मङ्गलम्
विश्वास-प्रस्तुतिः
(श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥)
मूलम्
(श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥)
श्रीनिवासः
श्री-भाष्य-कार-सकाशानिश-संवास-प्रकाशित-समस्त-श्रुत्य्-अन्त-तत्त्वार्थाः
श्रीवत्स-चिह्न-मिश्राः
आनृशंस्य-मनसः
स-कल–सु-मनस्–सञ्चय-सञ्जीवनाय पञ्च-स्तव-व्याजेन
अर्थ-पञ्चकं प्रकाशयितु-कामाः
प्रथमतः प्राधान्येन भगवतो वैकुण्ठनाथस्य अकुण्ठ-महिम्नः स्व-रूप-रूपादिकं
तद्-उपसर्जनत्वेन प्रत्यग्-आत्मादि–स्व-रूपञ् च वैकुण्ठ-स्तवे गुरु-वन्दन-पूर्वकं प्रदर्श्य,
व्यूहान्तर्-यामिणोर् अचिन्त्य-वैभवतया
तद्-अन्तर्-भावम् एव विभावयन्तः
विभवावतार-भावुक-व्यापार-विषयकम् अतिमानुष-स्तवं विधाय,
तथाविध-कादाचित्कता-मति-सम्बन्ध- वर्जितार्चावतार-स्तव-प्रस्तावे, समस्त-काङ्क्षित-प्रदान-दीक्षितं वन-क्षिति-धर-मन्दिरं सुन्दर-बाहुं
बहुशः स्व-देशिक–रामानुजाचार्य-चरण-कमल-संश्लेषैक-फलाः स्तुत्वा
“हस्ति-शैल-निलयो भवन् भवान्”
इति प्रस्तुतं हस्ति-गिरि-नाथं
शरणागति-मन्त्र-प्रकारेण
सम्प्रति तुष्टुषन्तस् सन्तः
प्रारिप्सितस्य निष्प्रत्यूह-परिसमाप्त्यर्थं आशीर्-वचन-रूपं मङ्गलं निबध्नन्ति ।
विश्वास-प्रस्तुतिः
स्वस्ति हस्ति-गिरि-मस्त-शेखरः
शं तनोतु मयि सन्ततं हरिः ।
निस्समाभ्यधिकम् अभ्यधत्त यं
देवम् औपनिषदी सरस्वती ॥१॥
श्रीनिवासः
स्वस्तीति । उपनिषत्सम्बन्धिनी औपनिषदी सरस्वती, वाणी “न तत्समश्चाभ्यधिक श्च दृश्यते” इत्यादिवेदान्तवाक्यम् इत्यर्थः । देवं,
[[179]] ‘दिवुक्रीडाविजिगीषाव्यवहारद्युति स्तुति मोद मद स्वप्नकान्तिगतिषु’ इत्युक्त सकलकल्याणगुणगणं यम्, निस्समाभ्यधिक माह, हस्तिगिरिमस्तशेखरः करिगिरि शिरः परिष्कारभूत स्स हरिः, करिगिरिशेखरतायाम् एव निस्समाभ्यधिकत्वं देवत्वञ्च विभाव्यते इति भावः । मयि विषये सन्ततं स्वस्ति श्रेयः सन्तनोतु अत्र परत्र चाऽपि वाचिक परिचर्या - करणरूपं श्रेयः श्रुतिशिरस्सरस्वत्या इव ममाऽपि भूया दिति भावः ॥ १ ॥
मूलम्
स्वस्ति हस्तिगिरिमस्तशेखरः (शं)सन्तनोतु मयि सन्ततं हरिः ।
निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥१॥
विश्वास-प्रस्तुतिः
श्रीनिधिं निधिम् अपारम् अर्थिनाम्
अर्थितार्थ-परिदान-दीक्षितम् ।
सर्व-भूत-सुहृदं दया-निधिं
देव-राजम् अधिराजम् आश्रये ॥२॥
श्रीनिवासः
श्रीनिधिम् इति । अस्मिन् श्लोके मन्त्ररत्नपूर्वखण्डार्थ स्सङ्गृह्यते । श्री र्निधीयतेऽस्मिन्निति श्रीनिधिः । यद्वा, श्रियो निधिः निधिवत्प्रार्थनीय इत्यर्थः । अनेन श्रीमत्पदार्थ स्सङ्गृहीतः । नारायणपदसमभिहितेषु गुणे ष्वत्यावश्यकाः केचनाऽनन्तरं सङ्गृह्यन्ते । अर्थिना मपार मपरिच्छिन्नं निधिम् । अनेन परमप्राप्यत्व मुच्यते । अर्थितार्थपरिदानदीक्षितं प्रार्थितपुरुषार्थप्रदानकृत सङ्कल्पम् । अनेन पापकत्व मुच्यते । सर्वभूतसुहृद मित्यनेन प्रापकतायां किञ्चित्कारनैरपेक्ष्य मुच्यते । दयानिधि मित्यनेन सौहार्दाभावेऽपि परदुःखासहिष्णुत्वे स्वाभाविक मव्याहतत्व मुच्यते । अधिराज मित्यनेन स्वामित्व मुच्यते । एवम्भूतं देवराजम् " तमीश्वराणां परमं महेश्वरम् तं देवतानां परमञ्च दैवतम्” इत्युक्तप्रकारेण देवतासार्वभौमम् आश्रये शरणं प्रपद्ये, श्रीमतः प्राप्यस्य प्रापकस्य तदुपयोगिसौहार्ददया स्वामित्वविशिष्टस्य देवराजस्य चरणौ शरणं प्रपद्ये इति पर्यवसितोऽर्थः ॥ २ ॥
मूलम्
श्रीनिधिं निधिमपारमर्थिनाम् अर्थितार्थपरिदानदीक्षितम् ।
सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥२॥
हस्ति-शैलेन श्रुति-समर्थनम्
श्रीनिवासः - प्रस्तावः
अनन्तरम् इन्द्रिय-पथातिक्रान्तस्याऽपि
ऐन्द्रियकत्व-रूपं शरण-वरणोपयुक्तं सौलभ्यम् अनुसन्धत्ते -
[[180]]
विश्वास-प्रस्तुतिः
नित्यम् इन्द्रिय-पथातिगं महो
योगिनाम् अपि सु-दूर-गं धियः ।
अप्य् अनुश्रव(=श्रुति)-शिरस्सु दुर्ग्रहं
प्रादुर् अस्ति करिशैल-मस्तके ॥३॥
श्रीनिवासः
नित्यमिति । नित्य मिन्द्रियपथातिगं इन्द्रियमार्गातिगामिनम् " न मांस चक्षु रभिवीक्षते तम्” इत्युक्तम् इत्यर्थः । योगिनां धियो बुद्धे रपि सुदूरगं परिच्छिद्य ज्ञातुमशक्यम् इत्यर्थः । आचार्योच्चारणात् अनु श्रूयते इत्यनुश्रवो वेदः, तच्छिरस्स्वपि वेदान्तेष्वपि दुर्ग्रहं न तु सुग्रहम्। एकस्मिन्नानन्दगुण एव, “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह” इत्युक्तेरुभय मपि सिद्धम् । एतादृशं महः करिशैलमस्तके हस्तिशैलाधित्यकायां प्रादुरस्ति प्रादुर्भवति । " गङ्गाया दक्षिणे भागे योजनानां शतद्वये, पञ्चयोजन मात्रेण पूर्वाम्भोधे स्तु पश्चिमे । वेगवत्युत्तरे तीरे पुण्यकोट्यां हरि स्स्वयम् । वरदस्सर्वभूताना मद्याऽपि परिदृश्यते ॥ पाहोमे प्रवृत्ते तु प्रात स्सवनकर्मणि । धातुरुत्तरवेद्यन्तः प्रादुरासीज्जनार्दनः” इत्यादिक मनुसन्धेयम् ॥ ३ ॥
मूलम्
नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः ।
अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥३॥
श्रीनिवासः - प्रस्तावः
इदानीं वरदराजस्य
हस्ति-गिरि-शिखरावास-रसिकतातिशयः
श्रुतेर् अप्य् आदरणीय इत्याह-
विश्वास-प्रस्तुतिः
वल्लिका श्रुति-मतल्लिकामयी(=श्रेष्ठमयी)
येन पल्लवित-विश्व-शाखया ।
स्व-श्रिया करि-गिरेर् अनुक्रियां
वष्टि(=वाञ्छति) (वि)मृष्ट-वरदं तम् आश्रये ॥४॥
श्रीनिवासः
वल्लिकेति । श्रुतिषु वेदेषु मतल्लिका श्रेष्ठा, तन्मयी वल्लिका येन वरदराजेन पल्लविता सञ्जातपल्लवा विश्वशाखा समस्तच्छान्दोग्य सुबालादि-भेद-भिन्ना शाखा, अन्यत्र शाखा विटपाः यस्यास् तया ।
स्वश्रिया स्वकीयशोभया करिगिरेर् अनुक्रिया अनुकारः तां वष्टि वाञ्छति, तं मृष्टवरदं
[[181]] पूर्णवरदं वाञ्छिताधिकफलप्रदं समाश्रये । उपनिषत् छान्दोग्यादिः स्वशाखासु पल्लवस्थाने परिष्कारभूतेन वरदराजेन सौलभ्य मनाविष्कृतम् इति, आविष्कृतसौलभ्यवरदराजशे खरितकरगिरिशिखरसाम्य मिच्छतीति भावः ॥ ४ ॥
मूलम्
वल्लिका श्रुतिमतल्लिकामयी येन पल्लवितविश्वशाखया ।
स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥४॥
श्रीनिवासः - प्रस्तावः
श्रुत्यपेक्षया हस्तिगिरेराधिक्यम् एवाऽऽह -
विश्वास-प्रस्तुतिः
यं परोक्षम् उपदेशतस् त्रयी
नेति नेति पर-पर्युदासतः ।
वक्ति यस् तम् अपरोक्षम् ईक्षयत्य्
एष तं करि-गिरिं समाश्रये ॥५॥
श्रीनिवासः
यमिति । त्रयी श्रुतिः बृहदारण्यकोपनिषत्, उपदेशतः उपदेशात् नेति नेति, इति न इति न, इत्युक्तप्रकारं न भवति इत्युक्तप्रकारं न भवति - इति परपर्युदासतः
“द्वे वाव ब्रह्मणो रूपे, मूर्तञ् चामूर्तञ्च,
मर्त्यञ् चामृतञ्च "
इत्यादिना मूर्त-मर्त्य-शब्दाभ्यां अमूर्तामृत-शब्दाभ्याञ्च
ब्रह्म-रूपत्वेन प्रतिपादित-चिद्-अचित्–तत्त्व-रूपवत्त्वादि-पर्युदासतः
चिद्-अचित्-तत्त्व-मात्र– रुपवत्त्वाद्य्-उक्त-प्रकारं
ब्रह्म न भवतीति
तन्-निरसन-मात्र-पर्यवसानात्
यं वरदराजं परोक्षं अप्रत्यक्षं वक्ति वदति,
न तु ब्रह्म-स्वरूप-प्रकारं परिच्छिद्य वदतीत्यर्थः ।
य एष, करिगिरिः तं वरदराजं अपरोक्षं ईक्षयति प्रदर्शयति सर्वेषां साक्षात्कारविषयं करोति तं करिगिरिं समाश्रये ।
“नित्यम् इन्द्रिय-पथातिगं महो
योगिनाम् अपि सुदूरगं धियः ।
अप्य् अनुश्रव-शिरस्सु दुर्ग्रहं
प्रादुरस्ति करिशैलमस्तके ।।”
इत्युक्तप्रकारेण वरद-राज-साक्षात्-कारयितृत्वात्
करिगिरिर् एव समाश्रयणीय इत्यर्थः ।
बृहदारण्यके -
“द्वे वाव ब्रह्मणो रूपे मूर्तञ्चामूर्तञ्च मर्त्यञ्चामृतञ्च"
इत्युपक्रम्य,
“तस्य हैतस्य पुरुषस्य रूपम्
यथा माहारजनं वासो
यथा पाण्ड्व्-आविकं
यथेन्द्रगोपो यथाग्न्य्-अर्चिर्
यथा पुण्डरीकम्"
इत्यादिना [[182]]
मूर्तामूर्त-कनकाम्बर–पाण्डु-कम्बलादि-रूपाण्य्-अभिधाय,
“अथात आदेशो नेति नेति ।
न ह्य् एतस्माद् इति
नेत्य् अन्यत् परम् अस्ति ।
अथ नामधेयं सत्यस्य सत्यम् इति ।
प्राणा वै सत्यम्;
तेषा मेष सत्यम्"
इत्युक्तम् ।
आदेश उपदेश “इति न इति न”
पूर्वोक्त-तत्-तद्-रूपवन्-मात्रं न इति
“न ह्य् एतस्माद् इति”
“नेत्य् अन्यत्परम् अस्ति” इति
न इति प्रतिपादिताद् अस्माद् ब्रह्मणः
अन्यत् परं न ह्य् अस्ति
अन्यद् उत्कृष्टं नास्ति हि ।
इदम् एव सर्व-तत्त्वोत्कृष्टतया सर्वोपनिषत्-प्रसिद्धम् ।
अतः तस्य ब्रह्मणः सत्यस्य सत्यम् इति नामधेयं,
प्राणा जीवाः सत्यं वै सत्यतया प्रसिद्धा हि ।
तेषां प्राणानाम् अप्य् एष पुरुषस् सत्यं, जीवानामपि सत्यत्वावह इत्य् अर्थः ।
“प्रकृतैतावत्त्वं हि प्रतिषेधति,
ततो ब्रवीति च भूयः"
इति ब्रह्मसूत्रेण
अस्याः श्रुतेर् अर्थो निर्णीतः ।
“नेति” वाक्यं पूर्वप्रकृतम् एतावत्त्वम् एतावद्-रूपवत्त्वं प्रतिषेधति,
हि यस्माद्धेतोः,
ततः तदनन्तरं भूयः ब्रवीति
“सत्यस्य सत्यम्” इत्यादि वदतीति
स्वयं वर-द-राज-स्वरूपादि–साक्षात्-काराक्षमायाः श्रुतेर् अपि
सर्वेषां साक्षात्-कारयितृत्व-क्षमः करिगिरिर् एवाभ्यधिक इति भावः ॥ ५ ॥
मूलम्
यं परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः ।
वक्ति यस्तम् अपरोक्षमीक्षयत्येष तं करिगिरिं समाश्रये ॥५॥
विश्वास-प्रस्तुतिः
एष ईश इति निर्णयं त्रयी
भाग-धेय-रहितेषु नो दिशेत् ।
हस्ति-धामनि न निर्णयेत को
देव-राजम् अयम् ईश्वरस् त्व् इति ॥६॥
श्रीनिवासः
एष इति । त्रयी वेदत्रयं भागधेयरहितेषु भाग्यहीनेषु विषये एष वरदराजः ईशः सर्वेश्वर इति निर्णयं निश्चयं नोदिशेत् न वितरेत् - “चित्रं विधेर्विलसित न्त्विद माविरस्ति दुष्टात्मना मय महो किल दुर्विपाकः । यत्केचिदत्र भवतीं श्रुतिमाश्रयन्तोऽप्यर्थे कुदुष्टिविनिविष्टधियो विनष्टाः ’ इत्युक्तम् इति भावः । हस्तिधामनि हस्तिरूपे धाम्नि स्थाने तु देवराज मय मीश्वर इति कः को वा न निर्णयेत निर्णयं न कुर्वीत, सर्वोऽपिवरदराजस्तवः [[183]] निश्चिन्वीतेत्यर्थः । हस्तिगिरिवासो देवराजस्य सर्वेश्वरत्वाद्यविनाभूत-समस्तकल्याणगुणात्मकत्वावह इति भावः ॥ ६ ॥
मूलम्
एष ईश इति निर्णयं त्रयी भागधेयरहितेषु नो दिशेत् ।
हस्तिधामनि न निर्णयेत को देवराजमयमीश्वरस्त्विति ॥६॥
श्रीनिवासः - प्रस्तावः
उक्तमेव सुव्यक्तं विवृणोति -
विश्वास-प्रस्तुतिः
है! कु-दृष्ट्य्-अभिनिविष्ट-चेतसां निर्विशेष-सविशेषताश्रयम् ।
संशयं करि-गिरिर् नुदत्य् असौ
तुङ्ग-मङ्गल-गुणास्पदे हरौ ॥७॥
श्रीनिवासः
है इति । तुङ्गाः उन्नताः आनन्दगुणवदपरिच्छेद्याः मङ्गलाः कल्याणाश्च ये गुणाः ज्ञानशक्त्यादयः
तेषामास्पदे आवासस्थाने हरौ विषये
कुदृष्ट्या कुत्सितया दृशा
अयथार्थज्ञानेन अभिनिविष्टचेतसाम् अत्याविष्टमनसां
वज्रलेपायित-चित्तानां
निर्विशेषसविशेषताश्रयं संशयं
हरिर्निगुणस्सगुणो वेति कोटिद्वयावलम्बि-सन्देहम् असौ करिगिरिः नित्यनिरवद्य-निरतिशय-कल्याण-गुणगणपुष्कलतया सर्वसाक्षात्कार्य देवराजाधिष्ठितोऽयं हस्तिगिरिः नुदति निरस्यति । उपनिषत्स्वपि कुदृष्टीना मनुत्पन्नं देवराजस्य मङ्गल गुणगणाकरत्व निर्णयं करिगिरि रुत्पादयतीति पर्यवसितोऽर्थः । है शब्दः प्रसिद्ध्यर्थः । शङ्करपक्षीयाणां मायावादिनां सगुणत्व- प्रसङ्गानङ्गीकारेऽपि तदवान्तरभेदयादवप्रकाश पक्षीयै र्दशाभेदेन ब्रह्मणस्सगुणत्वाङ्गीकारात्संशयोक्तिः ॥ ७ ॥
मूलम्
है! कुदृष्ट्यभिनिविष्टचेतसां निर्विशेषसविशेषताश्रयम् ।
संशयं करिगिरिर्नुदत्यसौ तुङ्गमङ्गलगुणास्पदे हरौ ॥७॥
श्रीनिवासः - प्रस्तावः
सात्विकैरपि सोपबृंहणया श्रुत्या तत्त्वनिर्णयः कथञ्चिच्छक्यः
हस्तिगिरिस्तु समस्थानां स्वतएव भगवन्तं विभावयतीत्याह -
विश्वास-प्रस्तुतिः
न्याय-तर्क-मुनि-मुख्य-भाषितैः
शोधितैः सह कथञ्चन त्रयी ।
जोषयेद् +धरिम् अनंहसो जनान्
हस्ति-धाम सकलं जनं स्वयम् ॥८॥
श्रीनिवासः
[[184]]
न्यायेति । त्रयी न्यायाः पूर्वोत्तरमीमांसान्यायाः, तर्काः, यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात् इत्यादि प्रमाणानुग्राहक विचार विशेषाः मुनिमुख्यभाषितानि तत्त्वविद ग्रेसर भगवद्बाल्मीकि पराशर पाराशर्य प्रभृति परमर्षि प्रणीत श्रीरामायण विष्णुपुराण भारतादि सात्त्विकशास्त्राणि, शोधितै रित्यनेन अपन्यायतर्काभास राजस तामस पुराणादीनि निरस्यन्ते । शोधितै श्शुद्धैः न्याय तर्क मुनिमुख्यभाषितैः कारणैः अनंहसः अपापान्
“जन्मान्तर सहस्रेषु
तपोज्ञान समाधिभिः ।
नराणां क्षीणपापानां
कृष्णे भक्तिः प्रजायते ।”
इत्युक्त प्रकारेण क्षीणकल्मषान् जनान् हरिं भगवन्तं जोषयेत् सेवयेत्। जुषी प्रीति सेवनयोः, णिजन्तत्वात् द्विकर्मकत्वम् । हस्तिधाम सकलं जनं आबालपण्डितं स्वयं सहकार नैरपेक्ष्येण जोषयेत् साक्षात्कारयतीत्यर्थः । अत्र
" धर्मे प्रमीयमाणे तु
वेदेन करणात्मना ।
इतिकर्तव्यताभागं
मीमांसा पूरयिष्यति” |
" वेदशास्त्ररथारूढाः
न्यायखड्गधरा द्विजाः ।
क्रीडार्थमपि यद्ब्रूयुस्स
धर्मः परमो मतः " ॥
“आर्षं धर्मोपदेशञ्च
वेदशास्त्राविरोधिना ॥
यस् तर्केनाऽनुसन्धत्ते
स धर्मं वेद नेतरः”॥
“इतिहासपुराणाभ्यां
वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो
माम् अयं प्रतरिष्यति ॥”
“यस्मिन्कल्पे तु यत्प्रोक्तं
पुराणं ब्रह्मणा स्वयम् ।
तस्य तस्य तु माहात्म्यं
तत्स्वरूपेण वर्ण्यते ।
अग्नेः शिवस्य माहात्म्यं
तामसेषु प्रकीर्तितम् ।
राजसेषु च माहत्म्यम्
अधिकं ब्रह्मणो विदुः ।
संङ्कीर्णेषु सरस्वत्याः
पितॄणाञ्च निगद्यते ।
सात्त्विकेष्वथ कल्पेषु
माहात्म्यम् अधिकं हरेः ।
तेष्वेव योगसंसिद्धाः
गमिष्यन्ति परां गतिम् ॥
इत्यादयः प्रमाणतयाऽनुसन्धेयाः ॥ ८ ॥
मूलम्
न्यायतर्कमुनिमुख्यभाषितैः शोधितैः सह कथञ्चन त्रयी ।
जोषयेद्धरिमनंहसो जनान् हस्तिधाम सकलं जनं स्वयम् ॥८॥
विश्वास-प्रस्तुतिः
अद्भुतं महद् अ-सीम-भूमकं(←भूमन्)
किञ्चिद् अस्ति किल वस्तु निस्तुलम् ।
इत्य् अघोषि यद् इदं तद् अग्रतस्
तथ्यम् एव करिधाम्नि दृश्यते ॥९॥
श्रीनिवासः
[[185]]
अद्भुतमिति । अद्भुतं सकल विसजातीयाश्चर्यावहं महत् अविच्छिन्न स्वरूपम् - असीमभूमकम् अपरच्छिन्नस्वभावम्, अत एव निस्तुलं निरुपमं किञ्चित् ज्ञातांशेऽप्यनिष्कृष्टम् । यद्वा, किञ्चित् एकं वस्तु अस्तीति य दघोषि सुप्रसिद्ध मुक्तं, तद्वस्तु करिधाम्नि अग्रतः मांसचक्षुषा मप्यस्माकं पुरतः इदं सत् इदमिति प्रत्यक्षार्हं सत् तथ्यं सत्यमेव दृश्यते ।
“यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति ।
तद्विजिज्ञासस्व । तद्ब्रह्मेति ।”
“सदेव सोम्येदमग्र आसीत्
एकम् एवाऽद्वितीयं ब्रह्म।
“य स्सर्वज्ञ स्सर्व वित्” ।
“पराऽस्य शक्तिर्
विविधैव श्रूयते
स्वाभाविकी-ज्ञानबलक्रिया च ।”
“न तत्समश्चाऽभ्यधिकश्च दृश्यते । "
एष सर्वभूतान्तरात्मा अपहतपाप्मा
दिव्यो देव एको नारायणः "
इति श्रुतिशतैरुद्घोषितवैभवो नारायणः करिगिरौ सम्यक्प्रत्यक्षीक्रियते इत्यर्थः ॥ ९ ॥
मूलम्
अद्भुतं महदसीमभूमकं किञ्चिदस्ति किल वस्तु निस्तुलम् ।
इत्यघोषि यदिदं तदग्रतः तथ्यमेव करिधाम्नि दृश्यते ॥९॥
श्रीनिवासः - प्रस्तावः
प्रत्यक्षादि-प्रमाणान्तर-संवादवत एव आगमस्य प्रामाण्यम्
इति वादिनां बाह्यानां मतेऽपि
हस्तिगिरिणा वरदराजं सकल-जन–साक्षात्-कार-क्षमं कलयता त्रयी-प्रमाण-भावम् अनुभवतीत्याह -
विश्वास-प्रस्तुतिः
संवदेत किल यत् प्रमान्तरैस्
तत् प्रमाणम् इति ये हि मेनिरे ।
तन्-मते ऽपि बत मानतां गता
हस्तिना ऽद्य परवस्तुनि त्रयी ॥१०॥(5)
श्रीनिवासः
संवदेतेति । ये वादिनः यत्किल यत्प्रमाणतयाऽभिमतन्तु प्रमान्तरैस्संवदेत संवादि भवेत् अनुगृहीतविषयं भवेत् तत्प्रमाणं हीति मेनिरे मन्यन्ते स्म, तन्मतेऽपि त्रयी अद्य हस्तिना हस्तिगिरिणा परवस्तुभूतं वरदराजं प्रत्यक्षयता हस्तिशैलेनेत्यर्थः । हस्तिनेति नामैकदेशे नाम ग्रहणम् - भीमो भीमसेन इतिवत् । परवस्तुनि परवस्तुविषये मानतां प्रमाणतां गता किल सर्वज्ञस् सर्वशक्तिस् सर्वशरण्यस् सकलफलप्रदः पुण्डरीकाक्षो लक्ष्मीपतिः परमपुरुषः सर्वनिर्वाहक इति श्रुतिप्रतिपादितस्य परवस्तुनः स्वमस्तके " [[186]]
हस्तिगिरिणा समस्त साक्षात्कार्यतया वहनात् श्रुति रबाधितविषया भवतीति भावः ॥ १० ॥
मूलम्
संवदेत किल यत् प्रमान्तरैः तत् प्रमाणमिति ये हि मेनिरे ।
तन्मतेऽपि बत मानतां गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥१०॥
भगवद्-गुणाः
श्रीनिवासः - प्रस्तावः
इत्थं मन्त्र-रत्न-स्थ–नार-पदाभिधेय–
हस्ति–भू-धर–वैभवं प्रतिपाद्य
तद्-अयन-पदाभिधेयस्य भगवतो वैभवं
विस्तरेण प्रतिपादयितुं प्रारभमाणः
गुण-योगं प्रथमतः प्रतिपदायति -
विश्वास-प्रस्तुतिः
गुणायत्तं लोके गुणिषु हि मतं मङ्गल-पदं,
विपर्यस्तं हस्ति-क्षिति-धर-पते! तत् त्वयि पुनः ।
गुणाः सत्य-ज्ञान-प्रभृतय उत त्वद्-गततया
शुभी-भूयं याता इति हि निरणैष्म श्रुति-वशात् ॥११॥
श्रीनिवासः
गुणायत्तम् इति । लोके गुणिषु गुणवत्सु मङ्गल पदं, एते शोभना इति शब्दः गुणायत्तं गुणाधीनं मतं हि । मणिद्युमणि चन्द्रचन्दनादिषु शोभनता हेतुः शोभातप चन्द्रिका सुगन्धभर सम्बन्ध इत्यतिप्रसिद्धम् इत्यर्थः । हे हस्तिक्षिति धरपते, त्वयि पुनः त्वयि तु तन्मङ्गलपदं गुणायत्तं विपर्यरत व्यत्यस्तं भवति । गुण्यायत्तम् एव गुणानां मङ्गलत्वम् इत्यर्थः । सत्यज्ञानप्रभृतयः सत्यज्ञानमुखाः गुणा उत, गुणाः पुनः,स्वरूप निरूपकगुणतया प्रसिद्धाः सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वादय इत्यर्थः । त्वद्गततया त्वदाश्रिततया त्वत्स्वरूपानुबन्धितया शुभी भूयं शुभत्वं याता इति श्रुतिवशात् “सत्यस्य सत्यं, ज्योतिषां ज्योतिः” इत्यादि श्रुतिबलात् निरणैष्म निर्णीतवन्तो हि भवामः । निर्पूर्वात् नीञ् प्रापणे इति धातोः परस्मैपदि लुङुत्तमबहुवचनम्। शुभीभूयम् इति “भुवो भावे” इति भावार्थे क्यप्प्रत्ययः । स्वरूप निरूपकगुणानां सत्यज्ञानादीनां, निरूपित स्वरूप विशेषण गुणानां ज्ञानशक्त्यादीनाञ्च नित्यनिरवद्य निरतिशयत्वाद्यतिशया भवदीयत्व प्रयुक्ता इति भावः ॥ ११ ॥
मूलम्
गुणायत्तं लोके गुणिषु हि मतं मङ्गलपदं विपर्यस्तं हस्तिक्षितिधरपते! तत्त्वयि पुनः ।
गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥११॥
श्रीनिवासः - प्रस्तावः
भगवत एतादृश-गुण-विशिष्ट-स्वरूपं
श्रुताव् अप्य् अवाङ्मनस-गोचरतया प्रत्यपादीत्याह-
विश्वास-प्रस्तुतिः
निराबाधं नित्यं निरवधि निरंहो निरुपमं
सदा शान्तं शुद्धं प्रतिभटम् अवद्यस्य सततम् ।
परं ब्रह्माम्नातं श्रुतिशिरसि यत् तद् वरद! ते
परं रूपं साक्षात् तद् इदम् अपदं वाङ्-मनसयोः ॥१२॥
श्रीनिवासः
[[187]]
निराबाधम् इति । निराबाधं निर्विकारं, नित्यं कालपरिच्छेदरहितं, निरवधि देशपरिच्छेद रहितं, निरंहः निर्मलं, निरुपमं निस्तुलं, सदा शान्तं नित्यानुकूलं, भोग्यमिति यावत्, शुद्धं निष्कृष्टसत्त्वरूपं, अत एव सतत मवद्यस्य प्रतिभटं, स्व सम्बन्धिना मपि हेय सम्बन्धगन्धासहम् इत्यर्थः । अन्यथा निरंहः पदेन पुनरुक्तेः । य त्तत्परं ब्रह्म श्रुतिशिरसि वेदान्ते वामन सयो रपदं अविषयः, आम्नातं
" न चक्षुषा गृह्यते
नाऽपि वाचा
यत् तदद्देश्यम ग्राह्यम्
इत्यादिवेदान्त वाक्ये अवाङ्गनस-गोचरतया प्रत्यपादि ।
हे वरद, तदिदं ते साक्षात् परं रूपं त्वदीयं निष्कृष्टपरम स्वरूपं, एतादृशपरस्वरूपरूप विशिष्टो भवान् सौलभ्येन हस्तिगिरि मस्तशेखरो भवतीति भारः ॥ १२॥
मूलम्
निराबाधं नित्यं निरवधि निरंहो निरुपमं सदा शान्तं शुद्धं प्रतिभटमवद्यस्य सततम् ।
परं ब्रह्माम्नातं श्रुतिशिरसि यत्तद् वरद! ते परं रूपं साक्षात् तदिदमपदं वाङ्मनसयोः ॥१२॥
विश्वास-प्रस्तुतिः
प्रशान्तानन्तात्मानुभव-ज-महानन्द-महिम-
प्रसक्त-स्तैमित्यानुकृत-वितरङ्गार्णव-दशम् ।
परं यत् ते रूपं स्व-सदृश-दरिद्रं वरद! तत्(5)
त्रयी पिस्पृक्षन्ती पर-निरसने श्राम्यति परम् ॥१३॥
श्रीनिवासः
प्रशान्तेति ।
भगवतः शान्तोदितदशा, नित्योदित दशेति च दशाद्वयम् अस्ति
तत्र हेय-प्रत्यनीक-कल्याणैकतान–स्व-स्वरूपानुभवदशा प्रथमा इतरा तु विभूत्यनुभवदशा ।
हे वरद, प्रकर्षेण शान्तस्य प्रशान्तस्य अत्यन्तानुकूलस्य, अनन्तस्य अपरिच्छिन्नस्य च आत्मनः स्वस्वरूपस्य अनुभवजः साक्षात्कारजन्यो यो महानन्दः आनन्दातिशयः तस्य महिम्ना महत्तया
प्रसक्तं सङ्गतं यत् स्तैमित्यं निश्चलत्वं तेन अनुकृता कृतानुकारा वितरङ्गार्णवदशा निस्तरङ्ग-समुद्रावस्था येन तत्तथोक्तम् ।
[[188]]
अत्यन्तानुकूलापरिच्छिन्न-स्वस्वरूप-साक्षात्कार–जन्यापरिच्छिन्नानन्द-वैभव-निश्चलत्व–संवादि-निस्तरङ्ग-रत्नाकरावस्थम् इत्यर्थः ।
स्वस्वरूपस्यात्यन्तानुकूलत्वात् परिपूर्णत्वाच् च
तद्-अनुभव-दशायाम् अतिमहत्य् आनन्दे जायमने
यद् ऐकाग्र्यं प्रसक्तं
तेन प्रशान्तोर्मिक-महार्णवावस्था ऽनुक्रियते इति यावत् ।
स्वसदृशदरिद्रं ईषदनुकारि-निस्तरङ्गाब्धि-व्यतिरिक्त-सदृशवस्त्वन्तररहितं
यत्ते परं रूपं अत्युत्कृष्टं स्वरूपमस्ति, तत्स्वरूपं पिस्पृक्षन्ती स्प्रष्टुमिच्छन्ती प्रतिपादयितुं प्रवृत्ता त्रयी परनिरसने परं
निष्कलं निष्क्रियं
यत्तद् अदृश्यम् अग्राह्यम्
इत्यादिना हेयावयवविकारादि-निरसन एव शाम्यति शान्ता भवति,
न यथावत्-प्रतिपादयितुं शक्नोतीत्यर्थः ।
भगवतस् तथाविधशान्तोदित-दशावतः ईदृश-सौलभ्यम् अस्मादृशाम् अनुग्रहायेत्यभिप्रायः ।
“अतिपतितावधि-स्व-महिमानुभव-प्रभवत्-
सुख-कृत-निस्तरङ्ग-जल-धीयित-नित्यदशाम्”
इति सुन्दरबाहुस्तवे नाम-व्यत्यासतः प्रयुक्तं नित्य-दशम् इति ॥ १३ ॥
मूलम्
प्रशान्तानन्तात्मानुभवजमहानन्दमहिमप्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् ।
परं यत्ते रूपं स्वसदृशदरिद्रं वरद! तत् त्रयी पिस्प्र(स्पृ)क्षन्ती परनिरसने श्राम्यति परम् ॥१३॥
श्रीनिवासः - प्रस्तावः
उक्तम् एव सुव्यक्तं विवृणोति -
विश्वास-प्रस्तुतिः
न वक्तुं न श्रोतुं न मनितुम् अथोपासिसिषितुं
न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सुशकम् ।
परं यद् वस्तूक्तं ननु वरद! साक्षात् तद् असि भोः!
कथं विश्वस्मै त्वं करि-गिरि-पुरस् तिष्ठस इह? ॥१४॥
श्रीनिवासः
नेति । हे वरद, यत् परं वस्तु सर्वस्मात्परं यत्तत्त्वं वक्तुमुपदेष्टुञ्च न सुशकं, श्रोतुञ्च न सुशकम् उपदिष्ट मपि श्रोतुं ग्रहीतुं न शक्यम् । एवं मनितुञ्च न सुशकं, श्रुत मपि युक्तिभिः प्रतिष्ठापयितुं च न शक्यम् । अथ मननानन्तरं उपासिसिषितुं च न सुशकम् उपासनाय वाञ्छितुं न शक्यम् । श्रुत्येति शेषःः । “ श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति तत्त्वदर्शिन आचार्यात् न्याययुक्तार्थ ग्रहणरूपस्य श्रवणस्य युक्तिभिः प्रतिष्ठापनरूपस्य मननस्य, तैलधारावदविच्छिन्न स्मृतिसन्तानरूपस्य निदिध्यासनस्य, [[189]] प्रत्यक्षसमानाकारस्य साक्षात्कारस्य च विहितत्वेऽपि
“न चक्षुषा गृह्यते नाऽपि वाचा”,
“यतो वाचो निवर्तन्ते
अप्राप्य मनसा सह”
इति स्वरूपगुणयो रवाङ्गानसगोचरता प्रतिपादनात्, श्रवणपूर्वभाव्युपदेशेन सह साक्षात्कारानन्तर भाविनिरन्तरानुभवपर्यन्तस्य षड्विधस्यास्याशक्यत्व- मुक्तप्रायमिति भावः । साक्षा त्तदसि ननु य दुपदेशश्रवणमनननिदिध्यासन साक्षात्कारानुभावाना मशक्यत्व मुक्तम् निष्कृष्टं तत्परवस्तु भवसि किल । कथ मिह भूतले करिगिरिपुरः त्वं विश्वस्मै तिष्ठसे । सर्वस्मै जनाय स्वाश्रितान् रक्षिष्यामीत्यभिप्रायं प्रकाशयन् तिष्ठसीत्यर्थः । “श्लाघहुड्स्थाशपां ज्ञीप्स्यमान” इति चतुर्थी । उपदेशादीना मशक्योऽपि कृत्स्नानुभाव्यतया करिगिरिपुरोभागे कथं सुलभो भवसीति भावः ॥ १४ ॥
मूलम्
न वक्तुं न श्रोतुं न मनितुमथोपासिसिषितुं न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सुशकम् ।
परं यद् वस्तूक्तं ननु वरद! साक्षात् तदसि भोः! कथं विश्वस्मै त्वं करिगिरिपुरस्तिष्ठस इह? ॥१४॥
श्रीनिवासः - प्रस्तावः
अथ षाड्गुण्यपूर्णतां वर्णयति -
विश्वास-प्रस्तुतिः
प्रकृष्टं विज्ञानं, बलम् अतुलम्, ऐश्वर्यम् अखिलं,
विमर्यादं वीर्यं, वरद! परमा शक्तिर् अपि च ।
परं तेजश् चेति प्रवर-गुण-षट्कं प्रथम-जं
गुणानां निस्सीम्नां गणन-विगुणानां प्रसव-भूः ॥१५॥
श्रीनिवासः
प्रकृष्टमिति । हे वरद, प्रकृष्ट मुत्कृष्टं विज्ञानं, प्रकृष्टमित्यादि- ज्ञानादिविशेषणैश्चेतनज्ञानादयो व्यावर्त्या इति मन्तव्यम् । अतुलं निरुपमम् बलम्, अखिलम् असङ्कुचित मैश्वर्यं, विमर्यादं निरवधि वीर्यं, परमा प्रकृष्टा शक्ति रपि च । अपि चेत्येकं पदम् । पर मुत्कृष्टं तेजश्चेति, प्रथमजं परवासुदेवोद्भवं कृत्स्नगुणप्रथमगण्यं वा प्रवरगुणषट्कं श्रेष्ठगुणषट्कं गणनविगुणानां दया क्षमादीनां प्रसवभूः उत्पत्तिस्थानं भवति; दयाक्षमादयो ज्ञानशक्त्यादिशाखाभेदा इति भावः ॥ १५ ॥
मूलम्
प्रकृष्टं विज्ञानं बलमतुलम् ऐश्वर्यमखिलं विमर्यादं वीर्यं वरद! परमा शक्तिरपि च ।
परं तेजश्चेति प्रवरगुणषट्कं प्रथमजं गुणानां निस्सीम्नां गणनविगुणानां प्रसवभूः ॥१५॥
श्रीनिवासः - प्रस्तावः
भगवतस् समस्त-कल्याण-गुणत्वे ऽपि
परव्यूह-विभागे गुणाविर्भाव-तिरोभाव-विभागम् आह-
[[190]]
विश्वास-प्रस्तुतिः
गुणैः षड्भिस् त्व् एतैः प्रथमतर-मूर्तिस् तव बभौ (वासुदेव इति)
ततस् त्रिस्रस् तेषां त्रि-युग! युगलैर् हि त्रिभिर् अभुः(←भा)
(ज्ञान-बले → सङ्कर्षण, ऐश्वर्य-वीर्ये → प्रद्युम्नः, शक्ति-तेजसी → अनिरुद्ध इति)।
व्यवस्था या चैषा ननु वरद! साऽऽविष्कृति-वशात्
भवान् सर्वत्रैव त्व् अ-गणित-महामङ्गल-गुणः ॥१६॥
श्रीनिवासः
गुणैरिति । है वरद, त्रियुग, ज्ञानबले ऐश्वर्यवीर्ये, शक्तितेजसी इति त्रीणि युगानि यस्य तथोक्त भगवन् ! तव प्रथमतरमूर्तिः परम पदनिलयपरवासुदेवमूर्तिः, एतैष्षङ्गुणैः बभौ भाति स्म । तदनन्तरं तिम्रो मूर्तयः, मूर्तय इति वचनव्यत्यासानुषङ्गः । तेषां गुणानां त्रिभि युगलैः युगलत्रयेण बभुः भान्तिस्मेति वचनव्यत्यासश्च । हि प्रसिद्धौ । यैषा व्यवस्था परवासुदेवनूर्ती गुणाः पटू, सङ्कर्पणमूर्ती ज्ञानबले, प्रद्युम्नमूर्ती ऐश्वर्यवीर्ये, अनिरुद्धमूर्तौ शक्तितेजसी इति याऽसौ व्यवस्था उक्तेत्यर्थः सा च आविष्कृतिवशात् उपासकसौकर्याय गुणयुगलमेकमेव तत्तन्मूर्ता वाविष्कर्तव्यमिति सङ्कल्पवशादित्यर्थः । तर्हि गुणान्तराभाव इत्याशक्याऽऽह भवानिति । भवांस्तु सर्वत्र सर्वमूर्ता वपि अगणितमहामङ्गलगुण एव असङ्ख्यातापरिच्छेद्यकल्याणगुणविशिष्ट एव अभूत् । अत्र
“ षाङ्गुण्याद् वासुदेवः पर इति स भवान् मुक्त-भोग्यो, बलाढ्यात्
बोधात् सङ्कर्षणस् त्वं हरसि, वितनुषे शास्त्रम्, ऐश्वर्य-वीर्यात् । प्रद्युम्नस्, सर्ग-धर्मो नयसि च भगवन् ! शक्ति-तेजो ऽनिरुद्धो
बिभ्राणः पासि तत्त्वं, गमयसि च तथा व्यूह्य रङ्गाधिराज!’
इति श्रीरङ्गराजस्तव श्लोकोऽनुसन्धेयः ॥ १६ ॥
मूलम्
गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्त्रिस्रस्तेषां त्रियुग! युगलैर्हि त्रिभिरभुः/अभूत् ।
व्यवस्था या चैषा ननु वरद! साऽऽविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥१६॥
श्रीनिवासः - प्रस्तावः
भगवतस् समस्त-कल्याण-गुण-विशिष्टत्वेन विभवावतारेषु कृत्स्न-गुणाविर्भाव इत्य् आशङ्क्य,
तत्राऽप्य् आविर्-भाव–तिरो-भावौ सङ्कल्पायत्ता वित्याह-
विश्वास-प्रस्तुतिः
इयं वैयूही वै स्थितिर् अथ किलेच्छा-विहृतये
विभूतीनां(→सुर-नर-तिरश्चां) मध्ये सुर-नर-तिरश्चाम् अवतरन् ।
सजातीयस् तेषाम्(→सुर-नर-तिरश्चां) इति तु विभवाख्याम् अपि भजन्
करीश! त्वं पूर्णो वर-गुण-गणैस् तान् स्थगयसि(←स्थग आच्छादने) ॥१७॥
श्रीनिवासः
[[191]]
इयम् इति । हे करीश, इयं पूर्वोक्ता स्थितिः व्यवस्था वैयूही वै व्यूहसम्बन्धिनी प्रसिद्धा ।
अथ किल अनन्तरं खलु इच्छा-विहृतये ऐच्छिक विहाराय मनोरथानुकूललीलायै विभूतीनां सुरनरतिरश्चां मध्ये स्वलीला-परिकर-भूतानां देव-मनुष्य-तिर्यग्-जातीनां मध्ये अवतरन् प्रादुर्भवन्
वर-गुण-गणैः कल्याण-गुण-गणैः पूर्णः अत एव विभवाख्यां विभव-विशिष्टोऽवतारो विभवावतार इति नामधेयमपि भजंस् त्वं तेषां सुरनरतिरश्चां सजातीय इति तु
“आत्मानं मानुषं मन्ये
रामं दशरथात्मजम्”
इत्यादिप्रकारेण तत्-तज्-जातीयो ऽभवम्
इति हेतोर् एव
तान् गुणगणान् स्थगयसि आच्छादयसि स्थग आच्छादने इति धातुः ।
सकल-कल्याण-गुण-विभवेन विभवावतार इति प्रसिद्धौ सत्याम् अपि
तत्-तत्-सजातीयताभिनय-निबन्धनं गुण-तिरोधानम् इति भावः ॥ १७ ॥
मूलम्
इयं वैयूही वै स्थितिरथ किलेच्छाविहृतये विभूतीनां मध्ये सुरनरतिरश्चामवतरन् ।
सजातीयस्तेषामिति तु विभवाख्यामपि भजन् करीश! त्वं पूर्णो वरगुणगणैस्तान् स्थगयसि ॥१७॥
श्रीनिवासः - प्रस्तावः
कल्याण-गुणाविर्भाव–तिरो-भावयोर् विषय-विभागम् आह-
विश्वास-प्रस्तुतिः
परो वा व्यूहो वा विभव उत वाऽर्चावतरणः
भवन् वाऽन्तर्यामी वर-वर-द! यो यो भवसि वै ।
स स त्वं सन्न् ऐशान् वर-गुण-गणान् बिभ्रद् अखिलान्
भजद्भ्यो भास्य् एवं सततम् इतरेभ्यस् त्व् इतरथा ॥१८॥(5)
श्रीनिवासः
पर इति । हे वरवरद, उतशब्दो वाऽर्थः । परो भवन्वा, व्यूहो भवन्वा, विभव उत विभवो भवन्वा, अर्चावतरणो भवन्वा, अन्तर्यामी भवन्वा यो यो भवसि वै यादृशो यादृशो भवसि वा स सन् तादृश स्तादृशो भवन् ऐशान् सर्वेश्वरत्वस्वरूपानुबन्धिनः अखिलान् वरगुणगणान् सर्वज्ञत्वसर्वशक्तित्वादिकल्याणगुणगणान् सततं बिभ्रत् दधान स्त्वं एवंविध समस्तकल्याणगुणगणविशिष्टत्वाकारेण भजद्भ्य स्सेवमानेभ्यः भासि । इतरेभ्य स्त्वभक्तेभ्य स्तु इतरथा निर्गुणो भासि । पराशरपराशर्यवाल्मीकिप्रह्लाद भीष्मादीनां भक्तानां सम्यक्प्रकाशिताः कल्याणगुणा एव बाह्यकुदृष्टिशिशुपालादीना मभक्तानां तिरोहिता इति भावः ॥ १८ ॥ [[192]]
मूलम्
परो वा व्यूहो वा विभव उत वाऽर्चावतरणः भवन् वाऽन्तर्यामी वरवरद! यो यो भवसि वै ।
स स त्वं सन् ऐशान् वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततम् इतरेभ्यस्त्वितरथा ॥१८॥
श्रीनिवासः - प्रस्तावः
दयादीनां स्वरूपगुणानां,
रूपगुणानां सौन्दर्यादीनाञ्च भक्तजनभोग्यत्वमाह -
विश्वास-प्रस्तुतिः
दया-क्षान्त्य्-औदार्य-म्रदिम-समता-सौहृद-
धृति-प्रसाद-प्रेमाज्ञाऽऽश्रित-सुलभताद्या वर-गुणाः ।
तथा सौन्दर्याद्यास् तव वर-द-राजोत्तम-गुणा
विसीमानो ऽसङ्ख्याः प्रणत-जन-भोगं प्रसुवते ॥१९॥
श्रीनिवासः
दयेत्यादि । हे वरदराज, तव विसीमानः अपरिच्छेद्याः असङ्ख्याः, स्वार्थनिरपेक्षपरदुःखासहिष्णुता दया, शिक्षणक्षमस्याऽपि आगस स्सहिष्णुता क्षान्तिः, उपसत्तितारतम्यानुचिन्तनं विनैव चिन्तित - प्रदत्वमौदार्यम्, आश्रितविश्लेषासहत्वं म्रदिमा, जातिगुणवृत्ताद्यनादरेण कृत्स्नेऽप्यादर स्समत्वं, परहितैकप्रवृत्तचित्तत्वं सौहार्दम्, अपराधोद्घाटनेऽपि अनुकम्पावत्त्वं धृतिः, निर्व्याजनित्यसौमुख्यं प्रसादः, आश्रितसं श्ले षैकरसिकत्वं प्रेम, कृत्याकृत्यज्ञापनम् आज्ञा, अतीन्द्रियस्यााऽपि आश्रयणयोग्यविग्रहपरिग्रह स्सौलभ्यम्, आश्रित- सुलभताद्याः वरगुणाः, आद्यशब्देन सौशील्यादयो गृह्यन्ते । तथा सौन्दर्याद्याः प्रत्यवयवशोभाप्रभृतयः उत्तमगुणाः । अत्राप्याद्यशब्देन लावण्यादयो गृह्यन्ते । प्रणतजनभोगं भक्तसङ्घसौख्यं प्रसुवते उत्पादयन्ति । प्रपूर्वात् षूङ् प्रणिप्रसवे इति धातोः आत्मनेपदि लट् बहुवचनम् ॥ १९ ॥
मूलम्
दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृतिप्रसादप्रेमाज्ञाऽऽश्रितसुलभताद्या वरगुणाः ।
तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः विसीमानोऽसङ्ख्याः प्रणतजनभोगं प्रसुवते ॥१९॥
श्रीनिवासः - प्रस्तावः
भगवतः स्वातन्त्र्यं सार्वज्ञ्यं च निन्दया स्तौति
विश्वास-प्रस्तुतिः
अन्-अन्याधीनत्वं तव किल जगुर् वैदिक-गिरः,
पराधीनं त्वां तु प्रणत-पर-तन्त्रं मनुमहे! ।
उपालम्भो(=अपवादः) ऽयं भोः! श्रयति बत सार्वज्ञ्यम् अपि ते
यतो दोषं भक्तेष्व् इह वरद! नैवाकलयसि! ॥२०॥(5)
श्रीनिवासः
अनन्येति । भो वरद, वैदिकगिरः
" न तस्येशे कश्चन,
तस्य नाम महद्यशः”
[[193]]
“सर्वस्य वशी सर्वस्येशानः “,
" तमीश्वराणां परमं महेश्वरं,
तं देवतानां परमञ्च दैवतम्”
इत्याद्युपनिषद्वाक्यानि तव अनन्याधीनत्वं स्वतन्त्रत्वं जगुः किल गायन्ति स्म, अकीर्तयन्नित्यर्थः ।
वयन्तु प्रणतपरतन्त्रं आश्रितवश्यं त्वां पराधीनं परतन्त्रं मनुमहे जानीमः । यतो यस्मात् कारणात्, इह लीलाविभूत्यां भक्तेषु दोषम् एव नाऽऽकलयसि, न जानासि ।
दोषो यद्यपि तस्य स्यात्
सतामेतद् अगर्हितम्”
इत्युक्तप्रकारेण दोषप्रसङ्गमपि न सहसे इत्यर्थः । अयम् उपालम्भः आश्रित- दोषानभिज्ञत्वरूपः अपवादः ते सार्वज्ञ्यं सर्वज्ञत्वमपि श्रयति । आश्रितदोषानभिज्ञस्य कुतस्सर्वज्ञत्वम् इति पर्यवस्यति । त्रय्यन्तप्रतिपादितं तव स्वातन्त्र्यं सौशील्यकामनारूप भक्तपारवश्यपराहतं, सर्वज्ञत्व मपि आश्रितदोषादर्शित्वरूपवात्सल्यपराहतम् इति भावः ॥ २० ॥
मूलम्
अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः पराधीनं त्वां तु प्रणतपरतन्त्रं मनुमहे! ।
उपालम्भोऽयं भोः! श्रयति बत सार्वज्ञ्यमपि ते यतो दोषं भक्तेष्विह वरद! नैवाकलयसि! ॥२०॥
विग्रह-वर्णनम्
श्रीनिवासः - प्रस्तावः
इत्थं मन्त्र-रत्नस्थ–श्रीमत्-पदं
श्रीनिधि-पदेन व्याख्याय
नार-पदार्थत्वेन प्रथम-दशके करिगिरिमाहात्म्यम् उक्त्वा,
नारायण-पदस्य गुण-प्राधान्य-विवक्षया
कल्याण-गुणान् द्वितीय-दशकेनाभिधाय
दिव्यविग्रहयोगस्याऽपि नारायण-शब्दार्थत्वाच्
चरण-शब्दार्थत्वेनाक्षिप्तत्वाच्च
द्विचत्वारिंशच्-छ्लोकैर् आमूर्धपादं दिव्यमङ्गलविग्रहं वर्णयितुं प्रारभते-
विश्वास-प्रस्तुतिः
पाणि-पाद-वदनेक्षण-शब्दैर्
अम्बुजान्य् अपदिशन् वरद! त्वम् ।
बाहुभिस् त्व् अतिविशाल-तमालान् (अपदिशन्)
आञ्जनं करि-गिरेर् असि शृङ्गम् ॥ २१ ॥
श्रीनिवासः
पाणीति । हे वरद, पाणिपादवदनेक्षणशब्दैः करचरणाननयननामकैः, अवयवै रित्यध्याहार्यम् | अम्बुजानि अपदिशन् निरस्यन्, बाहुभिस्तु अतिविशालतमालान् अपदिशन् त्वं करिगिरेः आञ्जनं अञ्जनमयं शृङ्गमसि सानुरसि ।
" शृङ्गं प्राधान्यसान्वोश्च ” इत्यमरः । अद्रिशृङ्गस्य स्वमूर्ध सम्भूताम्बुजवत्त्वात् [[194]]
तमालद्रुमवत्त्वाच्च अम्बुजविजयि-पाण्याद्य्-अवयवः तमालविजयिबाहुः काल-मेघ-श्यामस्त्वम् अञ्जनाकार-हस्तिगिरिसानुरिव विभासीति भावः ॥ २१ ॥
मूलम्
पाणिपादवदनेक्षणशब्दैः +अम्बुजान्यपदिशन् वरद! त्वम् ।
बाहुभिस्त्वतिविशालतमालान् आञ्जनं करिगिरेरसि शृङ्गम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
त्वाम् उदार-भुजम् उन्नसम् आयत्(←इण् गतौ →लम्ब)-
कर्ण-पाश-परिकर्म–सद्-अंसम् ।
आयताक्षम् अभिजात-कपोलं
पारणीयति(←पारण+क्यच् कामे) वरप्रद! दृङ्मे ॥२२॥
श्रीनिवासः
त्वाम् इति ।
हे वरप्रद, मे दृक् चक्षुः उदारभुजं पीनवृत्तायतबाहुम्, उन्नसम् उन्नतनासिकम्। “उपसर्गाच्च" इति नासिकाया नसादेशः ।
प्रशस्तः कर्णः कर्णपाशः, केशपाश इतिवत् । आयन्तौ आयतौ कर्णपाशौ परिकर्मणी भूषणे ययो स्तौ तथोक्तौ । सन्तौ शोभमानौ च अंसौ भुजशिरसी यस्य तथोक्तम्, आयताक्षं कर्णान्तविश्रान्तलोचनम्, अभिजातकपोलं सुन्दरगण्डत्वां पारणीयति आत्मनः पारणमिच्छति “सुप आत्मनः क्यच्” इति क्यच् प्रत्ययान्तात् पारणशब्दाल्लुटिरूपम्। अनुभवितु मिच्छतीत्यर्थः ॥ २२ ॥
मूलम्
त्वामुदारभुजम् उन्नसमायत्कर्णपाशपरिकर्मसदंसम् ।
आयताक्षमभिजातकपोलं पारणीयति वरप्रद! दृङ्मे ॥२२॥
विश्वास-प्रस्तुतिः
नील-मेघ-निभम् अञ्जन-पुञ्ज-
श्याम-कुन्तलम् अनन्त-शयं त्वाम् ।
अब्ज-पाणि-पदम् अम्बु-ज-नेत्रं
नेत्र-सात् कुरु करीश! सदा मे ॥ २३ ॥
श्रीनिवासः
नीलमेघनिभम् इति । हे करीश, नीलमेघनिभं कालमेघश्यामलम् 1 अञ्जनपुञ्जश्यामकुन्तलम् अञ्जनराशिरिव श्यामकेशपाशम्, अब्जपाणिपदम् अम्बुजनेत्रम् तामरससदृशकरचरणनयनम् अनन्तशयं शेषशयनं त्वां सदा नेत्रसात्कुरु चक्षुर्विषयं कुरुष्व । “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः" इत्युक्तं सदा दर्शनं दातव्यमित्यभिप्रायः ।
“भाष्यकारविश्लेषकाले
विलोचन विकलैः श्रीवत्सचिह्नमिश्रैर् निर्मितम् इमं वरदराजस्तवं
पुनर् आगत्य शृण्वन्तो भाष्यकाराः
एतच्-छ्लोक-श्रवणसमये
श्रीवत्सचिहमिश्रचक्षुः प्रेक्ष्य‘किम् इति वरदराजो दया-निधिः [[195]]
नेत्रं न दत्तवान्इति शङ्कितवन्तः ।
तदानीं
‘सदादर्शनम् एव मया प्रार्थितम्’ इति परिहृतञ्च’
इत्य् ऐतिह्य मस्ति ।
अतः, उक्तं सदा–दर्शनम् एव सम्यग्-विवृण्वद्भिः प्रार्थ्यते इति हृदयम् ॥ २३ ॥
मूलम्
नीलमेघनिभम् अञ्जनपुञ्जश्यामकुन्तलम् अनन्तशयं त्वाम् ।
अब्जपाणिपदम् अम्बुजनेत्रं नेत्रसात् कुरु करीश! सदा मे ॥ २३ ॥
विश्वास-प्रस्तुतिः
त्वक् च दृक् च निपिपासति, जिह्वा
विह्वला श्रवणवत् परवृत्तौ ।
नासिका त्वयि करीश! तथेति
(मुक्तौ अर्चा-रूप-साम्यतः) प्राप्नुयां कथम् इमां स्विद् अवस्थाम् ॥ २४ ॥
श्रीनिवासः
त्वगिति ।
हे करीश, त्वयि विषये त्वक् च दृक् च मम चक्षुरिन्द्रियं त्वगिन्द्रियञ्च निपिपासति नितरां पातुमिच्छति,
रसनेन्द्रियव्यापारं वाञ्छतीत्यर्थः । जिह्वा रसनेन्द्रियं श्रवणवत् श्रोत्रेन्द्रियवत् परवृत्तौ दर्शनस्पर्शनादिके इन्द्रियान्तरव्यापारे विह्वला व्याकुला चपला भवति ।
श्रोत्रेन्द्रियं यथेन्द्रियान्तरव्यापारचपलं भवति
तथा रसनेन्द्रियमपि भवतीत्यर्थः ।
नासिका घ्राणेन्द्रियञ्च तथा परवृत्तौ विह्वला भवतीति
कथं स्वित् कथं वा इतीमामवस्थां** प्राप्नुयाम्** एतादृशीं दशां प्राप्तो भूयासम् ।
‘पश्यत्य् अचक्षुस्
स शृणोत्य् अकर्णः ”,
“ विश्वतश् चक्षुर् उत विश्वतोमुखः “,
“नयन-श्रवणो दृशा शृणोष्य् अथ ते रङ्गपते महेशितुः,
करणैर् अपि कामकारिणो घटते सर्वपथीनम् ईक्षणम्”
इत्यादि प्रतिपादित-सर्व-पथीन-प्रत्यक्षवतो भगवतः
परम-साम्यापत्ति-रूप-मुक्तिम् उपेत्य
तथा-विध-प्रत्यक्षेण यथा-मनो-रथं भगवन्तम् अनुभवेयम् इत्यर्थः ॥ २४ ॥
मूलम्
त्वक् च दृक् च निपिपासति जिह्वा विह्वला श्रवणवत् परवृत्तौ ।
नासिका त्वयि करीश! तथेति प्राप्नुयां कथमिमां स्विदवस्थाम् ॥ २४ ॥
अवयव-कलनम्
श्रीनिवासः - प्रस्तावः
इत्थं श्लोकचतुष्टयेन दिव्यमङ्गलविग्रह शोभामनुभूय
प्रत्यवयव-शोभम् अनुभवितुं प्रारभते -
विश्वास-प्रस्तुतिः
आधिराज्यम् अधिकं भुवनानाम्
ईश! ते पिशुनयन् किल मौलिः ।
चूलिका(=शिखा)-मणि-सहस्र-मरीचेर्
हस्ति-भूषण! भवत्य् उदयाद्रिः ॥ २५ ॥
श्रीनिवासः
[[196]]
आधिराज्यम् इति । हे ईश, स्वामिन्, हस्तिभूषण, हस्तिगिरिशेखरभूत, भुवनानां सकललोकानाम् अधिक माधिराज्यं सर्वसाम्रज्यं पिशुनयन् सूचयन् ते मौलिः किरीटं, “चूडा किरीटं केशाश्च संयता मौलयः” इत्यमरः । चूलिका-मणिः शिखारत्नं किरीट- शिखरस्थानीयरत्नं स एव सहस्रमरीचिः सूर्यः, तस्य उदयाद्रि र्भवति । किलेत्युत्प्रेक्षायाम्। उभयविभूतिसाम्राज्यसूचकदेवराजकिरीटं विशृङ्खल- मयूखसङ्घात स्वशिखामणिद्युमणे रुदयगिरि रिव विभातीति भावः ॥ २५ ॥
मूलम्
आधिराज्यमधिकं भुवनानाम् ईश! ते पिशुनयन् किल मौलिः ।
चूलिकामणिसहस्रमरीचेः हस्तिभूषण! भवत्युदयाद्रिः ॥ २५ ॥
विश्वास-प्रस्तुतिः
(तिलकम्) उद्धरत्य् उपरि (स्व-)भक्त-जनान् इत्य्
ऊर्ध्वताऽऽश्रयण-सूचित-शक्तिम् ।
ऊर्ध्व-पुण्ड्र-तिलकं बहु-मानात्
किं बिभर्षि वरद! स्व-ललाटे ॥ २६ ॥
श्रीनिवासः
उद्धरतीति ।
हे वरद,
‘इदम् ऊर्ध्वपुण्ड्रतिलकम्’ इति कर्तृपदम् अध्याहार्यम् ।
भक्तजनान् भगवद्भक्ति मतो जनान् उद्धरति स्वधारणेनोर्ध्वगतिं प्रापयति
इति एवम्
ऊर्ध्वताश्रयणेन ऊर्ध्वाकार विशिष्टतया
सूचिता ज्ञापिता शक्ति-वाच्यं प्रति वाचकभावो येन तं तथोक्तम् ।
ऊर्ध्वगतिं प्रापयतीत्य् ऊर्ध्वपुण्ड्रम् इति शब्दशक्ति रूर्ध्वाकारवैशिष्ट्येन ज्ञापितेत्यर्थः ।
एवम्भूतम् ऊर्ध्वपुण्ड्रतिलकं बहुमानात्
स्वभक्तोद्धारकत्व-प्रयुक्त-सत्कारात्, स्वललाटे बिभर्षि किम् ?
" स्नानं दानं जपो होमः
स्वाध्यायः पितृतर्पणम्,
भस्मीभवति तत्सर्वम्
ऊर्ध्वपुण्ड्रं विना कृतम्”
इति कर्माङ्गतया धारणन्तु भवतो न सम्भवतीति भावः ॥ २६ ॥
मूलम्
उद्धरत्युपरि भक्तजनानित्यूर्ध्वताश्रयणसूचितशक्तिम् ।
ऊर्ध्वपुण्ड्रतिलकं बहुमानात् किं बिभर्षि वरद! स्वललाटे ॥ २६ ॥
विश्वास-प्रस्तुतिः
कर्णिका तव करीश! किम् एषा
कर्ण-भूषणम्? उतांस-विभूषा? ।
अंस-लम्ब्य्-अलक-भूषणम् आहो!
मानसस्य मम वा परिकर्म? ॥ २७ ॥
श्रीनिवासः
[[197]]
कर्णिकेति । हे करीश, तव एषा कर्णिका कर्णभूषणम्। ‘कर्णललायत्कनलङ्कारे’ इति कन्प्रत्ययः ।
कर्णभूषणं किं कर्णस्यैव भूषणं किमित्यर्थः।
उत अथवा,
अंसविभूषा अंसप्रान्तप्रलम्बमानत्वाद् अंसस्यैव अलङ्कारो वेत्यर्थः ।
आहो यद्वा,
असंलम्ब्य् अलकभूषणं असंप्रलम्बमानचूर्णकुन्तलापलङ्कारो वेत्यर्थः । मम मानसस्य परिकर्म वा कर्णभूषणां सशोभालक भूषणनु बुभूषु मदीय हृदयशोभावहा वा, उक्तचतुष्टयस्याऽपि भूषणं भवतीति भावः ॥ २७ ॥
मूलम्
कर्णिका तव करीश! किमेषा कर्णभूषणम्? उतांसविभूषा? ।
अंसलम्ब्यलकभूषणमाहो! मानसस्य मम वा परिकर्म? ॥ २७ ॥
विश्वास-प्रस्तुतिः
पारिजातविटपान् अभितो या
पुष्प-सम्पद् उदियात् करि-नाथ! ।
तां विडम्बयति तावक-बाहुष्व्
आतता तु कटकाङ्गद-लक्ष्मीः ॥ २८ ॥
श्रीनिवासः
पारिजातेति । हे करिनाथ, तावक बाहुषु आतता विस्तृता कटकाङ्गदलक्ष्मीः वलयकेयूरशोभा तु पारिजातविटपानभितः कल्पशाखिशाखाः परितः या पुष्पाणां सम्पत् शोभा उदियात् उदयं प्राप्नुयात् तां पुष्पशोभां विडम्बयति अनुकरोति । पारिजातद्रुमसदृशस्य वरदराजस्य विपसदृशेषु बाहुषु पुष्पशोभासदृशी कटकाङ्गदशोभेत्यर्थः ॥ २८ ॥
मूलम्
पारिजातविटपान् अभितो या पुष्पसम्पदुदियात् करिनाथ! ।
तां विडम्बयति तावकबाहुष्वातता तु कटकाङ्गदलक्ष्मीः ॥ २८ ॥
विश्वास-प्रस्तुतिः
मथ्यमान-चल-फेनिल-सिन्धु-
प्रोत्थिति-क्षण-दशां गमितौ ते ।
वक्षसि स्फुरित-मौक्तिक-हारे
कौस्तुभश् च कमला च करीश! ॥ २९ ॥(4)
श्रीनिवासः
मथ्यमानेति । हे करीश, स्फुरितमौक्तिकहारे चलितमुक्तादामनि ते तव वक्षसि कौस्तुभश्च, कमला लक्ष्मीश्च उभौ, मथ्यमानः क्रियमाण मथनः अत एव चलफेनिलः चञ्चलफेनवांश्च यः सिन्धु स्समुद्रः तस्मात्प्रोत्थितिक्षणदशां उद्भूतिसमयावस्थां गमितौ प्रापितौ, समुद्रसदृशशोभे, भगवतः, चञ्चलमुक्ताहारे (च) वक्षसि स्थितौ लक्ष्मीकौस्तुभौ मथनकाले चलफेनमालसमुद्रोद्भूता विव भात इति भावः । [[198]]
प्रादुर्भवल्लक्ष्मीकौस्तुभमथनचलफेनमाल - समुद्रसाम्यं लक्ष्मीकौस्तुभा- धिष्ठितस्य स्फुरितमौक्तिकहारस्य भगवद्वक्षसः फलितम् । “फेनाच्च” इति मत्वर्थेलच् प्रत्ययः ।। २९ ।।
मूलम्
मथ्यमानचलफेनिलसिन्धुप्रोत्थिति(त)(प्रोज्झित)क्षणदशां गमितौ ते ।
वक्षसि स्फुरितमौक्तिकहारे कौस्तुभश्च कमला च करीश! ॥ २९ ॥
विश्वास-प्रस्तुतिः
अञ्जन-क्षिति-भृतो यदि नाम
+उपत्यका वरद! हेममयी स्यात् ।
तादृशी तव विभाति तु लक्ष्मीर्
आम्बरी बत विडम्बित-विद्युत् ॥ ३० ॥(5)
हिन्दी
अञ्जनेति । हे वरद, अञ्जनक्षितिभृतः अञ्जनमयपर्वतस्य उपत्यका पर्यन्तभूमिः।“उपत्यकाऽद्रे रासन्ना भूमिः” इत्यमरः । हेममयी स्याद्यदि नाम, विडम्बितविद्युत् अनुकृतसौदामनी, सौदामनीसदृशी, आम्बरी लक्ष्मीः पीताम्बरसम्बन्धिनी शोभा तु तादृशी विभाति । काञ्चनमयाञ्जन- पर्वतोपत्यकासदृशी भासते । नामेति प्रसिद्धौ । बते त्याश्चर्ये ॥ ३० ॥
मूलम्
अञ्जनक्षितिभृतो यदि नामोपत्यका वरद! हेममयी स्यात् ।
तादृशी तव विभाति तु लक्ष्मीः आम्बरी बत विडम्बितविद्युत् ॥ ३० ॥
विश्वास-प्रस्तुतिः
पर-भागम् इयाद् रवेस् तमिस्रा(=रात्रिः)
वरदाद्य त्वयि तन् निशामयामः ।
गमिता तव वक्त्र–चित्र-भानोः(=सूर्यस्य)
पर-भागं ननु कौन्तली तमिस्रा(=रात्रिः) ॥ ३१ ॥(4)
श्रीनिवासः
परभागमिति । हे वरद !
तमिस्रा रात्रिः
रवेस् सूर्यस्य
परभागं पश्चाद्भांगम् इयात् प्राप्नुयात्,
रवेर् अस्तमयकाल एव रात्रेः प्रादुर्भावादिति भावः ।
तत्परभाग-गमनं अद्य त्वयि त्वदीयदिव्यविग्रहे निशामयामः पश्यामः । तव कौन्तली अलकसम्बन्धिनी तमिस्रा कुन्तलाख्या रात्रिर् इत्यर्थः ।
वक्त्रचित्रभानोः वदन-तपनस्य परभागं वर्णोत्कर्षम् । वर्णान्तरसन्निधानजन्यवर्णोत्कर्षस्य परभाग इति नाम । पश्चाद्भागं गमिता प्रापिता । परभाग एव परभाग इति श्लिष्टरूपकम् । लोकप्रसिद्धा रात्रे स्सूर्यपरभागप्राप्तिः, प्राप्तवक्त्रचित्रभानुपरभागायां त्वदीयकुन्तलतमिस्रायां स्पष्टं दृष्टेति निष्कृष्टोऽर्थः । सहस्र भानुसन्निभभगवद्वदनशोभा सन्निधानात्तमिस्रा सदृशकुन्तलशोभा सुतरां भासते इति भावः ॥ ३१ ॥
मूलम्
परभागमियाद् रवेस्तमिस्रा वरदाद्य त्वयि तन्निशामयामः ।
गमिता तव वक्त्रचित्रभानोः परभागं ननु कौन्तली तमिस्रा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
उभयोर् अपि पक्षयोस् तिथिर् या
विषमी-भाव-निरास-दा ऽष्टमीति ।
उपमान-ज-सम्पदे हि सेन्दोर्
वरदाऽभूद् भवतो ललाट-लक्ष्म्याः ॥ ३२ ॥
श्रीनिवासः
[[199]]
उभयो रिति ।
हे वरद, उभयोः पक्षयोः शुक्लकृष्णपक्षयोरपि इन्दोः चन्द्रस्य
विषमीभावनिरासदा वैषम्यनिरसनप्रदा
वृद्धिक्षययोर् अपि अष्ट-कला-विशिष्टता-रूप-साम्य-करी या अष्टमी तिथिर् अस्ति
सा तिथिः भवतो ललाटलक्ष्म्याः अलिकशोभायाः
उपमानजसम्पदे उपमाने सदृशवस्तुनि जायमाना या सम्पत् शोभासमृद्धिः,
तस्यै उपमानसम्पदे अभूत् अर्धचन्द्रोपमानसम्पादनाय अभूत् ।
इन्दोः भवतो ललाट-लक्ष्म्याः उपमान-सम्पदेऽभूद् इति ।
इन्दोर् इति पदस्य उभयत्राप्य् अन्वयः ।
इन्दोः कलासाम्यप्रदा अष्टमी, वरद-राज-ललाट-साम्य-प्रदा च अभूदित्यर्थः ।
वरद-राज-ललाटं पक्ष-द्वयाष्टमी-चन्द्र-सदृशं भवतीति पर्यवसितोऽर्थः ॥ ३२ ॥
मूलम्
उभयोरपि पक्षयोस्तिथिर्या विषमीभावनिरासदाऽष्टमीति ।
उपमानजसम्पदे हि सेन्दोः वरदाऽभूद् भवतो ललाटलक्ष्म्याः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अलकालि-चिकीर्षया किलात्ता (→मषी) सु-परीचिक्षिषया(←ईक्ष्) ललाट-पट्टे ।
सु-मषी (अतिकाला वेति) निकषी-कृता भ्रुवौ ते
वरद! स्याद्, (दिव्य-विग्रहस्य) अ-कृतत्वतस् तु नैवम् ॥ ३३ ॥ (5)
श्रीनिवासः
अलकेति ।
हे वरद ! कर्तुम् इच्छा चिकीर्षा ।
परीक्षितुम् इच्छा परीचिक्षिषा ।
‘विधात्रा’ इत्य् अध्याहार्यम्
विधात्रा
अलकालिचिकीर्षया कुन्तल-पङ्क्ति-निर्माणेच्छया आत्ता स्वीकृता,
सुपरीचिक्षिषया कुन्तल पङ्क्त्युपादानकारणतया गृहीता इयं
मषी अतिकाला वा, न वा
इति परीक्षितुमिच्छया,
ललाटपट्टे वरदराजालिकाख्ये निकषोपलफलके
निकषीकृता निकृष्टा
सुमषी शोभना मषी भ्रुवौ स्यात्किल ।
भ्रूयुगत्वेन व्यवह्रियते इत्युत्प्रेक्षितुं शक्यते इत्यर्थः ।
[[200]]
अकृतत्वतस्तु दिव्यविग्रहस्य
“इच्छा-गृहीताभिमतोरु-देहः”,
“प्रकृतिं स्वाम् अधिष्ठाय
सम्भवाम्य् आत्म-मायया”,
“न तस्य प्राकृता मूर्तिः”
इत्य्-आद्य्-उक्त-प्रकारेण नित्यत्वात् तु,
नैवम् एवमुत्प्रेक्षा न सम्भवति; नित्यस्य निर्माणाद्यसम्भवा दिति भावः ॥ ३३ ॥
मूलम्
अलकालिचिकीर्षया किलात्ता सुपरीचिक्षिषया ललाटपट्टे ।
सुमषी निकषीकृता भ्रुवौ ते वरद! स्यादकृतत्वतस्तु नैवम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
श्रवसश् च दृशश् च शब्द-रूप-
ग्रहणे ते न हि जीववद् व्यवस्था ।
उभयोर् अखिलेक्षण-क्षमत्वाद्
वरदातः श्रवणाश्रये दृशौ ते ॥ ३४ ॥
श्रीनिवासः
श्रवसश्चेति । वरदातः, ते तव श्रवसश्च श्रोत्रस्य च दृशश्च यथाक्रमं । शब्दरूपग्रहणे जीववव्यवस्था नहि । श्रोत्रेणैव शब्दो ग्राह्यः दशैव रूपं ग्राह्यम् इति नियमो नास्तीत्यर्थः । स्वयम् एव कर्णपर्यन्तायते दृशौ । तत्र उत्प्रेक्ष्यते । जीवात्मश्रोत्रादीनां शब्दा द्येकैकविषयग्राहकत्व नियमवत् भगवदिन्द्रियाणां नियमाभावात् दृश श्शब्दग्राहकत्वात्, श्रोत्रस्य च रूपग्राहकत्वात् उभयो स्सङ्करोऽभव दित्यर्थः ॥ ३४ ॥
मूलम्
श्रवसश्च दृशश्च शब्दरूपग्रहणे ते न हि जीववद् व्यवस्था ।
उभयोरखिलेक्षणक्षमत्वात् वरदातः(!) श्रवणाश्रये दृशौ ते ॥ ३४ ॥
विश्वास-प्रस्तुतिः
करुणा-रस-वाहि-वीक्षणोर्मेर्
वरद! प्रेममय-प्रवाह-भाजः ।
तत-तीर-वनावली भ्रुवौ दृक्-
चल-सिन्धोस् तव नासिकेव सेतुः ॥ ३५ ॥(5)
श्रीनिवासः
करुणेति । हे वरद ! करुणारसं वहतीति प्रवहतीति करुणारसवाही, वीक्षणोर्मिः अपाङ्गतरङ्गो यस्य तथोक्तस्य । करुणाया रसत्वं रस्यतयेति मन्तव्यम् । प्रेममयप्रवाहभाजः तव दृक्वलसिन्धोः प्रणयरूप- प्रवाहवत्त्वानुगुणं चलसिन्धुत्वनिरूपणम् । भ्रुवौ तते विस्तृते तीरवनावली, भवत इति शेषः । नासिकैव सेतु र्भवति । अत्यन्त भोग्यानुकम्पेक्षण- क्षमवीक्षणो में ः बहुल प्रणयप्र वाहवतश्चक्षुस्सु खोत्तरलसागरस्य तीरवनावलीद्वयस्थानीये भ्रुवौ, नासिका सेतुस्थानीयेत्यर्थः ॥ ३५ ॥
मूलम्
करुणारसवाहिवीक्षणोर्मेः वरद! प्रेममयप्रवाहभाजः ।
तततीरवनावली भ्रुवौ दृक्चलसिन्धोस्तव नासिके(कै)व सेतुः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
विभवं विवृणोति, विस्तृणीते
रुचम्, आविष् कुरुते कृपाम् अपाराम् ।
अभिवर्षति हर्षम्, आर्द्र-भावं तनुते ते वरदैष दृष्टिपातः ॥ ३६ ॥(5)
श्रीनिवासः
[[201]]
विभवम् इति । हे वरद, ते तव, एष दृष्टिपातः, अस्माकमपि साक्षात्कारक्षमः कटाक्षः विभवं विवृणोति भवदीय मुभयविभूति - सार्वभौमत्वं व्यक्तं करोति, रुचं शोभां विस्तृणीते विस्तृतां करोति । ‘तस्य यथा कप्यासं पुण्डरीकम् एव मक्षिणी’ इति, ‘रामो राजीवलोचन’, “कृष्णं कमलपत्राक्षम्” इत्याद्युक्ता मखण्डितोल्लासपुण्डरीक सदृशतां प्रकाशयतीत्यर्थः । अपारं निरवधिं, कृपा माविष्कुरुते सूचयति, अपारां कृपां प्रवहतीत्यर्थः ॥ ३६ ॥
मूलम्
विभवं विवृणोति, विस्तृणीते रुचम्, आविष्कुरुते कृपामपाराम् ।
अभिवर्षति हर्षम्, आर्द्रभावं तनुते ते वरदैष दृष्टिपातः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अरुणाधर-पल्लवे लसन्ती
वरदासौ द्विज(=दन्त)-चन्द्र-चन्द्रिका ते ।
अधिविद्रुमम् (निर्)अस्त-निस्तला(=वर्तुल [मौक्तिक])ऽऽली-
रुचम् आविष् कुरुते हि पुष्कराक्ष! ॥ ३७ ॥
श्रीनिवासः
अरुणेति । हे पुष्कराक्ष, हे पुण्डरीकाक्ष, वरद, अरुणाधरपल्लवे अरुणे अत एव पल्लवतुल्ये अधरे लसन्ती प्रकाशमाना असौ द्विजचन्द्रचन्द्रिका चन्द्र-सदृश-दन्तप्रभा अधिविद्रुमं विद्रुमे । सप्तम्यर्थे ऽव्ययीभावः । अधिविद्रुमम् अस्तां निरस्ताञ्च तां निस्तलालीरुचं मौक्तिकशोभाम् आविष्कुरुते प्रकाशयति । अधिविद्रुममस्तनिस्तलालीरुच मित्येकं पदम् । भगवत स्समुद्रसाम्य, मधरस्य विद्रुमलतासाम्यं, तदुपरि भासमान मौक्तिकावलीशोभासाम्यं दन्तपङ्क्तिशोभायाश्चाभिमतम् ॥ ३७ ॥
मूलम्
अरुणाधरपल्लवे लसन्ती वरदासौ द्विजचन्द्रचन्द्रिका ते ।
अधि(ति)विद्रुमम् अस्तनिस्तु(स्त)(स्ति)लालीरुचमाविष्कुरुते हि पुष्कराक्ष! ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स्मित-निर्झरिका विनिष्पतन्ती
तव वक्षस्-स्थल-भूतले विशीर्णा ।
वरद! प्रबिभर्ति हार-लक्ष्मीम्
अपि मुक्तावलिका नदीव तज्-जा ॥ ३८ ॥
श्रीनिवासः
[[202]]
स्मितेति । हे वरद, विनिष्पतन्ती उन्नतस्थानात् पतन्ती तव । स्मितनिर्झरिका । वदनस्य वक्षः स्थलापेक्षया उन्नतत्वात् तस्मा न्निष्पततः स्मितस्य निर्झरत्वेन निरूपणम् । वक्षः स्थलमेव भूतलं तस्मिन् विशीर्णा प्रकीर्णा सती हारलक्ष्मीम् “हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका । हारभेदा यष्टिभेदात् गुत्सगुत्सार्धगोस्तनाः" इत्युक्तत्वात्, प्रकीर्णा, निर्झरसादृश्याश्च शतयष्टिक सहस्रयष्टिकहारशोभां प्रविभर्ति । मुक्तावलिकाऽपि एकयष्टिका मुक्तावल्यपि, तज्जा निर्झरजा नदीव कुल्यातुल्या, भातीति शेषः । परिमलझरीत्यादि प्रयोगानुगुण्यात् निर्झरी, निर्झरिका, निर्झर इति इतिच पर्यायशब्दाः । अधो विजृम्भमाणं स्मित मपि हारत्वेन पर्यवसितम् । एकावली तु तदेकदेश इवाऽऽभातीति भावः ॥ ३८ ॥
मूलम्
स्मितनिर्झरिका विनिष्पतन्ती तव वक्षस्स्थलभूतले विशी(की)र्णा ।
वरद! प्रबिभर्ति हारलक्ष्मीम् अपि मुक्तावलिका नदीव तज्जा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
परिमण्डित-रास-मण्डलाभिर्
वरदाघ्रातम् अभीष्ट-गोपिकाभिः ।
अनुवर्ति-तदातन-प्रहर्षाद्
इव फुल्लं हि कपोलयोर् युगं ते ॥ ३९ ॥
श्रीनिवासः
परिमण्डितेति । हे वरद, परिमण्डितं परिष्कृतं रासमण्डलं याभिस्ताभिः अभीष्टगोपिकाभिः प्रियाभि र्गोपाङ्गनाभिः आघ्रातं ते कपोलयोर्युगम् अनुवर्तितदातनप्रहर्षा दिव, गोपाङ्गनाघ्राणकालीन- प्रीत्यनुवृत्त्येवेत्यर्थः । इदानीमपि अनुवृत्तात् तदानीन्तनानन्दातिशया दिव फुल्लं विकसितं हि । परस्परसंश्लिष्टबाहुकानेक विग्रहपरिग्रह कृष्णगोपाङ्गनामण्डलप्रवृत्तनृत्तविशेषोरासः । रासक्रीडाकाले उभयपार्श्व- स्थिताभ्यां गोपिकाभ्यां प्रतिविग्रहं कपोलद्वय मपि प्रीत्यतिशयेनाऽऽप्रातं भवतीति, तदानीन्तनाना मनेकेषां विग्रहाणां कपोलयो र्यावान्वा विकासो जातः तावानपि विकासो वरदराजकपोलयो र्विकास इति भावः ।। ३९ ।।
मूलम्
परिमण्डितरासमण्डलाभिः वरदाघ्रातम् अभीष्टगोपिकाभिः ।
अनुवर्ति(वृत्त)तदातनप्रहर्षात् इव फुल्लं हि कपोलयोर्युगं ते ॥ ३९ ॥
विश्वास-प्रस्तुतिः
मुखम् उन्नसम् आयताक्षम् उद्यत्-
स्मित-दन्तं रुचिराधरं नत-भ्रु ।
लसद्-अंस-विलम्बि-कर्ण-पाशं
मयि ते निश्चलम् अस्तु हस्ति-नाथ! ॥ ४० ॥
श्रीनिवासः
[[203]] मुखम् इति । हे हस्तिनाथ, उन्नसम् उन्नतनासिकम् “उपसर्गाच्च” इति नासिकाया नसादेशः । आयताक्षं कर्णपर्यंतायतनयनम्, उद्यत्स्मिताः प्रादुर्भवन्मन्दहासाः दन्ताः यस्मिं स्तत् । रुचिराधरं पल्लवतुल्याधरम् इत्यर्थः । नतभ्रु कुञ्चितभ्रूयुगं, लसति शोभमाने असे भुजशिरसि विलम्बिनौ प्रलम्बमानौ कर्णपाशौ यस्य तत् मुखं मयि निश्चल मस्तु; मदवलोकनैकासक्त मस्त्वित्यर्थः ॥ ४० ॥
मूलम्
मुखमुन्नसम् आयताक्षम् उद्यत्स्मितदन्तं रुचिराधरं नतभ्रु ।
लसदंसविलम्बिकर्णपाशं मयि ते निश्चलमस्तु हस्तिनाथ! ॥ ४० ॥
विश्वास-प्रस्तुतिः
पद्मायाः प्रणय-रसात् समासजन्त्याः (→पद्मायाः)
स्वं बाहुं सु-बहु-मतो भुजेन तेन ।
कां नामाऽन्वभवद् अहो! दशां तदात्वे
कण्ठस् ते करि-गिरि-नाथ! कम्बु-कान्तः ॥ ४१ ॥
श्रीनिवासः
पद्माया इति । हे करिगिरिनाथ, कम्बुकान्तः शङ्खवत्सुन्दरः ते कण्ठः प्रणयरसात् अत्यन्तरस्यप्रणयात् तेन भुजेन समुद्रमथनसमर्थेन आश्रितविपक्ष सङ्घशिक्षणक्षमेण वा भुजेन स्वं बाहुं समासजन्त्याः समासक्तं कुर्वत्याः भुजेन रह कण्ठमालिङ्गन्त्या इत्यर्थः । पद्माया इन्दिरायाः सुबहुमतः अत्यन्तसत्कृतस्सन्, तदात्वे तदानीं, “तत्काल स्तु तदात्वं स्यात्” इत्यमरः । कां नाम दशां कां वा दशां अन्वभवत् अनुभूतवान् अनिर्वचनीय भोगवती सा दशा भगवत्कण्ठैकवेद्येति भावः । पद्मायाः आलिङ्गनं क्षीराब्धेः प्रादुर्भावकालीनं, “तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् । बभूव दृष्टा वैदेही भर्तारं परिषस्वजे" इत्युक्तं खरादिवधकालीनं वा ॥ ४१ ॥
मूलम्
पद्मायाः प्रणयरसात् समासजन्त्याः स्वं बाहुं सुबहुमतो भुजेन तेन ।
कां नामाऽन्वभवदहो! दशां तदात्वे कण्ठस्ते करिगिरिनाथ! कम्बुकान्तः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सायामा(=सदैर्घ्या) धृत-परिणद्धयो(=विशालता) ऽब्धयो वा,
तादृश्यः स्फुटम् अथ वा दिशश् चतस्रः ।
चत्वारो वरद! वर-प्रदास् त्वदीयाः
भासन्ते भुज-परिघास् तमाल-नीलाः ॥ ४२ ॥
श्रीनिवासः
[[204]]
सायामा इति ।
हे वरद, तमालनीलाः तमालद्रुमवत् श्यामलाः वरप्रदाः आश्रितजनाभीष्टार्थप्रदायिनः चत्वारः त्वदीयाः भुजपरिघाः परि घसमानभुजाः आयामेन दैर्घ्येण सहिताः सायामाः, धृता परिणद्धिः परिणाहः विशालता यै स्तथोक्ताः, अब्धयो वा समुद्रा इव भासन्ते ।
अथ तादृश्यः आयामपरिणाहवत्यः चतस्रः दिशो वा दिश इव भासन्ते। स्फुटम् । समुद्रस्य नैल्यं सुप्रसिद्धम् । दिशा मपि नभः प्रदेशविशेषत्वात् नैल्यं सिद्धम् । चतुस्सयत्वनैल्यपीवरत्वैः समुद्राणां दिशाञ्च भुजसाम्यम् इति मन्तव्यम् ॥ ४२ ॥
मूलम्
सायामा धृतपरिणद्धयोऽब्धयो वा तादृश्यः स्फुटमथवा दिशश्चतस्रः ।
चत्वारो वरद! वरप्रदास्त्वदीयाः भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
आश्लेषे वरद! भुजास् तवेन्दिरायाः,
गोपीनाम् अभिमत-रास-बन्धने वा ।
बन्धे वा मुदम् अधिकां यशोदयाऽऽहो!
सम्प्राप्तास् तव नवनीत-मोष-दोषात् ॥ ४३ ॥(5)
श्रीनिवासः
आश्लेषे इति । हे वरद, तव भुजाः इन्दिरायाः श्रियः आश्लेषे आलिङ्गने वा, गोपीना मभिमतरासबन्धने अतिप्रियकरे रासक्रीडाकालीन- गोपाङ्गनालिङ्गने वा, आहो अथवा नवनीतमोषः नवनीतचौर्यं, स एव दोषः तस्माद्धेतोः यशोदया बन्धे वा अधिकां मुदं प्रीतिं प्राप्ताः ? परत्वदशावहा दिन्दिलिङ्गना दपि अतिप्रीतिकरं स्वैरसङ्गत- गोपाङ्गनालिङ्गनं, ततोऽप्यतिप्रीतिकरं प्रेमान्धया यशोदया निरङ्कुशस्वतन्त्रस्वसौशील्यातिशयनिबन्धनं बन्धनम् इति भावः ।। ४३ ।।
मूलम्
आश्लेषे वरद! भुजास्तवेन्दिरायाः गोपीनामभिमतरासबन्धने वा ।
बन्धे वा मुदमधिकां यशोदयाऽऽहो! सम्प्राप्तास्तव नवनीतमोषदोषात् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सालीया इव विट-पाः स-पल्लवाग्राः,
कल्लोला इव जलधेः स-विद्रुमाग्राः ।
भोगीन्द्रा इव च फणा-मणीद्ध-वक्त्राः,
भासन्ते वरद! भुजास्तवारुणाग्राः ॥ ४४ ॥(5)
श्रीनिवासः
सालीया इति । हे वरद, अरुणाग्राः अरुणवर्ण करतलाङ्गुलिकाः तव भुजाः, सपल्लवानि पल्लवसहितानि अग्राणि येषान्ते तथोक्ताः । सालीयाः सालवृक्षसम्बन्धिनः विटपाश्शाखा इव च, सविद्रुमाणि
[[205]] सप्रवालानि अग्राणि येषां ते तथोक्ताः जलधेः कल्लोला इव च । “अथोर्मिषु महत्सूल्लोलकल्लोलौ” इत्यमरः । फणामणिभि रिद्धानि दीप्तानि वक्त्राणि येषां ते तथोक्ताः । इन्धी दीप्तौ इति धातुः, भोगीन्द्रा इव च शेषवासुकिप्रभृतय इव भासन्ते ॥ ४४ ॥
मूलम्
सालीया इव विटपाः सपल्लवाग्राः कल्लोला इव जलधेः सविद्रुमाग्राः ।
भोगीन्द्रा इव च फणामणीद्धवक्त्राः भासन्ते वरद! भुजास्तवारुणाग्राः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अम्भो-धेः स्वयम् अभिमन्थनं चकर्थ,
क्षोणी-ध्रं पुनर् अबिभश्(←भृ) च सप्त-रात्रम् ।
सप्तानां विवलयसि(=वक्रीकरोषि) स्म कण्ठम् उक्ष्णाम्
अम्लाना वरद! तथाऽपि पाणयस् ते ॥ ४५ ॥
(तेनास्मद्रक्षाक्षमाः।)
श्रीनिवासः
अम्भोधेरिति । हे वरद, स्वय मम्भोधे रभिमन्थनं मन्थनं चकर्थ कृतवानसि। सप्तानां रात्रीणां समाहार स्सप्तरात्रं, सङ्ख्यापूर्वा द्रात्रिशब्दात् समाहारेऽच् प्रत्ययः । क्षोणीध्रं गोवर्धनाद्रिं पुनः अबिभः भृतवान् । ‘भृञ् भरणे इति धातोर्लमध्यमैकवचनम् । सप्ताना मुक्ष्णां वृषभाणां कण्ठं विवलयसि स्म । विवक्रितवान् भुग्नं कृतवान् । ‘सत्यभामाविवाहकाले तत्पित्रा तथा पणबन्धः कृत इति प्रसिद्धिः । कण्ठम् इति जात्येकवचनम् । तथाऽपि जलधिमथनादिदुष्करकरणेऽपि, ते पाणयः अम्लानाः म्लानिप्रसङ्गरहिताः । लीलयैव दुष्करकराः तव कराः अस्मद्रक्षणक्षमा इत्यभिप्रायः ॥ ४५ ॥
मूलम्
अम्भोधेः स्वयमभिमन्थनं चकर्थ क्षोणीध्रं पुनरबिभश्च सप्तरात्रम् ।
सप्तानां विवलयसि(ति) स्म कण्ठमुक्ष्णाम् अम्लाना वरद! तथा(दा)ऽपि पाणयस्ते ॥ ४५ ॥
विश्वास-प्रस्तुतिः
रिङ्खातो व्रजसदनाङ्गणेषु किं ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् ।
आलम्बाद्धयनयसूत्रतोत्रयोर्वा पाणीनां वरद! तवारुणत्वमासीत् ॥ ४६ ॥
मूलम्
रिङ्खातो व्रजसदनाङ्गणेषु किं ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् ।
आलम्बाद्धयनयसूत्रतोत्रयोर्वा पाणीनां वरद! तवारुणत्वमासीत् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
सर्वज्ञाः समुचितशक्तयः सदैव त्वत्सेवानियमजुषस्त्वदेकभोगाः ।
हेतीनामधिपतयः सदा किमेतान् शोभार्थं वरद! बिभर्षि? हर्षतो वा? ॥ ४७ ॥
मूलम्
सर्वज्ञाः समुचितशक्तयः सदैव त्वत्सेवानियमजुषस्त्वदेकभोगाः ।
हेतीनामधिपतयः सदा किमेतान् शोभार्थं वरद! बिभर्षि? हर्षतो वा? ॥ ४७ ॥
विश्वास-प्रस्तुतिः
किं धातुर्गगनविधानमातृकाऽभूत् वक्षस्ते वरद! वरेण्य! यत्र नाम ।
पद्माया मुखमथ कौस्तुभश्च जातौ चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८ ॥
मूलम्
किं धातुर्गगनविधानमातृकाऽभूत् वक्षस्ते वरद! वरेण्य! यत्र नाम ।
पद्माया मुखमथ कौस्तुभश्च जातौ चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद् वरद! कथं नु कार्श्यमस्य(त्र)? ।
माहात्म्यं स्वत इह येषु नूनमेषाम् ऋद्धिः स्यान्महिमकरी न हीतरेषाम् ॥ ४९ ॥
मूलम्
अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद् वरद! कथं नु कार्श्यमस्य(त्र)? ।
माहात्म्यं स्वत इह येषु नूनमेषाम् ऋद्धिः स्यान्महिमकरी न हीतरेषाम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
सौन्दर्यामृतरसवाहवेगजः(तः) स्यात् आवर्तस्तव किल पद्मनाभ! नाभिः ।
तत्पद्मं वरद! विभाति कान्तिमय्याः लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५० ॥
मूलम्
सौन्दर्यामृतरसवाहवेगजः(तः) स्यात् आवर्तस्तव किल पद्मनाभ! नाभिः ।
तत्पद्मं वरद! विभाति कान्तिमय्याः लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५० ॥
विश्वास-प्रस्तुतिः
या दामोदर इति नामदा तवासीत् सा दामा किल किणकारि(र)णी बभूव ।
तन्नूनं वरद! वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१ ॥
मूलम्
या दामोदर इति नामदा तवासीत् सा दामा किल किणकारि(र)णी बभूव ।
तन्नूनं वरद! वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१ ॥
विश्वास-प्रस्तुतिः
यादृग्बीजाध्युषितभुवि यद् वस्तु हस्तीश! जातं तत् तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत् ।
यस्मादण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन! किल फलत्यण्डषण्डानखण्डान् ॥ ५२ ॥
मूलम्
यादृग्बीजाध्युषितभुवि यद् वस्तु हस्तीश! जातं तत् तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत् ।
यस्मादण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन! किल फलत्यण्डषण्डानखण्डान् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अज्ञे यज्ञेश्वर! किल जने क्वाप्यदर्शं विमर्शं विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः ।
व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि ब्रह्माद्यास्ते वरद! जनितास्तुन्दकन्दारविन्दे ॥ ५३ ॥
मूलम्
अज्ञे यज्ञेश्वर! किल जने क्वाप्यदर्शं विमर्शं विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः ।
व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि ब्रह्माद्यास्ते वरद! जनितास्तुन्दकन्दारविन्दे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
मुष्णन् कृष्णः(ष्ण) प्रियनिजजनैः जय्य(!)हैयङ्गवीनं दाम्ना भूम्ना वरद! हि यया त्वं यशोदाकराभ्याम् ।
बद्धो बन्धक्षपणकर(रि)णीं तां किलाद्यापि मातुः प्रेम्णा गात्राभरणम् उदराबन्धनाख्यं बिभर्षि ॥ ५४ ॥
मूलम्
मुष्णन् कृष्णः(ष्ण) प्रियनिजजनैः जय्य(!)हैयङ्गवीनं दाम्ना भूम्ना वरद! हि यया त्वं यशोदाकराभ्याम् ।
बद्धो बन्धक्षपणकर(रि)णीं तां किलाद्यापि मातुः प्रेम्णा गात्राभरणम् उदराबन्धनाख्यं बिभर्षि ॥ ५४ ॥
विश्वास-प्रस्तुतिः
सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वाद् विषमगतिजाऽऽवर्तगर्ताभनाभिः ।
प्राप्य प्राप्तप्रथिमजघनं विस्तृता हस्तिनाथ! स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥ ५५ ॥
मूलम्
सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वाद् विषमगतिजाऽऽवर्तगर्ताभनाभिः ।
प्राप्य प्राप्तप्रथिमजघनं विस्तृता हस्तिनाथ! स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
रम्भास्तम्भाः करिवरकराः कारभाः सारभाजः वेषाश्लेषा अपि मरकतस्तम्भमुख्यास्तुलाख्याः ।
साम्यं सम्यग् वरद! न दधुः सर्वमुर्वोस्त्वदूर्वोः न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भाः(त्)(न्) ॥ ५६ ॥
मूलम्
रम्भास्तम्भाः करिवरकराः कारभाः सारभाजः वेषाश्लेषा अपि मरकतस्तम्भमुख्यास्तुलाख्याः ।
साम्यं सम्यग् वरद! न दधुः सर्वमुर्वोस्त्वदूर्वोः न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भाः(त्)(न्) ॥ ५६ ॥
विश्वास-प्रस्तुतिः
या ते गात्रे वरद! जनिता कान्तिमय्यापगाऽभूत् तस्याः स्रोतोद्वितय(युगल)मिह यद् याति पादप्रवादम् ।
तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥ ५७ ॥
मूलम्
या ते गात्रे वरद! जनिता कान्तिमय्यापगाऽभूत् तस्याः स्रोतोद्वितय(युगल)मिह यद् याति पादप्रवादम् ।
तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
प्रेम्णाऽऽघ्रातुं(तं) करिगिरिशिरोऽधोमुखीभावभाजोः अङ्घ्रिद्वन्द्वाह्वयकमलयोः दण्डकाण्डायमाने ।
अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात् द्रष्टुर्दृष्टिर्वरद! किमलं लङ्घितुं जङ्घिके ते ॥ ५८ ॥
मूलम्
प्रेम्णाऽऽघ्रातुं(तं) करिगिरिशिरोऽधोमुखीभावभाजोः अङ्घ्रिद्वन्द्वाह्वयकमलयोः दण्डकाण्डायमाने ।
अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात् द्रष्टुर्दृष्टिर्वरद! किमलं लङ्घितुं जङ्घिके ते ॥ ५८ ॥
विश्वास-प्रस्तुतिः
भक्तानां यद् वपुषि दहरं पण्डितं पुण्डरीकं यच्चाम्लानं वरद! सतताध्यासनादासनाब्जम् ।
आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः हस्त्यद्रेर्वा किमति(पि)सुखदं तेषु पादाब्जयोस्ते? ॥ ५९ ॥
मूलम्
भक्तानां यद् वपुषि दहरं पण्डितं पुण्डरीकं यच्चाम्लानं वरद! सतताध्यासनादासनाब्जम् ।
आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः हस्त्यद्रेर्वा किमति(पि)सुखदं तेषु पादाब्जयोस्ते? ॥ ५९ ॥
विश्वास-प्रस्तुतिः
पद्यास्वद्याङ्गुलिषु वरद! प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु ।
विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लम्भितः शुम्भितः सन् ॥ ६० ॥
मूलम्
पद्यास्वद्याङ्गुलिषु वरद! प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु ।
विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लम्भितः शुम्भितः सन् ॥ ६० ॥
विश्वास-प्रस्तुतिः
शम्भोरम्भोरुहमुख! सखा सन् सहाङ्कः शशाङ्कः कुर्वन् सेवां वरद! विकलो वृत्तहीनः सुवक्रः ।
त्वत्पादाब्जे प्रियमख! नखच्छद्मनाऽऽश्रित्य नित्यं सद्वृत्तोऽभूत् स तु दशगुणः पुष्कलो निष्कलङ्कः ॥६१॥
मूलम्
शम्भोरम्भोरुहमुख! सखा सन् सहाङ्कः शशाङ्कः कुर्वन् सेवां वरद! विकलो वृत्तहीनः सुवक्रः ।
त्वत्पादाब्जे प्रियमख! नखच्छद्मनाऽऽश्रित्य नित्यं सद्वृत्तोऽभूत् स तु दशगुणः पुष्कलो निष्कलङ्कः ॥६१॥
विश्वास-प्रस्तुतिः
त्वत्पादाब्जे प्रजाता सुरसरिदभवत् प्राक् चतुर्धा ततस्तास्वेकां धत्ते ध्रुवः सा त्रिभुवनमपुनात् त्रीन् पथो भावयन्ती ।
तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनः सप्तधाऽभूत् तास्वेका गां पुनाना वरद! सगरजस्वर्गसर्गं चकार ॥६२॥
मूलम्
त्वत्पादाब्जे प्रजाता सुरसरिदभवत् प्राक् चतुर्धा ततस्तास्वेकां धत्ते ध्रुवः सा त्रिभुवनमपुनात् त्रीन् पथो भावयन्ती ।
तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनः सप्तधाऽभूत् तास्वेका गां पुनाना वरद! सगरजस्वर्गसर्गं चकार ॥६२॥
विश्वास-प्रस्तुतिः
परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते ।
परमपदम् अथाण्डान्यात्मदेहस्तथाऽऽत्मा वरद! सकलमेतत् संश्रितार्थं चकर्थ ॥६३॥
मूलम्
परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते ।
परमपदम् अथाण्डान्यात्मदेहस्तथाऽऽत्मा वरद! सकलमेतत् संश्रितार्थं चकर्थ ॥६३॥
विश्वास-प्रस्तुतिः
अनाप्तं ह्याप्तव्यं न तव किल किञ्चिद् वरद! ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् ।
तथाऽपि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां(तः) चावतरसि ॥६४॥
मूलम्
अनाप्तं ह्याप्तव्यं न तव किल किञ्चिद् वरद! ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् ।
तथाऽपि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां(तः) चावतरसि ॥६४॥
विश्वास-प्रस्तुतिः
विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत् महत्य(त्त्व)भिनिवेशनं किमुत तन्महिम्नस्तव ।
अहो! विसदृशे जगत्यवततर्थ पार्थादिकं निजं जनमुदञ्चयन् वरद! तं समाश्लेषकः ॥६५॥
मूलम्
विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत् महत्य(त्त्व)भिनिवेशनं किमुत तन्महिम्नस्तव ।
अहो! विसदृशे जगत्यवततर्थ पार्थादिकं निजं जनमुदञ्चयन् वरद! तं समाश्लेषकः ॥६५॥
विश्वास-प्रस्तुतिः
संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान् आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ।
अक्षाम्यन् क्षमिणां वरो वरद! सन् अत्रावतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥६६॥
मूलम्
संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान् आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ।
अक्षाम्यन् क्षमिणां वरो वरद! सन् अत्रावतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥६६॥
विश्वास-प्रस्तुतिः
वरद! यदि न भुव्यवातरिष्यः श्रुतिविहिताः त्वदुपासनार्चनाद्याः ।
करणपथविदूरगे सति त्वय्यविषयतानिकृताः किलाभविष्यन् ॥६७॥
मूलम्
वरद! यदि न भुव्यवातरिष्यः श्रुतिविहिताः त्वदुपासनार्चनाद्याः ।
करणपथविदूरगे सति त्वय्यविषयतानिकृताः किलाभविष्यन् ॥६७॥
विश्वास-प्रस्तुतिः
यदपराधसहस्रम् अजस्रजं त्वयि शरण्य! हिरण्य उपावहत् ।
वरद! तेन चिरं त्वमविक्रियो विकृतिमर्भकनिर्भजनादगाः ॥६८॥
मूलम्
यदपराधसहस्रम् अजस्रजं त्वयि शरण्य! हिरण्य उपावहत् ।
वरद! तेन चिरं त्वमविक्रियो विकृतिमर्भकनिर्भजनादगाः ॥६८॥
विश्वास-प्रस्तुतिः
त्वामामनन्ति कवयः करुणामृताब्धे! ज्ञानक्रियाभजनलभ्यम् अलभ्यमन्यैः ।
एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥६९॥
मूलम्
त्वामामनन्ति कवयः करुणामृताब्धे! ज्ञानक्रियाभजनलभ्यम् अलभ्यमन्यैः ।
एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥६९॥
विश्वास-प्रस्तुतिः
भजत्सु वात्सल्यवशात् समुत्सुकः प्रकाममत्रावतरेर्वरप्रद! ।
भवेश्च तेषां सुलभोऽथ किं न्विदं यदङ्ग दाम्ना नियतः पुराऽरुदः! ॥७०॥
मूलम्
भजत्सु वात्सल्यवशात् समुत्सुकः प्रकाममत्रावतरेर्वरप्रद! ।
भवेश्च तेषां सुलभोऽथ किं न्विदं यदङ्ग दाम्ना नियतः पुराऽरुदः! ॥७०॥
विश्वास-प्रस्तुतिः
नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः ।
स्तम्भे च सम्भवस्ते पिशुनयति परेशतां वरद! ॥७१॥
मूलम्
नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः ।
स्तम्भे च सम्भवस्ते पिशुनयति परेशतां वरद! ॥७१॥
विश्वास-प्रस्तुतिः
तापत्रयीमयदवानलदह्यमानं मुह्यन्तमन्तमवयन्तम् अनन्त! नैव ।
स्थातुं प्रयातुमुपयातुम् अनीशम् ईश! हस्तीश! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥७२॥
मूलम्
तापत्रयीमयदवानलदह्यमानं मुह्यन्तमन्तमवयन्तम् अनन्त! नैव ।
स्थातुं प्रयातुमुपयातुम् अनीशम् ईश! हस्तीश! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥७२॥
विश्वास-प्रस्तुतिः
नानाविरुद्धविदिशासु दशासु चाहो वन्ध्यैर्मनोरथशतैर्युगपद् विकृष्टः ।
त्वत्पादयोरनुदितस्पृह एष सोऽहं न स्वस्ति हस्तिगिरिनाथ! निशामयामि ॥७३॥
मूलम्
नानाविरुद्धविदिशासु दशासु चाहो वन्ध्यैर्मनोरथशतैर्युगपद् विकृष्टः ।
त्वत्पादयोरनुदितस्पृह एष सोऽहं न स्वस्ति हस्तिगिरिनाथ! निशामयामि ॥७३॥
विश्वास-प्रस्तुतिः
है! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ लिप्सामलब्धवति चेतसि दुर्विनीते ।
दुष्कर्मवर्मपरिकर्मित एष सोऽहम् अग्रे वरप्रद! तव प्रलपामि किञ्चित् ॥७४॥
मूलम्
है! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ लिप्सामलब्धवति चेतसि दुर्विनीते ।
दुष्कर्मवर्मपरिकर्मित एष सोऽहम् अग्रे वरप्रद! तव प्रलपामि किञ्चित् ॥७४॥
विश्वास-प्रस्तुतिः
सव्याधिराधिरवितुष्टिरनिष्टयोगः स्वाभीष्टभञ्जनम् अमर्षकरो निकर्षः ।
कृन्तन्ति सन्ततमिमानि मनो मदीयं हस्तीश! न त्वदभिलाषनिधिप्रहाणिः ॥७५॥
मूलम्
सव्याधिराधिरवितुष्टिरनिष्टयोगः स्वाभीष्टभञ्जनम् अमर्षकरो निकर्षः ।
कृन्तन्ति सन्ततमिमानि मनो मदीयं हस्तीश! न त्वदभिलाषनिधिप्रहाणिः ॥७५॥
विश्वास-प्रस्तुतिः
विद्वेषमानमदरागविलोभमोहाद्याजानभूमिरहमत्र भवे निमज्जन् ।
निर्द्वन्द्व नित्य निरवद्य महागुणं त्वां हस्तीश! कः श्रयितुमीक्षितुमीप्सितुं वा ॥७६॥
मूलम्
विद्वेषमानमदरागविलोभमोहाद्याजानभूमिरहमत्र भवे निमज्जन् ।
निर्द्वन्द्व नित्य निरवद्य महागुणं त्वां हस्तीश! कः श्रयितुमीक्षितुमीप्सितुं वा ॥७६॥
विश्वास-प्रस्तुतिः
पुत्रादयः कथममी मयि संस्थिते स्युः? इत्यप्रतिक्रियनिरर्थकचिन्तनेन ।
दूये न तु स्वयमहं भवितास्मि कीदृग् इत्यस्ति हस्तिगिरिनाथ! विमर्शलेशः ॥७७॥
मूलम्
पुत्रादयः कथममी मयि संस्थिते स्युः? इत्यप्रतिक्रियनिरर्थकचिन्तनेन ।
दूये न तु स्वयमहं भवितास्मि कीदृग् इत्यस्ति हस्तिगिरिनाथ! विमर्शलेशः ॥७७॥
विश्वास-प्रस्तुतिः
शम्पाचलं बहुलदुःखम् अनर्थहेतुः अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् ।
दुर्वासनाद्रढिमतः सुखमिन्द्रियोत्थं हातुं न मे मतिरलं वरदाधिराज! ॥७८॥
मूलम्
शम्पाचलं बहुलदुःखम् अनर्थहेतुः अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् ।
दुर्वासनाद्रढिमतः सुखमिन्द्रियोत्थं हातुं न मे मतिरलं वरदाधिराज! ॥७८॥
विश्वास-प्रस्तुतिः
बुद्ध्वा च नो च विहिताकरणैर्निषिद्धसंसेवनैस्त्वदपचारशतैरसह्यैः ।
भक्तागसामपि शतैर्भवताऽप्यगण्यैः हस्तीश! वाक्तनुमनोजनितैर्हतोऽस्मि ॥७९॥
मूलम्
बुद्ध्वा च नो च विहिताकरणैर्निषिद्धसंसेवनैस्त्वदपचारशतैरसह्यैः ।
भक्तागसामपि शतैर्भवताऽप्यगण्यैः हस्तीश! वाक्तनुमनोजनितैर्हतोऽस्मि ॥७९॥
विश्वास-प्रस्तुतिः
त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं तच्चोरयन्नयमहं किल चस्खल प्राक् ।
त्वं मामकीन इति मामभिमन्यसे स्म हस्तीश! संशमय नस्तमिमं विवादम् ॥८०॥
मूलम्
त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं तच्चोरयन्नयमहं किल चस्खल प्राक् ।
त्वं मामकीन इति मामभिमन्यसे स्म हस्तीश! संशमय नस्तमिमं विवादम् ॥८०॥
विश्वास-प्रस्तुतिः
भोगा इमे विधि-शिवादि-पदं च किञ्च
स्वात्मानुभूतिर् इति या किल मुक्तिरुक्ता ।
सर्वं तद् ऊष(र)-जल(=मृग-तृष्णिका)-जोषम् अहं जुषेय
हस्त्यद्रिनाथ! तव दास्य-महा-रस-ज्ञः ॥ ८१ ॥(4)
विस्तारः (द्रष्टुं नोद्यम्)
भोगा इति ।
हे हस्त्यद्रिनाथ, तव दास्यमहारसज्ञः अहं, ये इत्यध्याहार्यम् ।
ये इमे भोगाः परिदृश्यमानाः शब्दादिविषयानुभवाः,
यत् विधिशिवादिपदञ्च ।
आदिशब्देन इन्द्रादयः परामृश्यन्ते ।
बह्यरुद्रेन्द्रादि-स्थान-विशेषश्चेत्यर्थः ।
किञ्च, स्वात्मानुभूतिरिति या मुक्तिरुक्ता किल
प्रकृति वियुक्त भगवदात्मक-स्वात्मोपासना-फलतया तत्-क्रतु-न्यायाद् आगता या
स्वात्ममात्रानुभवरूपा कैवल्यमुक्तिः,
सर्वं तत् ऊषजलजोषं ऊषरजल तुल्यं जुषेय सेवेय,
ऐहिकैश्वर्यं, आमुष्मिकैश्वर्यं, कैवल्यमुक्तिञ्च अत्यल्परसं मन्य इत्यर्थः । ऊषजलजोष मित्यत्र " उपमाने कर्मणीति णमुल्प्रत्ययः । अनात्मगुणगणेन सर्वात्मना तिरोहित स्वाभाविक- भगवद्दास्यस्य मम दास्यरस ज्ञानोत्पादने कृते सति ऐश्वर्यकैवल्ययो वैराग्यं भवेदिति भावः ॥ ७१ ॥
मूलम्
भोगा इमे विधिशिवादिपदं च किञ्च स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता ।
सर्वं तदूषजलजोषमहं जुषेय हस्त्यद्रिनाथ! तव दास्यमहारसज्ञः ॥ ८१ ॥
शरणागतिः
प्रस्तावः
इत्थं भगवद्दास्यैकरसाः श्रीवत्साङ्कमिश्राः
तत्प्राप्तये मन्त्ररत्नोक्त-प्रकारेण शरणं व्रजन्ति श्लोकद्वयेन -
विश्वास-प्रस्तुतिः
विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे ।
अगतिरशरणो भवाब्धौ लुठन् वरद! शरणमित्यहं त्वां वृणे ॥ ८२ ॥
मूलम्
विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे ।
अगतिरशरणो भवाब्धौ लुठन् वरद! शरणमित्यहं त्वां वृणे ॥ ८२ ॥
विश्वास-प्रस्तुतिः
अकृतसुकृतकः सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः ।
अशुभगुणपरस्सहस्रावृतो वरदमुरुदयं गतिं त्वां वृणे ॥ ८३ ॥
मूलम्
अकृतसुकृतकः सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः ।
अशुभगुणपरस्सहस्रावृतो वरदमुरुदयं गतिं त्वां वृणे ॥ ८३ ॥
विश्वास-प्रस्तुतिः
शरणवरणवागियं योदिता न भवति बत साऽपि धीपूर्विका ।
इति यदि दयनीयता मय्यहो! वरद! तव भवेत्ततः प्राणिमि ॥ ८४ ॥
मूलम्
शरणवरणवागियं योदिता न भवति बत साऽपि धीपूर्विका ।
इति यदि दयनीयता मय्यहो! वरद! तव भवेत्ततः प्राणिमि ॥ ८४ ॥
विश्वास-प्रस्तुतिः
निरवधिषु कृतेषु चागस्स्वहो! मतिरनुशयिनी यदि स्यात्ततः ।
वरद! हि दयसे न संशेमहे निरनुशयधियो हता है! वयम् ॥ ८५ ॥
मूलम्
निरवधिषु कृतेषु चागस्स्वहो! मतिरनुशयिनी यदि स्यात्ततः ।
वरद! हि दयसे न संशेमहे निरनुशयधियो हता है! वयम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
शरणवरणवागियं याऽद्य मे वरद! तदधिकं न किञ्चिन्मम ।
सुलभमभिमतार्थदं साधनं तदयमवसरो दयायास्तव ॥ ८६ ॥
मूलम्
शरणवरणवागियं याऽद्य मे वरद! तदधिकं न किञ्चिन्मम ।
सुलभमभिमतार्थदं साधनं तदयमवसरो दयायास्तव ॥ ८६ ॥
विश्वास-प्रस्तुतिः
विषयविषयिणी स्पृहा भूयसी तव तु चरणयोर्न साऽल्पापि मे ।
वरद! ननु भरस्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७ ॥
मूलम्
विषयविषयिणी स्पृहा भूयसी तव तु चरणयोर्न साऽल्पापि मे ।
वरद! ननु भरस्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७ ॥
विश्वास-प्रस्तुतिः
इयमिह मतिरस्मदुज्जीवनी वरद! तव खलु प्रसादादृते ।
शरणमिति वचोऽपि मे नोदियात्त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८ ॥
मूलम्
इयमिह मतिरस्मदुज्जीवनी वरद! तव खलु प्रसादादृते ।
शरणमिति वचोऽपि मे नोदियात्त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
वरद! यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोधस्ततः ।
यदि न भवति तत् प्रदेहि प्रभो! झटिति वितर पादमेवान्यथा ॥ ८९ ॥
मूलम्
वरद! यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोधस्ततः ।
यदि न भवति तत् प्रदेहि प्रभो! झटिति वितर पादमेवान्यथा ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तदपि किमपि हन्त! दुर्वासनाशतविवशतया यदभ्यर्थये ।
तदतुलदय! सार्व! सर्वप्रद! प्रवितर वरद! क्षमाम्भोनिधे ॥ ९० ॥
मूलम्
तदपि किमपि हन्त! दुर्वासनाशतविवशतया यदभ्यर्थये ।
तदतुलदय! सार्व! सर्वप्रद! प्रवितर वरद! क्षमाम्भोनिधे ॥ ९० ॥
विश्वास-प्रस्तुतिः
प्रियमितरदथापि वा यद्यथा वितरसि वरद! प्रभो! त्वं हि मे ।
तदनुभवनमेव युक्तं तु (हि) मे त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१ ॥
मूलम्
प्रियमितरदथापि वा यद्यथा वितरसि वरद! प्रभो! त्वं हि मे ।
तदनुभवनमेव युक्तं तु (हि) मे त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
यथाऽसि यावानसि योऽसि यद्गुणः करीश! यादृग्विभवो यदिङ्गितः ।
तथाविधं त्वाऽहमभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥ ९२ ॥
मूलम्
यथाऽसि यावानसि योऽसि यद्गुणः करीश! यादृग्विभवो यदिङ्गितः ।
तथाविधं त्वाऽहमभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अये! दयालो! वरद! क्षमानिधे! विशेषतो विश्वजनीन! विश्वद! ।
हितज्ञ! सर्वज्ञ! समग्रशक्तिक! प्रसह्य मां प्रापय दास्यमेव ते ॥ ९३ ॥
मूलम्
अये! दयालो! वरद! क्षमानिधे! विशेषतो विश्वजनीन! विश्वद! ।
हितज्ञ! सर्वज्ञ! समग्रशक्तिक! प्रसह्य मां प्रापय दास्यमेव ते ॥ ९३ ॥
विश्वास-प्रस्तुतिः
स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनाद्भजन्ति ये त्वां त्वयि भक्तितोऽथवा ।
करीश! तेषामपि तावकी दया तथात्वकृत्सैव तु मे बलं मतम् ॥ ९४ ॥
मूलम्
स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनाद्भजन्ति ये त्वां त्वयि भक्तितोऽथवा ।
करीश! तेषामपि तावकी दया तथात्वकृत्सैव तु मे बलं मतम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च ।
लभेय पादौ वरद! स्फुटास्ततः क्षमादयाद्यास्तव मङ्गला गुणाः ॥ ९५ ॥
मूलम्
यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च ।
लभेय पादौ वरद! स्फुटास्ततः क्षमादयाद्यास्तव मङ्गला गुणाः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि ।
प्रचोदितस्ते वरद! प्रहृष्टधीः कदा विधास्ये वरिवस्यनं तव ॥ ९६ ॥
मूलम्
विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि ।
प्रचोदितस्ते वरद! प्रहृष्टधीः कदा विधास्ये वरिवस्यनं तव ॥ ९६ ॥
विश्वास-प्रस्तुतिः
विविश्य विश्वेन्द्रियतर्षकर्षणीर्मनस्स्थले नित्यनिखातनिश्चलाः ।
सुधासखीर्हस्तिपते! सुशीतला गिरः श्रवस्याश्शृणुयाम तावकीः ॥ ९७ ॥
मूलम्
विविश्य विश्वेन्द्रियतर्षकर्षणीर्मनस्स्थले नित्यनिखातनिश्चलाः ।
सुधासखीर्हस्तिपते! सुशीतला गिरः श्रवस्याश्शृणुयाम तावकीः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
अशेषदेशाखिलकालयोगिनीष्वहं त्ववस्थास्वखिलास्वनन्यधीः ।
अशेषदास्यैकरतिस्तदाचरन् करीश! वर्तेय सदा त्वदन्तिके ॥ ९८ ॥
मूलम्
अशेषदेशाखिलकालयोगिनीष्वहं त्ववस्थास्वखिलास्वनन्यधीः ।
अशेषदास्यैकरतिस्तदाचरन् करीश! वर्तेय सदा त्वदन्तिके ॥ ९८ ॥
विश्वास-प्रस्तुतिः
इमं जनं हन्त! कदाऽभिषेक्ष्यति त्वदक्षिनद्योर्वरद! श्रमापहा ।
अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥ ९९ ॥
मूलम्
इमं जनं हन्त! कदाऽभिषेक्ष्यति त्वदक्षिनद्योर्वरद! श्रमापहा ।
अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥ ९९ ॥
विश्वास-प्रस्तुतिः
सदातनत्वेऽपि तदातनत्ववन्नवीभवत्प्रेमरसप्रवाहया ।
निषेवितं त्वां सततोत्कया श्रिया करीश! पश्येम परश्शतं समाः ॥ १०० ॥
मूलम्
सदातनत्वेऽपि तदातनत्ववन्नवीभवत्प्रेमरसप्रवाहया ।
निषेवितं त्वां सततोत्कया श्रिया करीश! पश्येम परश्शतं समाः ॥ १०० ॥
विश्वास-प्रस्तुतिः
समाहितैस्साधु सनन्दनादिभिस्सुदुर्लभं भक्तजनैरदुर्लभम् ।
अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद! त्वत्पदमाप्नुयां कथम्? ॥ १०१ ॥
मूलम्
समाहितैस्साधु सनन्दनादिभिस्सुदुर्लभं भक्तजनैरदुर्लभम् ।
अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद! त्वत्पदमाप्नुयां कथम्? ॥ १०१ ॥
विश्वास-प्रस्तुतिः
रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपस्त्वासीत्स यामुनमुनेस्स च नाथवंश्यः ।
वंश्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः दासस्तवेति वरदास्मि तवेक्षणीयः ॥ १०२ ॥
मूलम्
रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपस्त्वासीत्स यामुनमुनेस्स च नाथवंश्यः ।
वंश्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः दासस्तवेति वरदास्मि तवेक्षणीयः ॥ १०२ ॥