श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः
॥ श्रीः ॥
श्रियै नमः ।
श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।
श्रीगुरुपरम्पराभ्यो नमः ।
अस्मद्गुरुपरम्पराभ्यो नमः ॥
तर्कतीर्थपण्डितरत्नाद्यनेकबिरुदावलीविभूषितानां महीशूरमहानगरीय-
कस्तूरि-रङ्गाचार्यस्वामिपादानां कृतिषु
श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः ॥
ओमित्यात्मानमन्तर्नियमितकरणैर्ध्यायतां ध्यायतीहां
ओमित्येव स्वयं यः परिहृतविहतिं सिद्धिमाधातुकामः ।
वक्त्रे वाहस्य तस्य स्तुतिमतिमितवाक्प्रस्तुवे तन्मनूद्य-
द्वर्णाद्यस्रग्धराभिर्विमृदितविविधावद्यधाराभिरद्य ॥ १॥
ऋग्भिः शाशस्यमानो महिमजुषि यजुष्येष जोघुष्यमाणः
साम्ना तोष्टूय्यमानो मुनिजनहृदयाब्जेषु राराज्यमानः ।
नीहारोर्वीधराभा प्रतिभटरुचिभिः किञ्च बाभास्यमानः
श्रेयः स्थेयो विधत्तां मम हयवदनाभिख्यया ख्यायमानः ॥ २॥
यच्छत्वच्छाच्छबोधप्रसरमिह स नश्छन्दमात्राप्रक्लृप्ता
चिच्चिच्चित्रप्रपञ्चस्थिरिगतिनियतिर्मुर्ध्नि तुङ्गस्तुरङ्गः ।
भङ्गव्यासङ्गदूरप्रसृमरशरदुद्भूतराकासुधांशु-
ज्योत्नासच्छायविद्याविसरवितरणस्थूललक्षो वलक्षः ॥ ३॥
जुष्टो देव्या तयाऽव्यान्निगमसमुदयद्रोहसंरम्भगर्ज-
द्दैतेयारण्यवाहद्विषदुदितरवन्यक्चिकीर्षाऽऽकुलस्य ।
वक्त्रे वाहस्य हेषाहलहलनिनदेऽभूतपूर्वे प्रवृत्ते
भ्रान्त्वोरस्तोऽवतीर्य द्रततरममुमाश्लिष्य या विस्मिताऽऽस्ते ॥ ४॥
सारः साम्नामुदारः सरसतरऋचामृद्धिरन्तर्धिदूरा
भद्रावष्टम्भयष्टिर्विधिनिधि यजुषां भाग्यमाथर्वणानाम् ।
अङ्गानां तुङ्गशृङ्गं लगतु मम तुरङ्गोत्तमाङ्गोऽन्तरङ्गे
सद्यो हृद्यानि पद्यान्यपि परिकलयन् विश्वविद्यानिषद्या ॥ ५॥
मध्येबिम्बं सुधांशोर्द्युमणिनिभमणिश्रेणिभाराजिराजत्
हारैस्तारैरुदारैरहसितसुधासागरोत्सारिपूरैः ।
बामाङ्कावासलीलाकुतुकललितयाऽप्यङ्कितः पङ्कजाक्ष्या
शङ्कातङ्कं च पङ्कं तिरयतु करुणापङ्किलः कश्चिदर्वा ॥ ६॥
रूढा प्रौढासु वाचास्वपि पुरुषमतिव्यापृतिव्याप्त्यपोढासु
आधूतान्तासु तासु प्रतिहतगतिता त्वन्नुऽतावाननेऽर्वन् ।
इत्थं सत्यप्यहं यत्तव गुणगणनारम्भसंरम्भनिघ्नः
स्थाने तद् येन बालोऽप्यतिविततभुजो विस्तृतिं वक्ति सिन्धोः ॥ ७॥
पातापातालभूम्यम्बरतलनिलयावासजायाससारात्
यातायातानुपूर्व्यादविगतजननीगर्भविभ्रान्तियोगात् ।
वेद्या वेद्यावमर्शास्स्खलितगतियतीशानराज्यासभाज्यः
शान्ताशान्तां समृद्धिं वितरतु स मम व्याजवाजीविराजी ॥ ८॥
यस्मिन् विज्ञानवार्धावधिजगति पुरोज्जृम्भमाणेऽष्टमूर्तेः
मूर्तिः सा दक्षिणाख्या त्रिदशपरिषदा बिन्दुरालक्ष्य दक्षा ।
वाणी सा पद्मसद्मप्रियतमगृहिणी काऽप्यभाणीह वेणी
पाराशर्यप्रधानोऽप्यगणि मुनिगणः पल्वलं पातु सोऽर्वा ॥ ९॥
वेदोद्धारोद्यतं तत्प्रदिशतु मिथुनं शर्म शर्वादिमानां
सेवाहेवाकभूमोद्यदहमहमिकाकुञ्चनद्वेषिमूर्ध्नाम् ।
शीर्षेष्वाभान्ति यस्य द्विगुणमणिलताभावभाजः कटाक्षाः
कल्योत्फुल्लाम्बुजातप्रमदभरनिराकारनिस्तन्द्रदृष्टेः ॥ १०॥
दाक्ष्यं लक्ष्येत धातुः क्वनु खलु जगतीजालनिर्माणलीला-
रम्भे सञ्ज्ञाविधावप्यथ च तदुचितानेकमूर्तिप्रक्लृप्तौ ।
तत्तत्कृत्यप्रपञ्चेष्वपि च दिविषदां दैत्यपाशाहृताना-
माम्नायानां दयार्द्रो यदि हयवदनो नोद्धृतिं संविदध्यात् ॥ ११॥
हस्तालम्बाय भूयात् स मम पथि सतां स्रस्तवृत्तस्य नित्यं
न्यस्ताशेषागमाब्धेरधिकमपि समं वस्तुनी यस्य न स्तः ।
शस्तामस्तोकधीसंस्तुतिमपि जनयन् यो नयन्मोहमस्तं
न्यस्तं यस्सव्यहस्ते कलयति च मुदा पुस्तकं मस्तकेऽर्वा ॥ १२॥
रत्नं यत्प्रत्नवाचा निरुपमसुषमाकान्तसीमन्तिनीनां
सीमन्ते नित्यलाल्यं हृदयसरसिजेऽजस्रधार्यं बुधानाम् ।
दुग्धोदन्वत्तनूजाकरजलजयुगीलालनोद्यन्मृजातो
नित्यं नूत्नं हयास्यं मम कलयतु तन्निस्सपत्नं प्रयत्नम् ॥ १३॥
णत्वं यद्भिन्नवृत्तावघटितमुपलभ्योद्यमाद्द्राग्विरेमुः
ते ते नारायणाख्यामितरविबुधसाधारणीं कर्तुकामाः ।
यस्मिंस्तद्योगरूढ्योर्गुणमणिजलधौ पुष्कलं वर्तनं स्यात्
देवो मायाधवोऽसौ धयतु हृदि रुजां सैन्धवो बान्धवो नः ॥ १४॥
कर्णावर्णोजराजन्मुकुलदलसमावर्वतोऽनर्वणो मे
प्रोर्णुयास्ता ललाटे कुटिलविधिसमुत्कीर्णसङ्कीर्णवर्णान् ।
वर्ण्येते यावमुष्य त्रिभुवनवपुषो व्योमपातालरूपौ
पर्णैर्वाऽप्यर्णसा वा सततमपि रुचिं पूर्णयद्भिर्महद्भिः ॥ १५॥
मण्डल्या मण्डनानां मणिगणघृणिभिर्धूर्णितद्योमणीनां
नीरन्ध्रं मण्डिताङ्गः सितकररुचिरे पुण्डरीके निषण्णः ।
आम्नायानां शिखण्डैरवगतगरिमाखण्डिताखण्डलारिः
दण्डं पाषण्डषण्डे क्षिपतु स तरसा वाजितुण्डप्रकाण्डः ॥ १६॥
एकोऽग्रे लोकमात्रा सहमहितविहृत्युन्मनास्तन्मुदे यो
नाभीपद्मे विधातुर्जनिमपि कलयन् यो नयत्यागमांस्तम् ।
(नाभीपद्मे विधाय द्रुहिणममुमथो यो नयत्यागमौघम् ।) (पा) ।
लोकाम्नायैकमूलाक्षररुचिरकलामातृका सा यदीया
सोसाविष्ठं प्रकृष्टं घटयतु दितिजस्फोटको घोटको नः ॥ १७॥
प्रण्यायेनाध्वराणां मनुमयतनुमाघाय विष्वग्विनिर्यत्
ज्वालामालाजटालानलहुतहविषां सारमास्वाद्य चारुम् ।
गीर्वाणान्वारवाणान्नियमितकरणां स्तूर्णमाप्याय्य कामाः
कल्प्यन्ते याजमानाः कलयतु स मुदं कोऽप्यनर्वाऽऽननेऽर्वा ॥ १८॥
अव्यादव्याहतार्थो धियमुपजनयन् अव्ययोव्याजवाजी
भव्याभव्याकृताद्याकृतिमतनुत यो नामरूपद्वयस्य ।
योऽन्तर्यन्तुं च मन्तुं व्युदसितुमदिशज्जन्तुजातस्य यो वा
कल्पान्तेऽल्पान्यलोकग्रसनसमुदितापीनतानन्दितुन्दः ॥ १९॥
ओदन्वन्मेखलान्ताद्बलिनिलययुतात् क्ष्मातलादाच लोकात्।
नालीकावासवासादवहितमनसाऽपीक्षिते स्थास्नुजाते ।
यादृङ्नालक्षि कश्चित् सकृदपि नमतां साध्वसध्वंसदक्षः
भक्तानुक्रोशलक्ष्मा क्षपयतु मम हृत्क्षोभमक्ष्णा स वाजी ॥ २०॥
गीते दैतेयमोहं कलयितुमनसो यस्य हेषानुषक्ते
प्रख्यातोद्गीथभक्तिं श्रितवति जनिते रोदसीरोधके द्राक् ।
देवाः सम्भ्रान्तभावा दितिजकुलमलं व्याकुलं धूतगर्वा
गन्धर्वा मोहशेषं समजनि जगतीशेषमेषोऽवतान्माम् ॥ २१॥
थं किं शब्दस्य मूर्ध्नि क्वचिदुदितमुपश्रुत्य यत्तत्पदादिषु
अप्येतद्योजयित्वा कटुरटनपटुस्वैरवाचोऽपि जन्तोः ।
सद्यः सिद्ध्यन्ति वाण्यो नमदमरशिरस्सद्म यत्पादपद्म-
ध्यानाद्द्राक्षासदृक्षाःकलितगुरुशिरःकम्पनाःपातु सोऽर्वा ॥ २२॥
वक्तुं सूक्तं सुधाक्तं प्रतिकथकवचोवीचिवेगं च हर्तुं
कर्तुं काव्यं च भव्यं हितमपि पुरुषार्थं च तत्त्वं च वेत्तुम् ।
वाच्छा चेन्मानस अञ्च स्फटिकमणिमयक्ष्माधराभाधरीकृत्
रोचिर्वीचीभिरारादखिलमपि जगत्प्लावयन्तं हयं तम् ॥ २३॥
पुष्णन् हर्षं सुराणां जनिमयमयति स्मेति नो वस्तुमीशे
प्रागेवासीत्प्रमत्तासुरगृद्रुनिकरे यत्सुराणां प्रहर्षः ।
श्रुत्याविर्भूतिहेतुः श्रवणसमुदयानन्तरेऽस्मिन्नयुक्तः
तस्मादस्मादनन्यान् ध्रुवमवितुमसावाविरासाश्वभासा ॥ २४॥
एतश्श्वेतोऽपि राजद्रजतगिरिवराकारधिक्कारकारी
विद्युद्विद्योतभासोद्यदरुणकिरणोन्निद्रपद्म वहन्त्या ।
कालिन्दीमन्दिरेन्दीवररुचिरुचिरापाङ्गधाराभिरारात्
सिञ्चन्त्याङ्गानि देव्या सततकृतपरिष्वङ्गतोऽव्यात् तुरङ्गः ॥ २५॥
मञ्जीरं मञ्जुलं ते हयमुख ! मम सञ्जीवनायास्तु शिञ्जा
व्याजेनाम्नायवाचामनितरपरतां व्यञ्जयत्त्वत्पदोर्यत् ।
लग्नं तद्धारणासु द्विगुणमुनिजनस्तोमहृत्पद्मनित्यो-
ल्लासायासादितात्मद्वयमिव सविधे जाग्रदर्कस्य विम्बम् ॥ २६॥
हारिद्रं किन्नु सूत्रं श्रुतिततिसुदतीकण्ठमूषार्थक्लृप्तं
स्रोतस्सारस्वतं वाङ्मयजननगीरेर्निस्सृत वेति शक्यम् ।
वक्त्रे वाहस्य वामप्रसृतितललसद्धैमसत्पुस्तकान्तः
दीव्यत्सूत्रं पवित्रं मम कलयतु शं भानुमानोः सगोत्रम् ॥ २७॥
श्वभ्रेष्वभ्रेभियातीन्दितितनुजनुषो भ्रामयित्वा विभिन्दन्
शीर्णाङ्गान् कीर्णकेशान् भृशमतिरभसं पातयन् निर्जराणाम् ।
स्वाराज्यं प्राज्ययन्यो मिहिर इव हिमज्याधरादुज्जिहानः
भाभात्यश्वास्यवामेतरकरविधृतश्चक्रराजस्स नोव्यात् ॥ २८॥
शिष्याणां चित्तभूमौ प्रचुरतरतमःकण्टकानि व्यपोह्य
आसिच्यात्यर्थं कटाक्षामृतरसविसरैश्शास्त्रबीजानि वप्तुम् ।
निर्निद्रो ज्ञानमुद्रारुचिरकरतले दक्षिणे योऽक्षमालां
बिभ्रद्भात्यश्ववक्तुः सहरतु नितरामंहसां संहतिं मे ॥ २९॥
रम्यं स्याद्विम्बमिन्दोः शरदुदितरुचेरम्बरान्निर्यदेतत्
किं वा डिण्डीरखण्डं कलशजलनिधेः किं नु वा पुण्डरीकम् ।
वाग्ब्रह्मोद्दामलीलागृहमिति विबुधैरूह्यमानो हयास्ये
नोपात्तः सव्यहस्ते मम भवतु शुभालम्बनं कम्बुराजः ॥ ३०॥
सेव्या शर्वादिसर्वत्रिदशपरिषदा शश्वदासाश्विनी श्रीः
अस्माकं या सपत्नी लसति बत शिरोऽस्याधिरूढेति सेर्ष्यम् ।
जेतुं तां सन्ततोदित्वरवरमहसा भाति नक्षत्रमाला
देवच्छन्दे स्थिता यं सततमपि समाराधयन्तीव सोऽव्यात् ॥ ३१॥
नन्तुः सन्त्रासहारी दधदपि हरितां शश्वदात्मन्यनूनां
यस्तां मूर्ध्न्येव नित्यं प्रकटयति हरेः पूरुषस्यापि सत्यम् ।
श्रौतीं मुख्येतरत्वावगतिमपि विशिष्टाद्वितीयत्वदृष्टिं
स्पष्टीकर्तुं जगत्यां स्फुटयतु स झटित्यस्मदिष्टं विशिष्टम् ॥ ३२॥
मस्तेऽर्वन् विस्तरैः किं विहर मम मनोमन्दुरायाममन्दं
कल्पन्तेऽनुप्लवास्ते मम सततमिमे हीन्द्रियाश्वा दशाऽपि ।
किं चात्रानल्पकल्पावसरविसरदुच्चावचाकारमूर्ति-
स्फूर्तिस्फीतोरुकर्मप्रगुणतृणगणश्चर्वणाय प्रणीतः ॥ ३३॥
वस्तूरीकर्तुमर्चाविधिषु समुचितं नान्यदस्येति जानन्
कस्तूरीरङ्गनाथः स्तवमिममुपद(ध)मादिमाश्वस्य धत्ते ।
यस्तूनो योतिरिक्तः सकलमपि च तं हृद्ययन्नर्थमस्मिन्
स्वस्तूलीकारधीरां वितरतु पठतां वागधीशः स बुद्धिम् ॥ ३४॥
इति श्रीकस्तूरीरङ्गार्यकृतिषु श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः समाप्ता ।