तेन तथोक्तेन अत एव विलसता विशेषप्रकाशमानेन अक्ष्णा चक्षुषा श्रुतिशिरसि श्रवणकोणे निगूढं नितरां गूढम् परश्रवणानभिज्ञं रहस्योपदिष्टमित्यर्थः । शिरसि निगूढमित्यनेन निधेः पर्वतशिरोनिगूढत्वमपि सूच्यते । तथाभूतं निधि- मिव वीक्षमाणास्सन्तः । भुञ्जते अनुभवन्ति ।
निधिपक्षे भुक्तिर्धनविनियोगः महिमपक्षे तदनुसन्धानं वेदितव्यम् ।
ते पुरुषा दैवीं सम्पदम् अभिमोक्षहेतुभूतदैवसम्पदमभिमुखीकृत्य दैव-सम्बन्धिनी सम्पद्दैवी देवा भगवदाज्ञानुवर्त्तनशीलास्तेषां सम्पत् सा च भगवदाज्ञानुवृत्तिरेव तामभिमुखीकृत्य जाता उत्पन्ना भवन्तीति शेषः । कार्यात्कारणमनुमीयते इति भावः । भगवति ! लक्ष्मि ! ते दैवीं सम्पदम् अभिजाता ननु सम्पदुद्देशेनोत्पन्ना हीति वान्वयः ।
यथा निधिसम्पदनुभावकभाग्यवत्तया तदुद्देशेनोत्पन्ना एव निध्यञ्ज- नाक्तदृशः पर्वतादिनिगूढं निधिं वीक्षमाणास्तमनुभवन्ति तथा दैव- सम्पदुद्देशेनोत्पन्ना एव भक्तिसिद्धाञ्जनस्फुरत्प्रबोधदृशा श्रुतिशिरोनि-गूढं त्वन्महिमानं विलोक्यानुभवन्तीति भावः ।
अत्र श्रुतिशिरसि निगूढं निधिमिव दैवीं सम्पदमिति पदैः “तं
दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठम् पुराणम्’ (कठ.उ.३-१२) “तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः” (छां.उ.८-३-२) “दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता”(भ.गी.१६-५) ॥ इति श्रुतिस्मृतिप्रमाणानि स्मारितानि ॥ १२ ॥
प्राधान्येन श्रीसूक्तस्य श्रीसमृद्धिप्रतिपादकत्वं दर्शयन् पुरुषसूक्ता- देरपि श्रीसमृद्धिपरत्वं दर्शयति –

विश्वास-प्रस्तुतिः

अस्येशाना जगत इति ते धीमहे यां समृद्धिं
श्रीः श्रीसूक्तम् बहुमुखयते तां च शाखानुशाखम् ।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तस्
तं च त्वत्कम् पतिमधिजगावुत्तरश्चानुवाकः ॥ १३ ॥

मूलम्

अस्येशाना जगत इति ते धीमहे यां समृद्धिं
श्रीः श्रीसूक्तम् बहुमुखयते तां च शाखानुशाखम् ।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तस्
तं च त्वत्कम् पतिमधिजगावुत्तरश्चानुवाकः ॥ १३ ॥

वीरराघवः

अस्येति – “अस्येशाना जगतः”(तै.सं.४-४-१२) इति श्रुत्यनुवादः ।
हे श्रीः ! विष्णुपत्नि ! अस्य जगत ईशाना ईश्वरीत्यनया श्रुत्या ते तव
यां समृद्धिम् ऐश्वर्यम् अधीमहे अधीतां कुर्महे । अधिपूर्वात् “इङ्
अध्ययने”(धा.पा.१०४६) इति धातोरुत्तमपुरुषबहुवचनम् । तां समृद्धिं चेति चकारेणाधिकाञ्च समृद्धिम् । श्रीसूक्तम् – “हिरण्यवर्णां हरिणीम्”
इत्यादिकं शाखानुशाखम् । शाखानुगता शाखा यस्मिन्कर्मणि तद्यथा
भवति तथा सर्वशाखावच्छेदेनेत्यर्थः । बहुमुखयते बहुप्रकारम् प्रतिपाद-यति । यद्वा “इदं हि पौरुषं सूक्तं सर्ववेदेषु पठ्यते” इत्युक्तप्रकारेण श्रीसूक्तमपि शाखानुशाखं स्थितमिति शेषः । सर्वासु वेदान्तशाखा-स्वधीतं सत् त्वत्समृद्धिम् बहुमुखयते इत्यर्थः ।तथाहि-**
“हिरण्यवर्णाम्”** – हिरण्यस्य वर्ण इव वर्णो यस्यास्तां तद्वत्पीतभास्व- रविग्रहवर्णाम् अनेन विग्रहस्य निर्मलत्वप्रतीत्या हेयप्रतिभटत्वं सूचितम् । यद्वा हिरण्यमिव स्पृहणीयो वर्णः श्रीरिति शब्दो यस्यास्तां श्रीशब्दो हि षोढा व्युत्पत्तिसूचितत्वेन सर्वविधोपकारकस्ववाच्यवस्तुतया “शेष एष इति शेषताकृतेः प्रीतिमानहिपतिस्स्वनामनि” इत्युक्त शेषशब्द इव स्पृहणीयतमः ।**
“हरिणीम्”** – सुवर्णप्रतिमां तामिवौज्वल्यसौन्दर्यलावण्यवतीम्।
यद्वा हरिणीम् मृगीं तद्वद्विशाललोचनाम् । “योषिद्वृत्ताप्सरोभेदः सुवर्णप्रतिमा मृगी । हरिताश्च हरिण्यश्च स्युः” इति नानार्थरत्नमाला । हरिं नयति चेतनामिति चेतनानाम् भगवदाश्रयणे पुरुषकारभूतां वा हरिणीम् ।

“सुवर्णरजतस्रजाम्” – तत्तद्दिव्यावयवोचितसुवर्णरजतादिमयदिव्य-
भूषणकलापाम् । “आबन्तत्वं हलन्तानाम्” इति भागुरिवचनात् स्रजा- मित्याबन्तत्वम् ।

“चन्द्राम्” – मुखे चन्द्रसदृशीम् आह्लादिनीं वा । “चद्य् आह्लादने”(धा.पा.६८)इति धातोः “इदित”(पा.सू.७-१-५८) इति नुमागमे औणादिके रन्प्रत्यये “अजाद्यत”(पा.सू.४-१-४) इति टाप्यमि च चन्द्रामिति रूपम् ।**
“हिरण्मयीम्”** – “तस्मिन्कामास्समाहिताः” इतिवत् हिरण्यस्पृहणीय-
कल्याणगुणगणप्रचुरां हिरण्यप्रभृतिसकलधनप्रचुरां वा ।**
“लक्ष्मीम्”** – भगवतश्चेतनानां च सम्पदम् । यद्वा लक्ष्माण्यु-त्तमस्त्रीलक्षणान्य् अस्यास्सन्तीति लक्ष्मीस्ताम् । “चिन्हं लक्ष्म च लक्षणम्” इत्यमरः(अ.को.१-३-१७) ।**
“अनपगामिनीम्”** – वात्सल्यातिशयेन दोषभूयस्त्वेऽप्यविमुक्तचेतन-जाताम् । भगवन्नित्यानपायिनीं वा ।**
“अश्वपूर्वाम्”** – अश्वाः पूर्वे प्रथमप्राकाराजिरस्थितायस्यास्ताम् ।**
“रथमध्याम्”** – रथा मध्यप्रकाराजिरस्था यस्यास्ताम् ।**
“हस्तिनादप्रबोधिनीम्”** – हस्तिनां ततोऽपि तृतीयप्रकाराजिर-
वर्त्तिनां दन्तिनां नादैर् बृम्हितैः प्रबोधिनीं जागरणशीलां लक्ष्मी- दिव्यनगरे प्रथमप्राकारावृतवीथ्यामश्वाः, द्वितीयप्राकारावृतवीथ्यां रथाः, तृतीयप्राकारावृतवीथ्यां हस्तिनश्च निवसन्ति । तत्र हस्तिनां तृतीय-प्राकारान्तः स्थिततया तेषां लक्ष्मीदिव्यभवनसान्निध्यात्तन्नादैः सुप्रातः प्रबुद्धा भवतीत्यर्थः । अनेन तस्या निरतिशयैश्वर्य सूचितम् । यद्वा “कोणपत्रगजैर्हेमकमलैरमृतोदकैः । सम्भृत्तैस्तर्प्यमाणां ताम् बोध्य-मानां च तैर्गजैः” इति स्वायम्भुववचनरीत्या स्वासनपद्मदलस्थितहस्ति-नादैरहरहःप्रबुद्ध्यमानाम् ।**
“श्रियम्”** एवं निरङ्कुशैश्वर्येऽपि चेतनरक्षणतृष्णया भगवन्तमा-श्रिताम् । तत्फलमाह –**
“देवीम्”** इति । देवयति क्रीडयति कान्तमिति देवी! ताम् भगवतो भक्तदोषालक्ष्यीकरणाय तस्य क्रीडापारवश्यमापादयन्तीमित्यर्थः । तदयं श्रीपराशरभट्टार्योऽपि वक्ष्यति – “किमेतन्निर्दोषः क इह जगति”(श्रीगु.र. को.५२) इत्यादिना ।**
“काम्”** कं सुखमस्या अस्तीति काम् । सुखरूपाम् । अर्श आदि- त्वान्मत्वर्थीयोऽच्प्रत्ययः । सर्वानुकूलस्वभावामित्यर्थः । तत्स्वभावमेव विशदयति –**
“सोत्स्मिताम्”** इति । उद् अतिशयितं स्मितम् उत्स्मितम्
उत्स्मितेन सह वर्तत इति सोत्स्मिता तां निस्सहापराधजननिश्शङ्क-संश्रयणाय नित्यव्यक्तमन्दहासाम् । अनेनानुग्रहमयीत्वं सूचितम् । तत्कार्यमाह –**
“हिरण्य”** इति । “हिरण्यप्राकाराम्” “अजायमानो बहुधा विजायते” (तै.आर.३-१३-१) “स उ श्रेयान्भवति जायमानः”(ऋ.वे.३-८-४ तै.ब्रा.३-६-१) इतिवत् । “देवत्वे देवदेहेयम् मनुष्यत्वे च मानुषी” । “राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि”(वि.पु.१-९-१४५) ॥ “अन्येषु चावतारेषु विष्णोरेषानपायिनी”(वि.पु.१-९-१४४) ॥ इति । “इच्छाकृतोज्ज्वलानेक- भगवदभिमतानुरूपविग्रहाम् । हिरण्मयप्राकारपरिवृतानन्दमयमहामणि-मण्डपान्तर्निवासिनीम्” वा ॥**
“आर्द्राम्”** – अनुकूलविषये दयार्द्रदृशम् अनुकूलतेजसं वा ।**
“ज्वलन्तीम्”** – प्रतिकूलविषये ज्वलन्तीं तदभिभावकतेजोयुक्ताम् ।
“नित्यानुकूलमनुकूलनृणाम् परेषामुद्वेजनं तव तु तेज उदाहरन्ति”(श्रीवै. स्त.५६) इति श्रीवत्साङ्कश्रीसूक्तिः श्रीविषयेऽपि समाना । प्रतिकूलत्वं च प्रातिकूल्यकर्तृबुद्ध्या बोद्ध्यम् ।**
“तृप्ताम्”** – स्वकृतेन भगवत्स्वरूपरूपगुणविभूत्यनुभवेन तत्संश्लेष- जनितानन्देन वा तृप्ताम् ।**
“तर्पयन्तीम्”** – भगवत्कृतस्वरूपाद्यनुभवेन स्वसंश्लेषसुखेन वा तं तर्पयन्तीम् । स्वस्वकान्तोभयस्वरूपरूपगुणविभूत्यनुभवप्रापणेन
संश्रिताम्स्तर्पयन्तीं वा । “आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ’”!
(भ.गी.७-१६) इत्युक्तचतुर्विधाधिकारिणस् तत्तदभिलषितप्रापणेन तर्प- यन्तीं वा ।**
“पद्मे स्थिताम्”** – स्वसौन्दर्यसौगन्ध्यसौकुमार्यानुगुणसुन्दर-सुगन्धसुकुमारसरसिजासनासीनाम् ।**
“पद्मवर्णाम्”** – “नारीणामुत्तमा” वधूर् इत्युक्तप्रकारेणोत्तमकान्ता-
त्वेन पद्मारुणपाणिपादतलप्रान्तलोचनाम् पद्मसमविग्रहवर्णा वा ।**
“श्रियम्”** – सर्वैराश्रयणीयाम् ।**
“चन्द्राम्”** – चन्दयत्यानन्दयति चेतनानीश्वरं च स्वगुणैरिति
चन्द्रां ताम् ।**
“प्रभासाम्”** – भासो भासनं तदानन्दजनितहर्षसम्भूत प्रकृष्ट-कान्तिम् “अभिषिच्य तु लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्य-स्तदा रामो विज्वरः प्रमुमोद ह”(रा.बा.का.१-८५) इतिवत् ।**
“यशसाज्वलन्तीम्”** – यशसासंश्रितानां सर्वाभीष्टप्रापणकीर्त्या
ज्वलन्तीम् । सोपबृम्हणश्रुत्या लोके च प्रकाशमानाम् ।**
“श्रियम्”** – जगदगुणैर्योजयन्तीम् ।**
“देवजुष्टाम्”** – देवे नारायणे “दिव्यो देव एको नारायणः”(सुबालो. ६-१) इति श्रुतेः । जुष्टाम् प्रीताम् प्रेमसम्पन्नां देवैर्ब्रहादिभिस्तत्तदभि-
लषितलाभाय जुष्टां सेवितां वा । “जुषी प्रीतिसेवनयोः”(धा.पा.१२८९) इत्युभयत्र धातुः ।**
“उदाराम्”** – काङ्क्षाधिकदातृत्वलक्षणनिरतिशयौदार्याम् ।**
“ताम्”** – उक्तवैभवयुक्ततया सर्ववेदान्तप्रसिद्धाम् ।**
“पद्मनेमीम्”** – नेमिः सुदर्शनम् । “पवित्रं नेमिर्लोकद्वारं सुदर्शनम्” इति निघण्टुः । पद्मं नेमिरिवयस्यास्तां चक्राकारविकसित-पद्मपाणिमित्यर्थः। यद्वा पद्ममेव नेमिर्ननयनसाधनं यस्यास्ताम् । “नियो मिः”(उ.सू.४९२) इत्यौणादिको मिप्रत्ययः । स्वकरस्थकमलेना-श्रितानामनिष्टमपनीय सर्वमिष्टमुपनीय स्वचरणाम्बुजे तान् प्रापयन्ती-मित्यर्थः । एवमादिप्रकारेण श्रीसूक्तं श्रीसमृद्धिम् बहुमुखयत इति बोध्यम् ।

ननु “देविश्रुतिम्” – इत्यादिना मत्समृद्धेः सर्वश्रुतिवेद्यताम् प्रतिज्ञाय
“अस्येशाना जगतः…… श्रीसूक्तम् बहुमुखयत” इति पूर्वकाण्डस्थयत्कि-ञ्चिद्वाक्यस्य श्रीसूक्तस्य च मत्समृद्धिप्रतिपादकत्वमुपपादितम् । तावता पुरुषसूक्तादिरूपायाः श्रुतेः कथम् मत्समृद्धिपरत्वमित्यत आह ईष्ट इति ।
पौरुषे सूक्ते पुरुषसूक्ताख्योपनिषदि कश्चित्पुरुषो जगत ईष्टे, जगत इति कर्मणि षष्ठी, जगन्नियमयतीत्यर्थः । “ईश ऐश्वर्ये”(धा.पा.१०२०)
इत्येतस्माद्धातोरदादिकाच्छपो लुकि लटस्तङि तकारस्यैत्वे “व्रश्च”(पा.सू. ८-२-३६) इति षत्वे ष्टुत्वे च ईष्ट इति रूपम् । अयं चार्थानुवादः “पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वस्येशानः”(पु.सू.२) इत्येव श्रवणात् । इति य उक्तस् तं तत्प्रतिपादितं चेति चकारेण महानाराय-णमहोपनिषदादिप्रतिपादितं चेति लभ्यते । पुरुषमिति शेषः ।

उत्तरोऽनुवाकः । अभ्द्यः सम्भूतानुवाकः । चेति चकारेण “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’(तै.आर.३-१३-२) “सुमज्जानये विष्णवे”(तै.ब्रा. ४-४-३-९) “श्रद्धया देवो देवत्वमश्नुते”(तै.ब्रा.३-१२-३-१) इत्यादि वेदान्तवाक्य-जातं च सङ्गृह्यते । तञ्च त्वत्कं तावकम् । पतिं स्वामिनम् । अधिजगौ अधिकं गायति स्म । त्वत्पतित्वकृतसमृद्धिम् प्रत्यपाद-यदित्यर्थः । ततश्च तस्य त्वदधीनसमृद्धिकत्वात्तत्समृद्धिपराणाम् पुरुष-सूक्तादीनां त्वत्समृद्धिपरत्वमिति साधूक्तम् । तस्य त्वदधीनसमृद्धिक-त्वं च वक्ष्यति “त्वदायत्तर्दित्वेऽप्यभवदपराधीनविभवः” इति ।

अयम् भावः – पुरुषसूक्तनारायणमहोपनिषदादि प्रतिपादितस्य
महाविभवस्य भगवतो “वेदाहमेतम् पुरुषम् महान्तमादित्यवर्णं तमसः” (पु.सू.१६) इति पुरुषसूक्ततुल्यानुपूर्व्यवगतदैवतैक्योऽभ्द्यः सम्भूतानुवाको “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”(तै.आर.३-१३-२) इति तदतिरिक्तवेदान्तवाक्य-जातं च “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”(तै.आर.३-१३-२) “सुमज्जानये विष्णवे”(तै.ब्रा.४-४-३-९) “श्रद्धया देवो देवत्वमश्नुते”(तै.ब्रा. ३-१२-३-१) इत्यादिप्रकारेण च तस्य लक्ष्मीपतित्वम् प्रत्यपादयत् । तद्वैभवं सर्व लक्ष्मीपतित्वप्रयुक्तमवगमयतीति तत्समृद्धिपरा सर्वापि श्रुतिः श्रीसमृद्धिपरैव ॥ १३ ॥

अत्यादरेणोपनिषत्प्रतिपाद्यतां वदन्नेव न केवलमुपनिषत्त्वद्वैभवम्
प्रतिपादयति, किन्त्व् इतिहासादयोपीत्याह –

विश्वास-प्रस्तुतिः

उद्बाहुस्त्वामुपनिषदसावाहनैकानियन्त्रीं
श्रीमद्रामायणमपि परम् प्राणिति त्वञ्चरित्रे ।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैर्
निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥ १४ ॥

मूलम्

उद्बाहुस्त्वामुपनिषदसावाहनैकानियन्त्रीं
श्रीमद्रामायणमपि परम् प्राणिति त्वञ्चरित्रे ।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैर्
निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥ १४ ॥

वीरराघवः

उद्बाहुरिति – हे अस्मज्जननि ! असौ उपनिषदेकैव श्रीसूक्तादि रूपावैतालिक इव त्वमेव जगत्स्वामिनीति शपथं कुर्वाणेव वा उद्बाहुर् उद्यतबाहुः सती त्वां नियन्त्रीं जगत्स्वामिनीम् । आह किन्तु श्रीमद्रामायणमपि त्वञ्चरित्रे परं तव चरित्रे सत्येव प्राणिति जीवति तव चरित्रप्रतिपादनरूपधारकेणैव जीवतीति भावः । यद्वा परमिति क्रिया- विशेषणं सोत्कर्षमित्यर्थः । त्वञ्चरित्रे इत्यधिकरणे सप्तमी । तथा च रामादिचरित्रे प्राणिति जीवनमात्रं धत्ते । त्वञ्चरित्रे तु परम् प्राणिति सोत्कर्ष जीवतीत्यर्थः । अतिशयितजीवनस्यैव फलत्वादिति हृदयम् । प्रपूर्वात् “अन प्राणने”(धा.पा.१०७०) इत्यस्माद्धातोः “रुदादिभ्यः सार्व- धातुके”(पा.सू.७-२-७६) इति इटि णत्वे च कृते प्राणिति इति रूपम् ।

त्वञ्चरित्रे परम् प्राणितीत्यनेन “काव्यं रामायणं कृत्स्नं सीतायाश्चरितम् महत्”(रा.बा.कां.४-६) इति वाल्मीकिवचनं स्मारितम् । सीताचरितमहत्त्वं च तत्पुरुषकारोपयुक्तकृपापारतन्त्र्यानन्यार्हत्वप्रति-पादनेन । कृपाप्रकाशनं रावणापहारकृते भगवता सीतायाः प्रथमवियोगे सुस्पष्टम् । तथा हि रावणवधानन्तरं रामविजयरूपप्रिया-ख्यापकतया सन्निहितान्महोपकारात्स्वस्यामार्द्रापराधाश्चित्रवधार्हाराक्षसीर्दृष्ट्वातदपरा- धानुगुणं चित्रवधं कर्तुमुद्यतान्मारुतेः “पापानां वा शुभानां वा वधा- र्हाणाम् प्लवङ्गम । कार्यं करुणमार्येण न कश्चिन्नापराध्यति”(रा.यु. कां.११३-४५) ॥ इत्याद्युपदेशेन तासां सम्रक्षणान्महती कृपा प्रकाशिता । स्वयं रावणगृहे बन्दीभूय बन्दीकृतसुरसुन्दरीविमोचनाद्वा महती कृपा प्रकाशिता । द्वितीयविश्लेषे भर्तृनियमनानतिक्रमणेन वाल्मीक्याश्रमे तस्या निवासात्पारतन्त्र्यम् प्रकाशितम् । तृतीयविश्लेषे पतिपरित्यक्तायास्तस्याः पृथगाश्रयानवलम्बेन भूमौ प्रवेशादनन्यार्हत्वम् प्रकाशितमिति कृत्स्न-स्यापि श्रीरामायणस्य सीताचरितत्वं सिद्धम् । यतमे ये स्मर्तारः – स्मृतिप्रणेतारः पराशरादयः । ततमेऽपि च तेऽमि । अपिचेत्येकम् पदम् । यत्तच्छब्दौ डतमच् प्रत्ययान्तौ सर्वनामसञ्ज्ञौ । वेदान् तत्त्वहितपुरुषा-र्थवेदकतया वेदशब्दवाच्यान् आम्नायान् सेतिहासैर् इतिहाससहितैर् इतिहासशब्देन भारतादिर्गृह्यते, श्रीरामायणस्य पूर्वमेव निर्देशात् । पुराणैः
श्रीविष्णुपुराणादिभिः । त्वन्महिम्नि तव विभवे प्रमाणम् भावप्रधानोयं
निर्देशः । प्रमाणताम् इत्यर्थः । निन्युर् नयन्ति स्म । वेदानां त्वन्म- हिमवेदकतया तत्प्रमाणतां स्मृतीतिहासपुराणैः पराशरादयो अदर्शय-न्नित्यर्थः । निन्युरिति नियो द्विकर्मकत्वात्कर्मद्वयम् ॥ १४ ॥

इत्थं लक्ष्मीविभवे सपरिकरम् प्रमाणमुपन्यस्य तत्प्रतिपन्नं
तदैश्वर्यमाह –

विश्वास-प्रस्तुतिः

आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकाद्
ऐश्वर्यं यदि होत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये ।
तुङ्गम् मङ्गलमुज्ज्वलं गरिमवत्पुण्यम् पुनः पावनं
धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषा विप्रुषः ॥ १५ ॥

मूलम्

आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकाद्
ऐश्वर्यं यदि होत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये ।
तुङ्गम् मङ्गलमुज्ज्वलं गरिमवत्पुण्यम् पुनः पावनं
धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषा विप्रुषः ॥ १५ ॥

वीरराघवः

आकुग्रामेति – हे श्रीरङ्गभर्तुः प्रिये श्रीरङ्गराजवल्लभे ! आकु- ग्रामनियामकात् कुग्रामनियामकमारभ्य । कुग्रामो ग्रामटिका, पल्ली- त्यर्थः । सर्वनिर्वाहकात् सर्वलोकशासितुः । आविभोरपि ब्रह्मपर्यन्तम् ।
उत्तरोत्तरगुणम् उत्तरोत्तरातिशयितम् । यदैश्वर्यमस्ति तुङ्गम् उन्नतम् मेर्वादि, मङ्गलं चन्दनकुसुमादि । उज्ज्वलम् मणिद्युमणिदीपादि । गरिमवद् गुरुत्वगुणयुक्तं हिमवन् मन्दरादि । पुण्यम् परलोक-साधनभूतं यज्ञादि । पुनः भूयः पावनम् पवित्रीकुर्वत् कावेरीप्रभृति । धन्यम् भाग्यफलभूतं नवनिधिरूपं चेति यदैश्वर्यमस्ति तत्पूर्वोक्तं कुग्रामाधिपप्रभृति स्रवप्रभुपर्यन्तैश्वर्यम् । अदश्च इदं तुङ्गाद्यैश्वर्यम् । चेति चकारेणानुक्तमन्यदप्यैश्वर्यम् । ते तव, वीक्षणभुवः कटाक्षकन्द- लिताः पञ्च वा षड्वामानं येषां ते पञ्चषाः । “सङ्ख्याव्ययेति” (पा.सू.४-१-२६) सूत्रेण बहुव्रीहिसमासे “बहुव्रीहौ सङ्ख्येये”(पा.सू.५-४२३) इत्यादि सूत्रेण डचि “टे:"(पा.सू.६-४-५५) इति टिलोपे पञ्चषा इति रूपम् । विप्रुषः बिन्दवः लेशा इत्यर्थः । लोके समीचीनं सर्व वस्तु त्वत्कटाक्षलेशायत्तमित्युक्तम् भवति ॥ १५ ॥
सम्प्रत्यैश्वर्यदारिद्रयोर्लक्ष्मीकटाक्षतदभावहेतुकतामुदाहरति –

विश्वास-प्रस्तुतिः

एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यो
दृप्यद्दन्तावलस्थो न गणयति नतान् यत्क्षणं क्षोणिपालान् ।
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपडिक्तं
तत्ते श्रीरङ्गराजप्रणयिनि! नयनोदञ्चितन्यञ्चिताभ्याम् ॥ १६ ॥

मूलम्

एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यो
दृप्यद्दन्तावलस्थो न गणयति नतान् यत्क्षणं क्षोणिपालान् ।
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपडिक्तं
तत्ते श्रीरङ्गराजप्रणयिनि! नयनोदञ्चितन्यञ्चिताभ्याम् ॥ १६ ॥

वीरराघवः

एक इति । हे श्रीरङ्गराजप्रणयिनि ! एको मनुष्यः !
दृप्यद्दन्तावलस्थः मदद्विरदमस्तकस्थितः मुक्तातपत्रप्रचलमणिघणा-
त्कारिमौलिर् मुक्तातपत्रे मौक्तिकच्छत्रे गजगमनेन प्रचलैर्मणिभिर्घट्टने
घणात्कारिभिः शब्दायमानो मौलिः किरीटं यस्य स तथोक्तस्सन् नतान् नम्रान् क्षोणिपालान् नानामण्डलाधिपतीन् न गणयतीति यद्
इयमैश्वर्यपराकाष्ठा ।
अथ दारिद्र्यकाष्ठामाह – अन्य इति । अन्य इतरो मनुष्यो ऽशरणो रक्षकान्तररहितस्सन् कृपणं दैन्यप्रकाशो यथा भवति तथा दन्तपङ्क्तिं दर्शयन् तस्मै दन्तावलस्थिताय पुरुषाय । तिष्ठते स्वाभि-प्रायम् प्रकटयन्नास्ते । इति यत्तदुभयं क्रमेण ते तव नयनोदञ्चित-न्यञ्चिताभ्यां नयनयोरुदञ्चितेन कटाक्षेण न्यञ्चितेन सङ्कोचेन च भवतीति शेषः ॥ १६ ॥
“स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् । स शूरस्स
च विक्रान्तो यं त्वं देवि निरीक्षसे” ॥ (वि.पु.१-९-१३१) इत्युक्त-प्रमाणानुसारेण सर्वसम्पदां लक्ष्मीभ्रूविलासप्रसराभिमुखजङ्घालतामाह –

विश्वास-प्रस्तुतिः

रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियः
सुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता ।
ततोमुखमथेन्दिरे! बहुमुखीमहम्पूर्विकां
विगाह्य च वशम्वदाः परिवहन्ति कूलङ्कुषाः ॥ १७ ॥

मूलम्

रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियः
सुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता ।
ततोमुखमथेन्दिरे! बहुमुखीमहम्पूर्विकां
विगाह्य च वशम्वदाः परिवहन्ति कूलङ्कुषाः ॥ १७ ॥

वीरराघवः

रतिरिति – हे सुधासख्य् अमृतसोदरे! अनेन मधुरतमत्वं जगदु- ज्जीवनहेतुत्वं च व्यञ्जितम् । हे इन्दिरे ! तव भ्रूलता यतोमुखं
यत्पुरुषाभिमुखं चिचलिषेच् चलितुमिच्छेत् । चलनं विनापि चलने-च्छायामेव । ततोमुखं तत्पुरुषाभिमुखं रतिः प्रीतिर् मतिसरस्वती-धृतिसमृद्धिसिद्धिश्रियः मतिर् ज्ञानम्, सरस्वती वाक् वागधिदेवता च, धृतिः स्थैर्यम्, समृद्धिः परिपूर्णत्वम्, सिद्धिर् अभिलषितावाप्तिः, श्रियः सम्पदश्च अथ साकल्येन “प्रश्नकार्त्स्न्येष्वथो अथ” इत्यमरः (अ.को. ३-३-२४७) । बहुमुखीम् बहुप्रकाराम् । अहम्पूर्विकाम् अहम्पूर्वम् प्रवहाम्यहम् पूर्वमित्यहन्तां विगाह्य प्रविश्य वशम्वदा विधेयाः सत्यः

। कूलङ्कुषा: – उद्वेलाः । परिवहन्ति पुत्रपौत्रशिष्यप्रशिष्यपर्यन्तम् प्रसरन्तीत्यर्थः । “सर्वकूलाभ्रकरीषेषु कषः”(पा.सू.३-२-४२) इति खच्प्र-त्यये मुमागमे च कृते कूलङ्कुषा इति रूपम् ॥ १७ ॥
सर्ववस्तु नीचोच्चभावो लक्ष्मीकटाक्षविकाससङ्कोचायत्त इत्याह –

विश्वास-प्रस्तुतिः

सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैर्
अनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् ।
इदं सदसदात्मना निखिलमेव निम्नोन्नतं
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि ! तत्ताण्डवम् ॥ १८ ॥

मूलम्

सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैर्
अनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् ।
इदं सदसदात्मना निखिलमेव निम्नोन्नतं
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि ! तत्ताण्डवम् ॥ १८ ॥

वीरराघवः

सहेति – हे लक्ष्मि! स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैःसह स्थिराः स्थावराः शैलवृक्षादयः परित्रसाः परिस्पन्दनशीला जङ्गमास् तेषां व्रजैः समूहैर् विरिञ्चनो ब्रह्मा अकिञ्चनो दरिद्रस्तैः सह अनोकहा वृक्षा बृह-स्पतिर् गुरुः प्रबलो – बलवान् विक्लवो दुर्बलः समस्तमपि, सदसदात्मना समीचीनासमीचीनरूपेण निम्नोन्नतं नीचोच्चम् इति यत्तव कटाक्षतदु- पेक्षयोर् वीक्षणावीक्षणयोस् ताण्डवं नटनं हि ॥ १८ ॥
सम्प्रति भगवतो जगत्सृष्टिर् लक्ष्मीविहारायेत्याह –

विश्वास-प्रस्तुतिः

काले शम्सति योग्यतां चिदचितोरन्योन्यमालिङ्गतोर्
भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।
अण्डानावरणैः सहस्रमकरोत्तान् भूर्भुवःस्वर्वतः
श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥ १९ ॥

मूलम्

काले शम्सति योग्यतां चिदचितोरन्योन्यमालिङ्गतोर्
भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।
अण्डानावरणैः सहस्रमकरोत्तान् भूर्भुवःस्वर्वतः
श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥ १९ ॥

वीरराघवः

काल इति – हे श्रीरङ्गेश्वरदेवि! काले सर्गाद्यसमये योग्यतां
सृष्ट्यौन्मुख्यं शम्सति सति स्रष्टुमयमवसर इति सूचयति सति, चिदचितोः प्रकृतिपुरुषयोर् अन्योन्यमालिङ्गतोर् मिथो मिलितयोः सतोः प्रियः श्रीरङ्गराजः सङ्कल्पमानो “बहु स्याम् प्रजायेय”(छां.उ.६-२-३) इति बहुभवनसङ्कल्पं कुर्वन् ते विहृतये भूताहङ्कृतिबुद्धिपञ्चकरणी-
स्वान्तप्रवृत्तीन्द्रियैःभूतानि पृथिव्यादीनि, अहङ्कृतिः प्रकृतिविकाररूपम् अहङ्कारतत्त्वम्, बुद्धिर्महत्तत्त्वम्, पञ्चानां करणानां समाहारः पञ्च- करणी पञ्च ज्ञानेन्द्रियाणि, स्वान्तम् मनः, प्रवृत्तीन्द्रियाणि वागादिपञ्च- कर्मेन्द्रियाणि तैः सह आवरणैः सप्तावरणैः समम्, तान् प्रसिद्धान् भूर्भुवः स्वर्वतस् त्रैलोक्यवतः सहस्रमण्डान् अनन्तान् अकरोत् कृतवान् ॥ १९ ॥
“विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम्”(वि.त.) इत्युक्तप्रमाणानु- सारेण करणकलेबरयोगरूपभगवत्कैङ्कर्यार्थत्वेऽपि तद्विस्मृत्य तानि करणानि शब्दादिप्रवणानि कुर्वाणानात्मनो भगवानेव तथाभूतान्कार- यम्स्तव परिहासरसमुत्पादयतीत्याह –

विश्वास-प्रस्तुतिः

शब्दादीन्विषयान्प्रदर्श्यविभवं विस्मार्य दास्यात्मकं
वैष्णव्या गुणमाययात्मनिवहान्विप्लाव्य पूर्वः पुमान् ।
पुम्सा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥ २० ॥

मूलम्

शब्दादीन्विषयान्प्रदर्श्यविभवं विस्मार्य दास्यात्मकं
वैष्णव्या गुणमाययात्मनिवहान्विप्लाव्य पूर्वः पुमान् ।
पुम्सा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥ २० ॥

वीरराघवः

शब्दादीनिति – हे श्रीरङ्गेश्वरि – श्रीरङ्गराजप्रिये! पूर्वः पुमान् ।
पुराणपुरुषः श्रीरङ्गराजः शब्दादीन् शब्दस्पर्शरूपरसगन्धान् विषयान्
प्रदर्श्य दर्शयित्वा दास्यात्मकं दासत्वरूपं विभवम् ऐश्वर्यं विस्मार्य
विस्मृतं कृत्वा वैष्णव्या विष्णुसम्बन्धिन्या स्वकीययेत्यर्थः । “मम
माया दुरत्यया”(भ.गी.७-१४) इत्युक्तेः । गुणमायया त्रिगुणात्मिकया
प्रकृत्या । अत्र मायाशब्दो विचित्रसृष्टिनिबन्धनः, “देवमायेव निर्मिता”
(रा.बा.१-२७) इतिवत् । आत्मनिवहान् जीवसमूहान् विप्लाव्य वञ्च-यित्वा पण्यवधूविडम्बिवपुषा वेश्यानुकारिशरीरवेषेण पुम्सा पुरुषेण धूर्तानिव धृष्टपुरुषानिव आयासयन् विवशान् कुर्वन् भगवानेवात्मनिवहान्
धूर्ताश्चायासयति गुणमायावेश्यानुकारिपुरुषश्च द्वारमात्रमिति भावः । तव परीहासात्मने परिहासरसरूपाय केलये विहाराय कल्पते समर्थो भवति । “कृपू सामर्थ्ये”(धा.पा.७६२) इत्यस्माद्धातोः “कृपो रो लः”(पा.सू.८-२-१८) इति लकारे कल्पत इति रूपम् ।
केचित्तु धूर्तानिवायासयन्नित्यत्र धूर्तानायासयन् सूत्रधार इवेति
योजयन्ति तञ्चिन्त्यं सूत्रधारपदाध्याहारप्रसङ्गात् । धूर्तानिवेति धूर्त- पदान्वितस्येवशब्दस्य अध्याहृत सूत्रधारपदान्वये व्यवहितान्वयश्च ।
तव परीहासात्मने केलये कल्पत इति वचनानुपपत्तिश्च । सूत्रधारस्य
लक्ष्मीपरिहासरसापादने दृष्टान्तत्वायोगात् । न हि लोकस्य परिहासर-
समापादयन्सूत्रधारो लक्ष्म्या अपि तमापादयति येन तस्य दृष्टान्तता स्यात् ।
न च लोकस्येत्यध्याहृत्य पण्यवधूविडम्बिवपुषा पुम्सा धूर्ताना- पादयन् सूत्रधारो लोकस्येव गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् तव परीहासात्मने केलये कल्पत इति योजना क्रियत इति
वाच्यम्; तथासत्याविष्कृतमेव व्याख्यानकौशलम् पण्डितमन्यैः ।
प्रथमान्तषष्ठ्यन्तपदद्वयाध्याहारदोषात्, इवशब्दस्य लोकपदान्वये
नात्यन्तव्यवधानदोषाञ्च । अव्यवधानेनानध्याहारेण च वाक्यार्थ-वर्णनसम्भवे व्यवधानाध्याहारकल्पनानौचित्याञ्च। तथाकल्पने विशेषस्वारस्यासिद्धेश्च ।
न च त्वत्पक्षापेक्षया दृष्टान्तदार्ष्टान्तिकभेदसिद्धिरेवास्मत्पक्षे
विशेषसिद्धिरिति वाच्यम्; धूर्तायासयितृत्वात्मनिवहविप्लावकत्वरूप-भिन्नविशेषणविशिष्टवेषेणैकस्यैव दृष्टान्तदार्ष्टान्तिकभावे स्वारस्याक्षते-श्चेत्यलम् पल्लवितेन ॥ २० ॥

[वसुराश्यभिधाव्याख्यासहितः]

इत्थं लक्ष्म्या लीलाविभूत्युपयोगमुक्त्वा नित्यविभूतियोगमाह –

विश्वास-प्रस्तुतिः

यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं
यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः ।
सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहम् मद्गिरां
तद्विष्णोः परमम् पदं तव कृते मातः ! समाम्नासिषुः ॥ २१ ॥

मूलम्

यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं
यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः ।
सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहम् मद्गिरां
तद्विष्णोः परमम् पदं तव कृते मातः ! समाम्नासिषुः ॥ २१ ॥

वीरराघवः

यदिति – हे मातः । यत् स्थानम् । मनसो दूरे स्मर्त्तुमशक्यमि-त्यर्थः । मनस इत्यसङ्कोचेनोक्तेः । ब्रह्मादीनामपि वाङ्मनसागोचरत्वं विवक्षितम् । तदुक्तं श्रीभाष्यकारैः – “ब्रह्मादीनां वाङ्मनसागोचरे श्रीमति वैकुण्ठे”(गद्यत्रय.वैकुण्ठे) इति । यत्तमस इति । यत्तमसः प्रकृति- मण्डलस्य पार एव परस्तादेव । एवकारेण रजस्तमोलवस्पर्शोऽपि नेति सूचितम् । यदेव तमसः पारे यत्पदमेव प्रकृतिमण्डलपारवर्ति ब्रह्मादीनाम् पदं तु न तथेति विशेष्य सङ्गत एवायमेवकारः । “क्षयन्तमस्य रजसः पराके”(ऋ.वे.७-१००-५) इति श्रुतेः रजस्तमश्शब्दौ तत्तदगुणप्रधानप्रकृति-वाचिनौ यदत्यद्भुतम् अत्याश्चर्यावहं यत्कालादपचेलिमं यत्कालाद्धेतो-रपचेलिमम् अपरिपक्वम् । अकालकाल्यद्धेतो “न कालस्तत्र वै प्रभुः” (महा.भा.मो.३४-८०) इति स्मृतेः । प्रभुत्वम् परिपाकहेतुत्वम् ।
सुरपुरी सुराणाम् ब्रह्मादीनाम् पुरी, वैराजा अमरावत्यादिरूपा, यद्गच्छतः यत्स्थानं गच्छतः पुम्सः, दुर्गतिर् नरकः,“एते वै निरयास्तात स्थानस्य परमात्मनः”(महा.भा.श.प.१९६-६) इति स्मृतेः । सायुज्यस्य परमपुरुष- साम्यापत्तेर् यदेव यत्स्थानमेव सूतिरुत्पादकं न त्वितरदित्यर्थः । अथवा किमेतैर्लक्षणैर् इदमेव तल्लक्षणमित्याह – यद्दुर्ग्रहमिति । मद्गिराम् मद्वाचां यद्दुर्ग्रहमगोचरं विष्णोः परवासुदेवस्य तत्परमम् पदम् अत्युत्कृष्टस्थानं तव कृते त्वदर्थ त्वन्नित्यवासार्थमित्यर्थः । समाम्नासिषुर् अभ्यस्तवन्तः । वेदा इति शेषः । सम्पूर्वात् “म्ना अभ्यासे”(धा.पा.९२९) इत्यस्माद्धातोः “लुङि च्ले:"(पा.सू.३-१-४४) सिचि “यमरम”(पा.सू.७-२-७३) इत्यादिना इट्सकोः कृतयोः “आदेशप्रत्यययोः” (पा.सू.८-३-५९)इति षत्वे झेर्जुसि, समाम्नासिषुरिति रूपम् । “तद्विष्णोः परमम् पदं सदा पश्यन्ति सूरयः”(ऋ.वे.१-२२-२०, तै.सं.१-३-६-२) इति श्रुतिरिह प्रमाणं द्रष्टव्यम् ॥ २१ ॥
सेश्वरं विभूतिद्वयं तद्वर्तिवस्तुजातं च लक्ष्मीपरिकरभूतमित्याह –

विश्वास-प्रस्तुतिः

हेलायामखिलं चराचरमिदम् भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।
श्रीरङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयं
शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥ २२ ॥

मूलम्

हेलायामखिलं चराचरमिदम् भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।
श्रीरङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयं
शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥ २२ ॥

वीरराघवः

हेलायामिति – हे श्रीरङ्गेश्वरदेवि श्रीरङ्गराजप्रिये ! अखिलं चरा-चरं जङ्गमस्थावरात्मकमिदम् परिदृश्यमानं जगत् तव हेलायां क्रीडायां विनियुक्तम् “हरे! विहरसि क्रीडाकन्दुकैरिव जन्तुभिः”(वि.ध.) इत्युक्तेः । परा उत्कृष्टा परममहती वा “त्रिपादस्यामृतं दिवि”(तै.आर. ३-१२-२) इति श्रुतेः । विभूतिः शुद्धसत्त्वरूपा तव भोगे विनियुक्ता भोग्य-भोगोपकरणभोगस्थानत्वेन विनियुक्तेत्यर्थः । त्वां त्वत्प्रियं च ये सदा पश्यन्ति साक्षात्कुर्वन्ति । पुण्या युष्मत्सदानुभवहेतुसुकृतशीलास्ते सूरयो विष्वक्सेनादयस् ते तव परिचारकर्मणि विनियुक्ताः । वयम् बुभुक्षु- मुमुक्षुभेदभिन्ना जीवास् तव केवलकृपानिर्वाह्यवर्गे त्वन्निर्हेतुककृपा- निर्वाहकर्मीकृतानां वर्गे सन्ततौ विनियुक्ताः । परमः पुमान् परमःपुरुषः । त्वत्प्रियस् तव शेषित्वे विनियुक्तः । इत्येते पूर्वोक्ताः सर्वेपि तव स्फारणे व्याप्तौ त्वद्विभव इत्यर्थः । परिकरा ह्य् उपकरणभूताः । खलु हि इत्याश्चर्ये ॥ २२ ॥
श्रीश्रीपत्योः परमव्योम्नि वैकुण्ठनगरीयोगमाह –

विश्वास-प्रस्तुतिः

आज्ञानुग्रहभीमकोमलपुरीपाला फलम् भेजुषां
याऽयोध्येत्यपराजितेति विदिता नाकम् परेण स्थिता ।
भावैरद्भुतभोगभूमगहनैः सान्द्रा सुधास्यन्दिभिः
श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥ २३ ॥

मूलम्

आज्ञानुग्रहभीमकोमलपुरीपाला फलम् भेजुषां
याऽयोध्येत्यपराजितेति विदिता नाकम् परेण स्थिता ।
भावैरद्भुतभोगभूमगहनैः सान्द्रा सुधास्यन्दिभिः
श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥ २३ ॥

वीरराघवः

आज्ञेति – हे श्रीरङ्गेश्वरगेहलक्ष्मि ! श्रीरङ्गेश्वरदिव्यविमानालङ्क-
रणभूते! या पुर्य् आज्ञानुग्रहभीमकोमलपुरीपाला आज्ञया शासनेन अनु-ग्रहेण दयया यथाक्रमम् भीमा भयङ्कराः कोमलाः सौम्याः पुरीपाला नगररक्षका यस्याः सा तथोक्ता । भेजुषाम् भजताम् फलम् भक्तानाम्
प्रपन्नानां च स्वतः पुरुषार्थभूता अयोध्येत्यपराजितेति योद्धमशक्येति
परैरजितेति च हेतोर्या तत्तदाख्यया विदिताप्रसिद्धा श्रुताविति शेषः ।
“देवानाम् पूरयोध्या”(तै.आ.१-२७-३) इति “विशालापराजिता” इति च श्रुतेः ।
नाकम् परेण नाकस्य परमाकाशस्य परेण उपरिष्टात् परमव्योम्नी- त्यर्थः । स्थिता वर्तमाना “परेण नाकं निहितं गुहायाम्”(तै.आर.१०-१०-३) इति श्रुतेः । सुधास्यन्दिभिर् अमृतस्राविभिर् भोग्यतमैरित्यर्थः । अद्भुतभोगभूमगहनैर् अद्भुतभोगानाम् आश्चर्यसुखानाम् अनुभवानां वा, भूम्ना बाहुल्येन, गहनैः सम्भृतैः पदार्थैः सान्द्रा निबिडा च भवति । तां युवयोः राजधानीम् प्रधाननगरीं विदुः श्रुतयो मुनयो वेति शेषः । प्रधाननगरी राज्ञां राजधानीति कथ्यते” इत्यमरशेषः ॥ २३ ॥
तत्र स्थितमास्थानमनुसन्धत्ते –

विश्वास-प्रस्तुतिः

तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं
सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः ।
स्नेहादस्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैर्
आनन्दैकार्णवं श्रीर्भगवति युवयोराहुरास्थानरत्नम् ॥ २४ ॥

मूलम्

तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं
सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः ।
स्नेहादस्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैर्
आनन्दैकार्णवं श्रीर्भगवति युवयोराहुरास्थानरत्नम् ॥ २४ ॥

वीरराघवः

तस्यामिति – भगवति! षाड्गुण्यपरिपूर्णे! हे श्रीः ! तस्यां
त्वत्कृपावत् त्वद्दयेव निरवधिजनताविश्रमार्हावकाशं निरवधेः ।
अवधिशून्याया असड्ख्यायाः, जनताया जनसमूहस्य, विश्रमार्ह:-
विश्रान्तियोग्यः, अवकाशो ऽन्तरं यस्मिन् तत्तथोक्तम् । त्वत्कृपाया:-
सर्वविषयत्वात् तथात्वमविवादं तद्वदिदमपीति भावः । दास्यतृष्णा-
कलितपरिकरैर् दास्ये कैडर्यकरणे तृष्णया स्पृहया कलिता गृहीताः
परिकरा: छत्रचामरपतद्गृहकलाचिकादयो यैस्तैर् आनन्दनिघ्नैर् आनन्द-विवशैः पुम्भिर् मुक्तपुरुषैः सङ्कीर्णं सम्भृतम् ।
स्नेहाद् भगवद्दिव्यमङ्गलविग्रहप्रेम्णो ऽस्थानरक्षाव्यसनिभिर्
अस्थाने अकाण्डे रक्षायां रक्षणे व्यसनिभिर् व्याकुलैः, परमपदे भय-शङ्काया अनवकाशाद्रक्षाव्यसनस्यास्थानत्वम् । शार्ङ्ग चक्रासिमुख्यैश्
चापसुदर्शनखड्गप्रभृतिभिः पञ्चायुधैर् अभयम् भयरहितम् । आनन्दै-कार्णवम् आनन्दस्यानुकूलज्ञानस्य अर्णवं समुद्रम् अपरिछिन्नानन्दा-वहमित्यर्थः । तथाभूतं युवयोः श्रीः श्रीपत्योर् आस्थानरत्नम् महामणि-मण्डपश्रेष्ठं चाहुः । वेदान्ता इति शेषः । तस्याञ्च इत्यत्र चशब्दस्य आस्थानरत्नं चाहुरित्युत्तरत्रान्वयः । “प्रजापतेस्सभां वेश्म प्रपद्यन्ते” (छां.उ.८-१४-१) इति श्रुतिरत्र प्रमाणतयाऽनुसन्धेया ॥ २४ ॥
तन्मण्डपे शेषसिम्हासने विश्वरक्षादीक्षितेन स्वामिना सह सर्वा- नन्दावहत्वमाह –

विश्वास-प्रस्तुतिः

तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं
विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकाधिपत्यम् ।
तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हतात्वामसङ्ख्यैर्
अन्योन्याद्वैतनिष्ठाघनरसगहनान्देवि! बध्नासि भोगान् ॥ २५ ॥

मूलम्

तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं
विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकाधिपत्यम् ।
तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हतात्वामसङ्ख्यैर्
अन्योन्याद्वैतनिष्ठाघनरसगहनान्देवि! बध्नासि भोगान् ॥ २५ ॥

वीरराघवः

तत्रेति – हे देवि! तत्र महामणिमण्डपे स्रकस्पर्शगन्धं स्रजः
पुष्पमालिकायाः स्पर्शगन्धाविव स्पर्शगन्धौ यस्य तं तथोक्तम् ।
स्फुरदुपरिफणारत्नरोचिर्वितानं स्फुरतामुपरि फणारत्नानाम् उपरितन-
माणिक्यानां रोचीम्ष्येव वितानम् उल्लोचः यस्य तम् । अनन्तभोगम्
अनन्तस्य शेषस्य भोगं कामं विस्तीर्य विस्तृतं कृत्वा तदुपर्य्
अनन्तभोगोपरि निविश्येति शेषः । विश्वं विभूतिद्वयम् एकाधिपत्यम्
एकच्छत्राधिपत्यम् । नयता गमयता असङ्ख्यैः सङ्ख्यातीतैस् तैर् अवा- ङ्मनसगोचरैः शान्तोदितगुणविभवैः शान्तोदितस्य भगवच्छान्तोदित-दशायाः स्ववैश्वरूप्यानुभवरूपाया गुणविभवैर् गुणातिशयैस् त्वामर्हता त्वदनुरूपेण कान्तेन प्रियेण हरिणा सह अन्योन्याद्वैतनिष्ठाघनरस-गहनान् अन्योऽन्यम् परस्परम्, अद्वैतनिष्ठया एकीभावेन परस्परगाढानु- रागेणेत्यर्थः । घनेन निबिडेन, रसेन आनन्देन, गहनान्निर्भरान् भोगान् अनुभवान्, बध्नासि घटयसि । युवयोः सेवकानां सूरिपरिषदां चेति भावः । “बन्ध बन्धने”(धा.पा.१५०९)इत्यस्माद्धातोः श्नाप्रत्यये लटस्सिपि बध्नासीति रूपम् ॥ २५ ॥
न केवलम् पत्युस्त्वमेवानन्दावहा त्वमिव पत्युस्तव च भोग्यभूताः
परस्सहस्रं सपत्न्यः सन्तीत्याह –

विश्वास-प्रस्तुतिः

भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।
देवि त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा
याभिस्त्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥ २६ ॥

मूलम्

भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।
देवि त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा
याभिस्त्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥ २६ ॥

वीरराघवः

भोग्या इति – हे देवि ! वामपि भोग्यभूतयोर्युवयोरपि । पुष्पाङ्ग- रागैस्समं स्रक्चन्दनादितुल्यम् अङ्गरागशब्देन अङ्गरचनाहेतुभूतघन-
सारकुङ्कुमकस्तूर्यादयोऽपि गृह्यन्ते । नान्तरीयकतया स्वभोग्यतोप-योगेन भोग्या यथा पुष्पाङ्गरागादीनाम् प्रधानभूतस्वभोग्यतोपयोगेन भोग्यत्वं तथा तासामपीति भावः ।
निर्वृत्तप्रणयातिवाहनविधौ निर्वृत्तस्य परिपूर्णस्य उद्वेलस्येत्यर्थः ।
प्रणयस्य प्रेमरसस्य, अतिवाहनिविधौ अतिप्रवाहणे परीवाहतां निर्गम- प्रवाहतां नीताः प्रापिताः । श्रीश्रीपत्योरुन्मस्तकः प्रेमरसस्सपत्नीमुखेन
प्रवहतीति भावः । यथा तटाकः परिपूर्णस्सन् निर्गमप्रवाहं विना न
निर्वहति तथा श्रीश्रीशयोरत्युत्कटप्रेमरसो भूनीलादिसपत्नीमुखेन प्रवहणं
विना न निर्वहतीति हृदयम् । नीलया नीलादेव्या सह मही भूदेवी त्वामनु त्वद्व्याप्यतयेत्यर्थः । नीलया सहेति नीलादेव्या भूम्यपेक्षया व्याप्यत्वं स्फुटम् “सहयुक्तेऽप्रधाने”(पा.सू.२-३-१९) इत्यनुशासनात् । तथा भूनीले इव त्वामनुसृत्य सहस्रं देव्यस्सन्तीति शेषः । त्वं याभिर् देवीभिः स्वाभिः स्वकाभिः स्तनबाहुदृष्टिभिरिव स्वावयवैरिव । प्रियम् प्रेयाम्सं श्लाघसे सन्तोषयसि । “श्लाघृ कत्थने”(धा.पा.११५) इत्यस्माद्धातोः – लडात्मनेपदि मध्यमपुरुषैकवचनम् । स्तनबाहुदृष्टिभि-रित्यत्र महाविभाषया द्वन्द्वैकवद्भावविकल्पः । न केवलं लक्ष्म्यास्ताभि-स्समं सापत्न्यकलहाभावः परन्तु भगवतस्ताभिस्सह संश्लेषे स्वावयव-संश्लेष इव तस्या महतीप्रीतिर्वर्धत इति भावः ॥ २६ ॥
इत्थं लक्ष्म्यास्सपत्नीसहस्रमुक्त्वा परिचारकवर्गमाह –

विश्वास-प्रस्तुतिः

ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैर्
भोगैर्वा निर्विशेषास्सवयस इव ये नित्यनिर्दोषगन्धाः ।
हे श्रीः! श्रीरङ्गभर्त्तुस्तव च पदपरीचारवृत्यै सदापि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥ २७ ॥

मूलम्

ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैर्
भोगैर्वा निर्विशेषास्सवयस इव ये नित्यनिर्दोषगन्धाः ।
हे श्रीः! श्रीरङ्गभर्त्तुस्तव च पदपरीचारवृत्यै सदापि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥ २७ ॥

वीरराघवः

त इति – हे जननि श्रीः । साध्याः साध्यनामका देवा द्योतमाना
मोदमाना वा नित्यनिर्दोषगन्धा नित्यं कालत्रयेऽपि निर्दोषगन्धाः ।
निर्गतावद्यलेशाः । “लेशेऽपि गन्धः”(अ.को.) इत्यमरः । अस्पृष्टसम्सार- गन्धा इत्यर्थः । गुणवपुर्वेषवृत्तस्वरूपैर् गुणैर् अपहतपाप्मत्वादिभिर् ज्ञान- शक्त्यादिभिश्च वपुर्भिर् विग्रहैर् वेषैः शङ्खचक्राद्यलङ्कारैर् वृत्तैर् निरङ्कुश-व्यापारैः, स्वरूपैर् ज्ञानानन्दामलात्मस्वरूपैर् भोगैः सविभूतिकभगवत् कल्याणगुणानुभवैर्वा वाशब्दश्चार्थः । भोगैश्चेत्यर्थः । निर्विशेषा विशेष-रहिताः । तुल्या इत्यर्थः । युवाभ्याम् परस्परं चेति शेषः ।
अत एव सवयस इव समानवयस्का इव सखाय इव वा । ये सन्ति ते सूरयः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै श्रीपादकैङ्कर्यकरणाय सदापि सर्वदेशसर्वकालसर्वावस्थास्वपि प्रेमप्रद्राणभावाविलहृदयहठात्कार
कैङ्कर्यभोगाः प्रेम्णा प्रीत्या प्रद्राणेन द्रवीभूतेन भावेन अभिप्रायेण अवस्थाविशेषेण वा आविलेन कलिलेन हृदयेन मनसा हठात्कारो झटि-त्याचरणं यस्य तत्तथोक्तम् । तथाभूतं कैङ्कर्यम् परिचरणमेव भोगो भृतिः सुखं वा येषान्ते तथोक्ताः । तथाभूता भवन्तीति शेषः । “भोग-स्सुखेस्त्र्यादिभृतौ” इत्यमरः (अ.को.३-३-२३) । यद्वा ये साध्याः साध्य-नामका इत्यादिपूर्वविशेषणविशिष्टाः प्रेमप्रद्राणभावाविलहृदयहठात्कार-कैङ्कर्यभोगास्ते सूरयः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सन्तीत्य-न्वयः ॥ २७ ॥
अथ लक्ष्म्या भगवत्स्वरूपनिरूपकधर्मतामाह –

विश्वास-प्रस्तुतिः

स्वरूपं स्वातन्त्र्यम् भगवत इदं चन्द्रवदने !
त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये ।
त्वमासीर्मातः श्रीः कमितुरिदमित्थं त्वविभवस्
तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ॥ २८ ॥

मूलम्

स्वरूपं स्वातन्त्र्यम् भगवत इदं चन्द्रवदने !
त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये ।
त्वमासीर्मातः श्रीः कमितुरिदमित्थं त्वविभवस्
तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ॥ २८ ॥

वीरराघवः

स्वरूपमिति – हे चन्द्रवदने ! आश्रितानन्दनमुखि! मातः! श्रीः! निष्कर्षसमये निर्णयवेलायाम् भगवतः श्रीमन्नारायणस्य इदं स्वरूपं
दिव्यात्मस्वरूपं स्वातन्त्र्यं निरङ्कुशस्वतन्त्रत्वं च त्वदाश्लेषो-त्कर्षात् त्वन्नित्ययोगातिशयाद् भवति खलु । तत्र हेतुमाह – त्वमासी-रिति । कमितुः प्रेयसस् त्वमिदमित्थन्त्वविभव आसीर् अयमीश्वर इती-दन्त्वविभव ईदृश ईश्वर इतीत्थन्त्वविभव उभयमपि त्वमेवाभवः । सन्तस्त्वाम् भगवति दृष्ट्वा त्वदाश्रयमीश्वरं निश्चिन्वन्ति । त्वत्पति-तित्वमीश्वरलक्षणं जानन्ति चेति भावः । श्रुतिस्त्वामपि तदन्तर्भावाद् भगवत्स्वरूपनिरूपककोटावन्तर्भावात् । पृथक् भगवतः पृथक्कृत्य । नाभिधत्ते न वदति । अभिपूर्वात् “डुधाञ् धारणपोषणयोः”(धा.पा.१०९३) इत्यस्माद्धातोर्जौहोत्यादिकाच्छपः “श्लौ”(पा.सू.६-१-१०) इति द्वित्वे अभ्या-सह्रस्वत्वे, श्नाभ्यस्तयोरातः”(पा.सू.६-४-११२) इत्यालोपे “दधस्तथोश्च”
(पा.सू.८-२-३८) इति भष्भावे अभिधत्त इतिरूपम् ॥ २८ ॥
“मङ्गलम् भगवान्विष्णुर्मङ्गलम् मधुसूदनः । मङ्गलम् पुण्ड-रीकाक्षो मङ्गलं गरुडध्वजः । पवित्राणाम् पवित्रं यो मङ्गलानां च मङ्गलम्” । इति भगवति प्रयुज्यमानम् मङ्गलपदं श्रीसम्बन्धायत्त-मित्याह –

विश्वास-प्रस्तुतिः

तव स्पर्शादीशं स्पृशति कमले मङ्गलपदं
तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।
प्रसूनम् पुष्यन्तीमपि परिमलद्धिं जिगदिषुर्
न चैवन्त्वादेवं स्वदत इति कश्चित्कवयते ॥ २९ ॥

मूलम्

तव स्पर्शादीशं स्पृशति कमले मङ्गलपदं
तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।
प्रसूनम् पुष्यन्तीमपि परिमलद्धिं जिगदिषुर्
न चैवन्त्वादेवं स्वदत इति कश्चित्कवयते ॥ २९ ॥

वीरराघवः

तवेति – हे कमले! ईशं स्वामिनम् । तव स्पर्शात् त्वत्सम्ब-न्धान् मङ्गलपदम् मङ्गलशब्दः स्पृशति बोधयति इदम् एतन्मङ्गल-पदम् उपाधेः प्रयोजकान्तरात् तव नो निपतितं न त्वद्वाचकत्वेन सम्बद्धं किं तु स्वत एव । तत्र हेतुमाह – यतः श्रीरसीति । यतो हेतोस्त्वं श्रीर्मङ्गलमसि । तत्र दृष्टान्तमाह – प्रसूनमिति । प्रसूनम् – पुष्पम् पुष्यन्तीम् अतिशयितं कुर्वतीम् परिमलर्द्धिमपि गन्धसम्पदमपि जिगदिषुः स्वाद्यां गदितुमिच्छुर् एवन्त्वाद् एतादृशगुणयोगाद् एवं स्वदते इत्थं हृद्या भवति इति कश्चित् कोऽपि पुमान् न च कवयते न कथयति हि । चो ह्यर्थः । पुष्पातिशयनिरूपणे परिमलापेक्षेव परिमलाति-शयनिरूपणे गुणान्तरापेक्षा यथा नास्ति तथा भगवन्मङ्गलत्वे श्रीसम्ब- न्धो नियामकः, न तु तस्यास्तत्वे नियामकान्तरापेक्षेति भावः ॥ २९ ॥
सर्वेश्वरस्य लोकपालानां च लक्ष्मीकटाक्षलब्धविभवत्वमुक्त्वा सर्वे-श्वरं लोकपालांश्च प्रतिपादयन्वेदस्त्वामेव प्रतिपादयतीत्याह –

विश्वास-प्रस्तुतिः

अपाङ्गा भूयाम्सो यदुपरि परम् ब्रह्म तदभूद्
अमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।
अतः श्रीराम्नायस्तदुभयमुशम्स्त्वाम् प्रणिजगौ
प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥ ३० ॥

मूलम्

अपाङ्गा भूयाम्सो यदुपरि परम् ब्रह्म तदभूद्
अमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।
अतः श्रीराम्नायस्तदुभयमुशम्स्त्वाम् प्रणिजगौ
प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥ ३० ॥

वीरराघवः

अपाङ्गा इति – हे श्रीः । तव भूयाम्सः बहुसङ्ख्या अपाङ्गाः
कटाक्षा: यदुपरि यस्य वस्तुन उपरि प्रसृता इति शेषः । तत् – वस्तु परम् ब्रह्माभूत् । तव भूयः कटाक्षविषयीभूतं वस्तु परब्रह्मत्वमगमदि-त्यर्थः । अम्य् अपाङ्गा यत्र वस्तुनि द्वित्रा द्वौ वा त्रयो वा मानं येषां ते द्वित्रास् ते प्रसृताः स च तदधरात् ततः परब्रह्मणो ऽधराद् अर्वाचीनः
शतमखादिरभूत् । इदमुपलक्षणं विधिशिवयोरपि तदवरत्वम् बोध्यम्
“नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते”(ना.उ.१) “क इति ब्रह्मणो
नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मात्केशव-नामवान्” । (ह.वं.१३-४८) इति ब्रह्मरुद्रयोरपि भगवत उत्पन्नतया श्रुति-स्मृत्यवगतत्वात्, स चेति शतमखाद्यपेक्षया पुल्लिङ्गनिर्देशः । अतस्त्व-त्कटाक्षलब्धविभवत्वात्तदुभयम् परब्रह्मविधिशिवशतमखादिरूपम् । उशन्
कामयमानः वदन्नित्यर्थः । आम्नायो वेदः । त्वाम् प्रणिजगौ प्रव्यक्तं
गदितवान् । प्रणि-पूर्वात् “गैशब्दे”(धा.पा.९१७) इत्यस्माद्धातोर्लिट्परस्मै-
पदप्रथमपुरुषैकवचनम् । तथाहि पुरीकोशकथनम् पुर्या राजधान्याः
कोशस्य धनसञ्चयादेश्च कथनम् अतिशयेन वर्णनं क्रियत इति यज् जनैरिति शेषः । सा राज्ञस् तत्परिपालकस्य प्रभोः । प्रशस्तिः प्रसिद्धिर् अत्र पुरीकोशकथनं राज्ञः प्रशस्तिरिति सामान्यनिर्देशेन परब्रह्मादिपरा-
म्नायकृतलक्ष्मीप्रशस्तिकथन विशेषस्य समर्थनात् सामान्येन विशेषसम- र्थनरूपार्थान्तरन्यासालङ्कारः ॥ ३० ॥
भगवत्स्वरूपं स्वातन्त्र्यं त्वदाश्लेषादिति प्रागुक्तं सिम्हावलोक-नेन निरीक्ष्य तथात्वे पराधीनत्वमन्याहितातिशयित्वं विगुणत्वं च
प्रसजेदित्याशङ्कां हेतुविशेषेण दृष्टान्तबलेन च परिहरति –

विश्वास-प्रस्तुतिः

स्वतः श्रीस्त्वं विष्णोः स्वमसि तत एवैष भगवान्
त्वदायत्तद्धित्वेऽप्यभवदपराधीनविभवः ।
स्वया दीप्त्या रत्नम् भवदपि महार्घं न विगुणं
न कुण्ठस्वातन्त्र्यम् भवति च न चान्याहितगुणम् ॥ ३१ ॥

मूलम्

स्वतः श्रीस्त्वं विष्णोः स्वमसि तत एवैष भगवान्
त्वदायत्तद्धित्वेऽप्यभवदपराधीनविभवः ।
स्वया दीप्त्या रत्नम् भवदपि महार्घं न विगुणं
न कुण्ठस्वातन्त्र्यम् भवति च न चान्याहितगुणम् ॥ ३१ ॥

वीरराघवः

स्वत इति – हे श्रीः ! त्वं विष्णोः स्वतः स्वभावान् निरुपाधिकात्म- स्वरूपस्वभावादित्यर्थः । स्वमसि शेषभूतासि “स्वत्वमात्मनि सञ्जातं स्वामित्वम् ब्रह्मणि स्थितम् । आत्मदास्यं हरेस्स्वाम्यं स्वभावं च
सदा स्मर”॥ (वि.त.) इत्याद्यनेकप्रमाणप्रसिद्धेः । तत एव स्वत्वादेव एष भगवान् श्रीरङ्गराजस् त्वदायत्तद्धित्वेऽप्य् अपराधीनविभवोऽभवत् ।
तथाहि – रत्नम् माणिक्यं स्वया दीप्त्या स्वकान्त्या महार्घं निरवधि-कमूल्यम् भवदपि विगुणं गुणहीनं न कुण्ठस्वातन्त्र्यम् प्रतिहत- स्वोत्कर्षं च न ।

अन्याहितगुणम् पराधीनातिशयं च न भवति । तद्वत्त्वत्प्रियोऽपि त्वद- धीनसम्पत्त्वेऽपि न विगुणो न कुण्ठस्वातन्त्र्यो नान्याहितातिशयश्च भव- तीति भावः ॥ ३१ ॥
इत्थं लक्ष्मीस्वरूपमनुसन्धाय स्वरूपाश्रितान् दिव्यमङ्गलविग्रहा-श्रितांश्च कल्याणगुणान्विवक्षुः प्रथमं श्रीश्रीशयोस्साधारणगुणाननु-सन्धत्ते –

विश्वास-प्रस्तुतिः

प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा-
प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः ।
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे
तव भगवतश्चैते साधारणा गुणराशयः ॥ ३२ ॥

मूलम्

प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा-
प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः ।
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे
तव भगवतश्चैते साधारणा गुणराशयः ॥ ३२ ॥

वीरराघवः

प्रशकनेति – हे इन्दिरे ! परमैश्वर्यप्रदे! श्रीः ! प्रशकनम् प्रकृष्टा शक्तिः, बलं सर्वजगद्भरणसामर्थ्य ज्योतिस् तेजः, ज्ञानं सर्वदा सर्ववस्तुसाक्षा- त्कारः, ऐश्वरी ईश्वरत्वं विजयप्रथा जयशीलत्वप्रशस्तिः, प्रणतवरणम् आश्रितवशीकारः, प्रेम आश्रितविषयप्रीतिः, क्षेमङ्करत्वम् आश्रितेष्ट-प्रापकत्वं तदनिष्टनिवर्तकत्वं च पुरस्सराः प्रधानानि येषां ते
तथोक्ताः । एते दिव्यात्मस्वरूपगुणाः । अथ दिव्यमङ्गलविग्रहगुणा-नाहम् – अपीति । अप्य् अपिचेत्यर्थः । न केवलमात्मगुणा एव साधारणा: विग्रहगुणा अपि चेत्यपिशब्दार्थः । परिमलः सौगन्ध्यम्, कान्तिः सौन्दर्यं सा चावयवशोभा, लावण्यं समुदायशोभा, अर्चिर् औज्वल्यम् परप्रकाशकत्वमिति यावत् । इत्येते द्विविधा अपि स्वरूप-विग्रहाश्रितगणराशयो गुणसमूहास् तव भगवतश्च साधारणासमाना इत्यर्थः । अत्र भगवतो विजयप्रथा श्रीरामायणे “शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः”(रा.यु.कां.१०४-६) इति रावणवचनादभिव्यक्ता । सीतायास्तु वासिष्ठरामायणे शतकन्धरसम्हारे विजयप्रथा सुव्यक्ता । भगवतः क्षेमङ्करत्वमुभयविधमपि साक्षादेव । लक्ष्म्यास्त्विष्टप्रापणं साक्षात्परम्परया वापि सम्भवति । अनिष्टनिवर्त्तकत्वं तु भगवद्द्वारेति बोध्यम् ॥ ३२ ॥
पुनस्साधारणगुणाननुसन्धत्ते –

विश्वास-प्रस्तुतिः

अन्येऽपि यौवनमुखा युवयोस्समानाः
श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ।
तस्मिन्स्तव त्वयि च तस्य परस्परेण
सम्स्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥ ३३ ॥

मूलम्

अन्येऽपि यौवनमुखा युवयोस्समानाः
श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ।
तस्मिन्स्तव त्वयि च तस्य परस्परेण
सम्स्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥ ३३ ॥

वीरराघवः

अन्येऽपीति – हे श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ! श्रीरङ्गोत्सव
प्रकाशनोद्यतकेतो! श्रीरङ्गोत्सववृद्धिकरीत्यर्थः । अन्ये उक्तगुणव्यतिरिक्ता
यौवनमुखा यौवनादयः मुखशब्देन सौकुमार्यादयो गृह्यन्ते । युवयोर्
भगवतस्तव च समानाः साधारणास्सन्तस् तव गुणास् तस्मिन् तस्य
गुणास् त्वयि च दर्पण इव सम्स्तीर्य अभिव्याप्य, परस्परेण अन्योऽन्यम्
प्रचुरम् प्रकामं स्वदन्ते रस्या भवन्ति “स्वद आस्वादने”(धा.पा.१८)
इत्यस्माद्धातोर्लडात्मनेपदप्रथमपुरुषबहुवचनम् । भगवान् लक्ष्म्याम्
प्रशकनबलादीनवलोक्य स्वकीया एवैते गुणा इत्यानन्दमनुभवति । एवं लक्ष्मीरपि भगवति तानुपलक्ष्य स्वकीया एवैत इति सम्मोदम् भजत इति वक्त्रभिप्रायः ॥ ३३ ॥
ननु उभयोस्स्वरूपरूपगुणसाधारण्ये सेवकानां श्रीश्रीशपृथगनुभवः
कथं घटत इत्यत्राह –

विश्वास-प्रस्तुतिः

युवत्वादौ तुल्येऽप्य् अ–पर-वशता–शत्रु-शमन-
स्थिरत्वादीन् कृत्वा भगवति गुणान् पुंस्त्व-सु-लभान् ।
त्वयि स्त्रीत्वैकान्तान् म्रदिम–पति-पारार्थ्य–करुणा-
क्षमादीन् वा भोक्तुम् भवति युवयोर् आत्मनि भिदा ॥ ३४ ॥(5)

मूलम्

युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन-
स्थिरत्वादीन्कृत्वा भगवति गुणान्पुंस्त्वसुलभान् ।
त्वयि स्त्रीत्वैकान्तान्म्रदिमपतिपारार्थ्यकरुणा-
क्षमादीन्वा भोक्तुम् भवति युवयोरात्मनि भिदा ॥ ३४ ॥

वीरराघवः

युवत्वादाविति – हे श्रीः ! युवत्वादौ यौवनादौ तुल्येऽपि युवयोरिति शेषः । भगवति हरौ । पुम्स्त्वसुलभान् पुरुषैकनिष्ठान् अपरवशताशत्रु-शमनस्थिरत्वादीन् अपरवशता स्वातन्त्र्यम्, शत्रुशमनं विरोधिनिवर्त्त- कत्वम्, स्थिरत्वम् अप्रकम्प्यत्वम् आदिर्येषां तान् गुणान् कृत्वा भेदकाननुसन्धाय त्वयि भवत्यां स्त्रीत्वैकान्तान् स्त्रीस्वभावान्तरङ्गान् । म्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा म्रदिमा मृदुहृदयत्वम्, पतिपारार्थ्य भर्तृपारतन्त्र्यम्, करुणा परदुःखासहिष्णुत्वम्, क्षमा अपराधसहत्वम् आदिर्येषां तान् । वा शब्दश्चार्थः । क्षमादीश्चेत्यर्थः । कृत्वा भेदकान-नुसन्धाय भोक्तुम् अनुभवितुं युवयोरात्मनि स्वरूपे विग्रहे च भिदा भवति भेदस्सिद्ध्यति । अनुभवितृणामिति शेषः । यद्यपि म्रदिमकरुणा-क्षमा भगवतोऽपि समानास् तथापि स्वातन्त्र्यासमवहितास्ता इह विवक्षिताः । भगवतो म्रदिमाद्यास्तु न तथाविधा इति भावः ॥ ३४ ॥
श्रीश्रीपत्योः स्वरूपभेदकगुणाननुसन्धाय रूपभेदकगुणाननुसन्धत्ते –

विश्वास-प्रस्तुतिः

घनकनकद्युती युवदशामपि मुग्धदशां
युवतरुणत्वयोरुचितमाभरणादि परम् ।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि निर्विशसि ॥ ३५ ॥

मूलम्

घनकनकद्युती युवदशामपि मुग्धदशां
युवतरुणत्वयोरुचितमाभरणादि परम् ।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि निर्विशसि ॥ ३५ ॥

वीरराघवः

घनेति – कुशे उदके शेत इति कुशेशयम् पद्मम् “जीवनीयं कुशं
विषम्”(अ.को.१-११-२६६) इत्यमरः । तस्योदरे गर्भे विहरतीति कुशेशयो- दरविहारिणि! कमलनिलये, घनकनकद्युती घनस्य नीलमेधस्य कनकस्य सुवर्णस्य द्युती इव द्युती, युवदशां युवत्वम् । मुग्धदशां तारुण्यमपि । युवतरुणत्वयोर् युवत्वतारुण्ययोर् उचितं योग्यम् परम् उत्कृष्टम् पर-स्परविलक्षणं वा अत एवासमानदेशविनिवेश्य् असमानदेशे परस्पर-भिन्नदेशे धर्मिणि, विनिवेश: सम्वेशनं यस्य तत्तथोक्तम् । आभरणादि भूषणादि, आदिशब्देनश्मश्रुपीताम्बरोर्ध्वपुण्ड्रयज्ञोपवीतादिस्तनवस-नाञ्जनहरिद्राकाश्मीरकमरिकापत्रादि च गृह्यन्ते, हरौ त्वयि च विभज्य विभाजकं कृत्वा । निर्विशस्य् अनुभवसि, हरिं त्वां चेति शेषः । ध्रुवम् एतत्सत्यम् । एवं विभाजकधर्माननुसन्धाने युवयोर्भेदग्रहो युवयोरेव न भवेदिति भावः । निरित्युपसर्गात् “विश प्रवेशने”(धा.पा. १४२५) इत्यस्माद्धातोर्लण्मध्यमपुरुषैकवचने निर्विशसीति रूपम् ॥ ३५ ॥
क्षीराब्धिसारसमष्टितया लक्ष्मीविग्रहं वर्णयित्वा कल्पलतादेस्तदृजी-षतामुत्प्रेक्ष्य तथा वर्णनम् पयोधेराविर्भूतस्य अप्राकृतस्य लक्ष्मीदिव्य-
मङ्गलविग्रहस्य च युक्तमित्याह –

विश्वास-प्रस्तुतिः

अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्फतः
क्षीराब्धेः किमृजीषतामुपगता मन्ये महार्घास्ततः ।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां
श्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥ ३६ ॥

मूलम्

अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्फतः
क्षीराब्धेः किमृजीषतामुपगता मन्ये महार्घास्ततः ।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां
श्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥ ३६ ॥

वीरराघवः

अङ्गमिति – हे श्रीरङ्गेश्वरि ! ते तव अङ्गं वपुर् अङ्गशब्देना-
वयववाचिना तत्समुदायरूपना वपुर्लक्ष्यते । मृदुशीतमुग्धमधुरोदारैर्
मृदुत्वशीतत्वमुग्धत्वमधुरत्वोदारत्वैः, भावप्रधानोऽयं निर्देशः । गुणै- र्विग्रहगुणैः सारभूतैरिति शेषः । गुम्फतो ग्रथयतः, क्षीराब्धेस् त्वत्पितुर्
इन्दुश् चन्द्रः, कल्पलता सुधामधुमुखाः कल्पलतासुधे प्रसिद्धे, मधु सुरा,
कल्पलतासुधामधूनि मुखमादिर्येषां ते तथोक्ताः । ते ऋजीषताम् असारताम् उपगताः किमुत्त्प्रेक्षा । किं शब्दः सम्भावनायाम् । ततस्त्व-दवयवऋजीषत्वान्महार्घा अमूल्या भवन्तीति शेषः । मन्ये इत्युत्प्रेक्षा-व्यञ्जनम् । इति पूर्वोक्तप्रकारेण आविलाम् -कलुषां वर्णनाम् उत्प्रेक्षाम् प्रति शान्तकृत्रिमकथम् अपगतकृत्रिमप्रशसम्, दिव्यम् अप्राकृतम्, वपुर्
विग्रह: नार्हति नोचितम् भवति । अकृत्रिमस्य लक्ष्मीविग्रहस्य कृत्रिम-वस्तुसारत्वोत्प्रेक्षणमयुक्तमिति भावः ॥ ३६ ॥
पुनर्विग्रहमेव वागगोचरं वर्णयति –

विश्वास-प्रस्तुतिः

प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीषाकुञ्चितम् पार्श्वकेन ।
कनकनिकषञ्चञ्चम्पकस्रक्समान-
प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥ ३७ ॥

मूलम्

प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीषाकुञ्चितम् पार्श्वकेन ।
कनकनिकषञ्चञ्चम्पकस्रक्समान-
प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥ ३७ ॥

वीरराघवः

प्रणमदिति – अत्र श्रीस्तवेति पदद्वयमध्याहार्यम् । हे श्रीः ! अग्रे
उत्तमाङ्गे प्रणमदनुविधित्सावासनानम्रम् प्रणमतां सेवकानाम् अनु-विधित्साया अनुविधानेच्छायाः, वासनया परिचयेन नम्रम् ईषद्विनतम् । पार्श्वकेन पार्श्वभागेन प्रणयिपरिचिचीषा कुञ्चितम् प्रणयिनः प्रियस्य, परिचिचीषया परिचर्येच्छया, कुञ्चितम् भयभक्तिभ्यां हेतुभ्यां सङ्कु-चितं कनकनिकषचञ्चञ्चम्पकस्त्रक्समानप्रवरं कनकनिकषस्य छायायास्सुवर्णरेखायाश्चञ्चत्याः स्फुरन्याश् चम्पकस्रजश् चम्पकमालि-कायाश्च, समानस्तुल्यः, प्रवरो गोत्रं यस्य तत्तथोक्तं तयोः सदृश-मित्यर्थः । अनेनौज्वल्यसौगन्ध्ये सूचिते । उदारम् ऊर्जितं सर्वा-भीष्टप्रदं वा इदम् एतद् अप्राकृतं तव वर्ष्म वपुर् वाचामभूमिर् अपदं वागगोचरमित्यर्थः ॥ ३७ ॥
आश्रितरक्षानुकूलाधिराज्यसूचकासिकाविशेषविशिष्टां श्रियमनुसन्धत्ते –

विश्वास-प्रस्तुतिः

एकं न्यञ्च्यं नतिक्षमम् मम परं चाकुञ्च्य पादाम्बुजम्
मध्येविष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् ।
त्वाम् पश्येम निषेदुषीम् प्रतिकलं कारुण्यकूलङ्कष-
स्फारापाङ्गत्तरङ्गमम्ब! मधुरम् मुग्धम् मुखम् बिभ्रतीम् ॥ ३८ ॥

मूलम्

एकं न्यञ्च्यं नतिक्षमम् मम परं चाकुञ्च्य पादाम्बुजम्
मध्येविष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् ।
त्वाम् पश्येम निषेदुषीम् प्रतिकलं कारुण्यकूलङ्कष-
स्फारापाङ्गत्तरङ्गमम्ब! मधुरम् मुग्धम् मुखम् बिभ्रतीम् ॥ ३८ ॥

वीरराघवः

एकमिति – अम्ब हे श्रीः! मम दासभूतस्य नतिक्षमम् प्रणामयोग्यम् । एकम् पादाम्बुजं दक्षिणं न्यञ्च्य सिम्हासनादधः प्रसार्य परम् इतरद् वाम पादाम्बुजम् आकुञ्च्य तिर्यगिति शेषः । अभयम् अभय-सूचकम्, अभयदायि वा हस्ताम्बुजम् मध्येविष्टरपुण्डरीकम् आसनपद्म-मध्ये विन्यस्य निषेदुषीम् आसीनां कारुण्यकूलङ्कषस्फारापाङ्ग-तरङ्गङ्कारुण्येन दयया कूलङ्कषौ उत्कूलौ स्फारौ विशालौ अपाङ्गौ तरङ्गाविव यस्य तत्तथोक्तम् । मधुरम् प्रियम् भोग्यं वा । “स्वादु प्रियौ तु मधुरौ” इत्यमरः (अ.को.३-३-१९१) । मुग्धं सुन्दरम् । “मुग्धः सुन्दरमूढयोः” इत्यमरः । मुखम् आननम् बिभ्रतीं त्वाम् प्रतिकलं सर्वकालम् पश्येम सेवेमहि । विश्वरक्षणोपयुक्तसिम्हासनावस्थितिविशेष एव ते सन्ततसेवनीयः संश्रितानामिति भावः ॥ ३८ ॥
इत्थं श्रियं सम्सेव्य सेवाजनितप्रीत्या तत्पादौ शरणमुप-गच्छति –

विश्वास-प्रस्तुतिः

सुरभितनिगमान्तं वन्दिषीयेन्दिरायास्
तव कमलपलाशप्रक्रियम् पादयुग्मम् ।
वहति यदुपमर्देर्वैजयन्ती हिमाम्भः
प्लुतिभिरिव नवत्वं कान्तवाहान्तराले ॥ ३९ ॥

मूलम्

सुरभितनिगमान्तं वन्दिषीयेन्दिरायास्
तव कमलपलाशप्रक्रियम् पादयुग्मम् ।
वहति यदुपमर्देर्वैजयन्ती हिमाम्भः
प्लुतिभिरिव नवत्वं कान्तवाहान्तराले ॥ ३९ ॥

वीरराघवः

सुरभितेति – इन्दिरायाः परमैश्वर्यप्रदायास्तव कमलपलाशप्रक्रियं कमलपलाशानाम् प्रक्रिया रीतिर्यस्य तत् कमलदलसदृशाङ्गुलीत्यर्थः । “पलाशः किंशुके पत्रे” इति विश्वः । सुरभितनिगमान्तं वासित-वेदान्तम् । वेदान्तवेद्यमिति यावत् । पादयुग्मं वन्दिषीये अभिवादयेय स्तुवीय वा “वद्य् अभिवादनस्तुत्योः”(धा.पा.११) इत्यस्माद्धातोर्लिङात्मने- पदोत्तमपुरुषे “इदितो नुम्”(पा.सू.७-३-५८) इति नुमागमे “लिङः सीयुट्” (पा.सू.३-४-१०२) इति सीयुडागमे तस्य इडागमे षत्वे “इटोत्”(पा.सू.३-४-१०६) इति इटो ऽदादेशे वन्दिषीयेति रूपम् ।
उत्तरार्धेन पादयुग्ममेव विशिनष्टि – वहतीति । वैजयन्ती वनमाला
कान्तवाहान्तराले प्रियवक्षसि यदुपमर्दैर् यस्य पादयुगस्य उपमर्दैः सङ्घर्षैर् हिमाम्भ: प्लुतिभिरिव हिमसलिलसेचनैरिव । नवत्वं नूतनत्वं वहति । अमृतस्यन्दिसुकुमारश्रीपादसम्स्पर्शेन शोभातिशयं धत्त इति भावः ॥ ३९ ॥
लक्ष्मीकटाक्षविग्रहवैलक्षण्यमनुसन्धत्ते –

विश्वास-प्रस्तुतिः

त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचा
नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्याम् पतिम् ।
दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते
साक्षाल्लक्ष्मि! तवावलोकविभवः काक्का कया वर्ण्यते ॥ ४० ॥

मूलम्

त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचा
नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्याम् पतिम् ।
दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते
साक्षाल्लक्ष्मि! तवावलोकविभवः काक्का कया वर्ण्यते ॥ ४० ॥

वीरराघवः

त्वदिति – हे लक्ष्मि! राज्ञां लोकपालप्रभृत्याधुनिकपर्यन्तानाम्
प्रभूणां दृशो दृष्टयस् त्वत्स्वीकारकलावलेपकलुषास् त्वत्स्वीकारकला
त्वत्कटाक्षलेशः स्वीकारशब्देन सदयदृष्टिर्लक्ष्यते । कलाशब्देनावयववा-चिना लेशो लक्ष्यते, तेन जातेनावलेपेन गर्वेण, कलुषा आविलास्सत्य:
दुर्वचा वर्णयितुमशक्या भवन्ति, कवीनामिति शेषः । त्वत्कटाक्षलेश-
प्रसरणगर्वेण शोभाविशेषजुष्टाः प्रभुदृष्टयः कविवागगोचरा भवन्तीत्यभि-
प्रायः । किमुत लोकपालानाम् ?

पत्युस्तव पुण्डरीकनयनत्वं च त्वद्विग्रहानुभवसमयसक्तविग्रहरक्ति-
मायत्तमित्याह – नित्यमिति । नित्यं सर्वकालं त्वन्मधुपानमत्तमधु-पश्रीनिर्भराभ्यां त्वन्मधुपाने त्वद्रूपमकरन्दपाने मत्तमधुपयोर् दृप्तषट्प-दयोः श्रिया सम्पदा निर्भराभ्याम् पूर्णाभ्यामेव यथा मधुपाने मत्तमधुपो
नैश्चल्यं रक्ततां चानुभवति तथा मधुरूपत्वदनुभवे मधुपतुल्यनैश्चल्य-रागसम्पूर्णाभ्यामेवेत्यर्थः । दृग्भ्यां लोचनाभ्यां हेतुभूताभ्यां ते तव पतिम् प्रियं वेदः “तस्य यथा कप्यासम् पुण्डरीकमेवमक्षणी”(छां.उ.१-६-७) इति छान्दोग्योपनिषद्रूपः पुण्डरीकनयनम् पुष्कराक्षं विदामास
विज्ञातवान्खलु । “विदज्ञाने”(धा.पा.१०६४) इत्यस्माद्धातोः “उषविद”
(धा.पा.३-१-३८) इत्यादिना आम्प्रत्यये “कृञ्चानुप्रयुज्यते लिटि”(पा. सू.३-१-४०) इत्य् अस्तेरनुप्रयोगे विदामासेति रूपम् । एवं सकल-लोचनातिशयस्य त्वदवलोकनाधीनत्वे त्वदवलोकसौन्दर्यवर्णनातीत-मित्याह साक्षादिति । तव साक्षादवलोकविभवः कटाक्षसौन्दर्य कया काक्वा कीदृश्या भङ्गया वर्ण्यते न कयापीत्यर्थः ॥ ४० ॥
पुनर्लक्ष्मीकटाक्षानेव वर्णयन् तैः स्वरक्षणम् प्रार्थयति –

विश्वास-प्रस्तुतिः

आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-
प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः ।
पद्मे ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैर्
ऐश्वर्योद्गमगद्गदैरशरणम् माम् पालयालोकितैः ॥ ४१ ॥

मूलम्

आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-
प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः ।
पद्मे ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैर्
ऐश्वर्योद्गमगद्गदैरशरणम् माम् पालयालोकितैः ॥ ४१ ॥

वीरराघवः

आनन्देति – हे पद्मे ! तव अत्र यद्यपि “युष्मदस्मदोरामन्त्रितम्
पूर्वमविद्यमानवत्” इत्यामन्त्रितस्य अविद्यमानवद्भावेन त इत्यादेशो न
सम्भवति । तथाप्यविद्यमानवद्भावस्यानित्यत्वङ्काशिकायामुक्तम्
“विद्यमानवच्चेति वक्तव्यम्” इति वार्तिकात् । युक्तं च तद् अत एव
“भिक्षो ! ते दयितास्ति किम् ! न हि नहि प्राणप्रिया कुण्डिका” इति
महाकविप्रयोगः । अत एव च शुभकार्यारम्भे “लक्ष्मीपते ! तेऽङ्घ्रियुगं
स्मरामि” इति सर्ववैदिकप्रयोगः ।
यद्वा पद्मे ते पद्मं कमलम् इते प्राप्ते ! कमलवासिनीत्यर्थः । पद्मे
लीलारविन्दे इता हस्ताभ्याम् प्राप्ता पद्मेता तस्यास्सम्बुद्धिर्वा । आनन्दा त्मभिर् आनन्द एवात्मा स्वरूपं येषां तैरानन्दरूपैरित्यर्थः । ईश-मज्जनमदक्षीबालसैर् ईशस्य हरेर् मज्जनेन स्वेष्ववगाहनेन यो मदस्तेन क्षीबैर्मत्तैर् अलसैर् मन्दरैर् आगलप्रेमार्द्रेर् आगलम् आकण्ठम्, प्रेम्णा प्रीत्या आर्द्रेः शिशिरैरपि । अपिश्चार्थः । कूलमुद्वहकृपासम्प्लावितास्मा-दृशैःकूलमुद्वहया तीररोधिन्या उद्वेलयेत्यर्थः । कृपया सम्प्लाविताः स्ना-पिता अस्मादृशा अकिञ्चना यैस्तैः ।
प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः प्रतिबिन्दु प्रतिकटाक्षलेशम्
बद्धकलिका ममायं कटाक्षलेशोऽस्तु ममायमिति बद्धकलहा ब्रह्मादय एव विष्कम्भका निर्वाहका येषां तैः । विष्कम्भशब्दो नगररक्षार्थार्गल-दण्डवाची तत्सादृश्यात्रिर्वाहकसामान्ये गौणः । “तद्विष्क-म्भोऽर्गलं न ना”(अ.को.२-२-१७) इत्यमरः । ऐश्वर्योद्गमगद्गदैर् ऐश्वर्यस्य सम्पद उद्गमेन उत्पादनेन गद्गदैर् विलासातिशयेन स्खलितगतिभिः । आलोकितैः कटाक्षैः । भावे क्तः । अशरणं रक्षकान्तरशून्यम् माम् पालय “पा रक्षणे”(धा.पा.१०५६) इत्यस्माद्धातोः “हेतुमति च”(पा.सू.३-१-२६) इति णिचि “पातेर्णौ लुगागमो वक्तव्यः”(वार्तिकम्.४५२०) इति लुगागमे पालयेति लोण्मध्यमपुरुषैकवचनम् ॥ ४१ ॥
लक्ष्म्याः सौकुमार्यमनुसन्धत्ते –

विश्वास-प्रस्तुतिः

पादारुन्तुदमेव पङ्कजरजश्चेटीभृशालोकितैर्
अङ्गम्लानिरथाम्ब साहसविधौ लीलारविन्दग्रहः ।
दोला ते वनमालया हरिभुजे हाकष्टशब्दास्पदं
केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥ ४२ ॥

मूलम्

पादारुन्तुदमेव पङ्कजरजश्चेटीभृशालोकितैर्
अङ्गम्लानिरथाम्ब साहसविधौ लीलारविन्दग्रहः ।
दोला ते वनमालया हरिभुजे हाकष्टशब्दास्पदं
केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥ ४२ ॥

वीरराघवः

पादेति – हे अम्ब श्रीः । पङ्कजरजः पद्मरेणुस् ते पादारुन्तुदमेव
पादयोः पादतलयोः पादशब्देन पादतले लक्ष्येते । अरुन्तुदं कण्टक
इव मर्मस्पृक् “अरुन्तुदन्तु मर्मस्पृक्”(अ.को.३-१-८१) इत्यमरः ।
चेटीभृशालोकितैश् चेटीनां सन्ततसहवासपरिचारिकाणाम् भृशालोकितैर्
अधिकवीक्षणैर् अङ्गम्लानिर् गात्रतान्तिर् भवतीति शेषः । अथेति
वाक्यान्तरारम्भे, “मङ्गलानन्तरारम्भप्रश्नकार्त्स्त्रेष्वथो अथ” इत्यमरः
(अ.को.३-३-२४७) । ते तव लीलारविन्दग्रहः लीलाकमलधारणं
साहसविधौ साहसकर्मविधाने भवतीति सर्वत्रानुषज्यते । ते तव हरिभुजे
प्रियवक्षसि भुजशब्देन तन्मध्यं लक्ष्यते । वनमालया वैजयन्त्या दोला दोलाविहरणं हाकष्टशब्दास्पदं हेति कष्टमिति च शब्दौ आस्पदं यस्य तत्कर्म भवति । अतिकोमला अतिसुकुमारा इयम् अप्राकृता तनु-र्विग्रहः केन केन हेतुना वाचां स्तुतिवचसां विमर्दक्षमा विमर्दस्य प्रतिपाद्यतया सङ्घर्षस्य क्षमा योग्या भवति । न केनापीत्यर्थः । अति-सुकुमारस्य श्रीवपुषः पुरुषवचस्तवनमयुक्तमिति भावः ॥ ४२ ॥
अथ श्रियस्तारुण्यं वर्णयति –

विश्वास-प्रस्तुतिः

आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित-
भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभम्
भोगस्त्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥ ४३॥

मूलम्

आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित-
भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभम्
भोगस्त्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥ ४३॥

वीरराघवः

आमर्यादमिति – हे श्रीः । ते तव । स्तनयुगम् आमर्यादं यावत्परि- माणमर्यादम् अद्याप्य् अकण्टकं न किन्तु सकण्टकं सप्रतिबन्धमेव
स्तनपरिमाणपूर्तिरद्यापि न जातेति भावः । पूर्णयौवन एव परिमाणपूर्तिः
स्यादिति हृदयम् । आलोकितभ्रूभेदस्मितवभ्रमा आलोकितस्य वीक्षणस्य
भ्रूभेदस्य भ्रूभङ्गस्य स्मितस्य मन्दहासस्य विभ्रमा विलासा वा । वा- शब्दश्चार्थः । नैसर्गिकत्वायशः स्वभावसिद्धत्वापयशः न जहति न मुञ्चन्ति । तारुण्यप्रयुक्तनेत्रादिलीलास्त्वतिचञ्चलाः सत्यः स्वभाव-प्रयुक्तत्वशङ्कामेवापादयन्ति न तु यौवनप्रयुक्तामिति भावः । भोग-स्रोतसि क्रीडाप्रवाहे । कान्तदेशिककरग्राहेण कान्तः प्रिय एव देशिकः परिज्ञाता तस्य करग्राहेण हस्तावलम्बेन । कान्तहस्तं गृहीत्वेति यावत् । गाहे अवगाहने क्षमो योग्यः मौग्ध्यातिशयाद् एवम् भोगः कार्य इति कान्तोपदेशसापेक्ष इत्यर्थः । शैशवयौवनव्यतिकरः शैशवस्य बाल्यस्य यौवनस्य युवत्वस्य च व्यतिकरः सन्धिस् तारुण्यमित्यर्थः । ते तव गात्रेष्व् अवयवेषु सौरभं निरतिशयसौगन्ध्यं सूते जनयति तारुण्योदयात् कुचोदञ्चननेत्रविलासगात्रसौरभाणि सञ्जातानीति भावः ॥ ४३ ॥
श्रियो दिव्यमङ्गलविग्रहम् पुष्पदामत्वेन र्वणयित्वा तस्य हरिवक्षः
परिष्कारतामापाद्यसुकुमारतमं वपुस्तथावर्णयन्तं स्वात्मानमुपालभते –

विश्वास-प्रस्तुतिः

आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्
सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।
श्रीरङ्गेश्वरि! कोमलाङ्गसुमन:सन्दर्भणं देवि ! ते
कान्तोरःप्रतियत्नमर्हति कवि धिङ्मामकाण्डाकुलम् ॥ ४४ ॥

मूलम्

आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्
सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।
श्रीरङ्गेश्वरि! कोमलाङ्गसुमन:सन्दर्भणं देवि ! ते
कान्तोरःप्रतियत्नमर्हति कवि धिङ्मामकाण्डाकुलम् ॥ ४४ ॥

वीरराघवः

आमोदेति – हे देवि ! आमोदाद्भुतशाल्य् आमोदाद्भुतेन अद्भुतसौगन्ध्येन । शालत इति शालि । “आमोदो गन्धहर्षयोः”(अ.को.१-४-२४) इत्यमरः ।यौवनदशाव्याकोचं यौवनदशया तारुण्येन व्याकोचं विकासि, इत्थम् भावे तृतीया, तारुण्याभिन्नविकासमित्यर्थः । अम्लानिमद् अतान्तं
सौन्दर्यामृतसेकशीतलं सौन्दर्यम् अवयवशोभैव अमृतं तस्य सेकेन
व्याप्त्येत्यर्थः । शीतलं शिशिरम्, लावण्यसूत्रार्पितं लावण्यं समुदाय-शोभैव सूत्रं गुणस् तस्मिन्नर्पितं ग्रथितं लावण्यस्य सर्वावयवानुस्यू-तत्वात् सूत्रत्वरूपणं ते तव कोमलाङ्गसुमनःसन्दर्भणं सुकुमारावयव-पुष्पमालिका कान्तोरःप्रतियत्नं कान्तस्य हरेर् उरसो वक्षसः प्रतियत्नम् परिष्कारम् अर्हति । हरिवक्षोऽलङ्करणार्ह भवतीत्यर्थः । अकाण्डाकुलम् अकाण्डे अनवसरे आकुलं विवशं कविम् मां धिक् निन्दनीयम् ।
पुष्पापेक्षयानिरतिशयसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययुक्तलक्ष्मीवपुषः
पुष्पदामत्वरूपणं तस्य दनुजवृषविषाणोल्लिखितकठिनहरिवक्षः परि- ष्करणत्वकल्पनं चायुक्तमिति स्वस्याकाण्डाकुलत्वं ततो निन्द्यत्वं
चेति बोध्यम्। कठिनतमेऽपि हरिवक्षस्याश्रितरक्षणचापल्यात् सुकुमाराया
अपि श्रियः स्थितिरुपपन्नैवेति मन्तव्यम् ॥ ४४ ॥
श्रियो भगवता सह सम्भोगशृङ्गारं वर्णयति –

विश्वास-प्रस्तुतिः

मर्मस्पृशो रसशिरा व्यतिविध्य वृत्तैः
कान्तोपभोगललितैर्लुलिताङ्गयष्टिः।
पुष्पावलीव रसिकभ्रमरोपभुक्ता
त्वं देवि ! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५ ॥

मूलम्

मर्मस्पृशो रसशिरा व्यतिविध्य वृत्तैः
कान्तोपभोगललितैर्लुलिताङ्गयष्टिः।
पुष्पावलीव रसिकभ्रमरोपभुक्ता
त्वं देवि ! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५ ॥

वीरराघवः

मर्मेति – हे देवि ! मर्मस्पृशो मर्मस्पर्शिनीः रसशिरा रसनाडीर् व्यति- विध्य वेधिताः कृत्वा वृत्तैर् उद्भूतैः कान्तोपभोगललितैः सम्भोगविलासैर् लुलिताङ्गयष्टिर् मृदितगात्रयष्टिः सती रसिकभ्रमरोपभुक्ता रसिकभ्रमरेण रसास्वादनचतुरचञ्चरीकेण उपभुक्ता । निपीतरसा पुष्पावलीव स्थिता त्वम् मुकुन्दम् प्रेयाम्सम् अभिनन्दयसे आनन्दयसि । नयनहृदयानन्द- कन्दलितं करोषीत्यर्थः ॥ ४५ ॥
श्रियो दिव्याभरणगणयोगकृतकान्तिविशेषमनुसन्धत्ते –

विश्वास-प्रस्तुतिः

कनकरशनामुक्ताताटङ्कहारललाटिका –
मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके ।
प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैर्
वलयशकलैर्दुग्धम् पुष्पैश्च कल्पलता यथा ॥ ४६ ॥

मूलम्

कनकरशनामुक्ताताटङ्कहारललाटिका –
मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके ।
प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैर्
वलयशकलैर्दुग्धम् पुष्पैश्च कल्पलता यथा ॥ ४६ ॥

वीरराघवः

कनकेति – हे जनार्दनजीविके ! श्रीरङ्गराजजीवनौषधि ! कनकरशना स्वर्णमेखला स्वर्णसूत्रं वा मुक्ताताटङ्के मौक्तिककर्णपत्रे हारो मुक्ताहारः ललाटिका कनकमयम् माणिक्यमयं वा तिलकं ललन्ती वा मणि-सरा मणिमालिकास् तुलाकोटी मणिमञ्जीरौ एते प्रायाः प्रधानानि
येषां तैः । मुग्धविभूषणैः सुन्दराभरणैः प्रकृतिमधुरं स्वभावरम्यं ते
गात्रं वलयशकलैः शर्कराखण्डैर् दुग्धं यथा क्षीरमिव, पुष्पैः कल्पलता
यथा कल्पवल्लीव च जागर्ति विशेषेण प्रकाशते ॥ ४६ ॥
“रूपाकारविभूतिभिश्च सदृशीम्” इत्युक्तरीत्या भगवतः परमसाम्या- पन्नायाः श्रियः कौस्तुभवैजयन्तीपञ्चायुधधारणस्य साधारण्येऽपि
तेषाम् भगवदेकधारणे हेतुमुत्प्रेक्षते –

विश्वास-प्रस्तुतिः

सामान्यभोग्यमपि कौस्तुभवैजयन्ती-
पञ्चायुधादि रमणः स्वयमेव बिभ्रत् ।
तद्भारखेदमिव ते परिहर्तुकामः
श्रीरङ्गधाममणिमञ्जरि गाहते त्वाम् ॥ ४७ ॥

मूलम्

सामान्यभोग्यमपि कौस्तुभवैजयन्ती-
पञ्चायुधादि रमणः स्वयमेव बिभ्रत् ।
तद्भारखेदमिव ते परिहर्तुकामः
श्रीरङ्गधाममणिमञ्जरि गाहते त्वाम् ॥ ४७ ॥

वीरराघवः

सामान्येति – हे श्रीरङ्गधाममणिमञ्जरि ! श्रीरङ्गधाम्नः हरेर् दिव्य- विमानस्य वा मणिमञ्जरी रत्नगुच्छिका रत्नदीपिका वा तस्याः सम्बुद्धिः । सामान्यभोग्यमपि युवयोरिति शेषः । सामान्येन साधारण्येन भोग्य- मपि भूषणतया प्रहरणतया च धार्यमपि कौस्तुभवैजयन्ती पञ्चायुधादि
कर्म आदिशब्देन परशुपरिघादि गृह्यते तद्भारखेदं तद्वहनायासं ते तव
परिहर्तुकाम इवेत्युत्प्रेक्षा। स्वयमेव बिभ्रत्सन् त्वां गाहते संश्लिष्यति
दिव्याभरणदिव्यायुधगणं वहन् प्रियस्त्वामनुसरतीति भावः ॥ ४७ ॥
“राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु
विष्णोरेषानपायिनी”(वि.पु.१-९-१४४) इत्युक्तरीत्या भगवतस् तत्तदवतारा-नुगुणं श्रियोऽनवतारे भगवते लीला न रोचत इत्याह –

विश्वास-प्रस्तुतिः

यदि मनुजतिरश्चां लीलया तुल्यवृत्तेर्
अनुजनुरनुरूपा देवि ! नावातरिष्यः ।
असरसमभविष्यत्रर्म नाथस्य मातः !
दरदलदरविन्दोदन्तकान्तायताक्षि ॥ ४८ ॥

मूलम्

यदि मनुजतिरश्चां लीलया तुल्यवृत्तेर्
अनुजनुरनुरूपा देवि ! नावातरिष्यः ।
असरसमभविष्यत्रर्म नाथस्य मातः !
दरदलदरविन्दोदन्तकान्तायताक्षि ॥ ४८ ॥

वीरराघवः

यदीति – दरदलदरविन्दस्य ईषद्विकसितपुण्डरीकस्य उदन्तो वृत्तान्तस् तेन गर्भपत्रं लक्ष्यते तत्कान्ते शोभमाने आयते विशाले अक्षिणी यस्यास्तस्याः सम्बुद्धिः । मातः जननि ! लीलया स्वेच्छया न तु कर्मणा, मनुजतिरश्चाम् मनुष्यतिर्यस्जन्तूनाम् इदमुपलक्षणं सुरनर- तिर्यक्स्थावरशरीरचतुर्विधात्मनामपि तुल्यवृत्तेः रामकृष्णमत्स्यकूर्म-
कुब्जाम्रादिरूपेण समानशीलस्य नाथस्य श्रीरङ्गराजस्य अनुजनुः
प्रत्यवतारम् अनुरूपा रुक्मिण्यादिरूपेणानुरूपाकारा नावातरिष्यो यदि
नावतरसि चेन् नाथस्य तस्य नर्म “क्रीडा खेला च नर्म च”(अ.को.१-७-३२) इत्यमरः । असरसं विरसम् अभविष्यत् । तदवतारानुरूपमवतीर्य त्वदभिनन्दने सत्येव तस्य तन्नर्म प्रीत्यै भवेन् न चेन्नेतिन् भावः ॥ ४८ ॥
संश्रितार्थ समुद्रमथनायासम् भजतो भगवतः श्रमापनयनाय समुद्रा- दाविर्भूतासीत्याह –

विश्वास-प्रस्तुतिः

स्खलितकटकमाल्यैर्दोर्भिरर्ब्धि मुरारे:
भगवति दधिमाथम् मथतः श्रान्तिशान्त्यै ।
भ्रमदमृततरङ्गावर्ततः प्रादुरासीः
स्मितनयनसुधाभिः सिञ्चती चन्द्रिकेव ॥ ४९ ॥

मूलम्

स्खलितकटकमाल्यैर्दोर्भिरर्ब्धि मुरारे:
भगवति दधिमाथम् मथतः श्रान्तिशान्त्यै ।
भ्रमदमृततरङ्गावर्ततः प्रादुरासीः
स्मितनयनसुधाभिः सिञ्चती चन्द्रिकेव ॥ ४९ ॥

वीरराघवः

स्खलितेति – हे भगवति षड्गुणैश्वर्यसम्पन्ने । स्खलितानि प्रति- हतानि कटकानि वलयानि माल्यानि मालिका येषु तैर्दोर्भिर् बाहुभिर्
अब्धिं क्षीरार्णवं दधिमाथं दधीव उपमानार्थे णमुल्प्रत्ययः । मध्नतो मथनं कुर्वतो ऽमृतार्थमितिभावः । मुरारे: माधवस्य श्रान्ति-शान्त्यै श्रमापनयनाय स्मितनयनसुधाभिः स्मितम् मन्दहासः नयनान्य-वलोकनानि नयनशब्देन अवलोकितानि लक्ष्यन्ते । तान्येव सुधास् ताभिः सिञ्चती सती चन्द्रिकेव भ्रमदमृततरङ्गावर्ततः भ्रमताम् उल्लोलानाम् अमृततरङ्गाणां सुधावीचीनाम् आवर्ततो वलयात् तत्सारतयेति भावः । तदुक्तं श्रीवत्साङ्कमिश्रैः – “उदधिगमन्दराद्रिमणिमन्थन लब्धपयोमधुर-रसेन्दिराह्वसुधसुन्दरदो: परिघम्”(सुं.बा.स्त.४) इति । प्रादुरासीर् आवि-र्भूतासि । यथा – जगत् सुधाभिः सिञ्चती चन्द्रिका पयोधेराविर्भवति तथा भगवन्तं स्मितनयनसुधाभिः सिञ्चती पयः – पयोध्युल्लुठत्सुधा- तरङ्गावर्तात् त्वमाविर्भूतासीति भावः ॥ ४९ ॥
अथ भगवत्क्षमाया अपि लक्ष्मीक्षमामतिशयितामुदाहृत्य महापराधि- नोऽस्मानानन्दयत्वित्याशास्ते –

विश्वास-प्रस्तुतिः

मातर् मैथिलि राक्षसीस् त्वयि तथैवार्द्र(→क्रियमाण-)+अपराधास् त्वया
(सम्मुख-प्रणिपाताभावेऽपि, प्रार्थित-राघवाभयम् अन्तरा हनुमद्-रावणाभ्याम् अपि)
रक्षन्त्या (←)पवनात्मजाल्, लघुतरा (शुष्कापराध-क्षमातः) रामस्य गोष्ठी कृता
काकं तं च विभीषणम् “शरणम्” इत्य् उक्ति-क्षमौ रक्षतः (→रामस्य)
सा नः सान्द्र-महागसस् सुखयतु - क्षान्तिस् तवाकस्मिकी ॥ ५० ॥(5)

राजगोपालः - English

“O Mother Maithili, by the protection which you gave to the offending Rākṣasis from Hanuman,
you reduced Rāma and His council (Sugrīva and others) to a lower position,
(for Rāma protected Vibhishana (who had committed no offence)
and Kakasura (who had offended)
when they were able to ask for protection
whereas you protected the Rākṣasis while they were in the very act of offending, and even when they did not themselves beg of you to do so, (at the intercession of Trijata),”

मूलम्

मातर्मैथिलि ! राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया
रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता ।
काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः
सा नः सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥ ५० ॥

वीरराघवः

मातरिति – हे मातः निरुपाधिकजननि मैथिलि ! कृपैकमूर्तितया
सीतावतारं कुर्वाणे ! श्रीरङ्गेश्वरि ! त्वयि त्वद्विषये, तदैव हनूमदागम- नाव्यवहितपूर्वसमय एव, रावणस्य तदानीमेव नाशादिति भावः । तथै-वेति पाठे तथैव रामराहित्येनेत्यर्थः । रावणजीवनदशायां यथा तथैव तन्नाशदशायामपीति वार्थः । आर्द्रापराधा रावणनाशापरिज्ञानाद्धनूम-दागमनपर्यन्तमविरतापराधाः । राक्षसीर् एकाक्ष्यादिकाः । पवनात्मजात् तिर्यगुद्भूतात्स्वतो मर्कटात्, रक्षन्त्या पालयन्त्या एतेन बुद्धिशून्यत्वं दुस्साधत्वं च व्यञ्जितम् ।
काकं काकासुरम्, तम् “विभीषणस्तु धर्मात्मा न तु राक्षस-चेष्टितः”(रा.आर.कां.१७-२३) इति प्रसिद्धविभीषणं च । शरणमि-त्युक्तिक्षमौ “त्रीन्लोकान् सम्परिक्रम्य तमेव शरणं गतः”(रा.सुं.कां.३८-३२) “त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः”(रा.कि.कां.५३-१६) इति शरणवरणोक्तिक्षमौ । रक्षतः पालयतः, उभयोः शरणवरणं रक्षणनिमित्तं सूचितम् । “वध्यम् प्रपन्नं न प्रतिप्रयच्छन्ति” इति श्रुतेः । रामस्य त्वत्प्रियस्य गोष्ठी परिषत्, लघुतरा लघीयसी कृता । रामो लघूकृत इति वक्तव्ये गोष्ठ्यां तदुक्तिरपचारभिया रामस्य गुण-परिषद्वा । मन्दबुद्धेर्दुस्साध्यान्निर्निमित्तमार्दापराधरक्षणशीलया त्वया-निमित्तमपेक्ष्यरक्षतो रामस्य गुणगोष्ठीलघूकरणं युक्तमिति तात्पर्यम् । सा आर्द्रापराधसहत्वरूपेण प्रसिद्धा । आकस्मिकी निर्हेतुका तव क्षान्तिः सान्द्रमहागसः निरन्तरमहापराधानस्मान् सुखयतु सुखिनः करोतु । सा क्षमैवास्माकमाश्वासहेतुरिति भावः । अत्र केचित् – “प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा”(रा.सु.कां.२७-४६, ५८-९०) इति श्रीरामायणवचनेन लक्ष्मीक्षमाया अपि प्रणिपातहेतुकत्वप्रतितेराकस्मिकत्वं नास्तीति वदन्ति । तदापातप्रतीतिविलसितम्, तथा हि – कल्याणस्वप्नदर्शिन्या त्रिजटया मैथिल्याः श्रेयःकालः समागतस्तदेनाम् मा पीडयत प्रत्युत शरणं गच्छत रावणे हतेपि युष्मानियं रक्षिष्यतीत्युक्त्वा महापराध- कारिणीरस्मान्कथं रक्षिष्यतीति तदाशङ्काम् “प्रणिपातप्रसन्ना हि
मैथिली”(रा.सुं.कां.२७-४६, ५८-९०) इत्यौचित्यात्स्वबुद्ध्यैव परिहृतवती । नतु प्रणिपातप्रसन्नता मैथिलीधर्मः । अत एव रावणवधानन्तरमपि
तद्वधापरिज्ञानेन हिम्समाना राक्षसीर्हनूमतो रक्षितवती । अत एव स्व-विषये महापराधं काकासुरं विमुखपतितम् भगवत्पादारविन्दयोर्जि-तवती, अतस्साधूक्तमेव क्षान्तिस्तवाकस्मिकीति । एतच्छङ्कापरिहारा-वस्मदुक्तश्रीगुणसुधासारलहरीस्तोत्रे प्रदर्शितौ – “तव क्षान्तिम् भट्टारक-गुरुरवादीत्तव नुतावकस्मादुद्भूतामिह जननि केचिज्जडधियः । प्रसन्ना हीत्युक्तेः प्रणिपतनतो मैथिलसुता सहेतुस्सापि स्यादिति जगदुरापात-मतितः । स्वबुद्ध्यैव प्रोक्तम् प्रणतसुमुखीति त्रिजटया न चैतद्धर्मस्ते नलिनदलनेत्रप्रियतमे । यदेकाक्षीप्रख्यायतबहुलहिम्सानवधिकप्रवृद्धार्द्रा गस्काः पवनतनयाद्रक्षितवति” ॥ इति ॥ ५० ॥
अस्माकम् भगवदुद्देश्यत्वं त्वत्सम्बन्धनिबन्धनम् । अतस्तद्दर्शन-तदाश्रयणतत्कैर्ङ्यकरणतज्जनितानन्दबाष्पादीन्यस्माकमुपपद्यन्त इत्याह –

सारबोधिनी

इदिऩर्थम्, हे मातः मैथिलि - तायाराऩ मिथिलाधिपऩ् पुत्रियाऩ पिराट्टिये। त्वयि - उऩ् विषयत्तिल्, तथैवार्द्रापराधाः – वाचामगोचरमाऩ तदानीन्तनमाऩ अपराधङ्गळैयुडैय, राक्षसीः – राक्षसिकळै, पवनात्मजात् – हनुमारिडत्तिल् निऩ्ऱुम्, रक्षन्त्या – शरणमॆऩ्गिऱ उक्तियैच् चॊल्लाम लिरुक्कच्चॆय्देयुम् विलक्कामैये पऱ्ऱासागक् कॊण्डु रक्षित्त, त्वया - उऩ्ऩाल्, काकं - कागत्तैयुम्, तं च विभीषणं - अन्द विभीषणऩैयुम्, शरणमित्युक्तिक्षमौ – राघवं शरणं गतः इत्याद्युक्तिक्षमौ, काकासुरऩ् मूऩ्ऱु उलगङ्गळैयुम् सुऱ्ऱि तिरुवडिगळिल् विऴुगैयालुम्, अक्कालत्तिल् पक्षिकळुम् शरणमॆऩ्गिऱ उक्तियैच् चॊल्ल समर्थङ्गळागैयालुम्,

‘‘त्रींल्लोकान् सम्परिक्रम्य तमेव शरणं गतः’’

ऎऩ्ऱु वाल्मीगि भगवाऩ् अरुळिच्चॆय्गैयालुम् कागत्तिऱ्कुम् शरणमित्युक्तिक्षमत्वम् सॊऩ्ऩदु। रक्षतो रामस्य गोष्ठी – रामसम्बन्धियाऩ तिरुवोलक्कम्, लघुतरा कृता – अनादरविषयीकृता ।

विश्वास-प्रस्तुतिः

मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।
जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिम्
पश्येम प्रतियाम याम च परीचारान्प्रहृष्येम च ॥ ५१ ॥

मूलम्

मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।
जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिम्
पश्येम प्रतियाम याम च परीचारान्प्रहृष्येम च ॥ ५१ ॥

वीरराघवः

मातरिति – हे मातः जननि ! ते तव मैथिलजनः यथा स्वीय इति शेषः । तेनाध्वना मार्गेण तद्वदित्यर्थः । वयमपि स्वीया इत्यर्थः । ततः किमित्यत्राह – त्वदिति । त्वद्दास्यैकरसाभिमानसुभगैस् त्वद्दास्ये
त्वत्कैर्ङ्ये एकरसो मुख्यप्रीतिस् त्वदभिमानेन भगवत्कैर्ङ्येऽपि त्वत्कै-र्ङ्यबुद्धेत्यर्थः । सुभगैः शोभनैर् भावैर् अभिप्रायैः । जामातेति जनकश्री-विष्णुचित्तयोरिति शेषः । मैथिलजनाभिप्रायेण जनकोक्तिः । अस्मदभि- प्रायेण श्रीविष्णुचित्तोक्तिः । तव दयित इति । भवती सम्बन्धदृष्ट्या भवत्यास्सम्बन्धज्ञानेन, “भूसत्तायाम्”(धा.पा.१) इति धातोः “लटः शतृ-शानचौ”(पा.सू.३-२-१२४) इति शत्रादेशे, “उगितश्च”(पा.सू.४-१-६) इति ङीपि भवतीति रूपम् । हरिं श्रीरामं श्रीरङ्गनायकं च । इहामुत्र च लीलाविभूतौ नित्यविभूतौ च पश्येम सदा दर्शिनो भवेम । प्रतियाम शरणं गच्छेम परीचारान् किङ्करवृत्ती: याम भजेम च प्रहृष्येम प्रकृष्टा-नन्दभावा भवेम, मैथिलजनः स्वप्रभुजनकजामातेति तव प्रिय इति च श्रीरामं यथोपचरन्ति तथा प्रपन्नजनकूटस्थत्वत्पितृविष्णुचित्तजामा-तेति त्वत्प्रिय इति च श्रीरङ्गराजं वयमुपचराम इति भावः ॥ ५१ ॥
“चन्द्रमा मनसो जातः”(ऋ.वे.८-४-१९) इत्युक्तरीत्या शीताशयेपि
भगवति यावत्कालमविच्छिन्नमहापराधान् अस्मानवलोक्य मनाङ्नि- ग्रहाभिमुखम् मनः कुर्वति सति तदनुचितमिति तं ततः कर्मणो
निवर्त्त्य वात्सल्यातिशयात् त्वमस्मान् स्वजनयसीत्याह –

विश्वास-प्रस्तुतिः

पितेव त्वत्प्रेयाञ्जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीति त्वमुचितैर्
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ ५२ ॥

मूलम्

पितेव त्वत्प्रेयाञ्जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीति त्वमुचितैर्
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ ५२ ॥

वीरराघवः

पितेति – हे जननि श्रीः ! त्वत्प्रेयान् तव प्रियः श्रीरङ्गराजः परि- पूर्णागसि सम्पूर्णापराधे जने चेतनवर्गे पितेव पुत्र इति शेषः । हितस्रोतो- वृत्त्या तत्कालाप्रियम् पथ्यपर्यवसायि च हितं तदेव स्रोतः प्रवाहस् तत्र वृत्त्या वर्तनेन हितैकपरत्वादित्यर्थः । “याचितोपि सदा भक्तैर्नाहितं कारयेद्धरिः” इत्युक्तेः । कदाचित् कदापि सन्ततमनुकूल एव सन् महा-पराधदर्शनेन कदापि समये कलुषधीः कुपितमना भवति च भवत्यपि न तु कुपितमनस्त्वं तस्य नैजमिति भावः । तद्दर्शिन्याः श्रियो व्यापार-माह – किमेतदिति । एतद् इदं कालुष्यं किं किं निबन्धनम्
अनुचितमित्यर्थः । अनुचितत्वमुपपादयति – निर्दोष इति । इह दोषै-काश्रये जगति लीलाविभूतौ निर्दोषः कः? न कोपीत्यर्थः । एतद्विभूति-सम्बन्धेन हेयप्रतिभटस्य तवापि दोषः प्रसज्येदिति भावः । अतो दोष-दर्शनेन तव मनःकालुष्यं न युक्तमित्येवम् प्रकारेण उचितैर् अपराध-क्षमापणयोग्यैर् उपायैर् आलोकालाप नीवीश्लथनादिभिर् विस्मार्य तस्य दोषादर्शित्वमापाद्य नो ऽस्मान् स्वजनयसि भगवतस्स्वत्वाभिमान-गोचरान्करोषि । तत् तस्मात्कारणात् प्रियैकपरतयेत्यर्थः । त्वम् मातासि पितुर्हितपरत्वम् मातुः प्रियपरत्वं च सुप्रसिद्धं युवयोर्दृष्टमिति भावः ॥ ५२ ॥
“परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसम्स्थापनार्थाय
सम्भवामि युगे युगे”(भ.गी.४-८) । “अन्येषु चावतारेषु विष्णोरेषान- पायिनी”(वि.पु.१-९-१४४) इति प्रमाणद्वयोक्तप्रकारेण संश्रितरक्षणाय श्रीश्रीशौ कृपास्वातन्त्र्याभ्यां हेतुभ्यां लीलाविभूताववतीर्य सुकुमार- वपुर्ग्लपनविरहक्लेशादिकमनुभूतवन्तावत एतत्कृपास्वातन्त्र्ये धिगिति
तद्विग्रहप्रेमपारवश्यादाह –

विश्वास-प्रस्तुतिः

नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दम् बहु ।
क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने
जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥ ५३ ॥

मूलम्

नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दम् बहु ।
क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने
जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥ ५३ ॥

वीरराघवः

नेतुरिति – हे जननि ! श्रीर् नेतुर्नायकस्य नित्यसहायिनी त्वम्,
नो ऽस्मान् अकिञ्चनात् त्वत्स्थलासन्निहितान् वा त्रातुं रक्षितुं
त्वन्महिमावबोधबधिरे त्वद्वैभवज्ञानशून्ये अत्र लोके लीलाविभूतौ आगता समवतीर्णा सती बह्व् अधिकं विमर्दम् आयासम् प्राप्ता गतवती ।
आयासप्राप्तिमुपपादयति – क्लिष्टमिति । मालतीमृदु जातिकुसुम-
सुकुमारम् पदम् पदद्वयम् । ग्रावसु पाषाणेषु क्लिष्टं क्लेशम् प्राप्तवत् । वने विश्लिष्य विरहम् प्राप्य वासो जातः वर्तनं जातं नित्यानपायिनोर् युवयोः पृथग्वर्तनं जातम् । अत्यङ्कुशाम् अमर्यादां विग्रहसौकुमार्य-विरोधिनीं युवयोः करुणाम् प्रति धिगस्तु निन्दा भवतु । अत्यङ्कुशं स्वातन्त्र्यं च प्रतिधिगस्तु निन्दा भवतु तदुभयप्रयुक्तत्वादुभयोरेतादृश-क्लेशस्येतिभावः । सुकुमारभगवद्दिव्यमङ्गलविग्रहप्रेमपारवश्याद् धिक् करुणां धिक्स्वातन्त्र्यमिति स्तोतुस्तदुभयनिन्दा युक्तैवेति मन्तव्यम् ॥ ५३ ॥
संश्रितरक्षणोपयुक्तं श्रियः स्वाधीनपतिकात्वमाह –

विश्वास-प्रस्तुतिः

अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं
हरधनुरसौ वल्लीभञ्जम् बभञ्ज च मैथिलि ! ।
अपि दशमुखीम् (खम्) लूत्वा रक्षःकबन्धमनर्तयत्
किमिव न पतिः कर्ता त्वञ्चाटुचुञ्चुमनोरथः ॥ ५४ ॥

मूलम्

अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं
हरधनुरसौ वल्लीभञ्जम् बभञ्ज च मैथिलि ! ।
अपि दशमुखीम् (खम्) लूत्वा रक्षःकबन्धमनर्तयत्
किमिव न पतिः कर्ता त्वञ्चाटुचुञ्चुमनोरथः ॥ ५४ ॥

वीरराघवः

अधीति – हे मैथिलि ! सीतावतारभेदानुसन्धानेन श्रीरङ्गनायक्या
मैथिलीति सम्बोधनम् । असौ नाथस् त्वत्प्रियस् त्वञ्चाटुचुञ्चुमनोरथः सन् त्वच्चादुना त्वत्प्रियाचरणेन वित्तः सम्पन्नो मनोरथो यस्य स तथोक्तस्सन् । “तेन वित्तश्चञ्चुप्चणपौ”(पा.सू.५-२-२६)इति चुञ्चुप्प्रत्ययः । अब्धिमध्य् अब्धौ, “अधिशीङ्स्थासां कर्म”(पा.सू.१-४-४६) इति सप्त-म्यर्थे द्वितीया । शयितवान् शयनं कृतवान् त्वज्जननभवनप्रीत्येति भावः । तम् अब्धिम् ममन्थ मथितवान् । बबन्ध च सेतुना बद्धवाश्च । हरधनुः शिवकोदण्डं वल्लीभञ्जं वल्लीमिव, उपमानार्थे णमुल्प्रत्ययः । बभञ्ज च भङ्गं कृतवांश्च । दशमुखीम् (खम्) दशानाम् मुखानां समाहारं दशापि मुखानीत्यर्थः । लूत्वा रक्षःकबन्धं रावणशरीरम् अनर्त्तयदपि नर्त्तितवांश्च, अपिश्चार्थः । रणरङ्ग इति शेषः । सर्वत्र त्वल्लाभायेति योज्यम् ।
अब्धिशयन-तन्मथन-हरधनुर्भजन-अब्धिबन्धन-रक्षःकबन्ध-नर्त्त- नानां क्रमेण वक्तव्यत्वेपि “अत्यन्तभक्तियुक्तानां शास्त्रं न च क्रमः” इति प्रमाणानुसारेण भक्त्यतिशयादत्र क्रमो नानुसम्हितः। न परमिदमेव किन्त्वशक्यमपि कुर्यादित्याह – किमिवेति । पतिस्त्वत्प्रियः किमिव न कर्त्ता किं वा न कुर्याद् इवशब्दो वार्थः । अघटितं सर्वमपि कुर्यादे-वेत्यर्थः । अत एवोक्तं हनूमता “यदिरामस्समुद्रान्ताम् मेदिनीम्
परिवर्त्तयेत् । अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः”(रा.यु.कां.१६-१३) इति । कर्तेति “डुकृञ् करणे”(धा.पा.१४७३) इति धातोः कर्तरि
लुट् ॥ ५४ ॥
भगवतस्सर्वप्रकारविभवोऽपि लक्ष्मीविलासलवानुभवे न पर्याप्त इत्याह –

विश्वास-प्रस्तुतिः

दशशतपाणिपादवदनाक्षिमुखैरखिलैर्
अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।
अवतरणैरतैश्च रसयन्कमिता कमले
क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥ ५५ ॥

मूलम्

दशशतपाणिपादवदनाक्षिमुखैरखिलैर्
अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।
अवतरणैरतैश्च रसयन्कमिता कमले
क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥ ५५ ॥

वीरराघवः

दशशतेति – हे कमले! ते तव कमिता नायको हरिः “सहस्रशीर्षा
पुरुषः”(पु.सू-१) “अनन्तबाहूदरवकत्रनेत्रम्”(भ.गी.११-१६) इति श्रुतिस्मृत्यु-क्तप्रकारेण दशशतानि सहस्रसङ्ख्याः पाणयो हस्ताः पादाश्चरणा वदनानि मुखान्य् अक्षीणि नयनानि मुखान्य् आदीनि येषां तैस्तथोक्तैर् अनुरूप- गुणैस् त्वद्गुणानुरूपैर् अखिलैर् अन्यूनैर् निजवैश्वरूप्यविभवैर् निजं
स्वकीयं नित्यं वा “निजं नित्ये स्वके त्रिषु” इत्यमरः (अ.को.३-३-३२) । विश्वरूपमेव वैश्वरूप्यं विश्वरूपसम्बन्धि वा तस्य विभवैर् अति-शयैरपि, अपिश्चार्थः । अतैस् तद्भिन्नैः – वैश्वरूप्यविभवभिन्नैरित्यर्थः । अवतरणैर् वासुदेवादिचातुर्व्यूहविरिञ्चिगिरीशमध्यवर्तिविष्णूपेन्द्रमत्स्य-कूर्मादिरूपैश्च रसयन् अनुभवन् त्वद्विभ्रममिति शेषः । क्वचन च क्वापि
समुद्रे तुषारवदेकदेश इत्यर्थः । विभ्रमभ्रमिमुखे विलासावर्तगह्वरे विनिम-ज्जति निमग्नो भवति । न त्वेकदेशमपि प्रयातीत्यर्थः । विनिपूर्वात् “टुमस्जो शुद्धौ”(धा.पा.११७७) इत्यस्माद्धातोः सस्य जश्त्वेन दत्वे श्चुत्वे
विनिमज्जतीति रूपम् ॥ ५५ ॥
श्रियो दुग्धार्णवपरमपदश्रीरङ्गेषु नित्यवासे हेतुमाह –

विश्वास-प्रस्तुतिः

जननभवनप्रीत्या दुग्धार्णवम् बहुमन्यसे
जननि दयितप्रेम्णा पुष्णासि तत्परमम् पदम् ।
उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-
क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥ ५६ ॥

मूलम्

जननभवनप्रीत्या दुग्धार्णवम् बहुमन्यसे
जननि दयितप्रेम्णा पुष्णासि तत्परमम् पदम् ।
उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-
क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥ ५६ ॥

वीरराघवः

जननेति – हे जननि श्रीरङ्गेश्वरि ! जननभवनप्रीत्या जन्मगृह- प्रणयेन दुग्धार्णवं क्षीराब्धिम् बहुमन्यसे मानयसि, तत्र वासं
विधत्स इत्यर्थः । बहुपूर्वाद्दिवादिपठितात् “मन ज्ञाने”(धा.पा.११७६)
इत्यस्माद्धातोः “दिवादिभ्यः श्यन्”(पा.सू.३-१-६९) इति श्यन्प्रत्यये
बहुमन्यसे इति लण्मध्यमपुरुषैकवचनम् । तत् प्रसिद्धम् “तद्विष्णोः
परमम् पदम्”(ऋ.वे.१-२-७) इति वेदान्तविदितम् परमम् पदम् परम-व्योम दयितप्रेम्णा प्रियप्रीत्या प्रियगृहप्रीत्येत्यर्थः । पुष्णासि पोषयसि तत्र सान्निध्यं कुरुष इत्यर्थः । “पुष पुष्टौ”(धा.पा.१५३०) इति धातोः
परस्मैपदपठितात् श्नाप्रत्यये पुष्णासीति रूपम् । उदधिपरमव्योम्नोर्
दुग्धार्णवपरमपदयोर् विस्मृत्य विस्मरणं कृत्वा तत्रस्थानां नित्यं
सन्निहितेयमिति बुद्धिमुत्पाद्येत्यर्थः । “अधीगर्थदयेशां कर्मणि”(पा.सू. २-५-५२) इति कर्मणि षष्ठी । मादृशरक्षणक्षममिति घिया मादृशा- किञ्चिनपालनयोग्यमिति बुद्ध्या भूयः पुनरतिशयेन वा श्रीरङ्गधामनि श्रीरङ्गनगरे दिव्यविमाने वा मोदसे मोदम् भजसि । अत्र दुग्धार्णवम् बहुमन्यसे परमपदम् पुष्णासीत्युक्त्या श्रीरङ्गराजधामनि मोदसे इत्या-नन्दभजनोक्त्या संश्रितरक्षणोपयुक्तत्वेन श्रीरङ्गधाम्नस्तदुभयतोप्या-नन्दावहत्वव्यतिरेको व्यज्यत इति व्यतिरेकालङ्कारध्वनिर् वाक्यगतो द्रष्टव्यः ॥ ५६ ॥
“अर्चावतारविषये मयाप्युद्देशतस्तव । उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि’ । (विष्व.सं.) इत्युक्तप्रकारेण सर्वावतारापेक्षया श्रियः श्रीरङ्ग- धामन्यर्चावतारे सर्वगुणानामतिशयितत्वमाह –

विश्वास-प्रस्तुतिः

औदार्यकारुणिकताश्रितवत्सलत्व-
पूर्वेषु सर्वमतिशायितमत्र मातः ।
श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति
सीतावतारमुखमेतदमुष्य योग्या ॥ ५७ ॥

मूलम्

औदार्यकारुणिकताश्रितवत्सलत्व-
पूर्वेषु सर्वमतिशायितमत्र मातः ।
श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति
सीतावतारमुखमेतदमुष्य योग्या ॥ ५७ ॥

वीरराघवः

औदार्येति – हे मातः ! श्रीरङ्गेश्वरि ! औदार्यकारुणिकताश्रित-
वत्सलत्वपूर्वेष्व् औदार्य स्वार्थनैरपेक्ष्येण परेष्टप्रापकत्वम्, कारुणिकता परदुःखासहिष्णुत्वम्, आश्रितवत्सलत्वम् आश्रितदोषभोग्यत्वम्, तानि पूर्वाणि प्रधानानि येषां तेषु गुणेष्विति शेषः । सर्वं गुणजातं श्रीरङ्गधाम्नि श्रीरङ्गनगरे दिव्यविमाने वा, अत्र त्वदीयार्चावतारे अति-शायितम् अतिशयम् प्राप्तम् । मातर्मैथिलीत्यादिना सीतावतारे क्षमादया-द्यतिशयवर्णनादत्र कथं ततोप्यतिशय इत्यत्राह – यदुतेत्यादिना । अन्यद् अर्चावतारादितरत् सीतावतारमुखं सीतावतारप्रभृत्यवतारम् अतिशयितगुणमुदाहरन्तीति यदेतद् अमुष्यार्चावतारस्य योग्यम् अभ्यासः । सर्वावतारेषु कारुण्यादिगुणव्यसनेन सर्वगुणातिशयवान्
अयमर्चावतारः परिणत इति भावः ॥ ५७ ॥
श्रियो वाङ्मनसागोचरमौदार्यं वर्णयति –

विश्वास-प्रस्तुतिः

ऐश्वर्यमक्षरगतिम् परमम् पदं वा
कस्मैचिदञ्जलिभरं वहते वितीर्य ।
अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब
त्वं लज्जसे कथय कोयमुदारभावः ॥ ५८ ॥

मूलम्

ऐश्वर्यमक्षरगतिम् परमम् पदं वा
कस्मैचिदञ्जलिभरं वहते वितीर्य ।
अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब
त्वं लज्जसे कथय कोयमुदारभावः ॥ ५८ ॥

वीरराघवः

ऐश्वर्यमिति – हे अम्ब श्रीरङ्गेश्वरि ! अञ्जलिभरम् अञ्जलिमेव
करतलयुगलयोजनमेव भरं त्वदभिप्रायेण गुरुतरभारं वहते, न तु
तदधिकतया किञ्चिदस्तीतिभावः । कस्मैचित् कुलगोत्रवृत्तिशून्याय
जन्तवे ऐश्वर्यम् ऐहलौकिकम् पारलौकिकं च अक्षरगतिं कैवल्यम् परमम् पदम् परमपुरुषार्थलक्षणभगवत्कैङ्कर्यम्वा, वा शब्दश्चार्थः कैङ्कर्यं चेत्यर्थः । अथ कार्त्स्न्येन वितीर्य दत्त्वा अस्मै अञ्जलिभर-वाहिने उचितं तद्भारवहनानुगुणं किञ्चित् किमपि न कृतमिति नोपकृतमिति त्वं लज्जसे व्रीडाविनम्रवदनासि । “ओलजी व्रीडायाम्” (धा.पा.११४०) इति धातोर्लडात्मनेपदमध्यमपुरुषैकवचनम् । अयमुदार-भावः कः लोकविलक्षणो वाचामगोचरवैभवश्चेत्यर्थः ॥ ५८ ॥
इतः परं श्लोकद्वयेन स्वनैच्यमनुसन्धत्ते-

विश्वास-प्रस्तुतिः

ज्ञानक्रियाभजनसम्पदकिञ्चनोह-
मिच्छाधिकारशकनानुशयानभिज्ञः ।
आगाम्सि देवि युवयोरपि दुस्सहानि
बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९ ॥

मूलम्

ज्ञानक्रियाभजनसम्पदकिञ्चनोह-
मिच्छाधिकारशकनानुशयानभिज्ञः ।
आगाम्सि देवि युवयोरपि दुस्सहानि
बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९ ॥

वीरराघवः

ज्ञानेति – हे देवि! “अर्थे समर्थो विद्वान्” इत्युक्तेर् इच्छाधिकार-
शकनानुशयानभिज्ञ इच्छा पुरुषार्थस्पृहा, अधिकारो नियोज्यत्वम्,
शकनं कर्मानुष्ठानसामर्थ्यम्, अनुशयो विहिताकरणकृतानुतापस् तेषाम्
अनभिज्ञः, अत एव ज्ञानक्रियाभजनसम्पदकिञ्चनः ज्ञानं ज्ञानयोगः,
क्रिया कर्मयोगः, भजने भक्तिप्रपत्ती ता एव सम्पदैश्वर्य तेनाकिञ्चनो
दरिद्रोऽहं युवयोरप्य् अपराधैकोपहारयोर्भवतोरपि दुःसहानिसोढुम-शक्यान्य् आगाम्सि भगवदपचार- भागवतापचार- असह्यापचाररूपाणि बध्नामि समूहरूपेण सञ्चिनोमि, न केवलं त्वद्विषयानुकूल्याभावः प्रातिकूल्यपरिपूर्णश्चास्मीत्याशयः । ततः किमित्यत्राह – मूर्खेति । मूर्खचरितो बालिशव्यापारः, इदं हेतुगर्भविशेषणम् । मूर्खचरितत्वादहं वात्सल्यातिशयभाजोपि तव दुर्भरोऽस्मि सोढुमशक्यो भवामि । रक्षण-विषयो नास्मीत्यर्थः ॥ ५९ ॥
उक्तं नैच्यमपि पूर्वाचार्यनैच्यानुकरणमात्रं न मनःपूर्वकं ततो
निर्हेतुककृपयैव त्वं शरणमसीत्याह –

विश्वास-प्रस्तुतिः

इत्युक्तिकैतवशतेन विडम्बयामि
तानम्ब सत्यवचसः पुरुषान्पुराणान् ।
यद्वा न मे भुजबलं तव पादपद्म-
लाभे त्वमेव शरणं विधितः कृतासि ॥ ६० ॥

मूलम्

इत्युक्तिकैतवशतेन विडम्बयामि
तानम्ब सत्यवचसः पुरुषान्पुराणान् ।
यद्वा न मे भुजबलं तव पादपद्म-
लाभे त्वमेव शरणं विधितः कृतासि ॥ ६० ॥

वीरराघवः

इत्युक्तीति – हे अम्ब श्रीरङ्गेश्वरि ! इति पूर्वोक्तप्रकारेण एतत्स- जातीयतया वा उक्तिकैतवशतेन कपटनैच्यवचनसहस्रेण तान् भगव- न्निर्हेतुककटाक्षैकलब्धविशदतमज्ञानतया प्रसिद्धान् सत्यवचसो यथार्थ- वाचः, प्रामाणिकानित्यर्थः । पुराणान् पूर्वाचार्यान् पराङ्कुशपरकालयामुन- यतिवरादीन् विडम्बयाम्य् अनुकरोमि “न धर्मनिष्ठोऽस्मि”(स्तो.र.२२) ‘“मनोवाक्कायैः”(वै.स्त.८८) “सत्कर्म नैव किल किञ्चन सञ्चिनोमि” (श.ग.१०) इत्यादि तत्तन्नैच्यानुसन्धानवदहमपि नैच्यानुसन्धानं
करोमीत्यर्थः । पराङ्कुशादिनैच्यानुसन्धानम् भाषान्तरत्वान्न सूचितम् । तन्नैच्यानुकरणमात्रेण मद्रक्षणं कार्यमित्याशयः । रक्षणे हेत्वन्तर-माह – यद्वेति । यद्वा नो चेत् तव पादपद्मलाभे त्वञ्चरणारविन्दसम्प्राप्तौ मे भुजबलं न मत्सामर्थ्यसाध्यं किञ्चिदपि नास्ति । किन्तु विधितस्
त्वन्निर्हेतुककृपया “ईशेशितव्यसम्बन्धादनिदम् प्रथमादपि”(ल.तं.१७-७०) इत्युक्तनिरुपाधिकेशेशितव्यसम्बन्धनियतेर्वा त्वमेव शरणम् उपायः
कृतासि । विधितः कुतोपीति पाठे निर्हेतुकादित्यर्थः । तदा शरणमित्य- नन्तरमिति शेषः । विधिशब्दः कृपावाचित्वेन श्रीपराङ्कुशैर् द्रविडोपनिष- त्पञ्चमशतकाद्यगाथातृतीयचरणे प्रयुक्तः व्याख्यातश्च तथा कलिमथन- देशिकैः ॥ ६० ॥
दृष्टादृष्टे उभे अपि श्रीमुखतः प्रार्थयन् स्तोत्रम् परिसमापयति –

विश्वास-प्रस्तुतिः

श्रीरङ्गे शरदः शतं सह सुहृद्वर्गेण निष्कण्टकं
निर्दुःखं सुसुखं च दास्यरसिकाम् भुक्त्वा समृद्धिम् पराम् ।
युष्मत्पादसरोरुहान्तररजस्स्याम त्वमम्बा पिता
सर्वं च धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥ ६१ ॥

मूलम्

श्रीरङ्गे शरदः शतं सह सुहृद्वर्गेण निष्कण्टकं
निर्दुःखं सुसुखं च दास्यरसिकाम् भुक्त्वा समृद्धिम् पराम् ।
युष्मत्पादसरोरुहान्तररजस्स्याम त्वमम्बा पिता
सर्वं च धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥ ६१ ॥

वीरराघवः

श्रीरङ्ग इति – हे श्रीरङ्गेश्वरि ! श्रीरङ्गे दिव्यनगरे शतं शरदः
“शतायुः पुरुषः”(कठ.उ.१-२३) इति श्रुत्युक्तप्रकारेण शतमपि वत्सरान्
“कालाध्वनोरत्यन्तसम्योगे द्वितीया” । (पा.सू.२-३-५) सुहृद्वर्गेण सह पुत्रपौत्रबन्धुशिष्यप्रशिष्यादिभिः समं निष्कण्टकं निरुपद्रवं निर्दुःखं दुःखासम्स्पर्श सुसुखं सुतरां सौख्यं च यथा भवति तथा दास्यरसिकां त्वत्कैङ्कर्यरसज्ञाम् परां सर्वोत्कृष्टां समृद्धिं श्रीरङ्ग-श्रियम् भुक्त्वा अनुभूय, एवं दृष्टमुक्त्वा अदृष्टमाशास्ते – युष्मदिति । युष्मत्पादसरोरुहान्तररजः युवयोः पादपद्मगर्भरेणुः स्याम भवेम, युष्मञ्च-रणकमल-कैङ्कर्यैकभोगा भवेमेत्यर्थः । एवं श्रियो दृष्टादृष्टप्रदाने हेतु-माह – त्वमित्यादिना । त्वमम्बा त्वमेव माता, त्वमेव पिता, त्वमेव जनकः, अब्भक्षो वायुभक्ष इतिवत् त्वमित्यवधारणगर्भः, त्वमेव भव इत्युपरितन एवकारो वानुकृष्यते । सर्वविधोपि बन्धुस्त्वमेवेत्यर्थः । ननु मम सर्वबन्धुत्वेपि मत्प्राप्त्युपायाननुष्ठाने तव कथम् मत्प्राप्तिसिद्धिरित्यत आह – सर्वमिति । त्वमेव नो ऽस्माकं सर्वमपि धर्ममलौकिकश्रेयः- साधनं कर्मज्ञानभक्तिप्रपत्त्यादिकम् भव । “स्याद्धर्ममस्त्रियाम् पुण्यम्” इत्यमरः (अ.को.१-४-२४) । सर्वधर्मस्थाने पुरुषकारतया त्वमेव स्थित्वा सिद्धोपायेन भगवता मदिष्टम् प्रापयेत्याशयः । त्वयि गुणलेशाभावे कथम् मम तथा भाव इत्यत आह – स्वीकुर्विति । अकस्मात्कृपां
निर्हेतुकदयां स्वीकुर्व् अङ्गीकुरुष्व । मद्गुणलवनिरीक्षणे कृपाया निर्हेतुकता न सिध्येदिति तदनपेक्षमेव मां रक्षेति भावः ॥ ६१ ॥

॥ इति श्रीवत्सकुलतिलकस्य वीरराघवाचार्यस्य कृतिषु
श्रीगुणरत्नकोशव्याख्यानम् ॥