वैकुण्ठस्तवः

Source: te - 1

Source: te - 2

विश्वास-प्रस्तुतिः

(श्रीवत्स-चिह्नमिश्रेभ्यो
नम उक्तिम् अधीमहे
यद्-उक्तयस् त्रयी-कण्ठे
यान्ति मङ्गलसूत्रताम् ॥)(5)

मूलम्

(श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥)

श्रीनिवासः - प्रस्तावः

अथ भगवद्-रामानुज-सकाश-निरन्तर-संवासाधिगत
-निखिल-श्रुत्य्-अन्त-तत्त्वार्थाः
श्रीवत्स-चिह्न-मिश्राः
आनृशंस्यैक-मनसः
सकल-सुमनस्-सञ्जीवनाय
पञ्च-स्तव-व्याजेन अर्थ-पञ्चकं प्रकाशयितु-कामाः
प्रथमतो भगवतो वैकुण्ठ-नाथस्याकुण्ठ-महिम्नः
स्व-रूप–रूप-गुणान् प्रतिपादयितुं श्री-वैकुण्ठ-स्तवम् आरभमाणाः
प्रथमतस् सद्-आचार्य प्रपदनात्मकं मङ्गलं निबध्नन्ति-

वरदाचार्य-शठकोपः

This magnificent sthavam of Sri KurEsar has 100 slOkams and has the saarAr thams (essential meanings of SrI BhAshyam passage) and therefore it has been recommended as a must to study by us.
The structure of Sri VaikuNTha Sthavam

  1. The First slOkam is a magnificent tribute to EmperumAnAr by KurEsar. This slOkam is the one that we recite daily:
    “yO nithyamachyutha padAmbuja-yugma-rukma”
    2 and 3: These two slOkams offer prayer to receive the anugraham of swAmy NammAzhwAr in the efforts to compose SrI VaikuNTha sthavam.

  2. Salutations to Sriman NaarAyaNan, the Jagan-MangaLa JyOthi: the Svayam JyOthi.

  3. Prayer for the Lord to appear before the Kavi with His Divya MangaLa Vigraham.

  4. Salutations to the DivyAthma svaroopam of the Lord.

  5. Description of the Vaathsalyam of the Lord for His BhakthAs.

  6. KurEsar’s discomfort about his ability to engage in the task of eulogiz ing the Lord.

  7. Declaration of his (KurEsar’s) determination to make a feeble attempt to eulogize a miniscule of the Lord’s limitless glories.

  8. Salutations to the Lord’s foremost attribute: KShamA (forbearance). We will study the Sri VaikuNTha Sthava slOkams few at a time.

आचार्यादि-स्तुतिः

विश्वास-प्रस्तुतिः

यो नित्यम् अच्युत-पदाम्बुज-युग्म-रुक्म-
व्यामोहतस् तद्-इतराणि तृणाय मेने ।
अस्मद्-गुरोर् भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १ ॥

मूलम्

यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १ ॥

श्रीनिवासः - प्रस्तावः

अनन्तरं भगवद्-भाष्य-कार-प्राचार्य–यामुन-मुनिभिः
‘माता पिते’त्य्-आदि-श्लोकेन
सङ्गृहीत-निरङ्कुश-वैभवं पराङ्कुश-मुनिं
समाश्रयणीयतया, समाधिक-रहिततया चाऽऽह श्लोकद्वयेन-

विश्वास-प्रस्तुतिः

(विष्णु-पाद-चिह्न-रूपेण) त्रैविद्य-वृद्ध-जन-मूर्ध-विभूषणं यत्
सम्पच् च सात्त्विक-जनस्य यद् एव नित्यम् ।
यद् वा शरण्यम् अ-शरण्य-जनस्य पुण्यं
तत् संश्रयेम (विष्णु-पादोद्भव-जातीय-)वकुलाभरणाङ्घ्रि-युग्मम् ॥ २ ॥

श्रीनिवासः

त्रैविद्येति । यत्, ऋग्यजुस्सामभेदवत्यस् तिस्रो विद्या एव त्रैविद्यम्, स्वार्थिकोऽण् प्रत्ययः । तत्र वृद्धाः बहुशस् तद्-अर्थ-परिशीलन-शीला इत्यर्थः ।
तेषां जनानां मूर्ध्नो विभूषणं, भवतीति शेषः । यदेव नित्यम् अत्र परत्र च सात्त्विकजनस्य सम्पत् भोग्यभूत मित्यर्थः प्राप्यमिति यावत् । अशरण्यजनस्य अकिञ्चनजनस्य शरण्यं रक्षकम् इष्टफलदं पुण्यं साधनं वा शब्दश्चार्थः पूर्वोक्तान् समुच्चिनोति । तत् वकुलाभरणाङ्घ्रियुग्मं संश्रयेम लिङुत्तम-बहुवचनम् ॥ २ ॥

वरदाचार्य-शठकोपः

MEANING: May we, who have no other refuge, be blessed to attain the impeccably pure (sacred) feet of Swamy NammAzhwAr adorning the garland of VakuLa push pams! His sacred pair of feet is the lasting crown for the heads of poorvA chAryAs (AlavanthAr, RaamAnujA and NaaTa Muni); those pair of feet of Swamy NammAzhwAr is the wealth for those, who are the abodes for Satthva guNam.

SrivathsAnkAcchAr Swamy points out that one can hear the echoes of the passages from Swamy AlavanthAr’s and AchArya RaamAnujA’s Sri Sooktis in this and other slOkams.

मूलम्

त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् ।
यद्वा शरण्यम् अशरण्यजनस्य पुण्यं तत् संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ २ ॥

विश्वास-प्रस्तुतिः

भक्ति-प्रभाव–भवद्-अद्भुत–भाव-बन्ध–
सन्धुक्षित–प्रणय-सार–रसौघ-पूर्णः ।
वेदार्थ-रत्न-निधिर् अ-च्युत-दिव्य-धाम
जीयात् पराङ्कुश-पयो-धिर् अ-सीम-भूमा ॥ ३ ॥

श्रीनिवासः

भक्तीति । भक्तिप्रभावेन भक्त्यतिशयेन भवन् जायमानः अद्भुतः यो भावबन्धः अभिप्रायदार्यं तेन सन्धुक्षितः यः प्रणयसारः सारभूतः [[3]] प्रणयः स एव रसः तस्यौघेन प्रवाहेण पूर्णः । अत्र भक्तिप्रभाव भावबन्ध प्रणयसारशब्दैः परभक्ति परज्ञान परमभक्त्यादयः उच्यन्ते इति मन्तव्यम् । वेदार्था एव रत्नानि तेषां निधिः आकर इत्यर्थः । अच्युतस्य दिव्यधामा दिव्यमावासस्थानं, न विद्यते सीमा अवधि र्यस्य तादृशो भूमा महिमा यस्य सः, अन्यत्र भूमा विस्तारः; पराङ्कुश एव पयोधि : क्षीरसागर : जीयात् सर्वोत्कर्षेण वर्तताम् प्रपन्नजनकूटस्थ प्रथमाचार्यपराङ्कुशमुनेः निरङ्कुशभक्ते रेव श्रीवैष्णवसन्तानसमुत्तारकतया, जीयादिति प्रार्थनेति साम्प्रदायिकोऽर्थः ॥ ३ ॥

वरदाचार्य-शठकोपः

Swamy NammAzhwAr (ParAnkusar) of limitless glories is compared here to the auspicious Milky Ocean and is hailed for eternal remembrance by all of us (aseema bhUmaa ParAnkusa PayOdhi: jeeyAth). PallANDU is sung for the milky ocean of Swamy NammAzhwAr, who is the abode of lustrous gems rep resenting the essence of VedAs (VedArTa rathna nidhi:). He is recognized as the living place for BhagavAn (achyutha divya dhAma) and as one, who is full of divine love for the Lord, which found its outlet as Paasurams renowned for their Para Bhakthi, Para Jn~Anam and Parama Bhakthi.

The trinity of the waters from the river springs and rain join together to make the combined waters of the mighty ocean. Similarly, the intensity of the bhak thi of Swamy NammAzhwAr for BhagavAn transformed into nava rasa anubha vams and flowed as his divine paasurams. The three sources of flow into the Milky Ocean are Swamy NammAzhwAr’s Para Bhakthi (Bhakthi prabhAvam), Para Jn~Anam (BhAva bandha:) and Parama Bhakthi (PraNaya Saara:).

मूलम्

भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः ।
वेदार्थरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ ३ ॥

विष्णु-नुतिः

श्रीनिवासः - प्रस्तावः

अथ श्रीमन्तं भगवन्तं स्तोतु मारभते

विश्वास-प्रस्तुतिः

यन् मङ्गलाय महते जगताम् उशन्ति(=स्तुवन्ति), त्रैविष्टपान्य् अपि (ब्रह्म-रुद्रादि-)पदानि यद्-आश्रयाणि ।
वन्दामहे सरसि-जेक्षणम् अ-द्वितीयं वेदान्त-वेद्यम् अन्-इदम्-प्रथमं महस् तत् ॥ ४ ॥

श्रीनिवासः

यदिति । यत् जगतां महते मङ्गलाय उशन्ति इच्छन्ति, वशकान्तौ, वदन्तीत्यर्थः, तत्त्वज्ञा इति शेषः । सृष्टिकारणं गृणन्तीति यावत् । महते मङ्गलायेत्यनेन पूर्वप्रलयेऽप्याक्षिप्तः अतः अप्ययपूर्विका सृष्टिरुक्ता भवति “नष्टं प्राक् तदलाभत स्त्रिभुवनं सम्प्रत्यनन्तोदयम्” इत्यभियुक्तै रुक्तञ्च । त्रैविष्टपानि त्रिविष्टपस्सम्बन्धीनि स्थानानि यदाश्रयाणि यदाधाराणि अनेन स्थालीपुलाकन्यायेन विभूतिद्वय स्थिति कर्तृत्व मुक्तम् " एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्टतः” इति श्रुतेः । इदम्प्रथमं कालपरिच्छिन्नं, तन्नभवती त्यनिदम्प्रथमम्, अद्वितीयं जगत्सृष्ट्यादिषु निमित्तान्तरानपेक्षम्, विशेषणद्वयेन " स देव सोम्य” इति । सदद्वितीयपदे स्मारिते । वेदान्तवेद्यं एवमाद्याकारेण श्रुतिप्रतिपाद्यं सरसिजेक्षणम्, अनेन दिव्यविग्रहवत्त्व मुक्तम् । तत् महः " नारायण परो ज्योतिः" इत्युक्तं ज्योतिः वन्दामहे स्तुम इत्यर्थः, वदि अभिवादनस्तुत्योः ॥ ४ ॥

वरदाचार्य-शठकोपः

MEANING:

The great ones (MahAns) attribute the MahA tEjas of Bhagavaan (Mahastham) as being the cardinal reason for the kShEmam of this world (Yath JagathAm mahathE MangaLAya usanthi).

This grand jyOthi is resorted to by the DevAs, Rudran and BrahmA for maintaining / retaining their assigned ruler ships (thraivishtapAni padAni api YadAsrayANi).

We offer our salutations (vandhAmahE) to that lotus eyed Lord (SarasijEkshaNam), who is matchless (adhvitheeyam), ancient/ timeless (anidham praTamam) and can be understood only by the Upanishads, the siras of the Vedams (VedAntha vEdyam).

COMMENTS:

The first quarter (padham) of the slOkampoints out that the Lord is ever-present, solely for blessing the world with auspiciousness. This is the meaning of the first

mahA tEjas—azhagar padham of this slOkam.

10The greatest of the MangaLams originating from BhagavAn is MOksham since He is the Only One who can grant us Moksham (Mokshapradhan). Since DevAs are powerless to grant that boon, KurEsar reminds us in the second padham that those Devaas owe their positions as Indhran, Rudhran, Brahma Devan due to BaghavAn’s anugraham. The PurANams state that Brahma Devan et al got their lofty positions by performing AarAdhanam for thousands of crores of Yugams (YugakOti sahasrANi VishNum aarAdhya PadhmabhU:, puna: thrailO kya dhAthruthvam prApthavAn ithi susruma:).

The powerful reference to the Lord as SenthAmarai KaNNan (SarasijEkshaNan) comes straight out of ChAndhOgyam (KapyAsam PuNDareekAksham). The allusion to “adhvitheeyan” is based on other Upani shadic and AchArya Sri Sookthis:

EkamEvAdhvitheeyam—Description of Brahman in Sadh Vidhyai

dhvitheeya soonyathO ukthyaa cha tath-samAna nishEdhanam—Swamy Desi kan in Satha DhUshaNi.

The usage of “VEdAntha VEdhyam” refers to the unassailable fact that Bhaga vAn can be comprehended by His own SaasthrAs. AchAryAs instruct us on those Saasthrams to help us understand Bhagavath Svaroopam (Swamy DEsi kan stated later: “iRai nilayAm uNarnthOm yemm gurukkaL iyampiyathE”).

Daily new “Gods” come into prevalence in this world. AzhwAr has already re ferred to this fashion: “maRROr puthu dhaivam koNDAdum ThoNDeer”. Sri man NaarAyaNan did not arise yesterday or the day before but has stayed as the Aadhi Moolam (primordial root) all these times and will continue as the Supreme Being forever. KurEsar refers to this tatthvam by the choice of the word: “anidham PraTamam”. KurEsar used the word “Maha:” for BhagavAn to refer to His Param (Svyam) JyOthi Tatthvam (Param JyOthir- upasampadhya, NaarAyaNa ParO JyOthi:).

When one unites the three words used by KurEsar, “Mahas-thath SarasijEk shaNam”, SrivathsAngAcchAr Swamy points out that we arrive then at the meaning of the sacred Gayathri Manthram as derived by Swamy Desikan.

[[11]]

मूलम्

यन्मङ्गलाय महते जगतामुशन्ति त्रैविष्टपान्यपि पदानि यदाश्रयाणि ।
वन्दामहे सरसिजेक्षणमद्वितीयं वेदान्तवेद्यम् अनिदम्प्रथमं महस्तत् ॥ ४ ॥

श्रीनिवासः - प्रस्तावः

अथ पूर्वश्लोके सरसिजेक्षणमिति संक्षिप्तं
दिव्य-मङ्गल-विग्रह-योगम् आह-

विश्वास-प्रस्तुतिः

पीताम्बरं वरद-शीतल-दृष्टि-पातम्
आजानु-लम्बि-भुजम् आयत-कर्ण-पाशम् ।
तन्-मेघ-मेचकम्(=कृष्णम्) उदग्र-विशाल-वक्षो
लक्ष्मी-धरं किम् अपि वस्तु ममाविरस्तु ॥ ५ ॥

श्रीनिवासः

पीताम्बरमिति । पीत मम्बरं यस्य तत् । वरं ददातीति वरदः, शीतलः दृष्टिपातः कटाक्षो यस्य तत्, आजानु जानुपर्यन्तं लम्बेते इति यथोक्तौ भुजौ यस्य तत्, “आयताश्च सुवृत्ताश्च” इति व दिति भावः । प्रशस्तः कर्णः कर्णपाशः आयतः कर्णपाशो यस्य तत्, मेघमेचकं श्यामल वर्णम्, उदग्र मुन्नतं विशालं च वक्षो यस्य तत्, लक्ष्मीं धरतीति लक्ष्मीधरं, किमपि एतादृशाकारमिति निर्देष्ट मशक्यं वस्तु मम आविरस्तु प्रकाशताम् । अत्र “आदित्यवर्णं तमसः परस्तात्", “तस्य माहारजनं वासः”, तस्य यथा कप्यासं पुण्डरीकमेव मक्षिणी", " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ " इत्याद्याः श्रुतयो गर्भिताः ॥ ५ ॥

वरदाचार्य-शठकोपः

MEANING:

May the immeasurable, limitless Vasthu, the Veda prasiddha Supreme Being appear before me always with His broad and lofty chest adorned with MahA Lakshmi, with His long and auspicious ears, with His hands reaching all the way down to the knees, with His cool and benevolent eyes that grant whatever one seeks and adorned with the yellow silk garment.

COMMENTS

KurEsar reminds NirguNa Brahma Vaadhins that the Supreme Being is a divine Peethambharadharan, auspicious body (Dhivya MangaLa Vigraham), Divine Consort as well as Jewelery and PeethAmbharam.

[[12]]

मूलम्

पीताम्बरं वरदशीतलदृष्टिपातम् आजानुलम्बिभुजम् आयतकर्णपाशम् ।
तन्मेघमेचकम् उदग्रविशालवक्षः लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ ५ ॥

विश्वास-प्रस्तुतिः

यत् तत्त्वम् अ-क्षरम् अ-दृश्यम् अ-गोत्र(→नाम)-वर्णम्
अ-ग्राह्यम् अ-व्ययम् अन्-ईदृशम् अ-द्वितीयम् ।
ईशानम् अस्य जगतो यद् अणोर् अणीयस्
तद् वैष्णवं पदम् उदारम् उदाहरामः ॥ ६ ॥

श्रीनिवासः

यदिति । यत् पदं तत्त्वं सत्यम्, अक्षरम् अनन्तम्, अनेन विशेषणद्वयेन “सत्यं ज्ञान मनन्तं ब्रह्म” इति वाक्ये सत्यानन्तपदे स्मारिते । अदृश्य मचक्षुर्ग्राह्यम्, अगोत्रवर्णं नाम रूपहितं, अग्राह्य मनुमाना द्यविषयभूतम्, अव्यय मसङ्कुचितकल्याणगुणगणम्, अनीदृश मपरिच्छिन्नरूपगुण विभूतिकं चेतनाचेतन विसजातीयं वा, अद्वितीयं समाभ्यधिक वस्त्वन्तररहितम्, अस्य जगतः ईशानम् [[5]] “पतिं विश्वस्याऽऽत्मेश्वरम्” इति चेतनाचेतनात्मकसकलजगन्नियन्तृभूतम्, अणो रणीयः नियमनानुगुणभूतजीवान्तः प्रवेशशक्तियुक्तम्, उदारं महतो महच्च भवतीति शेषः । उदात्तमिति पाठेऽप्ययमेवाऽर्थः । वैष्णवं विष्णुसम्बन्धि तत्पदं, पद्यत इति पद मुपास्य स्वरूप मित्यर्थः । उदाहरामः स्तुम इत्यर्थः ॥ ६ ॥

वरदाचार्य-शठकोपः

The previous slOkam focused on the Dhivya MangaLa Vigraham of the Lord. This one focuses on the DhivyAthma Svaroopam based on the many Pra mANams from Sruthis.

MEANING:

We attribute paramAthmA’s Svaroopam as belonging to that of VishNu (VaishNavam), when it is changeless, eternal, unseeable by the physical eyes, free from name and form, ungraspable by the mind, indefinable as this or that, undividable into two, subtler than subtle to preside as indweller in all sentient and insentient and gigantic in size to rule all the universe.

COMMENTS:

The usage of “VaishNavam Padham” by KurEsar permits us to conclude that Bhagavath (dhivyAthma) Svaroopam, Sri Vaikuntam and the Lord’s sacred feet are being referred to. All the adjectives used in this slOkam are applicable to all the three (Svaroopam, SthAnam and Thiruvadi). In VedArtha Sangraham, AchArya RaamAnuja has interpreted Sri VaikuNTam along these lines.

The PramANam for the adjectives associated with the dhivyAthma svaroopam comes from the following Sruthi Passage:

Yath Tath adhrEsayam agrAhyam agOthram avarNam achakshus-srOthram srOthram tadhapANipaadham, nithyam Vibhum sarvagatham susookshmam tad- tadhapANipaadham, nithyam Vibhum sarvagatham susookshmam tad havyayam yadh paripasyanthi dheerA: havyayam yadh paripasyanthi dheerA: ———-(MundakOpanishad) (MundakOpanishad)

13

More PramAnams from sruthi passages:
1.“yEkamEva adhvitheeyam” 2.“aNOraNeeyAn MahathOr “aNOraNeeyAn MahathOr-maheeyAn 3.”Sadhrusam thrishu lingEshu sarvAsu cha vibhakthishu vachanEshu cha ”Sadhrusam thrishu lingEshu sarvAsu cha vibhakthishu vachanEshu cha SarvEshu yanna vyEthi tadhavyayam” 4.“Pathim Visvasya AathmEswaram, Saasvatham Sivam Achyutham”

मूलम्

यत् तत्त्वमक्षरमदृश्यमगोत्रवर्णम् अग्राह्यमव्ययमनीदृशम् अद्वितीयम् ।
ईशानमस्य जगतो यदणोरणीयः तद् वैष्णवं पदमुदारमुदाहरामः ॥ ६ ॥

विश्वास-प्रस्तुतिः

आम्नाय-मूर्धनि च मूर्धनि चोर्ध्व-पुंसां
यद् धाम वैष्णवम् अभीक्ष्णतरं चकास्ति
तन् मादृशाम् अपि च गोचरम् एति वाचो
मन्ये तदीयम् इदम् आश्रित-वत्सलत्वम् ॥ ७ ॥(5)

श्रीनिवासः

आम्नायेति । वैष्णवं यद्धाम ज्योतिः । “ज्योतिश्चरणाभिधानात् " इति सूत्रोक्त स्वरूपं तेजोमयं दिव्यविग्रह इति वा । आम्नायमूर्धनिवेदान्ते ऊर्ध्वपुंसां पूर्वाचार्याणां मूर्धनि च अभीक्ष्णतरं सुतरां चकास्ति प्रकाशते । अनेन “ यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति" इति स्तोत्ररत्नोक्तं स्मारितम् । तद्धाम मादृशां वाचोऽपि च, अपिचेत्येकं पदम् गोचरं भावप्रधानो निर्देशः, गोचरत्वं विषयत्व मेतीति यावत् । इदं तदीयं विष्णु सम्बन्धि आश्रितवत्सलत्वमिति मन्ये। ‘वात्सल्यं नाम दोषानादर हेतुस्नेहविशेष’ इति श्रुतप्रकाशिकायाम् ॥ ७ ॥

वरदाचार्य-शठकोपः

[[14]]

MEANING:

That Supreme lustre (jyOthi=dhAma: of ParamdhAman) of the Lord shines splendidly on the siras of VedAs (Upanishads) and the heads of highly evolved souls (Urdhva pumsAm); that tejas (lustre) be comes the target for words even from people like me. This state of the Lord’s Dhivya tEjas being accessible to us is an indication of Hisgreat vaathsalyam for us as thosewho sought His protection.

COMMENTS:

The pramANams for words and word groups used in this slOkam come from Swamy AlavanthAr’s SthOthra Rathnam and Srutha PrakAsikai of Sri Sudarsana Soori: ParamdhAman 15 First line of this seventh slOkam: “yann-Moordhni mE sruthi-sirassu cha bhAthi” (SthOthra Rathnam), “Yasccha MoordhA SaThArE”; (Sri VaradarAja Sthavam of KurEsar). Aasritha Vaathsalyam: The visEsha Preethi of the Lord is attested by many pramANams: “dhOshAnAdhara snEha:”and “dhOshEshvapi guNathva Buddhi:” in Srutha PrakAsikai.

[[16]]

मूलम्

आम्नायमूर्धनि च मूर्धनि चोर्ध्वपुंसां यद् धाम वैष्णवमभीक्ष्णतरं चकास्ति ।
तन्मादृशामपि च गोचरमेति वाचो मन्ये तदीयमिदमाश्रितवत्सलत्वम् ॥ ७ ॥

विनय-वचनम्

श्रीनिवासः - प्रस्तावः

भगवतो वात्सल्ये[न] सत्यपि
भवत्-स्तुत्यत्व-प्रयुक्त
परिच्छिन्न-स्व-रूपादिमत्त्वं,
भवतोऽपि चेतनत्वाद् अपरिच्छिन्न-विषय-स्तवावगाहन-हेतुकी त्रपाऽपि स्याद्
इत्याशङ्कायां सदृष्टान्तं परिहरति-

विश्वास-प्रस्तुतिः

जानन्न् अपीह किल माम्, अनपत्रपिष्णुर्
विष्णोः पद-प्रणयिनीं गिरम् आद्रिये ऽहम् ।
श्वावलीढम् अपि तीर्थम् अ-तीर्थम् आहुः
नोदन्यता(=उदक-कामेन) ऽपि च शुना किल लज्जितव्यम् ॥ ८ ॥(5)

श्रीनिवासः

जानन्निति । अहं मां जानन्नपि अज्ञत्वेन जानन्नापीति भावः [[6]] अपत्रपिष्णुः लज्जाशीलः स न भवतीति तथोक्तस्सन् त्रपूष् लज्जायाम् इत्यस्माद्धातोः “अलङ्कञ्” इत्यादिना इष्णुच् प्रत्ययः । विष्णोः पदे प्रणयिनीं प्रियवर्ती गिर माद्रिये आदरविषयं करोमि ; प्रणयातिशयात् अपत्रपा अभिभूतेति भावः । तत्र दृष्टान्तमाह - नेति । तीर्थं शुद्धिकरं गङ्गातीर्थं ‘“निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ” इत्यमरः । शुना अवलीढम् आस्वादितं सदपि अतीर्थं नाऽऽहुः न वदन्ति, सन्त इति शेषः । उदन्यता पिपासावता “उदन्या तु पिपासा” इत्यमरः । “अशनायोदन्यधनाया बुभुक्षा पिपासागर्धेषु ” इति सूत्रनिपातिता दुदन्यशब्दात् लटिशतृप्रत्यये विहिते रूपम्। शुनाऽपि च न लज्जितव्यम् भावे क्तव्यप्रत्ययः, लज्जावता न भवितव्य मित्यर्थः । किलेति प्रसिद्धौ ॥ ८ ॥

वरदाचार्य-शठकोपः

MEANING:

adiyEn knows fully well that I am unqualified to engage in eulogizing the Lord and even then, adiyEn engages in such an act shamelessly and utter words in deep affection for the sacred feet of the all pervasive VishNu NaarAyaNan. Even if the waters of Ganga are licked by a dog, no one declares that GangA theertham has been polluted by the tongue of the dog and therefore, it is not sacred. As for the lowly dog, its thirst has been quenched by the waters of the sacred Ganga River.

COMMENTS:

KurEsar (AzhwAn) has lowered himself before the Lord out of his enormous Bhakthi for Him. It is common for the AzhwArs to compare themselves to the lowly dogs while addressing their Lord: “NaayinEn”. The comparison of the dog quenching its thirst with the sacred waters of Ganga has been referred also in KurEsar’s Sri Sthavam: “dhushyEth saa thu na thAvathA nahi Sunaa leeDAapi BhagIraTee”. 17

मूलम्

जानन्नपीह किल मामनपत्रपिष्णुः विष्णोः पदप्रणयिनीं गिरमाद्रियेऽहम् ।
न श्वावलीढमपि तीर्थमतीर्थमाहुः नोदन्यताऽपि च शुना किल लज्जितव्यम् ॥ ८ ॥

श्रीनिवासः - प्रस्तावः

ईषद्-आस्वादनेन किम् आयातम् इत्यत्राऽऽह -

विश्वास-प्रस्तुतिः

देवस्य दैत्य-मथनस्य गुणेष्व् इयत्ता
सङ्ख्या च वाङ्-मनस(←अजन्त-निपातनम्)–गो-चरम् अत्यभूताम्
अप्य् एवम् अण्व् अपि च तत्र ममार्ति-शान्त्यै
कीटस्य तृष्यत उदन्वति विप्रुषाऽलम् ॥ ९ ॥(4)

श्रीनिवासः

देवस्येति । दैत्यं मथ्नातीति दैत्यमथनः तस्य, दीव्यतीति देवः तस्य, दिवु क्रीडा विजिगीषाव्यवहार द्युति स्तुति मोदमदस्वप्नकान्तिगतिषु इति धातुः । अनेन पदद्वयेन हेयप्रत्यनीकत्वकल्याणगुणाकरत्वे सूचिते इति सम्प्रदायः । गुणेषु सङ्ख्या, इयत्ता च एकैकगुणस्य इयदिति परिच्छेदः सङ्ख्या च वाङ्मनसयो गॊचरं, गन्तव्यभूमिमित्यर्थः । वाङ्मनसशब्दस्य “अचतुर” इत्यादिना अकारान्तत्वम् । अत्यभूताम् अत्यवर्तेताम् । एव मपि तत्र गुणेषु अण्वपि एकगुणैकदेशोऽपीत्यर्थः मम आर्तिशान्त्यै पिपासाशमनाय अलं पर्याप्तं भवतीति शेषः । तत्र दृष्टान्तमाह - कीटस्येति । तृष्यतः पिपासावतः कीटस्य उदन्वति समुद्रे विप्रुषा बिन्दुना अलम् । अतः अवगाहनाक्षमस्याऽपि स्तोत्रारम्भ उचित इति भावः ॥ ९ ॥

वरदाचार्य-शठकोपः

EANING:

The auspicious attributes of the Lord, who defeats the asurAs and engages in the sport of creating, protecting and destroying the worlds have gone beyond any one’s ability to count them by word or mind. Even then, the eulogizing of a small portion of them is sufficient to quench my desire for engaging in such an effort. For a thirsty worm, is it not sufficient to quench its thirst by taking a small drop of water from the vast water shed?

COMMENTS:

When describing one of the guNams of BhagavAn, the Upanishad declares: “yathO vaachO nivartanthE aprApya manasA saha” (The speech united with mind stepped back in failure, when they attempted to describe the Aanandha guNam of the Lord). KurEsar has this Upanishadic passage in mind, when he observes here: “guNEshu iyatthA sankhyA cha vaang- manasa gOcharam athy abhUthAm”. 18

मूलम्

देवस्य दैत्यमथनस्य गुणेष्वियत्ता सङ्ख्या च वाङ्मनसगोचरमत्यभूताम् ।
अप्येवम् अण्वपि च तत्र ममार्तिशान्त्यै कीटस्य तृष्यत उदन्वति विप्रुषाऽलम् ॥ ९ ॥

श्रीनिवासः - प्रस्तावः

अथाऽपि शक्त्य्-अतिशय-रचना-माधुर्य-चातुर्यवतां महतामेव
स्तुत्यधिकार इत्याशङ्कय परिहरति

विश्वास-प्रस्तुतिः

प्रेमार्द्र-विह्वल-गिरः पुरुषाः पुराणाः त्वां तुष्टुवुर् मधु-रिपो! मधुरैर् वचोभिः ।
वाचो विडम्बितम् इदं मम नीच-वाचः क्षान्तिस् तु ते स-विषया मम दुर्-वचोभिः ॥ १० ॥

श्रीनिवासः

प्रेमेति । हे मधुरिपो, प्रेम्णा भक्त्या, महनीये प्रीति भक्ति:, तेन आर्द्रास्सिक्तविह्वलाः, प्रेमान्ध्यनिबन्धनस्खालित्यवत्यइत्यर्थः ता गिरो येषान्ते ततोक्ताः, पुराणाः पुरुषाः भगवद्यामुनमुनिप्रभृतयः मधुरै र्वचोभिः त्वां तुष्टुवुः स्तुतिं कृतवन्तः । नीचा रचनोपयोगिभक्तिचातुरीरहिता वाक् यस्य तस्य मम इदं स्तोत्रं वाचो विडम्बितम्, भावे क्तः, प्राचां वाचो विडम्बनं अनुकारः । अनेन तेषां परिहसनश्च फलितम् । अत्र परिहार माह क्षान्ति रिति । मम दुर्वचोभिः ते क्षान्तिः क्षमा तु सविषया (विषय) लाभवती भवति, अन्यथा निर्विषया स्यादिति भावः, क्षान्त्या अपराधसहिष्णुतारूपत्वात् । मदीयस्तोत्रस्य क्षान्तिपरिग्रह सम्भवात् प्रवृत्ति र्युक्तेति भावः ॥ १० ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord HayagrIva Bhagavann! With fal tering voices drenched by love, the an cient mahA purushAs like AzhwArs and AchAryAs eulogized You with sweet words. The salutation of adiyEn, who is least qualified to engage in such an eulogy, becomes a hollow and false one compared to those of the AzhwArs and AchAryAs. Indeed my feeble and insin cere efforts to praise You highlight Your noble guNam of forbearance.

COMMENTS:

Through their overflowing love for the Lord, ancient great ones such as BhIshma, Narada and PrahlAdha eulo gized the Lord with choked voices. AazhwArs like SaThakOpan and Thiru mangai assumed female roles to express their adoration of the Lord. KurEsar de scribes the sweet experiences of the Pu rANa PurushAs that flew as delectable yOga hayagrIvar eulogy as: “preEma aardra vihvala gira: 19 purANaa: Purushaa: madhurai: vachOpi: thvAm thushtuvu:” In a mood of stat ing his unfitness (NaichyAnusandhAnam) to follow the path of the noble Sages and AzhwArs, KurEsar points out that his efforts are deceptive and they are testaments to the efficacy of the Lord’s KshamA guNam (forbearance).

मूलम्

प्रेमार्द्रविह्वलगिरः पुरुषाः पुराणाः त्वां तुष्टुवुर्मधुरिपो! मधुरैर्वचोभिः ।
वाचो विडम्बितमिदं मम नीचवाचः क्षान्तिस्तु ते सविषया मम दुर्वचोभिः ॥ १० ॥

ज्ञान-साधनम्

श्रुति-प्रमाणम्

श्रीनिवासः - प्रस्तावः

इदानीं वेदान्तवाक्यार्थानुसारेण सर्वेश्वरं स्तोष्यन्
तद्-इतर–दर्शन–निन्दापूर्वकं श्रुतिम् अभिष्टौति -

विश्वास-प्रस्तुतिः

आज्ञा तवात्रभवती विदिता त्रयी सा
तां हि प्रमाणम् उपजग्मुर् अतीन्द्रियेऽर्थे ।
(प्रमाण-)आभास-भूयम् अभियान्त्य् अपराणि (नास्तिक-मतानि) दोषैर्,
एषा तु दोष-रहिता महिता पुराणी ॥ ११ ॥

श्रीनिवासः

[[7]] आज्ञेति । अत्रभवती पूज्या सा प्रसिद्धा त्रयी वेदत्रयं “स्त्रियामृक्सामयजुषी इति वेदा स्त्रय स्त्रयी” इत्यमरः । तव आज्ञां विदिता [[8]] आज्ञात्वेन प्रसिद्धा । “श्रुतिः स्मृति ममैवाऽऽज्ञा” इति प्रसिद्धेः । तां त्रयीं अतीन्द्रिये प्रत्यक्षागोचरे अनुमानादिकं व्याप्तिग्रहणादिषु प्रत्यक्षसापेक्षमिति तदगोचरत्वमप्यभिप्रेतम् | अर्थे कर्मब्रह्मात्मके वस्तुनि प्रमाण मुपजग्मुः अङ्गीचक्रुः, वैदिकोत्तमा इति शेषः । अपराणि प्रमाणानि दोषै राभासभूयं आभासत्व मभियान्ति प्राप्नुवन्ति । “भुवो भावे” इति भावार्थे क्यप् प्रत्यये विहिते आभासभूयमिति निष्पत्तिः । पुराणी नित्येत्यर्थः । अतएव दोषरहिता पौरुषेयत्वप्रयुक्तभ्रमविप्रलम्भादिदोषशून्या एषा त्रयी तु महिता प्रमाणेषु प्रशस्ता । अतः श्रुत्यनुगुण मेव स्तोतव्यमिति भावः ॥ ११ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord! The noble assemblies of the three vEdAs, which are revered at all yugAs, are known as Your commands. Is it not so that the aasthikAs have ac cepted them as the cardinal pramANams (valid knowledge) for comprehend ing the tatthvams, which are beyond the analysis by our senses? Due to the many blemishes that Para mathams like Jainam and Bhouddham, they take on false garbs and pretend to be based on pramANams. The VedAs and Vaidhika mathams however are rooted in PramANams and are therefore celebrated as ancient and totally devoid of any blemishes.

COMMENTS:

This slOkam was created by KurEsar to remind every one that the VedAs head all PramANams and that Vaidhika mathams based on Veda PramANams are the ones that are safe to follow for gaining the supreme goal of life, viz, MOk sham. Vedams are the commands of the Lord (Sruthi smruthi: MamaivAjnA). Our Lord says further that one who transgresses them is an avaishNavan even if he was His devotee (AajnAcchEdhee Mama dhrOhi MadhbhakthOapi na VaishNava:). The Vedams are counted as Triad (thrayee) here although they are four in number. The reason is that the fourth Vedam, AtharvaNam is in cluded in the three.

21

मूलम्

आज्ञा तवात्रभवती विदिता त्रयी सा तां हि प्रमाणमुपजग्मुरतीन्द्रियेऽर्थे ।
आभासभूयमभियान्त्यपराणि दोषैः एषा तु दोषरहिता महिता पुराणी ॥ ११ ॥

विश्वास-प्रस्तुतिः

अन्तर्हितो निधिर् असि त्वम् अ-शेष-पुंसां
लभ्यो ऽसि पुण्य-पुरुषैः, इतरैर् दुर्-आपः
तत्र त्रयीं सु-कृतिनः कृतिनो ऽधिजग्मुर्,
बाह्येषु बाह्य-चरितैर् इतरैर् निपेते ॥ १२ ॥

श्रीनिवासः

अन्तर्हित इति । त्वम् अशेषपुंसां, योगिनामपीति भावः । अन्तर्हितः अतीन्द्रियः निधिरसि। भगवतो निधित्ववचना त्सिद्धस्वरूपं ब्रह्मन शास्त्रं प्रतिपादयति इत्याशङ्कापरिहारपर समन्वयाधिकरणार्थ स्सूचित इति सम्प्रदायः । तमेव विवृणोति - पुण्याः पुण्यकृतश्च ते पुरुषाश्च तै र्लभ्योऽसि लभेः प्राप्त्यर्थकत्वात्, गत्यर्था बुद्ध्यर्था इति न्यायेन ज्ञेयोऽसीत्यर्थः । इतरैः अपुण्यकृद्भिः दुरापः दुःखेनाऽपि प्राप्तु मयोग्यः । तत्र त्वत्स्वरूपादिज्ञाने सुकृतिनः कृतिनश्च पण्डिताः त्रयी मधिजग्मुः प्रापुः प्रमाणतयेति शेषः । बाह्यं चरितं येषां तैः चरितस्य बाह्यत्वं शास्त्रनिरस्तत्वं, इतरैर् अपण्डितैः बाह्येषु वेदविरुद्धविषयेषु निपेते निपतितं भवति । भावे लिट् ॥ १२ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord! You are like a hidden treasure for all chEtanams. You are reached by a few fortunate. For others, You are unattainable even with strenuous efforts. In their successful efforts to attain you, the fortunate few follow the ancient Vedic path. The others fail to attain You as a result of following Veda BhAhya mathams (Para Mathams that do not accept Vedam as PramANam).

COMMENTS:

There are those who suffer in poverty, while having untold wealth of the Lord inside them as the indweller. Then there are those, who recognize the pres ence of the Lord in their heart lotuses and perform upAya anushtAnam and break the bonds of SamsAram. The second category of the fortunate ones is saluted by KurEsar as “kruthina: sukrithina:” ChaNdhOgya Upanishad (8.3.2) describes the unfortunate ones, who fail to realize the indwelling Lord and the consequences of such failure this way: “Just as people, who do not know the place where treasure or gold is hidden, do not get it, though they move on the very ground under which the gold is hidden. In the same way, all these Jeevans though they go to the Supreme Lord day in and day out (during Sushupthi/sleep without dream) do not get to know that indwelling Brah man.” KurEsar points out those, who perform upAya anushtAnam (Bhakthi or Prapatthi yOgam) along the lines instructed by the VedAs will gain this hidden treasure and enjoy BrahmAnandham. Those who reject VedAs (Bhouddhaas and JainAs) are also the property (VibhUthi) of the Lord. They have failed in their goal to attain the Lord by forsaking Vedic instructions.

22

मूलम्

अन्तर्हितो निधिरसि त्वमशेषपुंसां लभ्योऽसि पुण्यपुरुषैः इतरैर्दुरापः ।
तत्र त्रयीं सुकृतिनः कृतिनोऽधिजग्मुः बाह्येषु बाह्यचरितैरितरैर्निपेते ॥ १२ ॥

श्रीनिवासः - प्रस्तावः

इतरैर् अपि स्वस्वमतानुगुण्येन
वेद एव किल प्रमाणतयोपन्यस्यते इत्यत्राऽऽह -

विश्वास-प्रस्तुतिः

चित्रं विधेर् विलसितं त्व् इदम् आविर् अस्ति
दुष्टात्मनाम् अयम् अहो! किल दुर्विपाकः ।
यत् केचिद् अत्रभवतीं श्रुतिम् आश्रयन्तोऽप्य्
अर्थे कुदृष्टि-विनिविष्ट-धियो विनष्टाः ॥ १३ ॥

श्रीनिवासः

[[9]] चित्रमिति । इदं विधेर्विलसितं दैवस्य विलासः, अदृष्टविपाक इत्यर्थः, चित्र माश्चर्यकर माविरस्ति प्रकाशते । सामान्यत उक्तं विशेषेण निदर्शयति - दुष्ट आत्मा मनो येषां तेषां, अनेकजन्मानुवृत्तकल्मषदूषिताना मित्यर्थः । अयं प्रकाशमानो दुर्विपाकः दुष्टादृष्टपरपिाकः अहो आश्चर्यकरः किल, यत् यस्माद्धेतोः केचित् नामनिर्देशानर्हाः, प्रच्छन्नबौद्धा इति भावः । अत्रभवतीं पूज्यां श्रुति माश्रयन्तः प्रमाणतया स्वीकुर्वन्तोऽपि अर्थे पदार्थे वाक्यार्थे तात्पर्यार्थे च कुदृष्टिषु अपन्यायेषु विशेषेण निविष्टा आग्रहग्रस्ता धीर्येषान्ते तथोक्ता सन्तः विनष्टाः, “न तु मा मभिजानन्ति तत्त्वेनाऽत- श्च्यवान्ति ते” इत्युक्तप्रकारेण, असत्कल्पा भवन्तीति भावः ।। १३ ।।

वरदाचार्य-शठकोपः

MEANING:

The Lord’s sport is mysterious indeed! Alas! Those with deplorable attitude at tain the status of misinterpretation of the true meanings of VedAs due to their sins. They destroy themselves in spite of the fact that they celebrate the VedAs and yet end up misinterpreting their meanings. They gain distorted vi sions and acquire the title of kudrushtis. Their mind gets polluted (kudhrushti vinivishta dhiya:) and they end up in narakam.

COMMENTS:

They are Vedic Scholars all right and yet they develop viparItha Jn~Anam and Kudhrushti and end up interpreting the Vedic passages such as KapyAsa Sruthi. One of the early AchAryAs of Sri RaamAnuja (Yaadhava PrakAsar) in terpreted KapyAsa Sruthi in an abominable way and hurt Sri RaamAnujA very much. Sri RaamAnuja corrected Yaadhava PrakAsa and parted with him.

24

मूलम्

चित्रं विधेर्विलसितं त्विदमाविरस्ति दुष्टात्मनामयमहो! किल दुर्विपाकः ।
यत् केचिदत्रभवतीं श्रुतिमाश्रयन्तोऽप्यर्थे कुदृष्टिविनिविष्टधियो विनष्टाः ॥ १३ ॥

श्रीनिवासः - प्रस्तावः

वेदैकदेश-स्वीकाराद् एतेषां बाह्यत्वोक्तिः कथम्
इत्याशङ्क्य तत्साम्यं दृष्टान्तमुखेन द्रढयति -

विश्वास-प्रस्तुतिः

बाह्याः कुदृष्टय इति द्वितये ऽप्य् अ-पारं
घोरं तमः समुपयन्ति (यतः) नहीक्षसे तान् (जायमानान्, प्रत्युत रजस्-तमोकराभ्यां ब्रह्म-रुद्राभ्याम् ईक्षितान्)
जग्धस्य कानन-मृगैर् मृग-तृष्णिकेप्सोः,
कासार-सत्त्व(→नक्र)-निहतस्य च को विशेषः? ॥ १४ ॥(4)

श्रीनिवासः

बाह्या इति। बाह्याः वेदं प्रमाणतया ऽनङ्गीकुर्वन्तो माध्यमिकादयः, कुदृष्टयः अनादिपाप वासनादूषिताशेषशेमुषीकतया वेदैकदेशं व्यावहारिकप्रमाणतया स्वीकृत्यापि असमीचीनन्यायवादिनो मृषावादि प्रभृतयः, द्वितीयेऽपि उभयविधा वादिनोऽपि अपारं दुस्तरं घोरं पतनहेतुतया क्रूरं तमः तमोगुणं समुपयान्ति प्राप्नुवन्ति । कुत इत्यत आह नहीति । हि यस्मात्कारणात् तान्नेक्षसे न कटाक्षयसि, जायमानदशायामिति शेषः । [[10]]

" जायमानं हि पुरुषं
यं पश्येन्मधुसूदनः ।
सात्विकस्सतु विज्ञेयस्
स वै मोक्षार्थचिन्तकः ॥
पश्यत्येनं जायमानं
ब्रह्मा रुद्रोऽथवा पुनः ।
रजसा तमसा चाऽस्य
मानसं समभिप्लुतम्”

इति वचनमत्राभिप्रेतम् । तत्र दृष्टान्तं दर्शयति- जग्धस्येति । मृगतृष्णिकाया मीप्सोः इच्छावतः मृगतृष्णिकाया मुदकप्रावाह भ्रान्त्या पिपासया च तदिच्छो रित्यर्थः । काननमृगैः शार्दूलादिभिः जग्धस्यभक्षितस्य, “अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते” इत्यमरः । अद भक्षणे इति धातो: “अदोजग्धिर्न्यपि किति” इति जग्ध्यादेशः। कासारः सरः तस्मिन् विद्यमानैः सत्त्वैर्जन्तुभिः निहतस्य जलं दृष्ट्वाऽपि 1परीक्षकावतारप्रदेशं त्यक्त्वा मतिभ्रंशा त्क्वचिदवतीर्णस्य हठात्पतितस्य, ग्राहादिभि र्भक्षितस्येत्यर्थः, को विशेष: ? पिपासाशमनं जीवनञ्च नास्तीत्येतत् द्वयोरपि तुल्यमिति भावः । तद्वत् उभयेषा मपि तत्त्वनिर्णयाभावः अध: पतनञ्च तुल्यमिति द्रष्टव्यम् ॥ १४ ॥

वरदाचार्य-शठकोपः

MEANING:

There are two kinds of people: One does not accept Vedam as PramANam (valid knowledge) and are known as Veda BhAhyars; the other accepts VedAs as PramANam but interprets their meanings in an erroneous manner. Both of them land in the bottomless SamsAram. Oh Lord! Your benevolent glances do not fall on them. There is no difference between these two (Veda BhAhyan and Kudhrushti). One is like the deluded person, who runs after mirage, enters the forest and is eaten up by the beasts of the forest; the other is like a fool, who enters the river at forbidden places (bathing ghats not recom mended by AchAryAs) and loses his life to crocodiles. There is no difference between the two in their stupidities. Sruthi vaakyam says in this context: “andham tama: pravisanthi yEavidhyAm upAsathE”

25

मूलम्

बाह्याः कुदृष्टय इति द्वितयेऽप्यपारं घोरं तमः समुपयन्ति नहीक्षसे तान् ।
जग्धस्य काननमृगैर्मृगतृष्णिकेप्सोः कासारसत्त्वनिहतस्य च को विशेषः? ॥ १४ ॥

श्रीनिवासः - प्रस्तावः

तर्हि श्रुत्यर्थनिर्णयोपायः क इत्याकाङ्क्षायामाह -

विश्वास-प्रस्तुतिः

न्याय-स्मृति-प्रभृतिभिर् भवता निसृष्टैः
वेदोपबृंहण-विधाव् उचितैर् उपायैः ।
श्रुत्य्-अर्थम् अर्थम् इव भानुकरैर् विभेजुस्
त्वद्-भक्ति-भावित-विकल्मष-शेमुषीकाः(=बुद्धिकाः) ॥ १५ ॥

श्रीनिवासः

न्यायेति । त्वद्भक्त्या भाविता भावनायुक्ता अतएव विकल्मषा विषयभावनाशून्या शेमुषी बुद्धि र्येषां ते तथोक्ताः, पुरुषा इति शेषः; इदं हेतुगर्भविशेषणम् । भवता निसृष्टैः तत्तत्प्रबन्धनिबन्धूपुरुषविशेषेषु आवेशवता भवता प्रदत्तै रित्यर्थः । वेदस्य उपबृंहणविधौ, उपबृंहणं नाम " उक्तार्थविशदीकारो युक्तार्थान्तर-बोधनम् । मतं विवरणं" नाम [[11]] इत्युक्तप्रकारं विवरणं, तस्य विधाने उचितैः योग्यैः उपायै स्साधनैः न्यायस्मृतिप्रभृतिभिः, एकनालावलम्बि फलद्वयन्यायेन तर्कमीमांसे उभे अपि न्यायशब्दो दर्शयति, समीचीनतर्कस्य पूर्वोत्तरमीमांसान्यायानाञ्च उपबृंहणानुगुणात्वात् । तदुक्तम्- “आर्षं धर्मोपदेशञ्च वेदशास्त्रविरोधिना । य स्तर्केणानुसन्धत्ते स धर्मं वेदनेतरः " । " वेदशास्त्ररथारूढा न्यायखड्गधरा द्विजाः । क्रीडार्थमपि यद्भूयु स्सधर्मः परमो मतः” इति । स्मृतयः मन्वादयः । प्रभृतिशब्देन इतिहासपुराणादिकं विवक्षितम्, " इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्" इत्युक्तेः । श्रुत्यर्थं, भानुकरैः सूर्यकिरणैः अर्थं घटपटादिक मिव विभेजुः विभक्तं कृतवन्तः, नित्यानित्यहेयोपादेय विभागः कृत इति भावः । अत्र भक्तेर्न्यायादीनाञ्च समीचीनज्ञानहेतुत्वोक्त्या “मायां न सेवे भद्रन्ते न वृथा धर्म माचरे । शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् " इति सञ्जयवचन मभिप्रेतम् । भक्त्या शुद्धभावं गत इत्यन्वयः ॥ १५ ॥

वरदाचार्य-शठकोपः

MEANING:

In the previous slOkams, KurEsar instructed us that BhagavAn can be compre hended only with Veda manthrams and not by false sources in opposition to the VedAs. In this slOkam, KurEsar instructs us that Smruthis, Sath Saasthrams, Saathvika PurANams and IthihAsams (UpabrahmaNams) act as instruments to interpret correctly the true meanings of the VedAs.

Swamy KurEsar says here: “With minds filled with profound Bhakthi for You, the scholars with pure mind have used MeemAsa Saasthram, Manu Smruthi passages to comprehend the inner meanings of the Veda mantrams just as the Sun’s light is used to recognize the various objects clearly”. These upAyams to understand the true meanings of the Veda Mantrams have been given to us by the Lord (BhavathA nisrutai: uchithai: upAyai:).

26

मूलम्

न्यायस्मृतिप्रभृतिभिर्भवता निसृष्टैः वेदोपबृंहणविधावुचितैरुपायैः ।
श्रुत्यर्थमर्थमिव भानुकरैर्विभेजुः त्वद्भक्तिभावितविकल्मषशेमुषीकाः ॥ १५ ॥

भक्तिः

श्रीनिवासः - प्रस्तावः

भक्तेः प्रधान-साधनतां व्यतिरेक-मुखेन द्रढयन् सदृष्टान्तमाह

विश्वास-प्रस्तुतिः

ये तु त्वद्-अङ्घ्रि-सरसी-रुह-भक्ति-हीनाः
तेषाम् अमीभिर् अपि नैव यथार्थ-बोधः ।
पित्त-घ्नम् अञ्जनम् अनापुषि जातु नेत्रे
नैव प्रभाभिर् अपि शङ्ख-सितत्व-बुद्धिः ॥ १६ ॥(4)

श्रीनिवासः

येत्विति । ये तु पुरुषाः, तु शब्दः पुरुषविशेषद्योतकः । त्वदङ्घ्रिसरसीरुहयोः भक्तिहीनाः, भवन्तीति शेषः । तेषा ममीभिः न्यायादिभिरपि यथार्थबोध: सम्यग्ज्ञानं नैव । एवकारः प्रसिद्धिसूचकः । तत्र प्रधान साधनवैकल्ये सति तदितर साधनसाकल्येनाऽपि कार्यानुत्पादनं दर्शयति - नेत्रे, पित्तं पित्तरोगं हन्तीति तथोक्तम् अञ्जन मनापुषि अप्राप्तवति, आप्ल्लु व्याप्तौ इति धातोः क्क्सु प्रत्ययः । प्रभाभि रपि पूर्वोक्तभानुकरैरपि शङ्खसितत्वबुद्धिः शङ्खस्सित इति बुद्धिः नैव नोत्पद्यते हि ॥ १६ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord! For those, who are not blessed with Bhakthi at your lotus feet, they will not get clarity about the Sruthi, Smruthi passages. When the eyes are not treated with the lotion (collyrium) for destroying the bile-generated disease, even the Sun’s rays won’t be of help to know the true color of the white conch.

COMMENTS:

Here KurEsar is referring to the dhurbhAgyam (misfortune) of those, who are devoid of Bhakthi for the lotus feet of the Lord (yE thu thvadhangri saraseeruha bhakthiheenA:). They wont get clarity about the meanings of the Sruthis and Smruthis (tEshAm yEva ameebhi: api yaTArTa bOdhA: na). For a man with bile disease, every thing will look yellow and even the bright Sun’s rays will not help him recognize that the conch before him has the white color.

Swamy Desikan has referred to this analogy in SubhAshitha Neevi: “PitthEna Paanchajanyam peetham pasyan bhishajyathu kam”. It is thus clear that SaasthrArTams will become evident only to those for those with true Bhakthi for the Lord. 27

मूलम्

ये तु त्वदङ्घ्रिसरसीरुहभक्तिहीनाः तेषाममीभिरपि नैव यथार्थबोधः ।
पित्तघ्नमञ्जनमनापुषि जातु नेत्रे नैव प्रभाभिरपि शङ्खसितत्वबुद्धिः ॥ १६ ॥

विश्वास-प्रस्तुतिः

वेदार्थ-धीस् त्वयि तु भक्तित एव लभ्या
यावान् हि यश् च भगवन्न् असि तत्त्वतस् त्वम् ।
ज्ञातुं तथा भुवन-भावन वेद-वेद्यं
द्रष्टुं प्रवेष्टुम् अपि भक्तित एव शक्यः

श्रीनिवासः

(१७ श्लोकात्पूर्वं क्वचिदयमधिकः श्लोको दृश्यते)

वरदाचार्य-शठकोपः

MEANING:

Oh Lord meditated upon by the residents of the three worlds! Only Bhakthi for You can bless one with the intellect to comprehend the VedArTams. Bhakthi for You alone permits one to know your Svaroopam and limitless glories. That Bhakthi alone helps one comprehend you as the One to be known by the Veda Manthrams and to have your vision during DhyAnam as well as being united with you. “VedArTa dhee: Bhakthita yEva labhyA”. EmperumAn’s sankalpam, AchArya KatAksham and Nija Bhakthi and the help from the true Vedic schol ars can help us comprehend a little the limitless auspicious attributes of the Lord. 28

मूलम्

वेदार्थधीस्त्वयि तु भक्तित एव लभ्या यावान् हि यश्च भगवन्नसि तत्त्वतस्त्वम् । ज्ञातु तथा भुवनभावन वेदवेद्यं द्रष्टुं प्रवेष्टुमपि भक्तित एव शक्यः ॥

परत्व-निश्चयः

विश्वास-प्रस्तुतिः

तत्त्वार्थ–तत्-पर–परश्-शत–वेद-वाक्यैः
सामर्थ्यतः स्मृतिभिर् अप्य् अथ तादृशीभिः ।
त्वाम् एव तत्त्व-पर–सात्त्विक–सत्-पुराणैर्
दैव-ज्ञ-धीभिर् अपि निश्चिनुमः परेशम् ॥ १७ ॥

श्रीनिवासः

तत्त्वार्थेति । तत्त्वार्थे “तत्त्वं नारायणः परः" इति उक्ते भगवति तत्पराणि “उपक्रमोपसंहारा वभ्यासोऽपूर्वताफलम्। अर्थवादोपपत्ती च’ इत्युक्तषड्विध तात्पर्यवन्ति परश्शतानि शतात्पराणि, अनन्तानीत्यर्थः । तानि च यानि वेदवाक्यानि तैः, तादृशीभिः वेदवाक्योक्तविशेषण- विशिष्टाभिः स्मृतिभिः, अथ सामर्थ्यतः सामर्थ्यं नाम प्रतिपादितार्था- विरुद्धार्थान्तराक्षेपकत्वं, तत् शब्दार्थयोरुभयो रपि सम्भवति, तत्त्वपरैः अतएव सात्त्विकैः सद्भिः पुराणान्तरेभ्यो गौरवातिशययुक्तैश्च पुराणैः “यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा स्वयम्। तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते । अग्ने शिवस्य माहात्म्यं तामसेषु प्रकीर्तितम् । सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते । राजसेषु च कल्पेषु अधिकं ब्रह्मणो विदुः । सात्विकेष्वथकल्पेषु माहात्म्य मधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्” इत्यादिक मत्रानुसन्धेयम् । देवज्ञाः परदेवतापारमार्थ्यविदः पराशरपराङ्कुशमुनिप्रभृतयः तेषां धीभिरपि ज्ञानैश्च त्वा मेव परेषां चेतना चेतनानामीशं निश्चिनुमः निर्णयामः ॥ १७ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord! Through the hundreds of Veda Manthrams broadcasting Your Para Tatthvam and similar passages from Manu, Yajn~avalkya Smruthis and Saath vika PurANams engaged in saluting Your Supreme status among gods and from the Sri Sookthis of AchAryAs, who understand Your true nature, We have arrived at the unassailable conclusion that You alone are the Supreme Being (ParamAthmA). This slOkam of KurEsar is modeled after the SthOthra Rathna slOkam of Swamy AlavanthAr, “tvAm Seela roopa charithai:” (SlOkam 15).

29

मूलम्

तत्त्वार्थतत्परपरश्शतवेदवाक्यैः सामर्थ्यतः स्मृतिभिरप्यथ तादृशीभिः ।
त्वामेव तत्त्वपरसात्त्विकसत्पुराणैः दैवज्ञधीभिरपि निश्चिनुमः परेशम् ॥ १७ ॥

श्रीनिवासः - प्रस्तावः

[[12]]

ईशशब्दस्य देवतान्तरे प्रसिद्धिप्राचुर्यात्
कथं भगवद्-वाचकत्वम् इत्य् आशङ्कायां परिहरति -

विश्वास-प्रस्तुतिः

अन्यत्र तु क्वचन केचिद् इहेश-शब्दात्
लोक-प्रसिद्धिम् उपगम्य, तम् ईशम् आहुः
तैश् च प्रसिद्धि-विभवस्य समूलतायै
ग्राह्या त्रयी, त्वयि तु साऽच्युत! सम्मुखीना ॥ १८ ॥
(“पतिं विश्वस्य तमीश्वरं शाश्वतम् अच्युतम्” इति )

श्रीनिवासः

अन्यत्र तु क्वचन केचि दिहेशशब्दा- लोकप्रसिद्धिमुपगम्य तमीश माहुः । तैश्च प्रसिद्धिविभवस्य समूलतायै ग्राह्या त्रयी त्वयि तु साऽच्युत सम्मुखीना ॥ १८ ॥ अन्यत्रेति । केचित्तु वचनग्रन्थेषु अन्यत्र देवतान्तरे ईशशब्दात् “शम्बु रीशः पशुपतिः” इत्यादिषु ईशशब्दप्रयोगा दित्यर्थः । लोक प्रसिद्धिं लौकिकवाक्यप्रसिद्धिम् उपगम्य अङ्गीकृत्य तं रुद्रं ईशशब्दवाच्यम् आहुः वदन्ति, तै र्वादिभिश्च प्रसिद्धिविभवस्य प्रसिद्धिप्राचुर्यस्य समूलतायै प्रसिद्धिः प्रमाणमूला नवेत्याशङ्कायां समूलत्वाय त्रयी ग्राह्या, प्रमाणतयोपादेया । सा तु त्रयी तु हे अच्युत, इयं सम्बुद्धिः हेतुगर्भा च्यवनताया मीश्वरत्वसम्भावनाया अप्यभावात्, “शाश्वतं शिव मच्युतम् " इति नारायणानुवाके त्वयि सम्मुखीना अभिमुखा भवति न तु देवतान्तरे इत्यर्थसिद्धम्॥ २८॥

वरदाचार्य-शठकोपः

MEANING:

Oh Achyutha! Some (SaivAs) state that Sivan is the Supreme God because some purANAs and AagamAs address Him as Isan, Iswaran and IsAnan. For strengthening that point of view, one has to look for valid Support from Rg, Yajus and Saama Vedams. Those three Vedams are focused on you. Those Ve dam specifically salute you as: “Pathim viswasyAthmEswaram sAsvatham Shivam Achyutham”. Other Smruthi passages recognize You as “tameeswarANAm Paramam MahEswaram”. Therefore, when Vedam says Iswaran, it refers to EmprumAn only.

30

मूलम्

अन्यत्र तु क्वचन केचिदिहेशशब्दात् लोकप्रसिद्धिमुपगम्य तमीशमाहुः ।
तैश्च प्रसिद्धिविभवस्य समूलतायै ग्राह्या त्रयी त्वयि तु साऽच्युत! सम्मुखीना ॥ १८ ॥

श्रीनिवासः - प्रस्तावः

आभिमुख्यम् एव दर्शयति -

विश्वास-प्रस्तुतिः

यः खल्व् अणोर् अणुतरो, महतो महीयान्,
आत्मा जनस्य, जनको जगतश्च योऽभूत् ।
वेदात्मक-प्रणव–कारण-वर्ण(=अ)-वाच्यं तं त्वां वयं तु परमेश्वरम् आमनामः ॥ १९ ॥

श्रीनिवासः

य इति । वयन्तु, भवानित्यध्याहार्यम्, अभूदिति प्रथमपुरुषनिर्देशात् । अणो रिति पञ्चमी अणुतरः अत्यन्ताणुः, महतः महीयान् अतिमहान् अभूत् अणुभूत जीवान्तर्व्याप्तिः महदादि कारणप्रकृतिबहिर्व्याप्तिश्च विशेषणद्वयेन विवक्षिते । जगतः अचेतनस्य जनस्य चेतनस्य च जनकः [[14]] उत्पादकः, आत्मा अन्तर्यामी च अभूत् । वेदात्मको यः प्रणवः, प्रणवस्यैव वेदात्मना परिणतत्वा दिति भावः । तस्य कारणभूतं यद्वर्णं तत्प्रकृतिभूतस्तु अकारः तेन वाच्यः । “अकारो विष्णुवाचकः” इति नैघण्टुकाः । तं त्वां परमेश्वरं परो मा यस्मा दिति परमः, स चाऽसा वीश्वरश्चेति कर्मधारयः तम् आमनामः आम्नायेन जानीमः । अत्र पूर्वार्धे “अणोरणीया न्महतो महीया नात्मा गुहायां निहितोऽस्य जन्तोः, तमक्रतुं पश्यति वीतशोको धातुः प्रसादा न्महिमानमीशम्” इति श्रुतिश्च, उत्तरार्धे अस्यैवानुवाकस्यान्ते “यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः पर स्स महेश्वरः” इति श्रुतिश्च विवक्षिते । तथा " तमीश्वराणां परमं महेश्वरम्", “उतामृतत्व स्येशानः “, " पतिं विश्वस्यात्मेश्वरम्”, “ईशानो भूत भव्यस्य” इत्याद्याः श्रुतयः। “ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति”, “अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्", “ईशानः प्राणदः प्राणः इत्याद्याः श्रुतयोऽप्यभिप्रेता इति मन्तव्यम् ॥ १९ ॥

वरदाचार्य-शठकोपः

[[31]]

MEANING:

Oh Sriman NaarAyaNa! VaikuNTha NaaTha! We conclude that you and You alone is the ParamEswaran and worship you with the help of PramANams from the Vedaas. You became the One, who is subtler than “the subtlest” and grander than “the grandest”. You gave birth to the sentient and the insen tient universe and entered inside all of them to direct them. You are indicated by the one lettered PraNavam, which is the root and the essence of all the Vaachaka sabdhams of Vedaas.

COMMENTS:

Taittiriya Upanishad in the NaarAyaNAnuvAkam section described the Sva roopa-Roopa-GuNams of the Lord: “aNOraNeeyAn MahathO MaheeyAn aathmAasya janthOr-nihithO guhA yAm” (smaller than the smallest and larger than the largest) and concludes with “prasAdhAn-mahimAnam Isam” indicating that Sriman NaarAyaNan is the Isan/Iswaran/ ParamEswaran (Supreme Lord). sadagopan.org KurEsar concludes here therefore: “tvAm thu vayam ParamEswaram aaman Ama: (We recognize You as our Supreme Lord based on Veda Manthrams). That Supreme Being as the one embodiment of the single lettered PraNavam is saluted here by KurEsar: tamm VedAthmaka PraNava-kAraNa varNa-vAchyam tvAm thu vayam ParamEswaram aamanAma: When KurEsar salutes the Lord as “VedAthmaka praNava kaaraNa varNa vaachyam”, it is clear that PraNavam cannot refer to any one other than EmperumAn.

[[32]]

मूलम्

यः खल्वणोरणुतरो महतो महीयान् आत्मा जनस्य जनको जगतश्च योऽभूत् ।
वेदात्मकप्रणवकारणवर्णवाच्यं तं त्वां वयं तु परमेश्वरमामनामः ॥ १९ ॥

श्रीनिवासः - प्रस्तावः

पूर्वश्लोकोक्तमर्थं विवृणोति -

विश्वास-प्रस्तुतिः

आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यः
विश्वस्य चाधिपतिर् अस्य (←विश्वस्य) परायणं च ।
नारायणाच्युत! परस् त्वम् इहैक एव
ब्रह्मादयोऽपि भवद्-ईक्षण-लब्ध-सत्ताः ॥ २० ॥

श्रीनिवासः

आत्मेति । हे नारायण “आपो नारा इति प्रोक्ता आपो वै नारसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः” इत्यादिनिर्वचनप्रकारेण नारशब्दवाच्य चेतनाचेतनान्तर्यामिन् अच्युत, चेतनस्य देवादिशरीरात्मकत्वेऽपि च्यवनमस्ति; तद्रहित इत्यर्थः । इह परः परतत्त्वभूतः त्वमेक एव आत्मेश्वरोऽसि नियन्ताऽसि, अन्तर्यामित्वफलं नियमनमिति भावः । तव अन्यः इतरः परः उत्कृष्टः ईश्वरः नास्ति । विश्वस्य अधिपतिः प्राप्यश्चाऽसि अस्य परायणं शरणं प्रापकश्चाऽसि । [[15]] ब्रह्मादीनामपि ईश्ववरत्वं क्वचित्क्वचिद्दृश्यत इत्यत्राऽऽह - ब्रह्मादयोऽपि भवदीक्षणेन लब्धा सत्ता उत्पत्ति र्येषां ते तथोक्ता भवन्ति । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै “, " ब्रह्मणः पुत्त्राय ज्येष्ठाय श्रेष्ठाय विरूपाक्षाय” इत्यादिक मभिप्रेतम् ॥ २० ॥

वरदाचार्य-शठकोपः

MEANING:

Sriman NaarAyaNa! You are the Lord unto Yourself (thvam AathmEswara asi). There is no one who is Superior to You (tava Para: adhya Iswara: na asthi). Thou art the Lord and goal of this universe and its beings (asya viswasya adhi pathi: ParAyaNam cha). Oh Lord, who never lets down any one who performed SaraNAgathy to You and sought Your protection. (Oh! Achyutha) When we in quire as to who is the Superior amongst all gods, it becomes apparent that you alone are the Para DEvathai (Supreme Being). Even Brahma, Rudran and others have realized their own existence through the power of your benevo lent glances (BrahmAdhaya: api bhavadhIkshaNa labdha sattaa:).

COMMENTS:

KurEsar uses the following Sruthi PramANams for the thoughts behind this slOkam: 1. “YasmAth Param naaparam asthi”, “YasmAth Param naaparam asthi”, 2. “Pathim viswasyaathmEswaram”, “Pathim viswasyaathmEswaram”,

  1. “NivAsa: suhrudh gathi: NaarAyaNa:”
मूलम्

आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यः विश्वस्य चाधिपतिरस्य परायणं च ।
नारायणाच्युत! परस्त्वमिहैक एव ब्रह्मादयोऽपि भवदीक्षणलब्धसत्ताः ॥ २० ॥

विश्वास-प्रस्तुतिः

नित्यः सम+अभ्यधिक-वर्जित ऊर्जितश्रीः
नित्येऽक्षरे दिवि वसन् पुरुषः पुराणः ।
सत्त्व-प्रवर्तन-करो जगतोऽस्य मूलं
नान्यस् त्वद् अस्ति धरणी-धर! वेद-वेद्यः ॥ २१ ॥

श्रीनिवासः

नित्य इति । हे धरणीधर, इद मुपलक्षणं, विभूतिद्वयनिर्वाहकेत्यर्थः । त्वमेक एव इति पूर्वश्लोका द्नुषङ्गः । नित्यः कालापरिच्छिन्नः इतरेषां नित्यत्वे सत्यपि तत् भगवदिच्छायत्तमिति भावः । समाभ्यधिकवर्जितः वस्तुपरिच्छेदरहित इत्यर्थः । ऊर्जिता सत्यज्ञानादिभ्योऽपि स्वरूप- निरूपकत्वाद्दार्ढ्यवती श्रीः यस्य तथोक्तः, भगवद्यामुनमुनिभिः “कः श्रीः श्रियः” इति प्रथमत एवोदाहृतत्वा दिति भावः । नित्ये त्रैकालिके अक्षरे कालकृतपरिणामरहिते दिवि परमाकाश परमव्योमशब्दवाच्ये परमपदे इति शेषः । वसन् अस्य जगतः लीलाविभूतेः मूलं कारणं, सत्त्वप्रवर्तनकरः सत्त्वकार्यपालनकर इत्यर्थः, पुराणः पुरुषः पुरुषोत्तमोऽसि । त्वत् भवतः अन्यः वेदवेद्यो नाऽस्ति । नित्यत्वादिविशिष्ट पुराणपुरुषत्वेन श्रुतिप्रतिपाद्यपुरुषान्तरं नास्तीत्यर्थः । अत्र “ नित्यो नित्यानां चेतन श्चेतनानां”, “न तत्समश्चाऽभ्यधिकश्च दृश्यते”, “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”, “तदक्षरे परमे व्योमन् ”, “ यो वेद निहितं गुहायाम् परमे व्योमन्”, “यतो वा इमानि भूतानि जायन्ते”, “महान् प्रभुर्वै पुरुषः सत्त्वस्यैव प्रवर्तकः”, “सर्वे वेदा यत्पद मामनन्ति” इत्यादिक मनुसन्धेयम् ॥ २१ ॥ [[16]]

वरदाचार्य-शठकोपः

MEANING:

Oh the Lord of BhUmi Devi (dharaNeedhara)! You alone are eternal (tvam yEka nithya:). You have no equal or superior (Sama abhyadhika varjitha:). You are the timeless (anAdhi) Purushan (PurushOtthaman). You are the sole seed for this universe as you stay in Your eternal Parama Padham (NithyE dhivi ak sharE vasan asya jagatha: moolam). You are the One resplendent with the in separable association of MahA Lakshmi (tvam Urjitha SrI:). You spread the Sathtva guNam linked to Jn~Anam (Satthva pravartanakara:). There is no one, who could be comprehended with the help of the VedAs (tvadh anya: Veda vEdya: na asthi).

COMMENTS:

When KurEsar uses the term “nithya:” he has in mind the Sruthi passages: “nithyO nithyAnAm chEtanas-chEtanAnAm”. KurEsar selects the Vedic passage of “Hreesccha tE Lakshmeesccha Pathnyou” as PramANam, when he selects the words “DharaNidhara - Urjitha SrI:” to salute the Lord as the divine con sort of BhUmi Devi and MahA Lakshmi.

35

मूलम्

नित्यः समाभ्यधिकवर्जित ऊर्जितश्रीः नित्येऽक्षरे दिवि वसन् पुरुषः पुराणः ।
सत्त्वप्रवर्तनकरो जगतोऽस्य मूलं नान्यस्त्वदस्ति धरणीधर! वेदवेद्यः ॥ २१ ॥

पुरुषसूक्तम्

विश्वास-प्रस्तुतिः

यं भूत-भव्य-भवद्-ईशम् अनीशम् आहुर्
अन्तस्-समुद्र-निलयं यम्-अनन्त-रूपम् ।
यस्य त्रि-लोक-जननी महिषी च लक्ष्मीः
साक्षात् स एव पुरुषोऽसि सहस्र-मूर्धा ॥ २२ ॥

श्रीनिवासः

यमिति । भूतभव्यभवतां भूतभविष्यद्वर्तमानकालिकानामीशम् । अनीशां न विद्यते ईशो यस्य तथोक्तमाहुः वदन्ति, श्रुतय इति शेषः । यम् अन्तस्समुद्रनिलयं क्षीराब्धिशायिनम्, अनन्तरूपम्, अतएव अपरिमितावतारविग्रह ञ्चाऽऽहुः । अत्र क्षीराब्धिनाथस्य अवतारकन्दत्वं गर्भितम् । यस्य महिषी लक्ष्मीश्च त्रिलोकजननी सकलजगन्माता भवतीति शेषः । साक्षा त्सहस्रं मूर्धानो यस्य स तथोक्तः स पुरुष एवाऽसि तादृश एव पुरुषोऽसीत्यर्थः । अत्र “ ईशानो भूतभव्यस्य”, “न तस्येशे कश्चन”, “यमन्तस्समुद्रे कवयो वदन्ति”, “तदेक मव्यक्तमनन्तरूपम्”, “मातरं पद्ममालिनीम् श्रियं वासय”, “सहस्रशीर्षा पुरुषः” इति श्रुतयः क्रमेणानुसन्धेयाः ॥ २२ ॥

वरदाचार्य-शठकोपः

MEANING:

You are the Master of the past, future and present (BhUtha bhavya bhavadee san). You are saluted as one, who has no Master (aneesan). You are recog nized as reclining in the middle of the Milky Ocean (antha: samudra nilayan). You are saluted as One with multitudes of roopam/forms (anantha roopan). As the Supreme Being of such glorious attributes and as the divine consort of the Mother of the beings of the three worlds, you become the thousand headed Purushan visualized by the Purusha Sooktham of the VedAs.

COMMENTS:

Vedam states: “na tasyEsa kascchana” (There is no Master for the Lord. He is His own Master). KurEsar salutes in this context as: “Yamm aneesam aahu:” The roopam of the Lord resting in the middle of the milky ocean is Padhma nAbhan. KurEsar’s Sruthi PramANams for Salutation of KsheerAbdhi NaaTan as “Yamm antha: samudhra nilayam” are: 1. “ambasya paarE”, “ambasya paarE”, 2. “SamudrEntham Visvasambhuvam”, “SamudrEntham Visvasambhuvam”, 3. “yamantha SamudhrE kavayO vayanthi” The Lord’s countless forms (ananta roopams) are based on the following Sruthi PramANams: “tadhEkam avyaktham ANANTHA ROOPAM, KrishNa roopANi ANANTHAANI”. Swamy Desikan refers later to the 77 roopams of Lord Narasimhan in Gadhya BhAshyam. KurEsar saluted MahA Lakshmi as “thrilOka 36

Jananee”. The pramANam here is from VishNu PurANam: “SnapayAm chakrirE Deveem SarvalOka- MahEswareem” KurEsar concludes this slOkam with the statement that the Lord of MahA Lak shmi is the Purushan celebrated by Purusha Sooktham as “Sahasra Seersha:” KurEsar’s words are: “Sa: Sahasra-MoordhA Purusha: SaakshAth” Wherever one turns, SrivathsAngAcchAr Swamy identifies the Sruthi, Smruthi, PurANa PramAnams behind each word chosen by KurEsar in the slOkams of Sri VaikuNTha Sthavam to establish the supremacy of Sri VaikuNTha Naathan.

मूलम्

यं भूतभव्यभवदीशमनीशमाहुः अन्तस्समुद्रनिलयं यमनन्तरूपम् ।
यस्य त्रिलोकजननी महिषी च लक्ष्मीः साक्षात् स एव पुरुषोऽसि सहस्रमूर्धा ॥ २२ ॥

श्रीनिवासः

अनन्तरोक्तं पुरुषसूक्तप्रतिपाद्यत्वमेवाऽऽह -

विश्वास-प्रस्तुतिः

सर्व-श्रुतिष्व् अनुगतं स्थिरम् अप्रकम्प्यं
नारायणाह्वय-धरं त्वम् इवानवद्यम् ।
सूक्तं तु पौरुषम् अ-शेष-जगत्-पवित्रं
त्वाम् उत्तमं पुरुषम् ईशम् उदाजहार ॥ २३ ॥

श्रीनिवासः

सर्वेति । त्वमिव सर्वश्रुतिषु ऋग्यजुस्सामसु अनुगतं पठितमित्यर्थः 1 तदुक्तम् - “ऋग्वेदे षोडशर्चं स्यात् यजुष्वष्टादशार्चकम्, सामवेदेषु सप्तर्चं तथा वाजसनेयके " इति । स्थिरं सर्वै र्वादिभिरपि भगवत्परतयाऽङ्गीकृतम्, अप्रकम्प्यं कुतकै दैवतान्तरपरतया चालयितुमशक्यं, नारायणाह्वयधरं नारायणसूक्तमित्यपि अस्य नामान्तरमस्ति; तदुक्त मापस्तम्बेत” ब्रह्ममेधे नारायणाभ्या मुपस्थानम्” इति । अत्र “अद्भ्य स्सम्भूतः " इत्यनुवाकस्य [[17]] पुरुषसूक्तशेषभूतत्वात् अनुवाकद्वयाभिप्रायेण द्विवचनप्रयोग इत्यनवद्यम् । “वेदेषु पौरुषं सूक्तं धर्मशास्त्रेषु मानवम् । भारते भगवद्गीता पुराणेषु च वैष्णवम्” इति श्रुतिसारांशतयोक्तमित्यर्थः । अशेषजगतां पवित्रं पावनत्वकरं पौरुषं सूक्तं तु तु शब्दः परत्वपरप्रमाणान्तरेभ्यो वैशिष्ट्यद्योतनार्थः । ईशं त्वा मुत्तमं पुरुष मुदाजहार प्रत्यपादयत्। “वेदाऽह मेतं पुरुषं महान्तम्” इति महापुरुषत्वकण्ठोक्ता वपि एतद्विवरणरूपस्य “उत्तमः पुरुष स्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रय माविश्य बिभर्त्यव्यय ईश्वरः” इति गीता वाक्यस्यानुगुण्यात्, उत्तमं पुरुष मुदाजहारेति मन्तव्यम् । अत्राशेषविशेषणेनाऽपि भगवत्परत्व मप्यभिप्रेतम् ॥ २३ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh the Lord of BhUmi Devi! The same firm (sTiram) and unassailable (aprakampyam) Purusha Sooktham has its abode in all the 4 vedams (Sarva srutishu anugatham) with the name of NaarAyaNa (NaarAyaNa aahvayad haram) This blemishless Purusha Sooktham, which creates purity (Suddhi) in the universe has identified You as the PurushOtthaman in this world (tvAm utthamam Purusham Isam udAjahAra).

COMMENTS:

This slOkam is a joint celebration of the Lord and the Purusha Sooktham eulo gizing Him. The five adjectives of the first two lines of this slOkam “Sarva Srutishu anugatam, sTiram, aprakamyam, NaarAyaNa aahvayadharam, anavadhyam” qualify “asEsha Jagath pavithram”. These five visEshaNams (qualifiers) are equally relevant to Purusha Sooktham: It is found in all the four VedAs (Sarva sruthishu anugatham); it is firmly established (sTiram); it is unassailable (aprakampyam); it has the name of NaarAyaNa (PourushamEva SookthEna, tadh VishNOrithi manthrENa sookthEna Pu rushENu thu). Pourusham Sooktham refers to Purusha Sooktham here. 38

मूलम्

सर्वश्रुतिष्वनुगतं स्थिरमप्रकम्प्यं नारायणाह्वयधरं त्वमिवानवद्यम् ।
सूक्तं तु पौरुषमशेषजगत्पवित्रं त्वामुत्तमं पुरुषमीशमुदाजहार ॥ २३ ॥

आनन्द-वल्ली

विश्वास-प्रस्तुतिः

आनन्दम् ऐश्वरम्(→ब्राह्मं श्रुत्युक्तं) अ-वाङ्-मनस(←अजन्त-निपातनम्)+अवगाह्यम् आम्नासिषुः शत-गुणोत्तरित-क्रमेण (१००x आनन्द इति)
सोऽयं (→आनन्दः) तवैव, नृषु हि त्वम् इहान्तरात्मा
त्वं पुण्डरीक-नयनः पुरुषश् च पौष्णः(=सौरः) ॥ २४ ॥(5)

श्रीनिवासः

आनन्दमिति । ऐश्वरं ईश्वरत्वप्रयुक्त मानन्दं शतगुणेन उत्तरितः सञ्जातोत्तरः वक्ष्यमाणानन्दो यस्य तेन क्रमेण । " तदस्य सञ्जातं तारकादिभ्य इतच्” इतीतच्प्रत्ययः । अवाङ्गनसावगाह्यम् अवाङ्गनस इति “अचतु” रेत्यादिना निपातना त्साधुः । वाङ्गनसापरिच्छेद्यम् । “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह” इति श्रुत्युक्तप्रकारं आम्नासिषुः आम्नानं पुनः पुन रभ्यासं चक्रुः, श्रुतय इति शेषः । सोऽय मानन्दः तवैव त्वदीय एव । हि यस्मात्कारणात् इह प्रकरणे नृषु त्वं अन्तरात्मा अन्तर्यामी, वर्तसे इति शेषः । अय मभिप्रायः - " प्राणमय मनोमयाभ्या मनन्तरं विज्ञानमयं प्रतिपाद्य " तस्यैष एव शारीर आत्मा” इति विज्ञानमयस्य जीवस्य आनन्दमय एव अन्तरात्मेत्युक्ते रिति, “स यश्चाऽयं पुरुषे, यश्चासावादित्ये” इति तत्रोक्तमेव श्रुत्यन्तरेण विवृणोति त्वमिति । पुण्डरीकनयन: पौष्णः पूष्ण स्सम्बन्धी, आदित्यमण्डलान्तर्वर्तिपुरुषश्च [[18]] त्वं भवसीति शेषः । तथा चान्दोग्ये - " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखा त्सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेव मक्षिणी तस्य उदिति नाम, एष हि सर्वेभ्यः पाप्मभ्यः उदित" इति ॥ २४ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord! Your auspicious guNams have been declared by the VedAs to be be yond mind and speech (avAngh-manasa avagAhyam) and that bliss arising from the contemplation of these divine guNams increases in units of hundred starting from the aanandham of humans. That bliss is unique to you and your matchless guNams. In the Aananda valli passage, you are identified as the indweller of the chEtanams. You also become the indweller of the Sooryan as white lotus eyed Purushan.

COMMENTS:

Aanandhavalli passage from Taittireeya Upanishad starts with Maanusha an andham / human bliss (sa yEkO Maanusha aanandha:). That is taken as the unit for the measurement of the bliss of: 1. Manushya- Gandharva 2. Deva-GandharvAs 3. Pithrus 4. aajanaja dEva 5. karma dEva 6. Deva 7. Indhra [[39]] ९. Bruhaspathi and 9. PrajApathi The bliss of each of the set of ten starting from Manushyan is 100 fold larger and ends with the aanandham of Brahman as the loftiest (sa yEkO BrahmaNa aanandha:). KurEsar draws the Upanishad PramANam on Aanandham to point out that the loftiest of aanandham is enjoyed by the Parama Purushan as the Supreme Be ing. That He is inside all chEthanams as antharyAmi (indweller) and in achEthanams as anupravEsam proves His SarvEswarathvam. He is inside the orbit of the Sun (PoushNa: Purusha: Sa:) and has eyes resembling the lotus (“tasya yaTA kapyAsam PuNDareekam yEvamakshiNeem”) KurEsar piles up pramANam after pramANam to remind us of the ParadEvathA Tatthvam of

मूलम्

आनन्दमैश्वरम् अवाङ्मनसावगाह्यम् आम्नासिषुः शतगुणोत्तरितक्रमेण ।
सोऽयं तवैव नृषु हि त्वमिहान्तरात्मा त्वं पुण्डरीकनयनः पुरुषश्च पौष्णः ॥ २४ ॥

महोपनिषदादि

विश्वास-प्रस्तुतिः

यन् मूल-कारणम् अबुध्यत सृष्टिवाक्यैः
ब्रह्मेति वा सद् इति वा ऽऽत्मगिरा ऽथवा तत् ।
नारायणस् त्व् इति महोपनिषद् ब्रवीति
सौबालिकी-प्रभृतयो ऽप्य् अनुजग्मुर् एनाम् ॥ २५ ॥

श्रीनिवासः

यदिति । यत् वस्तु मूलकारणं प्राथमिककारण मुपादानकारणम् अबुध्यत ज्ञातम् । “सदिति वा, ब्रह्मेति वा अथ आत्म इति गिरा वा सृष्टिवाक्यैः, “सदेव सोम्येदमग्र आसीत्, ब्रह्म वा इदमेक मेवाऽग्रआसीत्, आत्मा वा इदमेक एवाऽग्र आसीत्” इति कारणवाक्यैः प्रतिपादितमित्यर्थः । महोपनिषत् तत् मूलकारणं नारायण इति ब्रवीति । इदं हि महोपनिषद्वाक्यम्- “एको ह वै नारायण आसीत्, न ब्रह्मा ने शानः इति। सुबालस्य सम्बन्धिनी सौबालिकी सुबालोपनिषत्प्रभृतयोऽपि एनां महोपनिषद मनुजग्मुः अनुसृतवत्यः । “य आत्मनि तिष्ठन् आत्मान मन्तरो यमयति य मात्मा नवेद, एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति सुबालोपनिषत् । प्रभृतिशब्देन - “पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम्”, “धाता यथापूर्व मकल्पयत्”, “विश्व मे वेदं पुरुष स्तद्विश्वमुपजीवति” इत्याद्या विवक्षिताः ॥ २५ ॥

वरदाचार्य-शठकोपः

MEANING:

MahOpanishad dealing with the creation of the universe states that the an cient kaaraNam (reason) for Srushti is described by the Vedic word, Sath or Brahman or Aathmaa. That aadhi kaaraNam for the creation of this naama roopa prapancham has been identified further as none other than Sriman NaarAyaNan. SubhAlOpanishad and other Upanishads follow the path laid out by MahOpanishad.

COMMENTS:

In the previous slOkam, KurEsar stated that the Lord has the guNam of im measurable bliss and He is the One who grants MOkshAnandham to those who perform SaraNAgathy to Him. In this slOkam, KurEsar salutes the Lord as Ja gath KaaraNan. VedAs salute this Jagath-KaaraNa Vasthu as “Brahman, Sath, and AathmA”. That Sriman NaarAyaNan is the Jagath KaaraNan is pointed out by the passages of MahOpanishad (“yEkO havai NaarayaNa aaseeth, na Brah maa nEsAna:”) and SubhAlOpanishad (dhivyO dEva yEkO NaarAyaNa:). Thus all padhams speak about NaarAyaNan (Siva means auspicious) and therefore NaarAyaNan alone is the Jagath KaaraNan.

मूलम्

यन्मूलकारणमबुध्यत सृष्टिवाक्यैः ब्रह्मेति वा सदिति वाऽऽत्मगिराऽथवा तत् ।
नारायणस्त्विति महोपनिषद् ब्रवीति सौबालिकीप्रभृतयोऽप्यनुजग्मुरेनाम् ॥ २५ ॥

श्रीनिवासः - प्रस्तावः

पूर्वोक्त मर्थं विवृणोति-

विश्वास-प्रस्तुतिः

ज्योतिः परं परम-तत्त्वम् अथो परात्मा
ब्रह्मेति च श्रुतिषु यत् पर-वस्त्व् अधीतम् (नारायणानुवाके)
नारायणस् तद् इति तद् विशिनष्टि काचिद्
विष्णोः पदं परमम् इत्य् अपरा (=कठ-वल्ली) गृणाति ॥ २६ ॥

श्रीनिवासः

[[19]]
ज्योति रिति । श्रुतिषु, बह्वीष्वितिभावः, परमतत्त्वं परं ज्योतिः परं ब्रह्म, अथो अनन्तरं परात्मेति च यत् परवस्तु परमुत्कृष्टं “न तत्समश्चाभ्यधिकश्च दृश्यते” इत्युक्तमित्यर्थः । वस्तु, न त्वौत्प्रेक्षिकमिति भावः । अधीतं सम्प्रदायाविच्छेदेन ज्ञातम्, तत् प्रसिद्धं तत् वस्तु नारायण इति काचित् नारायणानुवाक समाख्याश्रुतिः विशिनष्टि विवृणोति । " नारायण परं ब्रह्म तत्त्वं नारायणः परः, नारायण परो ज्योति रात्मा नारायणः परः” इति भावः । अपरा कठवल्ली तद्वस्तु विष्णोः परमं पदम् इति गृणाति वदति । पद्यते इति पदं, उपास्यं प्राप्यञ्च स्वरूप मित्यर्थः । “विज्ञापन सारथि र्यस्तु मनः प्रग्रहवान्नरः, सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद” मित्यादिनेति भावः । विष्णोः पदमिति निर्देशः आत्मनः स्वरूपमितिवत् औपचारिकः ॥ २६ ॥

वरदाचार्य-शठकोपः

MEANING:

One Sruthi (NaarAayaNa anuvAkam) salutes Sriman NaarAyaNan, the object of our meditation as the Supreme Being in the form of Supreme JyOthi, Supreme Tatthvam (doctrine) and as Supreme Soul and Brahman. The other Sruthi (Kata valli) identifies that vasthu as the Supreme abode of all pervasive VishNu.

COMMENTS:

Here, KurEsar refers to two Upanishads (NaarAyaNa anuvAkam and Kata Valli) that salute VishNu as the Supreme Lord. In the previous slOkam, KurEsar re ferred to two other Upanishads (MahOpanishad and SubhAlOpanishad) in this context.
The salutation of NaarAyaNAnuvAkam is: NaarAyaNa Param Brahmma tatthvam NaarAyaNa: para: | NaarAyaNa parO JyOthi: aathmA NaarAyaNa para: || The Kata Valli Passage celebrating the glory of the Lord as ParamAthmA is: VijnAna SaaraTir VijnAna SaaraTir-yasthu mana: pragrahavAn nara: yasthu mana: pragrahavAn nara: sOadhvana: pAramApnOthi tadh VishNO: Paramam padam

42

मूलम्

ज्योतिः परं परमतत्त्वम् अथो परात्मा ब्रह्मेति च श्रुतिषु यत् परवस्त्वधीतम् ।
नारायणस्तदिति तद् विशिनष्टि काचिद् विष्णोः पदं परमम् इत्यपरा गृणाति ॥ २६ ॥

श्रीनिवासः - प्रस्तावः

इदानीं वस्तुसामर्थ्याद् अपि परत्वं प्रतिपादयति-

विश्वास-प्रस्तुतिः

सन्तीदृशः श्रुति-शिरस्सु परस्(=अधिकाः) सहस्राः
वाचस् तव प्रथयितुं परमेशितृत्वम् ।
किञ् चेह न व्यजगणः कृमि-धातृ-भेदं
क्रामन् जगन्ति निगिरन् पुनर् उद्गिरंश् च ॥ २७ ॥(5)

श्रीनिवासः

सन्तीति । तव परमेशितृत्वं “ तमीश्वराणां परमं महेश्वरम्” इत्युक्तं सर्वेश्वरत्वं प्रथयितुं श्रुतिशिरस्सु सहस्रात्पराः परस्सहस्राः ईदृशः पूर्वोदाहृतश्रुतिसदृश्यः वाचः वाक्यानि सन्ति वर्तन्ते । किञ्च, जगन्ति क्रामन् त्रिविक्रमावतार इति भावः । जगन्ति निगिरन् आन्दोलयन्, प्रलये इति भावः, पुन रुद्गिरन् वमंश्च, सृष्टा विति भावः । त्वं कृमिधातृभेदं अयं कीटः, अयं चतुर्मुख इति विशेषम् इह क्रमणादिषु न व्यजगणः न विचारितवान् । विपूर्वात् गण सङ्ख्याने इति धातोः णौचङि अभ्यासे कृते लुङध्यमैकवचने रूपम् । त्रिविक्रमावतारे भगवच्चरणस्य सत्यलोका दप्यूर्ध्वगमनं सुप्रसिद्धम् । सृष्टौ भगवन्नाभिपद्मात् ब्रह्मण उत्पत्तेः प्रलयेऽपि निगिरणमर्थसिद्धमिति भावः ॥ २७ ॥ [[20]]

वरदाचार्य-शठकोपः

MEANING:

Oh Sri VaikuNTha NaaThaa! There are thousands of Upanishadic passages to salute your status as ParamAthmaa. Your KaaruNyam and Sarva Rakshathvam were well demonstrated in your avathArams. For instance, no differences were found between a lowly worm and the grand Brahma Devan at the times when You measured the worlds with three steps as Thrivikraman or when You swallowed the worlds as a small child floating innocently on the bed of a peepal leaf or when You released the world from Your stomach at the time of creation. Such is your greatness in blessing one and all with Your compassion!

COMMENTS:

BhagavAn is abhinna nimitthOpAdhana KaaraNan (Moola Vasthu as well as Sa hakAran) for the world. This is His ParamAthma Tatthvam. His greatness and dayA for all the created beings is revealed during ThrivikramAvathAram and Vada Pathra sayanAvathAram. During Thrivikrama avathAram, His sacred feet touched the heads of the mighty Brahma to the lowly worm and consecrated all of them. During His Vada Pathra sayanam, He protected His created beings from insect to mighty BrahmA by holding them in a small portion of His stom ach and then releasing them at the end of the deluge. His sacred feet during ThrivikramAvathAram have been loudly proclaimed by the VedAs like the sound emanating from a gigantic drum (“Thrivikramasya Vijaya DiNDimAy itham vEdhai:”). VishNu Sooktham celebrates them as “SamooDam asya paamsurE”

43

मूलम्

सन्तीदृशः श्रुतिशिरस्सु परस्सहस्राः वाचस्तव प्रथयितुं परमेशितृत्वम् ।
किञ्चेह न व्यजगणः कृमिधातृभेदं क्रामन् जगन्ति निगिरन् पुनरुद्गिरंश्च ॥ २७ ॥

श्रीनिवासः - प्रस्तावः

ब्रह्मविदां तत्त्व-निर्णयोपाय-प्रकारम् आह -

विश्वास-प्रस्तुतिः

रूप-श्रिया परमया, परमेण धाम्ना,
चित्रैश् च कैश्चिद् उचितैर् भवतश् चरित्रैः ।
चिह्नैर् अ-निह्नव-परैर् अपरैश् च कैश्चित्,
निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २८ ॥

श्रीनिवासः

रूपेति । विपश्चितः ब्रह्मविदः । विविधं पश्यच्चित्त्वं विपश्चित्त्वमिति निर्वचनम् । स्वरूपतः स्वभावतश्च (तत्त्व) त्रय मपि विविच्य जानन्त इति निष्कृष्टार्थः । भवतः परमया रूपस्य स्वरूपस्य विग्रहस्य वा श्रिया । उभयत्र प्रमाणम् - “ तस्य भासा सर्वमिदं विभाति”, दिवि सूर्य सहस्रस्य भवेद्युगपदुत्थिता । यदि भाः, सदृशी सा स्याद्भास स्तस्य महात्मनः इति । परमेणधाम्ना स्थानेन “आदित्यवर्णं तमसः परस्तात्”, “तदक्षरे परमे व्योमन्”, “योऽस्याध्यक्षः परमे व्योमन् ” इत्यादि । चित्रैः आश्चर्यावहैः उचितैः महिमानुगुणैः कैश्चिच्चरित्रैश्च सकलजगत्कारणादिभिः । अयमर्थः- “वेदापहार गुरुपातक दैत्यपीडा द्यापद्विमोचने” ति श्लोके स्फुटतरः । अवतारेष्वपि स्तम्भाविर्भाव हिरण्यनिबर्हण सेतुनिर्माण चराचरमोक्षप्रदान गोवर्धनोद्धरण गीतोपदेशादीनि चरित्राणि सन्ति । निह्नवः अपलापः तत्परा न भवन्तीति तथोक्तैः परत्वनिर्णयैकतत्परैरित्यर्थः । कैश्चित् प्रत्येकं तत्त्वनिर्णयशक्तै रिति भावः । अपरै श्चित्रैश्च लक्ष्मीपतित्व शेषशायित्व वैनतेयवाहनत्व तुलसीदामत्वादिलक्षणैश्च त्वयि ईशितृत्वं सर्वेश्वरत्वं निश्चिन्वते निश्चयं कुर्वन्ति ॥ २८ ॥

वरदाचार्य-शठकोपः

MEANING:

Those with discriminating intellect establish Your Supremacy among gods through the supreme luster of your body. References that deal with unique incidents connected to your life has led to yourself being saluted as the One having many abodes: 1. KsheerAbdhi/Milky Ocean, 2. VaikuNTham (tadh VishNO: Param Padham sadhA pasyanthi Sooraya:), 3. the minds of Yogis, 4. Veda Siras/Upanishads and 5. dhivya desams

COMMENTS:

Here, KurEsar gives the reasons for the intelligent people to arrive at his con clusion that BhagavAn alone is the Supreme Being. His Soumya/SubhAsraya roopam (Roopa SrI) is unique among gods. The beauty and luster of His body/ dhivya MangaLa vigraham, His weapons, His aabharaNams, His hastha Mudhrais are not matched by any other gods. Other gods have karma samb handham (Karma yOnaya:) and BhagavAn is totally untouched by karmAs. All the others are “midikkilaa devar” (those without any Srimath Gaambheeryam) as described by Thirumazhisai AzhwAr, compared to our Lord. 45

मूलम्

रूपश्रिया परमया परमेण धाम्ना चित्रैश्च कैश्चिदुचितैर्भवतश्चरित्रैः ।
चिह्नैरनिह्नवपरैरपरैश्च कैश्चित् निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २८ ॥

लक्ष्मी, माया …

श्रीनिवासः - प्रस्तावः

तेषु चिह्नेषु लक्ष्मीपतित्वस्य सर्वोत्तरत्व माह-

विश्वास-प्रस्तुतिः

यस्याः कटाक्षणम् अनुक्षणम् ईश्वराणाम् ऐश्वर्य-हेतुर् इति सर्व-जनीनम् एतत् ।
तां श्रीर् इति त्वद्-उपसंश्रयणान् निराहुः
त्वां हि “श्रियः श्रियम्” उदाहुर् उदार-वाचः ॥ २९ ॥(5)

श्रीनिवासः

[[21]]
यस्या इति । यस्याः लक्ष्म्याः कटाक्षणं कटाक्षः ईश्वराणां इन्द्रादीनां ऐश्वर्यस्य हेतु रिति कारणमिति एतत् सर्वजनीनं, सर्वजनप्रसिद्धमिति यावत् । तां तादृशीं श्रियं त्वदुपसंश्रयणात् हेतोः श्रीरिति श्रयते इति श्रीः इत्यवयव शक्त्या श्रीनामधेयेति निराहुः निरुक्तिं कुर्वन्ति, उदारवाचः विपश्चि इत्यर्थः । त्वां श्रियः श्रियम् उदाहुः उदाहरन्ति । तदुक्तं श्रीरामायणे- “श्रियः श्रीश्चभवे दया कीर्तेः कीर्तिः क्षमाक्षमा" इति । स्तोत्ररत्ने च - “कः श्रीः श्रियः " इति च ॥ २९ ॥

वरदाचार्य-शठकोपः

MEANING:

It is well known that the side-glances of Sri Devi are the root (fundamental) cause for the ever-growing wealth of all gods. Because She (SrI Devi) has joined You, She is known as “SrI”. The AchArya PurushAs like Swamy ALavan thAr and Thirumangai AzhwAr describe You therefore as “Thiruvukkum Thiru”, the Lord of the Supremely auspicious SrI Devi.

COMMENTS:

The vaibhavam of Sri Devi and the impact of that Vaibhavam on BhagavAn is alluded to in this slOkam. The pramANams about the glories of MahA Lakshmi (Sri Devi) conferring Sriya: pathithvam to Her Lord as His lakshaNam (Chinham) are: “lOkEsa-savibhUtheenAm kAraNam yannirIkshaNam” (the Iswaryam of dhik PaalakAs arise because of your auspicious glances falling on them). “BrahmAdhyasccha SurA: sarvE munayasccha tapOdhanaa: yEdhanthE tvath-padhascchAyAm aasrithya KamalEswari!” 47

मूलम्

यस्याः कटाक्षणमनुक्षणमीश्वराणाम् ऐश्वर्यहेतुरिति सर्वजनीनमेतत् ।
तां श्रीरिति त्वदुपसंश्रयणान्निराहुः त्वां हि श्रियः श्रियमुदाहुरुदारवाचः ॥ २९ ॥

श्रीनिवासः - प्रस्तावः

इतरेषाम् एतादृश-प्रमाण-गण-श्रवणं नास्ति वा इति शङ्कायामाह -

विश्वास-प्रस्तुतिः

माया त्वया गुणमयी किल या निसृष्टा
सा ते विभो! किम् इव नर्म न निर्मिमीते? ।
कौतस्-कुताः स्थिर-कुतर्क-वशेन केचित्
सत्यां(→) श्रुतौ(←वेदः/कर्णः)बधिरास् त्वयि तन्-महिम्ना ॥ ३० ॥(4)

श्रीनिवासः

मायेति । हे विभो ! सर्वेश्वर, त्वया गुणमयी सत्त्वरजस्तमोमयी ‘अजा मेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्तीं सरूपाम्” इति श्रुतिः । “सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः” इति गीतावचनम् । या माया प्रकृतिः “मायान्तु प्रकृतिं विद्या न्मायिन न्तु महेश्वरम्” इति श्रुतेः । निसृष्टा देहेन्द्रियादित्वेन प्रयुक्ता सा माया ते भवतः किमिव नर्म न निर्मिमीते, सकलां लीलां कलयतीत्यर्थः । किलेति मायाया भगवल्लीलोप- करणत्वप्रसिद्धौ । केचित् नाम ग्रहणानर्हा इति भावः । कौतस्कुताः कुतः कुत इति वदन्तः कुयुक्ति मात्रैकशरणा इति भावः । स्थिराः प्रमाणाननुगुणत्वेऽपि आग्रहपरिगृहीताश्च ते कुतर्काश्च तेषां वशेन तदेकशरणतयेति भावः । त्वयि, श्रुतौ सत्याञ्च भगवत्पारम्य पर श्रुतिशते सत्यपीत्यर्थः । तस्या मायाया महिम्ना वधिराः तादृशप्रमाणश्रवणेऽप्य- पटुकरणाः, भवन्तीति शेषः । “दैवी ह्येषा गुणमयी मम माया दुरत्यया । मा मेव ये प्रपद्यन्ते माया मेतां तरन्ति ते” इत्यादिक मनुसन्धेयम् ॥ ३० ॥ [[22]]

वरदाचार्य-शठकोपः

MEANING:

Oh ParamAthmA! That Moola Prakruthi created by you is made up of the three guNams. It is banished only when the chEtanam practices SaraNAgathy at Your sacred feet. Great indeed is the power of this Moola Prakruthi (Maayaa), which needs to be chased away with your grace. You gain a great joy, when that happens through the rite of SaraNAgathy.

Those who do not accept VedAs and ask distorted questions out of their ignorance come under the influence of Your Moola Prakruthi and attain a state of deafness and acquire aasuri-bhAvam (demonic traits) and get immersed deeply in the swirling ocean of SamsAram (VishNu Maayaa mahAvartha mOhAndha tamasaa vruthA: according to Sage ParAsara).

[[48]]

मूलम्

माया त्वया गुणमयी किल या निसृष्टा सा ते विभो! किमिव नर्म न निर्मिमीते? ।
कौतस्कुताः स्थिरकुतर्कवशेन केचित् सत्यां श्रुतौ च बधिरास्त्वयि तन्महिम्ना ॥ ३० ॥

श्रीनिवासः - प्रस्तावः

कौतस्कुतानां मायिनां प्रलापप्रकारम् आह-

विश्वास-प्रस्तुतिः

यः (कर्म-ग्रस्तः) स्थावर-कृमि-पतङ्ग-मतङ्गजादिषु
अन्येषु जन्तुषु सदैव विजायमानः
त्वं नित्य-निर्मल-निरञ्जन-निर्विकार-
कल्याण–सद्-गुण-निधे! स (कर्म-ग्रस्त) इतीरितस् तैः ॥ ३१ ॥

श्रीनिवासः

य इति । तैः बधिरैः, हे नित्य " नित्यो नित्यानां चेतनश्चेतनानाम्” इति श्रुतिप्रतिपादित, निर्मल हेयप्रतिभट, नित्यनिर्मलेत्येकं पदं वा, निरञ्जन चेतनानुप्रवेशकृतकर्मवश्यतादिसङ्गरहित, निर्विकार अचिदनुप्रवेशकृत- परिणाम रहित, कल्याणाः स्वानुसन्धातृणा मपि शुभावहाः, सन्तः चिरमुपासनार्थमारोपिता इति भावः (1. नतूपासनार्थम् आरोपिताः - इति पाठो भवेदित्यूह्यते ।), ये गुणाः तेषां निधे, निधित्वरूपणेन गुणानां निरवधिकत्वमक्षयत्वं च सूचितम् । सम्बुद्धय स्सर्वा स्साभिप्रायाः । ‘अपहतपाप्माविजरो विमृत्यु र्विशोको विजिघत्सोऽपिपास स्सत्यकामस्सत्य सङ्कल्पः” इत्युक्तमुभयलिङ्गत्वं विवक्षितम् । यः चेतनः, स्थावरा: अजङ्गमाः, क्रिमयः कीटाः, पतङ्गाः पक्षिणः, मतङ्गजाः करिणः- मृगाणा मुपलक्षण मिदम् ते आदि र्येषां तेषु आदिशब्देनानुक्ताः जन्तुजातिभेदाः गृह्यन्ते। अन्येषु त्वत्स्वरूपस्वभाव वैजात्यवत्स्वित्यर्थः । जन्तुषु जन्तुशरीरे ष्वित्यर्थः, सदैव निरन्तरं विजायमानो विविधं जायमानो भवति, स एव त्वमिति “परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति” इत्युक्तप्रकारेण ब्रह्मैव स्वमायया मोहितं जीव इति ईरितः । हेयप्रत्यनीकत्व कल्याणगुणकरत्व रूपोभयलिङ्गविशिष्टस्य तव कर्मवश्यत्वा दत्यन्तहेयतार्हजीवभावकथनमनुचितमिति भावः ॥ ३१ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Lord, who is blemishless, firmly established, untouched by the dhOshams arising from Karmaas, auspicious, unchanging unlike JaDa vasthus and stay ing as the undepletable mine of auspicious attributes! There are those with distorted views declaring that you are the Jeevan that is born again and again due to its Karmaas as tree, plant, creeper, worm, insect, birds, animals and other janthus. Your avathArams are out of your own sankalpam (volition) and are without any blemish and beyond the influence of any karmaas. Those deaf kudhrushtis do not understand your true nature and state that You are indeed the same as the Jeevan, which is distinctly karma vasyan. You are untouched by Karmaas and their influence.

COMMENTS:

VedAs salute BhagavAn as “ajAyamAnO BahudhA vijAyathE”. His birth is not like ours, which is controlled by our Karmaas. BhagavAn enters into all cre ated vasthus and makes them function. He does not undergo changes (vikAram) in Svaroopam like achEtanams or changes in SvabhAvam like Jeevan or influenced by the Karmaas (na Maam karmaNi limpanthi). There is none, who is equal or Superior to Him. BhagavAn is nithyan, nirmalan, Niran janan and nirvikAran (eternal, blemishless and changeless). He is defined by the Ubhaya Lingams (Blemishless and KalyANa guNa PoorNan). This slOkam is to answer the claims of Adhvaithis that the Supreme Being (Brahman) is Nir guNa Brahman without any attributes. BhagavAn’s incarnations are SuddhA- 49 vathArams (free from thriguNams) and SvEcchAvatharams (happening out of His own Sankalpam).

मूलम्

यः स्थावरकृमिपतङ्गमतङ्गजादिषु अन्येषु जन्तुषु सदैव विजायमानः ।
त्वं नित्यनिर्मल निरञ्जन निर्विकारकल्याणसद्गुणनिधे! स इतीरितस्तैः ॥ ३१ ॥

जगद्-धारकत्वम्

विश्वास-प्रस्तुतिः

त्वद्-दृष्टि-जुष्टम् इदम् आविर् अभूद् अशेषं,
नो चेत् कटाक्षयसि नैव भवेत् प्रवृत्तिः ।
(किं बहुना!) स्थातुं(→सत्तायै)वाञ्छति जगत् तव दृष्टिपातं
तेन श्रुतौ जगदिषे(←गद्) हि जगत् त्वम् एव ॥ ३२ ॥(5)

श्रीनिवासः

[[23]]
त्वदिति । इदं " स देव सोम्येदमग्र आसीत्”, “तमः परे देव एकी भवति” इत्युक्तप्रकारेण प्रलये विभागानर्हातिसूक्ष्मदशापन्नमिदम् । इदं शब्दः ‘सदेवे’ति वाक्यस्थः । त्वद्दृष्ट्या त्वत्सङ्कल्परूपज्ञानेन जुष्टं युक्तं, “ तदैक्षत बहु स्याम्” इति सङ्कल्पविषयं सत् इत्यर्थः । अशेषम् “इदं सर्व मसृजत" इति वत्कृत्स्नं चिदचिदात्मकप्रपञ्चजातमाविरभूत् आविर्भावं प्राप्तम् । आविरभूदित्यनेन प्रलयेऽपि सूक्ष्मतया स्थिति स्सिद्धा । नो कटाक्षयसिचेत् कटाक्षलक्ष्यं न करोषि यदि प्रवृत्तिः आविर्भावरूपा नैव भवेत् । एवकारः प्रसिद्धिसूचकः । नोचे दिति व्यतिरेकोक्तिः, ‘नाऽवेक्षसे यदि ततो भुवना न्यमूनि नाऽलं प्रभो भवितुमेव” इति श्लोकार्थज्ञापनार्था । जगत्स्थातुंस्थित्यर्थं, दृष्टिपातंकटाक्षं, चकारा दनुप्रवेशञ्च सृष्ट्यनन्तर- भाविनमिति यावत् । " अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा, तत्सृष्ट्वा तदेवानुप्राविशत्, तदनुप्रविश्य, सच्चत्यच्चाऽभवत्" इत्यादिषूक्तं वाञ्छति इच्छति, अनुप्रवेशसङ्कल्पाभ्यामेव स्थितिर्भवतीति यावत् । तेन हेतुना श्रुतौ त्वमेव जगत् जगदिषे उच्यसे हि । गदव्यक्तायां वाचि इति धातोः कर्मणि लिण्मध्यमपुरुषैकवचनम् । प्रलयदशायां सूक्ष्मचिदचिद्विशिष्टतया सच्छब्दवाच्यस्य भवतः ‘बहु स्या’मिति सङ्कल्पपूर्वकपरिणामात्, स्थित्यर्थानुप्रवेशाच्च । “सर्वं खल्विदं ब्रह्म”, “ऐतदात्म्यमिदं सर्वम्" इत्यादि श्रुतिभिश्शरीरवाचिशब्दानां शरीरिपर्यन्ताभिप्रायत्वशक्त्या त्वमेव जगदित्युच्यसे इति भावः ।। ३२ ॥

वरदाचार्य-शठकोपः

MEANING:

All the chEtana - achEtana vasthus of the world await the glances from your auspicious eyes to fall on them. If your glances do not fall on them, they can not even make a movement. For staying in existence, the objects of the world depend on your rejuvenating glances. Therefore the VedAs declare you as the World itself (sruthou tvam yEva Jagath jagadishE).

COMMENTS:

Vedam says that the acts of creation, protection and dissolution are the acts of the Supreme Being: “Tadhikshitha bahu syAm prajAyEyRthi”. From this pramAnam, it becomes clear that the Lord’s KatAksham is the root cause for the creation of the world and its beings. Swamy ALavanthAr elabo rated this Veda PramANam this way: “nAvEkshasE yadhi, tathO bhuvanAnya mUni nAlam PrabhO! bhavithumEva kutha: pravrutthi:” Oh Lord, if your glances had not fallen on the world, how could they have originated and stayed into existence?

51

मूलम्

त्वद्दृष्टिजुष्टमिदमाविरभूदशेषं नो चेत् कटाक्षयसि नैव भवेत् प्रवृत्तिः ।
स्थातुं च वाञ्छति जगत् तव दृष्टिपातं तेन श्रुतौ जगदिषे हि जगत् त्वमेव ॥ ३२ ॥

श्रीनिवासः - प्रस्तावः

पूर्वोक्तमेव विवृणोति-

विश्वास-प्रस्तुतिः

एवं भगो!(←भगोस्, पा.८.३.१९) इह भवत्-परतन्त्र एव
(नाम→)शब्दोऽपि रूपवद् अमुष्य चराचरस्य ।
ऐश्वर्यम् ईदृशम् इदं (नाम-रूप-व्याकरण-) श्रुतिषूदितं ते
(“नामरूपभाग् जगद् असत्”, “जगन्-मात्रम् ब्रह्म” इति वा वदताम्)
पापीयसाम् अयम् अहो! त्वयि मोह-हेतुः (→ईश्वरवचनम्) ॥ ३३ ॥

श्रीनिवासः

[[24]]
एवमिति । हे भगो भगवन्, “ विभाषा भवद्भगवदघवता मोच्चाऽवस्य” इति रूपसिद्धिः ।
अमुष्य परिदृश्यमानस्य चराचरस्य शब्दो नामापि रूपवत् स्वरूपवत् । एवं “अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इत्यनुप्रवेशकार्यत्वेन इह सामानाधिकरण्ये भवत्-परतन्त्र एव,

“सर्वं खल्विदं ब्रह्म",

“ज्योतींषि विष्णु र्भुवनानि विष्णुः”

इति समानाधिकरणशब्दा अपि भवद्-आत्मकत्व-निबन्धना एवेति भावः ।

ते तव इदम् ऐश्वर्यं उपादान-कारणत्वे सति
निमित्त-कारणत्व-रूपम् ऐश्वर्यं नाम गुणः
श्रुतिषूदितं बहु-श्रुति-प्रतिपादितम् ।
अयम् ऐश्वर्यगुणः, पापीयसां जायमान-सङ्कल्प-काल–कटाक्ष-हेतु–सुकृताभावेऽपि

" पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः ।
रजसा तमसा चाऽस्य मानसं समभिप्लुतम्”

इत्युक्तदेवतान्तर निरीक्षणानुगुणपापप्राचुर्यवतामित्यर्थः,

त्वयि विषये, मोहहेतुः मृत् घटः इतिवत् प्रपञ्चाभेद-भ्रम-हेतुर् इत्य्-अर्थः ।
अहो आश्चर्यं;
घण्टापथेऽपि भ्रमन्तीति भावः ॥ ३३ ॥

वरदाचार्य-शठकोपः

MEANING:

Oh Bhagavan with the six attributes of Jn~Anam, Sakthi, Balam, Iswaryam, Veeryam and Tejas! The VedAs point out that all the sentient and insentient ones have been given names and forms by you. You are indeed behind them shining as Naama Roopa Prapancham. They are totally under your control. This unique greatness of your glories makes the great sinners become filled with jealousy and get deluded in the process (anAdhi pApavAsanAmushithaas Esha - sEmusheekANAm according to AchArya RaamAnuja).

COMMENTS:

There are many pramANams quoted by SrivathsAnkAcchAr Swamy about the Lord creating the Naama-Roopa Prapancham (naamAni RoopANi vichithya dheera:, nAmaroopE vyAkarOth, nAmaroopE VyAkaravANi). None of the others are responsible for Jagath KaaraNam (na BrahmA nEsAna:). Vedam states: “yEkO ha vai NaarAyaNa aaseeth”

52

मूलम्

एवं भगो! इह भवत्परतन्त्र एव शब्दोऽपि रूपवदमुष्य चराचरस्य ।
ऐश्वर्यमीदृशमिदं श्रुतिषूदितं ते पापीयसाम् अयमहो! त्वयि मोहहेतुः ॥ ३३ ॥

श्रीनिवासः - प्रस्तावः

अन्यत्रापीश्वरशब्दप्रयोगस्य उपपत्तिमाह-

विश्वास-प्रस्तुतिः

ये त्वत्-कटाक्ष-लव-लक्ष्यम् इव क्षणं तैः
ऐश्वर्यम् ईदृशम् अलभ्यम् अलम्भि पुम्भिः ।
यत् केऽपि सञ्जगरिरे परमेशितृत्वं
तेषाम् अपि श्रुतिषु तन्-महिम-प्रसङ्गात् ॥ ३४ ॥

श्रीनिवासः

ये पुमांसः क्षणकालमात्रं त्वत्कटाक्षे लवलेशमात्रस्य लक्ष्यमिव लक्ष्यभूता इव । इवशब्दः अनादरसूचकः । अभवन्नितिशेषः । तैः पुम्भिरलभ्यं इतरदुर्लभम् ईदृशं जगत्प्रष्टृत्वरूप मैश्वर्यं अलम्भि प्राप्तम् । लभेश्च, “विभाषा चिण्णमुलो” रिति विकल्पेन नुमागमः । यत् यस्मात्कारणात्, केऽपि पुरुषा:, तेषामपि पुंसां तन्महिमप्रसङ्गात् तादृशैश्वर्यातिशयानुषङ्गात् परमेशितृत्वं सर्वाधिकमीश्वरत्वं श्रुतिषु “हिरण्यगर्भस्समवर्तताग्रे” इत्याद्यासु प्रतिपादितमिति शेषः ॥ सञ्जगरिरे [[25]] उक्तवन्तः। “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै”, " प्राजापत्यं त्वया कर्म सर्वम्मयि निवेशितम्” इति श्रुतिस्मृत्योर् विद्यमानत्वात् भगवदनुग्रहायत्तस्रष्टृत्वादिशक्तौ ब्रह्मणः प्रतिपादितायां सत्यां तदर्वाचीनानामैश्वर्यस्य भगवदायत्तत्वे कैमुतिकन्यायावतारा च्च, तत् त्वत्कटाक्षलक्ष्यत्वनिबन्धनमिति भावः ॥ ३४ ॥

वरदाचार्य-शठकोपः

MEANING:

Those occupying high positions as Brahma and Siva attained their lofty offices only though the small portion of your auspicious glances falling on them for a fraction of a second. They climbed to a state not attained ever by chEtanams. They are called even Iswarans as a result of the BhagavAn’s anupravEsam that makes them an amsam of the Lord and they follow the path laid out by BhagavAn to do their duties as the Creator (Brahma) and destroyer of the Uni verse (MahEswaran).

COMMENTS:

Oh BhagavAnn! You alone have limitless aiswaryam. When your glances fall on one due to his Poorva Janma sukrutham, that soul is blessed to attain high status as per Bhagavath GitA: Yadh yadh vibhUthimath satthvam SrimathUrjithamEva vaa tatthadhEvAvagaccha thvam Mama tEjOmsa-sambhavaath sambhavaath (Githai X: 41) About Brahma and Sivan attaining the status as Creator of the Universe and destroyer of the same, BhagavAn Himself says: “MadhAdarsitha PanTAnou srushti-samhAra kaarako”. They follow the path laid out by Him (Bhagavan) and due to His anupravEsam (entry inside them) go about performing the du ties of creation and destruction of the universe.

53

मूलम्

ये त्वत्कटाक्षलवलक्ष्यमिव क्षणं तैः ऐश्वर्यमीदृशम् अलभ्यमलम्भि पुम्भिः ।
यत् केऽपि सञ्जगरिरे परमेशितृत्वं तेषामपि श्रुतिषु तन्महिमप्रसङ्गात् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

(जीव-काल-कर्मादिष) नित्येषु वस्तुषु भवन्-निरपेक्षम् एव
तत्-तत्–स्व-रूपम् इति केचिद् इह भ्रमन्तः
ऐश्वर्यम् अत्र तव सावधि सङ्गिरन्ते,
ब्रूते त्रयी तु निरुपाधिकम् ईशनं ते ॥ ३५ ॥

श्रीनिवासः

नित्येष्विति । इह लोके भ्रमन्तः तत्तद्-विषये नित्यत्वभ्रमवन्तः केचित् नित्येषु वस्तुषु तत्तत्स्वरूपं तत्तन्नित्यवस्तुस्वरूपमित्यर्थः । भवन्निरपेक्षं त्वत्कटाक्षानपेक्षं, त्वत्सङ्कल्पानपेक्षमिति यावत् । स्वतस्सिद्धम् इति मत्वेति शेषः ।

अत्र जगत्कारणत्वे तव ऐश्वर्यं सावधि नित्यवस्तुव्यतिरिक्त-विषयम् इति सङ्गिरन्ते वदन्ति । त्रयी तु ते ईशन मैश्वर्यं निरुपाधिकं स्वाभाविकं ब्रूते वदति ।

“पतिं विश्वस्यात्मेश्वरं शाश्वतं शिव मच्युतम्", “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः”, पराऽस्य शक्ति र्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्याद्याः श्रुतय इति भावः ॥ ३५ ॥

वरदाचार्य-शठकोपः

MEANING:

In our VisishtAdhvaitha darsanam, we accept as eternal, Moola Prakruthi, Jeevans and Nithya Sooris (eternally liberated chEtanams) through Veda Pra mANams. There are others, who out of delusion contend that Your Lordship is limited in scope over these eternal entities (Iswaryams). Vedam on the other hand asserts that your control over them is total, limitless and reaches out everywhere.

COMMENTS:

Here, KurEsar criticizes the Yaadhava PrakAsa Matham, Saiva Matham and the Matham that holds that the good and bad happen to one due to the power of their karmAs and Bhagavan has no role in controlling them. KurEsar cites the Veda PramANam of “Pathim ViswasyAthmEswaram” and therefore nothing in His universe happens without His sankalpam and He is the Sattha of all pad hArTams/vasthus and they are all tied to Bhagavath Iccha. 55

मूलम्

नित्येषु वस्तुषु भवन्निरपेक्षमेव तत्तत्स्वरूपम् इति केचिदिह भ्रमन्तः ।
ऐश्वर्यमत्र तव सावधि सङ्गिरन्ते ब्रूते त्रयी तु निरुपाधिकमीशनं ते ॥ ३५ ॥

श्रीनिवासः - प्रस्तावः

नित्यानां भगवदायत्तसत्ताकत्वं कथम् इति शङ्काया माह -

विश्वास-प्रस्तुतिः

इच्छात एव तव विश्व-पदार्थ-सत्ता,
नित्यं प्रियास् तव तु केचन ते हि नित्याः ।
नित्यं त्वद्-एक-परतन्त्र–निज-स्वरूपाः (न कर्मवशाः, स्वतन्त्रा वा),
भावत्क-मङ्गल-गुणा हि निदर्शनं नः ॥ ३६ ॥

श्रीनिवासः

इच्छात इति । विश्वपदार्थानां नित्यानित्यवस्तूनां सत्ता उत्पत्तिः तव [[26]] इच्छात एव सिसृक्षारूपसङ्कल्पा देव । तर्हि नित्यत्वव्याघात इत्यत्राऽऽह- नित्यमिति । तु विशेषोऽस्ति । केचनपदार्थाः तव नित्यं प्रियाः । नित्यतयाऽपेक्षिताः अभवन्निति शेषः, ते हि नित्याः । हीति प्रसिद्धिः । अत्र दृष्टान्त उच्यते उत्तरार्धेन । हि यस्मात्कारणात् नित्यं त्वदेकपरतन्त्रं, एकशब्देन अन्यपारतन्त्र्यं व्यवच्छिद्यते । तवैव परतन्त्रं निजं स्वरूपं येषान्ते तथोक्ताः । भावत्काः भवदीया श्च ते मङ्गलगुणाः नः अस्माकं निदर्शनं दृष्टान्तः । तस्मात् नित्यानां सत्ताऽपि त्वत्सङ्कल्पायत्तेति भावः । “सत्यकाम स्सत्यसङ्कल्पः " “यस्सर्वज्ञ स्सर्ववित्” इति गुणानां नित्यतया प्रतिपादितत्वात्,
गुणानां गुण्यायत्त-सत्ताकत्वाच् च निदर्शनत्वोक्तिर् इति मन्तव्यम् ॥ ३६ ॥

English

MEANING:

Oh Bhagavann! The existence (satthaa) of all vasthus (entities) is realized only through your sankalpam. Among them, you select a few to stay eternal such as ThriguNam, Kaalam, and Suddha Satthvam Nithya VibhUthi, Nithya Sooris and Dhivya MangaLa Vigraham. The Jeevans are eternal (nithyam) in Svaroopam but become non-eternal (changing/anithyam) by SvabhAvam. Even the latter, who are nithyam in Svaroopam but anithyam in SvabhAvam, are “Iswara SankalpAsritham” - take refuge in Iswaran’s sankalpam and gain their Satthaa.

COMMENTS:

Here, KurEsar criticizes the VaisEshikAs, who accept Jn~Ana, Balaadhi sakthis but refuse to accept His sankalpa sakthi and points out that all vasthus are under the Lord’s total control through His sankalpam. This way, KurEsar es tablished Nithya VibhUthi for BhagavAn. The key pramANam here is “IcchAtha yEva tava visva-padhArTa satthaa”. 56

मूलम्

इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः ।
नित्यं त्वदेकपरतन्त्रनिजस्वरूपाः भावत्कमङ्गलगुणा हि निदर्शनं नः ॥ ३६ ॥

श्रीनिवासः - प्रस्तावः

भगवत एव जगद्-उपादान-कारणत्वे
निर्विकार-श्रुतेः का गतिर् इत्य् आशङ्क्याऽऽह-

विश्वास-प्रस्तुतिः

विश्वस्य विश्व-विध–कारणम् अच्युत! त्वं
कार्यं तद् एतद् अखिलं चिद्–अ-चित्–स्व-रूपम् ।
त्वं निर्विकार इति वेद-शिरस्सु घोषो
निस्सीमम् एव तव दर्शयतीशितृत्वम् (षाङ्-गुण्य-पूर्णता→ यत्र नास्ति विकारः) ॥ ३७ ॥

श्रीनिवासः

विश्वस्येति ।
हे अच्युत, त्वं,
इतरेषां च्यवनधर्मवत्त्वात् जगत्कारणत्वं न सम्भवतीति भावः ।
विश्वस्य कृत्स्नस्य विश्वविधञ्च तत्-कारणं, भवसीति शेषः । अखिलं सर्वं तत् प्रसिद्धं एतत् प्रत्यक्षं चिदचित्स्वरूपं तव कार्यम् । कारणस्य सर्वविधत्वम् - उपादानत्वं, निमित्तत्वं, सहकारित्वं च ।

भगवतोऽपि सूक्ष्म-चिद्-अचिद्-विशिष्ट-वेषेणोपादानत्वं,
‘बहु स्या’मिति सङ्कल्पविशिष्टवेषेण निमित्तत्वं,
कालादिविशिष्टवेषेण सहकारित्वम् - इति विभागः ।

वेदशिरस्सु वेदान्तेषु त्वं निर्विकारः विकाररहितः इति घोषः प्रवादः निस्सीमं निरवधिकं तव ईशितृत्वम् एव दर्शयति प्रकाशयति । अत्र ईशितृत्व-शब्देन षाङ्-गुण्य-पूर्णता विवक्षिता ।
वीर्यगुणकार्यत्वात्, [[27]] निर्विकारत्वस्य

”स्वयम् अविकृतत्वे सति इतरेषां विकारहेतुत्वं वीर्यम्"

इति निर्वचनम् ॥ ३७ ॥

English

MEANING:

Oh Achyutha (One who does not let down those who sought protection slip away from Him)! You are indeed the various reasons (KaaraNams) for all (tvam visvasya visva-vidha kAraNam) All the sentient and insentient of this universe are under your control. (Chidhachith svaroopam tadh yEthath akhilam tava Kaaryam) You do not undergo any changes (tvam nirvikAra:). This nirvikAra svaroopam and celebration of it in loud voice by the Upanishads is a demonstration of Your Supreme Lordship over every thing in this universe (tvam nirvikAra ithi vEda-sirassu ghOsha: tava yEva nissemam darsayathi).

COMMENTS:

This slOkam was constructed to refute the views of strict logicians, Paasu patha Matha anusAris and the followers of Bhaaskara Matham. They hold the view that the Supreme Being undergoes VikArams (changes/Brahma svaroopa pariNAmams). Vedam and their siras bhAgam, the Upanishads instruct us that BhagavAn, the Sarva charAcharAthma is nirvikAran (changeless): “Nishkalam nishkriyam Saantham niravadhyam niranjanam” The Upanishads state that for the indwelling ParamAthmA, there are no changes. When a child becomes adult, the changes (Kaaryathvam) are in the body and not in the Aathmaa. NimithOpAdhana kaaraNams are distinct from each other. When a pot is cre ated by a potter, the clay, the stick to shape it and the wheel to rotate the pot in formation are needed to complete the construction of the pot. These are the three kinds of kaaraNams: 57

  1. The clay is known as the UpAdhAna KaaraNam. 2. The stick and the wheeel (DhaNda-chakram) are known as the Sa hakAri KaaraNam. 3. The man who makes the pot (the Potter/ Kuyavan) is recognized as Nimittha KaaraNam. Moola Prakruthi out of which the world is made, the ChEthanAchEthanams and the Lord who creates the world are different from one another. It is impossi ble therefore for the Lord (Nimitthan) to transform into UpAdhAnam and un dergo the vikArams such as pot as per this view. Therefore, we conclude that NimitthOpadhAna KaaraNams are quite different from each other is the cor rect view as advocated by VisishtAdhvaitham.
मूलम्

विश्वस्य विश्वविधकारणमच्युत! त्वं कार्यं तदेतदखिलं चिदचित्स्वरूपम् ।
त्वं निर्विकार इति वेदशिरस्सु घोषो निस्सीममेव तव दर्शयतीशितृत्वम् ॥ ३७ ॥

श्रीनिवासः - प्रस्तावः

इदानीं लौकिक-घटादि-निर्मातृ-दृष्टान्त-निबन्धन-शङ्कां परिहरति-

विश्वास-प्रस्तुतिः

किं-साधनः? क्व निवसन्? किम्-उपाददानः?
कस्मै फलाय सृजतीश इदं समस्तम्? ।
इत्य्-आद्य्-अ-निष्ठित-कुतर्कम् अ-तर्कयन्तस्
त्वद्-वैभवं श्रुति-विदो विदुर् अप्रतर्क्यम् ॥ ३८ ॥(5)

श्रीनिवासः

किमिति । श्रुतिविदः वेदान्ततात्पर्यविदः इत्यर्थः । ईश स्सर्वेश्वरः किं साधन मस्येति किं साधनः कुलालस्य घटनिर्माणे दण्डचक्रादिसाधनं दृष्टं, तद्वत् जगन्निर्माणे ईश्वरस्य साधनं किमिति भावः । क्व निवसन् कुत्र वसन् सन्नित्यर्थः, किं वस्तु उपाददानः मृत्पिण्डवत् कि मुपादानद्रव्यतया गृह्णन् सन् कस्मै फलाय, घटनिर्माण मुदकाहरणाय, तद्वत् कस्मै प्रयोजनाय समस्तमिदं सृजति
इत्यादिः अनिष्ठितः क्वचिद् अप्यप्रतिष्ठितश् च यः कुतर्कः तर्काभासः तम्, आदिशब्देन नामरूपादिविचारो गृह्यते,
अतर्कयन्तः अचिन्तयन्तस् सन्तः त्वद्वैभवं अप्रतर्क्यं लौकिकदृष्टान्तनिबन्धनाक्षेपानर्हं विदुः ज्ञातवन्तः । तथा च श्रुतयः

“ पराऽस्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च"

इत्याद्याः ॥ ३८ ॥

English

MEANING:

KurEsar poses a rhetorical question here: Oh SarvEswaraa! What phalans you have in mind when you create all these chEtanams and achEtanams from Moola Prakruthi and what instruments do you use? And where do you stay, while you engage in Jagath Srushti? The answer is of course that you do not anticipate any phalans for your leelai of Srushti and yet people with distorted logic (Kutarkis) venture to attribute all kinds of reasoning for your engagement in the creation of the world. Those who are experts in the VedAs however understand that your glories and rea soning are beyond our ken.

COMMENTS:

BhagavAn is known as avAptha Samastha Kaamaan or one who has gained all desires and is not in want of anything. There is nothing He has to do in all the three worlds to gain phalans. Swamy ALavanthAr in Iswara Siddhi therfore asks: AathmakAmasya Kaa Spruhaa? Where is the urge for one who has every thing (Iswaryam) to seek more? He does not need any instruments to create all beings from Moola Prakruthi. He is Sarva Sakthan. He does not stay at one place or seek any aadhAram to stay put to create since He is again all-powerful. If He becomes upAdhAna KaaraNam (Moola prakruthi), then He will have to undergo VikArams (changes) and that is against the Vedic revelations. 59

The answer to the first question on what are the help/instruments that You use to create is: He creates with the help of His KaaruNya GuNam and Sri Devi. He does not need any limbs (accessories /saadhanams) to create the Universe and its be ings, since Upanishads state that He sees without eyes, He hears without ears and he moves without legs and grabs without hands (pasyath achakshu:, sa sruNOthy akarNa:, apaaNI-PaadhO javanO gruheethaa). This is Brahma Lak shaNam and He is established in His own vaibhavam (svE mahimna: pra thishtitha:) The answer to the next question on where He stays, while He creates is: He is SvAdhaaran or rooted in Himself and therefore, He does not need any aadhAram to stay still to create. He can create without staying put in one par ticular location. The answer to the third question on what is UpAdhAna vasthu for creation is: He has adhbhutha /Vichithra sakthi and uses His power of volition (nija sankalpam) to create the universe out of Moola Prakruthi. The answer for the fourth question on what Phalan or PrayOjanam that he ex pects in Srushti vyApAram is: He creates the Universe and its beings, gives them senses, indhriyams, Saasthrams to follow and hopes that they (the jeevans) will attain sadhgathi. Brahma Soothram: “LOkavatthu leelA Kaivalyam” also answers this question. Brahman Possesses special inherent power by means of which it can evolve itself into the universe without affecting its svaroopam. Brahman enters into the created objects (anupravEsam) along with the Jeevan to give them names and forms (naama-roopa vyAkaraNa).

मूलम्

किंसाधनः? क्व निवसन्? किमुपाददानः? कस्मै फलाय सृजतीश इदं समस्तम्? ।
इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः त्वद् वैभवं श्रुतिविदो विदुरप्रतर्क्यम् ॥ ३८ ॥

श्रीनिवासः - प्रस्तावः

एवम् अप्य् अवाप्त-समस्त-कामस्य फलापेक्षाऽसम्भवात्

‘प्रयोजनम् अनुद्दिश्य
न मन्दोऽपि प्रवर्तते’

इति न्यायात्
सृष्ट्यादि-प्रवृत्तिः कथम् इत्य् आशङ्कायाम् आह -

विश्वास-प्रस्तुतिः

यत् संवृतं दश-गुणोत्तर–सप्त-तत्त्वैर्
(पृथिव्यप्तोजोवाय्वाकाशाहङ्कार-महदाख्यैः)
अण्डं चतुर्-दश-जगद्–भव-धातृ-धाम ।
अण्डानि तत्-सु-सदृशानि परश्-शतानि क्रीडा-विधेस् तव परिच्छदताम् अगच्छन् ॥ ३९ ॥

श्रीनिवासः

[[28]]

यदिति । दशगुणोत्तरैः पूर्वपूर्वतत्त्वापेक्षया उत्तरोत्तरदशगुणैः सप्तसङ्ख्याकैस् तत्त्वैः पृथिव्यप्तोजोवाय्वाकाशाहङ्कार-महदाख्यैः तत्त्वैः संवृतं वेष्टितं चतुर्दशसंख्याकानि जगन्ति यस्मिन् तत्, भवधात्रोः शिवचतुर्मुखयोः धाम वासस्थानं, तयोः अण्डान्तर्वर्तिचेतनप्रधानत्वा दिति भावः । यत् अण्डं तस्य सुतरां सदृशानि परश्शतानि अण्डानि च तव क्रीडाविधेः लीलाविधानस्य परिच्छदतां उपकरणतां अगच्छन् प्रापुः । असंख्याताण्डनिर्माणस्य प्रयोजनं केवललीलैवेति भावः ॥ ३९ ॥

मूलम्

यत् संवृतं दशगुणोत्तरसप्ततत्त्वैः अण्डं चतुर्दशजगद् भवधातृधाम ।
अण्डानि तत्सुसदृशानि परश्शतानि क्रीडाविधेस्तव परिच्छदतामगच्छन् ॥ ३९ ॥

परम-पदम्

श्रीनिवासः - प्रस्तावः

अथ पूर्वोक्तम् अर्थम् अनूद्य
विशिष्यन् नित्यविभूतियोगमाह -

विश्वास-प्रस्तुतिः

इच्छा-विहार-विधये विहितान्य् अमूनि (अण्डानि)
स्यात् त्वद्-विभूति-लव-लेश-कलायुतांशः
या वै न जातु परिणाम-पदास्पदं सा
कालातिगा तव परा महती विभूतिः ॥ ४० ॥

श्रीनिवासः

इच्छेति ।
इच्छ-विहार-विधये स्वैर-लीला-विधानाय
विहितानि सृष्टानि
अमून्य् अण्डानि त्वद्विभूतेः त्वन्महिम्नः यो लवः तस्य यो लेशः तस्य या कला अंशः तस्य अयुतांशः दशसहस्रतमांशः स्यात् । “कस्यायुतायुत शतैककलांशकांशे विश्व विचित्रचिदचित्प्रविभागवृत्तम्” इति स्तोत्ररत्नार्थोऽनुसंहितः । या विभूतिः जातु कदाऽपि परिणामपदास्पदं परिणमते इति व्यवहारास्पदं न भवति । कालातिगा काल कृतपरिणामवत्त्व मतिक्रान्ता, परा अन्या विभूति: महती । “पादोऽस्य विश्वा भूतानि त्रिपादस्या मृतं दिवि” इति श्रुते रिति भावः ॥ ४० ॥

मूलम्

इच्छाविहारविधये विहितान्यमूनि स्यात् त्वद्विभूतिलवलेशकलायुतांशः ।
या वै न जातु परिणामपदास्पदं सा कालातिगा तव परा महती विभूतिः ॥ ४० ॥

श्रीनिवासः - प्रस्तावः

अथ पञ्चभिः श्लोकैः परमपद मेव वर्णयति

विश्वास-प्रस्तुतिः

यद् “वैष्णवं हि परमं पदम्” आमनन्ति
खं वा यद् एव “परमं तमसः परस्तात्” ।
तेजोमयं परम-सत्त्वमयं ध्रुवं यद्
आनन्द-कन्दम् अतिसुन्दरम् अद्भुतं यत् ॥ ४१ ॥

श्रीनिवासः

29
44
यदिति । यत् - यच्छब्दानां " वैकुण्ठनाम तव धाम तदमनन्ति” इत्युत्तरत्रान्वयः । वैष्णवं विष्णुसम्बन्धि परमं पद मामनन्ति आम्नायाः वदन्तीत्यर्थः । “तद्विष्णोः परमं पदम् सदा पश्यन्ति सूरय” इति श्रुतिः । य देव परमं खं वा परमाकाशञ्च आमनन्ति । वा च शब्दार्थे । “ तदक्षरे परमे व्योमन् ” इति श्रुतिः । यत्तमसः परस्तात्, परमसत्त्वमयं निष्कृष्टसत्त्वस्वरूपं, यदेव तेजोमयं ध्रुवञ्च भवति सुन्दरं अतएव अद्भुतं यदानन्दकन्दम् “यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान्, न बिभेति कदाचन" इत्युक्तानन्दहेतुश्च भवति ॥ ४१ ॥

मूलम्

यद्वैष्णवं हि परमं पदमामनन्ति खं वा यदेव परमं तमसः परस्तात् ।
तेजोमयं परमसत्त्वमयं ध्रुवं यद् आनन्दकन्दम् अतिसुन्दरम् अद्भुतं यत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

यद् ब्रह्म-रुद्र–पुरुहूत-मुखैर् दुर्-आपं
नित्यं निवृत्ति-निरतैः सनकादिभिर् वा ।
सायुज्यम् उज्ज्वलम् उशन्ति यद्-आपरोक्ष्यं(=अपरोक्षताम्)
यस्मात् परं पदम् अञ्चितम् अस्ति किञ्चित् ॥ ४२ ॥

श्रीनिवासः

यदिति । ब्रह्मरुद्रपुरुहूताः मुखं आदिः येषां तैः सृष्टिसंहारक- त्रैलोक्याधिपत्यादिशक्तियुक्तै रपीति भावः । यत् दुरापं दुष्प्रापं नित्यं निवृत्तिनिरतैः प्रपत्तिधर्मनिष्ठैः “भगवत्प्रवृत्तिविरोधिस्वप्रवृत्तिनिवृत्तिः प्रपत्तिः" इति लक्षणम् । सनकादिभिर्वा । वा शब्दो ब्रह्मादिभ्योऽप्येषा- मतिशयसूचनार्थः । यद्दुराप मित्यनुषङ्गः । यस्य आपरोक्ष्यं साक्षात्कारं उज्ज्वलं मुख्यं सायुज्यम् - समानेन गुणेन युक् सयुक् ब्रह्मणा समानगुणः तस्य भावः सायुज्यं ज्ञानानन्दाद्याविर्भावः परमपदप्राप्ति-समकालिक इति भावः । उशन्ति, इच्छन्ति वदन्तीत्यर्थः । ब्रह्मविद इति शेषः । यस्मात्परं अञ्चितं पूजितं, महनीयं किञ्चित्पदं नाऽस्ति न विद्यते ॥ ४२ ॥

मूलम्

यद् ब्रह्मरुद्रपुरुहूतमुखैर्दुरापं नित्यं निवृत्तिनिरतैः सनकादिभिर्वा ।
सायुज्यमुज्ज्वलमुशन्ति यदापरोक्ष्यं यस्मात् परं न पदमञ्चितमस्ति किञ्चित् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

रूपेण, सद्-गुण-गणैः, परया समृद्ध्या,
भावैर् उदार-मधुरैर्, अपि वा महिम्ना ।
तादृक् तद् ईदृग् इदम् इत्य् उपवर्णयन्त्यो
वाचो यदीय-विभवस्य तिरस्क्रियायै ॥ ४३ ॥

श्रीनिवासः

रूपेणेति । रुपेण " न तत्र सूर्यो भाति" इत्युक्तेन रूपेण तेजसा, सद्भिर्गुणगणैः निरतिशयानन्दावहत्वादिगुणसमाजैः, परया समृद्ध्या “यत्र नाऽन्यत् पश्यति नाऽन्यच्छृणोति" इत्युक्तसमृद्ध्या, उदाराश्च मधुराश्च तैः महद्भिः भेग्यैश्च, भावैः पदार्थै : आस्थानरत्नादिभिरिति भावः । महिम्नाऽपि वा ब्रह्मादिदुष्प्रापत्वरूपाद्यतिशयेनाऽपि वा तत् तादृक् अपरिदृष्टलोकस्वरूपस्वभावयुक्तं, इद मीदृक् परिदृष्टलोकस्वरूप- स्वभावयुक्तमिति वर्णयन्त्यो वाचः यदीयविभवस्य यदीयातिशयस्य तिरस्क्रियायै तिरोधानाय भवन्ति, अवाङ्मनसगोचररूपादिमत स्तस्य परिच्छिद्य वर्णनं तिरोधायकमिति भावः ॥ ४३ ॥

30

मूलम्

रूपेण सद्गुणगणैः परया समृद्ध्या भावैरुदारमधुरैरपि वा महिम्ना ।
तादृक् तद् ईदृगिदम् इत्युपवर्णयन्त्यो वाचो यदीयविभवस्य तिरस्क्रियायै ॥ ४३ ॥

विश्वास-प्रस्तुतिः

यद् वृद्ध्य्-अपक्षय-विनाश-मुखैर् विकारैर्
एतैर् असंस्तुतम्, अनस्तमितास्ति-शब्दम् (→अनश्वरम्)
यद्-गौरवात् श्रुतिषु फल्गु फलं क्रियाणाम्
आदिष्टम् अन्यद् अ-सुखोत्तरम् अध्रुवं च ॥ ४४ ॥

श्रीनिवासः

यदिति ।
यत्,
वृद्धिश् च अपक्षयश् च विनाशश् च मुखं आदिर्येषां तैः ।
एतैः घटादिषु परिदृश्यमानैः विकारै:
असंस्तुतं अपरिचितम् ।
“संस्तवः स्यात्परिचयः” इत्यमरः ।

अस्ति जायते परिणमते एधते अपचीयते प्रणश्यति
इति षड्-भाव-विकारास् सन्ति ।
अत्र अनस्तमितः अस्तिशब्दो यस्य तत्तथोक्तम् ।
एतेन मुख-शब्देन जनन-परिणामौ गृह्येते इति मन्तव्यम् ।
अनस्तमितास्ति-शब्दं
यद् अपक्षयविनाशमुखैर् एतैर् विकारैर् असंस्तुतम् इति वाऽन्वयः । यद्गौरवात् यस्य वैभवमपेक्ष्य इत्यर्थः ।

श्रुतिषु अन्यत्, क्रियाणां ज्योतिष्टोमादिकर्मणां फलं फल्गु असारं असुखोत्तरं दुःखोदर्कम् अध्रुवम् अनित्यञ्च आदिष्टं प्रतिपादितमित्यर्थः ।

" तदक्षरे परमे व्योमन् “,
“ तद्विष्णोः परमं पदम् सदा पश्यन्ति सूरयः”,
“न च पुनर् आवर्तते”,
“ते ह नाकम् महिमानस् सचन्ते
यत्र पूर्वे साध्या स्सन्ति देवाः "

इत्याद्युक्त-नित्य-मुक्त-निरन्तरानुभाव्य-परम-पद-गौरवे विचार्यमाणे

“गतागतं कामकामा [[31]] लभन्ते”,
“क्षीणे पुण्ये मर्त्यलोकं विशन्ति”,
“तद्यथेह कर्मचितो लेकः क्षीयते
एवमेवामुत्र पुण्यचितो लोकः क्षीयते”

इत्याद्युक्त्या कर्मचितो लोकः फल्गुत्वादिविशिष्ट इति भावः ॥ ४४ ॥

मूलम्

यद् वृद्ध्यपक्षयविनाशमुखैर्विकारैः एतैरसंस्तुतम् अनस्तमितास्तिशब्दम् ।
यद्गौरवात् श्रुतिषु फल्गु फलं क्रियाणाम् आदिष्टमन्यदसुखोत्तरमध्रुवं च ॥ ४४ ॥

विश्वास-प्रस्तुतिः

निष्कल्मषैर् निहत-जन्म-जरा-विकारैः
भूयिष्ठ-भक्ति-विभवैर् अ-भवैर् अवाप्यम्
अन्यैर् अ-धन्य-पुरुषैर् मनसा ऽप्य् अनाप्यं
वैकुण्ठ-नाम तव धाम तद् आमनन्ति ॥ ४५ ॥

श्रीनिवासः

निष्कल्मषैरिति । निर्गतं कल्मषं येभ्यस्तैः कर्मयोगानुष्ठाननिर्धूत- पापैरिति भावः । अभवैः भवेच्छारहितै रित्यर्थः । ज्ञानिभिरिति यावत्, ज्ञानयोगकथनस्यापेक्षितत्वात् । अन्यथा निहतजन्मजराविकारैः इत्यनेन पुनरुक्तेश्च । भूयिष्ठः अतिमहान् भक्तिविभवः यैषान्तैः अतएव निहतजन्मजराविकारै: मुक्तै रित्यर्थः । अवाप्यं प्राप्यम्, अन्यै रधन्यपुरुषैः । कर्मज्ञानभक्तिविहीनैः मनसाऽप्यनाप्यं दुष्प्रापं वैकुण्ठमिति नाम यस्य तत्, अयं तच्छब्दः पूर्वप्रयुक्तसर्वयच्छब्द प्रतियोगी । तव धाम आवासस्थानं आमनन्ति आम्नायाः वदन्ति । " आदित्यवर्णं तमसः परस्तात्”, “यो अस्याध्यक्षः परमे व्योमन्” इत्याद्या इति भावः ॥ ४५ ॥

मूलम्

निष्कल्मषैर्निहतजन्मजराविकारैः भूयिष्ठभक्तिविभवैरभवैरवाप्यम् ।
अन्यैरधन्यपुरुषैर्मनसाऽप्यनाप्यं वैकुण्ठनाम तव धाम तदामनन्ति ॥ ४५ ॥

श्रीनिवासः - प्रस्तावः

उक्तम् उपसंहरन् भगवतो ऽतिशयान्तराण्य् आह-

विश्वास-प्रस्तुतिः

नित्या तवान्य-निरपेक्ष-महा-महिम्नो
ऽप्य् एतादृशी निरवधिर् नियता विभूतिः
ज्ञानादयो गुण-गणाः समतीत-सीमा
लक्ष्मीः प्रिया, परिजनाः पतगेन्द्र-मुख्याः ॥ ४६ ॥(5)

श्रीनिवासः

नित्येति । अन्यनिरपेक्षः हेत्वन्तरनिरपेक्षः महान् निरवधि: महमा यस्य तस्य तवाऽपि, अपिशब्दो विभूत्याद्यभावेऽपि महिम्नो निरवधित्वं सूचयति, नित्या निरवधिः एतादृशी विभूतिः नियता अनपायिनी [[32]] नियतभोगोपकरणं भवतीति भावः । समतीता सीमा अवधि र्यैस्ते समतीतसीमाः अत्र सीमाशब्दः आकारान्तः “सीमसीमे स्त्रिया मुभे " इत्यमरः । ज्ञानादयः अत्र ज्ञानादय इत्यनेन स्वरूपनिरूपक ज्ञानानन्दादयः, निरूपितस्वरूपविशेषणभूताः ज्ञानशक्त्यादयश्च गृह्यन्ते । गुणगणा: नियता इत्यनुषङ्गः । लक्ष्मीः प्रिया नियता नित्यं प्रिया अनपायिनीत्यर्थः । “राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णो रेषाऽनपायिनी " इत्युक्ते रितिभावः । पतगेन्द्रः पक्षिराजो मुख्यो येषां ते परिजनाः नियताः । पतगेन्द्रस्य मुख्यत्वं वेदात्मतया भगवत स्स्वरूपरूपगुणविभूत्यादिनित्यसाक्षात्कारानुगुणदर्पणस्थानीयत्वा दिति मन्तव्यम् । अय मर्थः श्रीपराशरभट्टारकै रपि “श्रुतिमयम्” इति श्लोके अनुसंहितः ॥ ४६ ॥

मूलम्

नित्या तवान्यनिरपेक्षमहामहिम्नोऽप्येतादृशी निरवधिर्नियता विभूतिः ।
ज्ञानादयो गुणगणाः समतीतसीमाः लक्ष्मीः प्रिया परिजनाः पतगेन्द्रमुख्याः ॥ ४६ ॥

गुणाः

सगुणता

श्रीनिवासः - प्रस्तावः

सम्प्रति भगवद्-गुणानां सर्व-प्रकारातिशयं,
भगवतस् तन्-निरपेक्षातिशय-विषयत्वञ्चाऽऽह -

विश्वास-प्रस्तुतिः

एकस्य येषु हि गुणस्य लवायुतांशः
स्यात् कस्यचित् स खलु वाङ्-मनसातिग-श्रीः ।
ये तादृशोऽत्यवधयः समतीत-सङ्ख्यास्
त्वत्-सद्-गुणास् त्वम् असि तन्-निरपेक्ष-लक्ष्मीः ॥ ४७ ॥

श्रीनिवासः

एकस्येति । येषु त्वद्गुणेषु एकस्य गुणस्य लवस्य अयुतांशः दशसहस्रांशः कस्यचित् यस्य कस्याऽपि स्यात्, यदीति शेषः । हि हेतौ ते नैव हेतुनेत्यर्थः । सः वाङ्गनसे अतिगा अतिक्रान्ता श्रीः यस्य सः तथोक्तः स्यात् खलु। तादृशः उक्तप्रकारविशिष्टाः, अतिक्रान्तः अवधिः परिच्छेदः यै स्ते तथोक्ताः ते प्रसिद्धाः त्वत्सद्गुणाः भवत्कल्याणगुणाः समतीता सङ्ख्या यैस्ते तथोक्ताः सङ्ख्या तु मशक्या इत्यर्थः, भवन्तीति शेषः । त्वं तन्निरपेक्षा तादृशगुणानपेक्षा लक्ष्मीः सम्पत् अतिशयो यस्य तथोक्तोऽसि । त्वदीयातिशयो भवत्कल्याण गुणायत्तो न भवतीति भावः ।। ४७ ।।

मूलम्

एकस्य येषु हि गुणस्य लवायुतांशः स्यात् कस्यचित् स खलु वाङ्मनसातिगश्रीः ।
ये तादृशोऽत्यवधयः समतीतसङ्ख्याः त्वत्सद्गुणास्त्वमसि तन्निरपेक्षलक्ष्मीः ॥ ४७ ॥

श्रीनिवासः - प्रस्तावः

उक्तमर्थमेव विवृणोति -

विश्वास-प्रस्तुतिः

सर्वस्य चैव गुणतो हि विलक्षणत्वम्,,
ऐश्वर्यतश् च किल कश्चिद् उदञ्चितः स्यात् ।
तत् प्रत्युत (विपरीतम्) त्वयि विभो! विभवो गुणाश् च
सम्बन्धतस् तव भजन्ति हि मङ्गलत्वम् ॥ ४८ ॥ (4)

श्रीनिवासः

सर्वस्येति । सर्वस्य च पुंसः विलक्षणत्वं सजातीयेभ्यः उत्कृष्टत्वं गुणत एव हि भवति;
गुणवत एव किलोत्कृष्टत्वं भवतीति भावः ।
कश्चित् नामधेय-शून्यो ऽपीति भावः । ऐश्वर्यतः किल उदञ्चितः सुतरां पूजितः स्यात् ।
चकारः क्रियाद्वयसमुच्चयार्थः ।

हे विभो, तत् पूर्वोक्तम् उभयम् अपि त्वयि प्रत्युत, विपरीतम् इति शेषः ।
हि यस्मात्कारणात् विभवः ऐश्वर्यं गुणाश्च तव सम्बन्धतः, मङ्गलत्वं कल्याणत्वं भजन्ति । अतः त्वं तन्निरपेक्षलक्ष्मीरिति भावः । ज्ञानानन्दादिस्वरूपगुणस्य ज्ञानशक्त्यादि- धर्मभूत गुणस्य च जीवे विद्यमानत्वेऽपि परिच्छिन्नत्वं दृश्यते । " स एको मानुष आनन्दः” इत्यादौ “यतो वाचो निवर्तन्ते” इत्यादौ तैषा मेवाऽपरिच्छिन्नत्ववचनं त्वत्सम्बन्धनिबन्धनं दृश्यते । अतो गुणाना मतिशयो न स्वरूपप्रयुक्त इति सम्प्रदायः ॥ ४८ ॥

मूलम्

सर्वस्य चैव गुणतो हि विलक्षणत्वम् ऐश्वर्यतश्च किल कश्चिदुदञ्चितः स्यात् ।
तत् प्रत्युत त्वयि विभो! विभवो गुणाश्च सम्बन्धतस्तव भजन्ति हि मङ्गलत्वम् ॥ ४८ ॥

श्रीनिवासः - प्रस्तावः

तर्हि निर्गुणत्वश्रुतेः का गतिरित्यत्राऽऽह -

विश्वास-प्रस्तुतिः

दूरे गुणास् तव तु सत्त्व-रजस्-तमांसि
तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् ।
नित्यं हरे! निखिल-सद्गुण-सागरं हि
त्वाम् आमनन्ति परमेश्वरम् ईश्वराणाम् ॥ ४९ ॥

श्रीनिवासः

दूरे इति । हे हरे सत्त्वरजस्तमांसि गुणास्तु तव दूरे, तै रस्पृष्ट इत्यर्थः । शुद्धसत्त्वमात्रगुणाकर इति यावत् । तेन हेतुना “सत्त्वादयो न सन्तीशे यत स्ते प्रकृते गुणाः” इत्युक्ते रिति भावः । तेन हेतुना त्रयी त्वयि निर्गुणत्वं [[34]] प्रथयति प्रकाशयति । “निर्गुणं निरञ्जन” मित्यादिकेति भावः । ईश्वराणां परमेश्वरं त्वां “तमीश्वराणां परमं महेश्वरम्" इत्युक्तं त्वाम् । अनेनेश्वरस्यैव सगुणत्वं, परब्रह्मणस्तु निर्गुणत्व मित्युक्तिरपि निरस्तेति ज्ञेयम् । नित्यं निखिलानां सद्गुणानां सागर मामनन्ति । सागरत्वोक्ति र्गुणाना मपरिच्छिन्नत्वसूचनार्था । " यस्सर्वज्ञ स्सर्ववित्", “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च “, ‘सत्यकाम स्सत्यसङ्कल्पः” इत्यादिकाः श्रुतयो वदन्तीति भावः ॥ ४९ ॥

मूलम्

दूरे गुणास्तव तु सत्त्वरजस्तमांसि तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् ।
नित्यं हरे! निखिलसद्गुणसागरं हि त्वामामनन्ति परमेश्वरमीश्वराणाम् ॥ ४९ ॥

ज्ञानम्

श्रीनिवासः - प्रस्तावः

ज्ञानस्वरूपस्य भगवतः
कथं ज्ञान-गुणकत्वं
उभयोरपि ज्ञानत्वाविशेषाद्
गुण-गुणि-भावानुपपत्तेर्
इत्य् आशङ्क्य
दृष्टान्त-मुखेन परिहरति -

विश्वास-प्रस्तुतिः

ज्ञानात्मनस् तव तद् एव गुणं गृणन्ति
तेजोमयस्य हि मणेर् गुण एव तेजः ।
तेनैव विश्वम् अ-परोक्षम् उदीक्षसे त्वं
रक्षा त्वद्-ईक्षणत एव यतोऽखिलस्य ॥ ५० ॥(5)

श्रीनिवासः

ज्ञानेति । ज्ञानम् एवाऽऽत्मा स्वरूपं यस्य तस्य तव
तदेव ज्ञानम् एव गुणं धर्मभूतं गृणन्ति वदन्ति,
ब्रह्मविद इति शेषः ।
हि यस्मात्कारणात्
तेजोमयस्य तोजोरूपस्य मणेः रत्नस्य;
मणेरिति द्यु-मणि-प्रभृतीनाम् अपि उपलक्षणम्।
तेजः प्रभा गुण एव
तेनैव ज्ञानेनैव
विश्वं कृत्स्नं अपरोक्षं प्रत्यक्षं यथा तथा
उदीक्षसे पश्यसि
यतः कारणात्
अखिलस्य सत्तामात्रयोगिनः सकलस्य जन्तोः
रक्षात्व-दीक्षणत एव,
नाऽन्येभ्यो हेतुभ्य इति भावः ।
अतो विश्वम् उदीक्षसे इति पूर्वेणान्वयः ।

यद्वा, यतः त्वदीक्षणतः यस्माद् भवदीक्षणाद् एव रक्षा इत्यन्वय स्सम्भवति ।

तेजसो द्रव्यत्वेऽपि आश्रयाश्रयिभावनैयत्यात्
प्रभाप्रभावद्रूपेण यथा गुणगुणि भावः,
तथा ज्ञानस्य द्रव्यत्वेऽपि स्व-रूप-भूत-ज्ञानस्य, धर्म-भूत-ज्ञानस्य च नियताश्रयाश्रयि-भावेन
गुण-गुणि-भाव उपपन्नः इति भावः (4)।। ५० ।।

मूलम्

ज्ञानात्मनस्तव तदेव गुणं गृणन्ति तेजोमयस्य हि मणेर्गुण एव तेजः ।
तेनैव विश्वमपरोक्षमुदीक्षसे त्वं रक्षा त्वदीक्षणत एव यतोऽखिलस्य ॥ ५० ॥

श्रीनिवासः - प्रस्तावः

[[35]]
पूर्वं भगवत्-स्वरूप-निरूपण-प्रकरणे प्रतिपादितम्
आनन्दस्य अपरिच्छिन्नत्वम् एव
गुण-प्रकरणे विवृणोति -

विश्वास-प्रस्तुतिः

त्रय्य् उद्यता तव युवत्व-मुखैर् गुणौघैर् (→“युवा स्यात्” इत्युपक्रमाद्)
आनन्दम् एधितम् इयान् इति सन्नियन्तुम्
“ते ये शतं” त्व् इति परम्परया प्रवृत्ता
नैवैष वाङ्-मनस-गोचर इत्य् उदाह ॥ ५१ ॥

(“यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान्” इत्य् उपसंहारात्)

श्रीनिवासः

त्रयीति । तव एधितं प्रवृद्धम् आनन्दं युवत्वं यौवनं मुख मादिर्येषां तैः गुणौघैः गुणगणैः ।
“युवा स्यात्” इत्युपक्रमाद् इति भावः । इयान् इयत्परिमाण इति सन्नियन्तुं परिच्छेत्तुं उद्यता उद्युक्ता त्रयी आनन्दवल्ली परम्परया पूर्वोक्ते ष्वपर्यवसाना दिति भावः । " ते ये शतम्" इति प्रवृत्ता ते ये शतमिति प्रवृत्तियुक्ता सती
एष तु ब्रह्मानन्दस्तु वाङ्मनसयोः गोचरः विषयः नैव न भवत्येवेति उदाह उच्चैर्वदति, सर्वजनसुप्रसिद्धं घोषं करोतीति भावः ।

युवा स्यात् साधु युवाध्यायकः
आशिष्ठो द्रढिष्ठो बलिष्ठः,
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्,
स एको मानुष आनन्दः ।
ते ये शतं मानुषा आनन्दाः

इत्यारभ्य

“ते ये शतं प्रजापतेरानन्दाः,
स एको ब्रह्मण आनन्दः”

इत्युक्त्या तद्-अनन्तरं

“यतो वाचो निवर्तन्ते,
अप्राप्य मनसा सह,
आनन्दं ब्रह्मणो विद्वान्”

इत्य् उपसंहारादिति भावः ॥ ५१ ॥

मूलम्

त्रय्युद्यता तव युवत्वमुखैर्गुणौघैः आनन्दमेधितम् इयानिति सन्नियन्तुम् ।
ते ये शतं त्विति परम्परया प्रवृत्ता नैवैष वाङ्मनसगोचर इत्युदाह ॥ ५१ ॥

श्रीनिवासः - प्रस्तावः

उक्तम् आनन्दगुणस्य अवाङ्मनसगोचरत्वं
स्थाली-पुलाक-न्यायात्
भगवतस् सकल-कल्याण-गुणानाम् अप्य् अपरिच्छिन्नत्व-प्रदर्शनार्थम् इत्याह -

विश्वास-प्रस्तुतिः

एवं तया चतुरया (श्रुत्या) तव यौवनाद्याः
सर्वे गुणाः सह समस्त-विभूतिभिश् च ।
प्रव्याहृताः स्युर् अवधीन् अवधीरयन्तो
वाचाम्–अ-गोचर-महा-महिमान एव ॥ ५२ ॥

श्रीनिवासः

[[36]]
एवमिति । चतुरया गुणान्तराणां विभूतीनाञ्च अपरिच्छिन्नत्व प्रतिपादनसमर्थया तया आनन्दवल्ल्या,
एवमुक्त-प्रकारेण
तव यौवनाद्यास् सर्वे गुणाः
यौवन-सौन्दर्यादयो गुणाः ज्ञानादि-स्वरूपगुणाश्चेत्यर्थः । समस्तविभूतिभिश्च सह, बहुवचनेन प्रधानपुरुषकाल शुद्धसत्त्वरूप- विभूतिभेदा गृह्यन्ते ।
समस्तशब्देन तत्तदवस्थान्तरभेदो गृह्यते ।
मानुषानन्दनिरूपणे
“युवा स्यात्साधु युवाऽध्यायकः"
इत्यादिना यौवन ज्ञानादीनां गृहीतत्वात्
“पृथिवी"ति विभूति ग्रहणाच्च
भगवद्-आनन्द-निरूपणेऽपि
यौवनादीनां तात्पर्यविषयत्वं गम्यते
इति भावः ।
अवधीन् परिच्छेदान् अवधीरयन्तो निरस्यन्त स्सन्तः वाचाम् अगोचरः महान्महिमा येषान्ते तथोक्ताः प्रव्याहृताः स्युः । वाचामिति मनसोऽप्युपलक्षणम् ॥ ५२ ॥

मूलम्

एवं तया चतुरया तव यौवनाद्याः सर्वे गुणाः सह समस्तविभूतिभिश्च ।
प्रव्याहृताः स्युरवधीन् अवधीरयन्तो वाचामगोचरमहामहिमान एव ॥ ५२ ॥

श्रीनिवासः - प्रस्तावः

इदानीं सङ्कल्प-रूपस्य भगवज्-ज्ञान-विशेषस्याऽपरिच्छिन्न-महिमत्वम् आह-

सङ्कल्प-शक्ती

विश्वास-प्रस्तुतिः

संवर्त(=प्रलय)-वर्ति निखिलं निर्-अभिज्ञम् अज्ञं
चित्रे च कर्मणि यथार्हम् (प्राक्-कर्मानुरूपम्) अहो! नियच्छन्
सद्यः कृमि-द्रुहिण-भेदम् अ-भेदम् एतद्
आविश् चकर्थ सकृद्-ईक्षण-दीक्षणेन (“तदैक्षत बहु स्याम्” इति)॥ ५३ ॥

श्रीनिवासः

संवर्तेति ।
कारणवाक्येषु सर्वेषु अप्यय(=लय)-पूर्विका सृष्टिः प्रतिपाद्यते

‘सदेव सोम्येदमग्र आसीत्,
ब्रह्म वा इदमेकमेवाऽग्र आसीत्,
आत्मा वा इदमेक एवाऽग्र आसीत्”

इत्यादिषु,
मनुस्मृतौ च " आसीदिदं तमोभूतम्" इत्युपक्रम्य तद्वदेवाह ।

संवर्ते प्रलये वर्तते इति तथोक्तम्, अभेदं विभागानार्हं सूक्ष्मदशापन्नं, निरभिज्ञं अभिज्ञा अनुभवरूपं ज्ञानं तद्रहितम्, अज्ञं प्रत्यभिज्ञारूपज्ञानरहितं निखिलं,
एतज्जन्तुजातमिति शेषः ।
कर्मणि चित्रे च
तत्तत्कर्मणि विचित्रे सत्यपि,
सकृदीक्षणरूपेण दीक्षणेन दीक्षया
“तदैक्षत बहु स्याम्” इति सङ्कल्पेनेत्यर्थः । यथार्हं तत्तत्कर्मानुगुणं नियच्छन् नियमयन् सन् सद्यः क्रिमिः कीटः द्रुहिण श्चतुर्मुखः क्रिमि मारभ्य[[37]] द्रुहिणपर्यन्तं भेदो यस्य स तथोक्तं, अभेदं पक्षपातशून्यं वैषम्यनैर्घृण्यशून्यमिति यावत् आविश्चकर्थ आविर्भूतं कृतवानसि । अत स्तव सङ्कल्पो महाप्रभाव इति भावः ॥ ५३ ॥

मूलम्

संवर्तवर्ति निखिलं निरभिज्ञमज्ञं चित्रे च कर्मणि यथार्हमहो! नियच्छन् ।
सद्यः कृमिद्रुहिणभेदम् अभेदमेतद् आविश्चकर्थ सकृदीक्षणदीक्षणेन ॥ ५३ ॥

श्रीनिवासः - प्रस्तावः

इदानीं सङ्कल्पेन सह शक्त्याः प्रभावम् अनुसन्धत्ते -

विश्वास-प्रस्तुतिः

अस्तं यद् उद्यत् उपचाय्य् अपचायि चैवम्
ईशं दरिद्रम् अथ जङ्गमम् अप्य् अन्-इङ्गम् ।
विश्वं विचित्रम् अ-विलक्षण-वीक्षणेन
विक्षोभयस्य् अन्-अवधिर् बत! शक्तिर् ऐशी ॥ ५४ ॥

श्रीनिवासः

अस्तमिति । हे ईश अस्तं विनाशं यत् प्राप्नुवत्, उद्यत् उदयं प्राप्नुवत् । उत्पूर्वा दिग् गता वितिधातोः शत्रन्तं पदम् । उपचायि वर्धिष्णु, अपचायि क्षयिष्णु, ईश माढ्यं, दरिद्रं सम्पद्रहितं, जङ्गमं सञ्चरिष्णु, अनिङ्गं स्थावरम् इङ्गं न भवतीति अनिङ्गम्, विचित्रं उक्तप्रकारेणेति भावः । विश्वं कृत्स्नम्, अविलक्षण वीक्षणेन एकरूपसङ्कल्पेन, सकृत्सङ्कल्पेनेत्यर्थः । विक्षोभयसि विशेषेण क्षोभयुक्तं विकारयुक्तं करोषि सृष्ट्यनुगुण विकारयुक्तं करोषीत्यर्थः । ऐशी ईश्वरत्वप्रयुक्ता शक्तिः अघटितघटनासामर्थ्यं अनवधिः अपरिच्छिना । बते त्याश्चर्ये ॥ ५४ ॥

मूलम्

अस्तं यदुद्यत् उपचाय्यपचायि चैवम् ईशं दरिद्रमथ जङ्गममप्यनिङ्गम् ।
विश्वं विचित्रम् अविलक्षणवीक्षणेन विक्षोभयस्यनवधिर्बत! शक्तिरैशी ॥ ५४ ॥

श्रीनिवासः - प्रस्तावः

सम्प्रति स्वातन्त्र्यस्य निरङ्कुशत्वम् आह -

विश्वास-प्रस्तुतिः

रूप-प्रकार-परिणाम-कृत-व्यवस्थं
विश्वं विपर्यसितुम् अन्यद् असच् च कर्तुम् ।
क्षाम्यन् स्वभाव-नियमं किम् उदीक्षसे त्वं?
स्वातन्त्र्यम् ऐश्वरम् अ-पर्यनुयोज्यम्(=प्रश्नार्हम्) आहुः ॥ ५५ ॥

विश्वास-टिप्पनी

इदं स्वातन्त्र्यं कथास्व् एव दृश्यते खल्व् अस्मिन् यन्त्रवच् चलति प्रपञ्चे?

श्रीनिवासः

रूपेति। रूपस्य स्वरूपस्य, प्रकारस्य स्वभावस्य च परिणामेन कृता व्यवस्था मर्यादा यस्य तत्तथोक्तम् । अचिद्द्रव्यस्य स्वरूपान्यथाभावरूपः परिणामः, चेतनस्य स्वभावान्यथाभावरूपः परिणाम इति विभागो द्रष्टव्यः । [[38]]

विश्वं चेतनाचेतनात्मकं कृत्स्नं जग द्विपर्यसितुं विपर्यस्तं कर्तुं प्रलीनं कर्तुं, असत् “असद्वा इद मग्र आसीत् " इति विभागानर्हसूक्ष्मदशापन्नतया असत्कल्प मित्यर्थः । अन्यच्च कर्तुं सत्तायुक्तं कर्तुं स्रष्टुमित्यर्थः । क्षाम्यन् शक्तः त्वं स्वभावनियमं तत्तत्कर्मफलस्वभावनैयत्यं, उदीक्षसे कटाक्षयसि किम्, “एककालिकसर्गस्य एककालिकप्रलयस्य च तत्तत्कर्माय- त्तत्वाभावा दिति भावः । अतः ऐश्वरं स्वातन्त्र्यं अपर्यनुयोज्यं पर्यनुयोगस्य प्रश्नस्य अनर्हम् आहुः, वेदान्तविद इति शेषः । पूर्वकर्मानुगुणदेवादिशरीर- प्रदाने सत्यपि सृष्टिप्रलययो यौगपद्यं निरङ्कुश स्वातन्त्र्यकार्यमिति भावः । यद्वा- विपर्यसितं अन्यत्कर्तुं क्षाम्यन् तादृशस्वतन्त्र स्त्वं स्वभावनियमं चेतना- चेतनयोः स्वभावनियमं अचेतनानां भूतानाञ्च परस्परस्वभावनियमं किं किमर्थं उदीक्षसे आलोचयसि । एकदैव सकृत्सृष्टिसंहारकरणे स्वतन्त्रस्य तव स्वभावनियमावलोकनमपि स्वातन्त्र्यभेद एवेति भावः ॥ ५५ ॥

मूलम्

रूपप्रकारपरिणामकृतव्यवस्थं विश्वं विपर्यसितुमन्यदसच्च कर्तुम् ।
क्षाम्यन् स्वभावनियमं किमुदीक्षसे त्वं? स्वातन्त्र्यमैश्वरम् अपर्यनुयोज्यमाहुः ॥ ५५ ॥

तेजः

श्रीनिवासः - प्रस्तावः

इदानीं पराभिभवनसामर्थ्यरूपं तेजः आह-

विश्वास-प्रस्तुतिः

संवर्त(=प्रलय)-सम्भृत-करस्य सहस्र-रश्मेर्
उस्रं(=किरणम्) तमिस्रयद्, अजस्र-विहारि हारि
नित्यानुकूलम् अनुकूल-नृणां, परेषाम्
उद्वेजनं च तव तेज उदाहरन्ति ॥ ५६ ॥(5)

श्रीनिवासः

संवर्तेति । संवर्ते प्रलये सम्भृताः सम्पूर्णाः कराः किरणाः यस्य तस्य सहस्ररश्मेः उस्रं किरणम् “किरणोस्रमयूखे” त्यमरः । तमिस्रयत्, तमिस्रमन्धकारं कुर्वत्, तिरस्कारकृदिति भावः । अजस्रं विहारि विहारयुक्तं नित्यासङ्कुचित मित्यर्थः । हारि मनोहारि, परेषां शत्रूणा मुद्वेजनञ्च उद्वेगकरं भयङ्कर मित्यर्थः । तव तेजः अनुकूलाश्च ते नरश्च अनुकूलनरः, भक्तानामित्यर्थः । नित्यानुकूलं निरन्तरभोग्यम् उदाहरन्ति । “एकस्यैव तेजसः परेषा मुद्वेगकरत्वं अनुकूलानां भोग्यत्वं च अत्याश्चर्यावह”मिति भावः ॥ ५६ ॥

मूलम्

संवर्तसम्भृतकरस्य सहस्ररश्मेः उस्रं तमिस्रयदजस्रविहारि हारि ।
नित्यानुकूलमनुकूलनृणां परेषाम् उद्वेजनं च तव तेज उदाहरन्ति ॥ ५६ ॥

औदार्यम्

श्रीनिवासः - प्रस्तावः

औदार्यमाह -

विश्वास-प्रस्तुतिः

नैव ह्य् अवाप्यम् अन्-अवाप्तम् इहास्ति यस्य,
सत्ता ऽपि तस्य तव वीक्षणतः प्रजानाम् ।
सम्पत् तु किम् पुनर् इतो न वदान्यम् अन्यं
मन्ये त्वम् एव खलु मन्दिरम् इन्दिरायाः ॥ ५७ ॥

श्रीनिवासः

[[39]]

नैवेति । यस्य तव इह विभूतिद्वयेऽपि अनवाप्तं अलब्धं अवाप्यं इतः परं लभ्यं वस्तु नैवाऽस्ति हि, अवाप्तसमस्तकामत्वा दिति भावः । तस्य तव वीक्षणतः प्रजानां ब्रह्मादिस्तम्बपर्यन्तानां चेतनानां सत्ता उत्पत्तिरपि भवति । सत्तेति स्थितिप्रवृत्त्योरप्युपलक्षम्। त्व मेव खलु इन्दिरायाः श्रियः मन्दिर मावासस्थानम् । सम्पत्तु लक्ष्मीकटाक्षायत्तभोग्य भूतवस्तुसमृद्धिस्तु किं पुनः, अस्तीति किमु वक्तव्यम् इति हेतोः अन्यं वदान्यं दातारं न मन्ये न चिन्तयामि । अवाप्तसमस्तकामस्य ब्रह्मादिसत्तास्थिति प्रवृत्तिहेतुभूत सङ्कल्पलवस्य श्रियःपते स्तवौदार्यं सर्वातिशायीति भावः ॥ ५७ ॥

मूलम्

नैव ह्यवाप्यमनवाप्तमिहास्ति यस्य सत्ताऽपि तस्य तव वीक्षणतः प्रजानाम् ।
सम्पत् तु किम्पुनरितो न वदान्यमन्यं मन्ये त्वमेव खलु मन्दिरमिन्दिरायाः ॥ ५७ ॥

कृपा

श्रीनिवासः - प्रस्तावः

अनन्तरं कृपाम् अनुसन्धत्ते -

विश्वास-प्रस्तुतिः

पापैर् अन्-आदि-भव-सम्भव-वासनोत्थैः
दुःखेषु यः खलु मिमङ्क्षति हन्त! जन्तुः ।
तं केवलं नु कृपयैव समुद्धरिष्यन्
तद्-दुष्कृतस्य ननु निष्कृतिम् आत्थ शास्त्रैः ॥ ५८ ॥

श्रीनिवासः

पापै रिति । अनादि र्यो भव स्संसारः तत्र सम्भवः जन्म तेन या वासना तज्जन्यस्संस्कारविशेषः तया उत्थै र्जनितैः पापैः जन्तुः जीवः दुःखेषु तत्तत्पापफलभूतनरकादिव्यसनेषु मिमङ्गति मङ्क्तु मिच्छति हन्त खलु इदं आश्चर्यं किल, स्वय मेव स्वानर्थावहाकृत्यकरणा दितिभावः । तं जन्तुं केवलं कृपयैव निर्हेतुककृपयैव समुद्धरिव्यन् समुद्धृतं करिष्यन् किल शास्त्रैः मन्वादिभिः, यद्वा गीतादिभिः तद्दुष्कृतस्य निष्कृतिं प्रायश्चित्तं [[40]] आत्थ ब्रवीषि ननु । अत्र कृपा स्वार्थनिरपेक्षता, परदुःखासहिष्णुता च द्विधेति सूचिता । अत स्त्वदीयकृपावैभवमपरिच्छिन्नमिति भावः ॥ ५८ ॥

मूलम्

पापैरनादिभवसम्भववासनोत्थैः दुःखेषु यः खलु मिमङ्क्षति हन्त! जन्तुः ।
तं केवलं नु कृपयैव समुद्धरिष्यन् तद्दुष्कृतस्य ननु निष्कृतिमात्थ शास्त्रैः ॥ ५८ ॥

श्रीनिवासः - प्रस्तावः

उक्तमर्थं विवृणोति -

विश्वास-प्रस्तुतिः

शास्त्रैर् अन्-आदि-निधनैः, स्मृतिभिस्, त्वदीय-
दिव्यावतार-चरितैः, शुभया च दृष्ट्या ।
निःश्रेयसं यद् उपकल्पयसि प्रजानां
सा त्वत्-कृपा–जल-धि–तल्लज(=श्रेष्ठ)-वल्गित(=ऊर्मि)-श्रीः ॥ ५९ ॥(4)

श्रीनिवासः

शास्त्रैरिति । अनादिनिधनैः उत्पत्तिविनाशरहितैः शास्त्रैः श्रुतिभिरित्यर्थः; शासनाच्छास्त्रमिति हि व्युत्पत्तिः । स्मृतिभि रित्युपलक्षणम्, स्मृतीतिहासपुराणानां वेदोपबृंहणत्वाविशेषात् । त्वदीयानां दिव्यावताराणां चरितै रनुष्ठानैः, अवताराणां धर्मसंस्थापनार्थत्वा दिति भावः । शुभया श्रेयो हेतुभूतया, स्वयं शोभनया च दृष्ट्या कटाक्षेण च, “ जायमानं हि पुरुषं यं पश्ये न्मधुसूदनः । सात्त्विक स्सतु विज्ञेय स्स वै मोक्षार्थचिन्तकः” । इत्युक्ते रिति भावः । प्रजानां निःश्रेयसं मोक्षं उपकल्पयसि, इति यत् सा त्वत्कृपैव जलधि-तल्लजः समुद्रश्रेष्ठः क्षीरसमुद्रः तस्य यद् वल्गितं वल्गनं कल्लोलः, तस्य श्रीः सम्पत् अतिशयः । सेति स्त्रीलिङ्गनिर्देशः “शैत्यं हि यत्सा प्रकृति र्जलस्य” इतिवत् विधेयापेक्षया । भवदीय दयातरङ्गोल्लासकार्यं निश्श्रेयस प्रदानमिति भावः ॥ ५९ ॥

मूलम्

शास्त्रैरनादिनिधनैः स्मृतिभिस्त्वदीयदिव्यावतारचरितैः शुभया च दृष्ट्या ।
निःश्रेयसं यदुपकल्पयसि प्रजानां सा त्वत्कृपाजलधितल्लजवल्गितश्रीः ॥ ५९ ॥

पापम्, वात्सल्यम्

श्रीनिवासः - प्रस्तावः

क्वचिद् भाग्यविहीनेषु कृपा-सङ्कोचम् अनुसन्धत्ते -

विश्वास-प्रस्तुतिः

है हन्त! जन्तुषु निरन्तर-सन्ततात्मा
पाप्मा हि नाम वद कोऽयम् अ-चिन्त्य-शक्तिः ।
यस् त्वत्-कृपा-जल-धिम् अप्य् अतिवेल-खेलम्
उल्लङ्घयत्य् अ-कृत-भासुर-भागधेयान् ॥ ६० ॥(5)

श्रीनिवासः

है हन्तेति । जन्तुषु निरन्तरं सर्वकालेऽपि सम्यक् ततः विस्तृतः आत्मा स्वरूपं यस्य स तथोक्तः अचिन्त्या अस्मदादिभिः चिन्तयितुमशक्या [[41]] शक्ति र्यस्य सः अयं पाप्मा पापं को नाम कीदृशस्वरूपः कीदृशशक्तियुक्तो वा वद । है हन्त ! अत्याश्चर्यावहतया भवताऽप्यनिर्वचनीय इति भावः । हि यस्मात्कारणात् यः पाप्मा, अकृतम् अननुष्ठितं भासुरम् उज्ज्वलं भागधेयं भाग्यं भागधेयमूलकारणं शरणवरणादिकं यैस्तान् पुरुषान् अतिक्रान्ता वेला अवधि र्यया सा खेला लीला यस्य तं तथोक्तम् उद्वेलकल्लोलमिति यावत् त्वत्कृपाजलधि मपि उल्लङ्घयति उल्लङ्घिता नतिक्रान्तान्करोति । णिजन्तत्वात् द्विकर्मत्वं त्वत्कृपाया अलक्ष्यतां करोतीति भावः ॥ ६० ॥

मूलम्

है हन्त! जन्तुषु निरन्तरसन्ततात्मा पाप्मा हि नाम वद कोऽयमचिन्त्यशक्तिः ।
यस्त्वत्कृपाजलधिमप्यतिवेलखेलम् उल्लङ्घयत्यकृतभासुरभागधेयान् ॥ ६० ॥

श्रीनिवासः - प्रस्तावः

इदानीं दयाया अप्य् उन्मेषकरीम् अपराध-सहिष्णुतारूपां वात्सल्यहेतुं क्षान्तिम् अनुसन्धत्ते -

विश्वास-प्रस्तुतिः

यद् ब्रह्म-कल्प-नियुतानुभवे ऽप्य् अनाश्यं
तत् किल्बिषं सृजति जन्तुर् इह क्षणार्धे ।
एवं सदा सकल-जन्मसु सापराधं
क्षाम्यस्य् अहो! तद्-अभिसन्धि-विराम-मात्रात् ॥ ६१ ॥(4)

श्रीनिवासः

यदिति । यत् किल्बिषं ब्रह्मकल्पानां नियुतेन अनुभवेऽप्यनाश्यं नाशयितु मशक्यं तत् किल्बिषं कर्म इह जगति जन्तुः क्षणार्धे अर्धक्षणे सृजति करोति, ब्रह्महत्यादिकमिति भावः । एवमुक्तप्रकारेण सदा सकलजन्मसु देवतिर्यगादि सर्वजन्मसु सापराधं जन्तुं, तस्मिन् पापे अभिसन्धिस् सङ्कल्पः तस्य विरामः उपरतिः तन्मात्रात् इतःपर मपि पापं न कुर्याम् इति सङ्कल्पेन । प्रवृत्त्यभावमात्रादेवेत्यर्थः । क्षाम्यसि क्षमाविषयं करोषि अपराधस्य क्षमाविषयत्वे, तद्विशिष्टोऽपि क्षमाविषयो भवति । अहो ! आश्चर्यम् ! भवदीया क्षान्ति रत्याश्चर्यकरीति भावः ॥ ६१ ॥

मूलम्

यद् ब्रह्मकल्पनियुतानुभवेऽप्यनाश्यं तत् किल्बिषं सृजति जन्तुरिह क्षणार्धे ।
एवं सदा सकलजन्मसु सापराधं क्षाम्यस्यहो! तदभिसन्धिविराममात्रात् ॥ ६१ ॥

श्रीनिवासः - प्रस्तावः

पूर्वोक्तार्थानुवादेन क्षान्तिकार्यं वात्सल्य मनुसन्धत्ते -

विश्वास-प्रस्तुतिः

क्षान्तिस् तवेयम् इयती महती कथं नु
मुह्येद् अहो! त्वयि कृताञ्जलि-(दोष-)पञ्जरेषु ।
इत्थं स्वतो निखिल-जन्तुषु निर्विशेषं
(अनुत्सुक-वात्सल्ये सति,) वात्सल्यम् उत्सुक-जनेषु कथं गुणस् ते ॥ ६२ ॥

श्रीनिवासः

क्षान्ति रिति। इयती महती पूर्वोक्तेदृशमाहात्म्यवती तव क्षान्तिः त्वयि विषये कृतः अञ्जलि रेव पञ्जरः कवचः यै स्तेषु ।
अञ्जलेः कवचत्वनिरूपणं स्वदोषापनोदनहेतुत्वादिति मन्तव्यम् ।(5) कथं मुह्येत् मोहं प्राप्नुयात् ?
अहो ! अभिसन्धिविराम-मात्रतृप्ता क्षान्तिः अञ्जलिलाभे सत्य् अपि कथं वा विस्मरेद् इति भावः । एवं क्षान्तिप्रकारेण निखिलजन्तुषु अश्रितानाश्रितविभागशून्येष्व् इति भावः ।
निर्विशेषं पक्षपात-रहितं ते वात्सल्यं
उत्सुक-जनेषु त्वयि प्रीतिमत्सु कथं गुणः ?
सर्वसाधारणस्य वात्सल्यस्य
भक्तिमत्सु गुणत्वं कथं वा इत्यर्थः । अनुत्सुकविषयं हि वात्सल्यम् अत्यन्तातिशयावहम् इति भावः ॥ ६२ ॥

मूलम्

क्षान्तिस्तवेयम् इयती महती कथं नु मुह्येदहो! त्वयि कृताञ्जलिपञ्जरेषु ।
इत्थं स्वतो निखिलजन्तुषु निर्विशेषं वात्सल्यमुत्सुकजनेषु कथं गुणस्ते ॥ ६२ ॥

श्रीनिवासः - प्रस्तावः

पुनरपि वात्सल्यातिशयमेवानुसन्धते -

विश्वास-प्रस्तुतिः

विश्वं धियैव विरचय्य निचाय्य(=अभिवर्ध्य) भूयः
सञ्जह्रुषः सति समाश्रित-वत्सलत्वे(=दोषादर्शित्वम्)
आजग्मुषस् तव गजोत्तम-बृंहितेन
(त्वत्-सङ्कल्प-घटित–नक्र-ग्रस्त-)पादं पराममृशुषो ऽपि च का मनीषा? ॥ ६३ ॥
(वात्सल्याभिभूतः सङ्कल्पः!!)

श्रीनिवासः

विश्वम् इति।
धियैव सङ्कल्परूपज्ञानेनैव विश्वं विरचय्य सृष्ट्वा, निचाय्य अभिवर्ध्य पालयित्वा, सञ्जहृषः संहरतः सम्पूर्वाद्धरतेः क्वसु प्रत्यये कृते रूपम् । एव मन्यत्राऽपि । सञ्जहिवा निति प्रथमा । समाश्रितवत्सलत्वे सति समाश्रितविषये वात्सल्ये समुद्भूते सतीत्यर्थः ।
गजोत्तमस्य ग्राहगृहीतपादस्य गजेन्द्रस्य
बृंहितेन गर्जितेन
आजग्मुषः आगतवतः
सरस्-तीरम् इति शेषः
पादं गजेन्द्र-पादं पराममृशुषः परामृष्टवतः,
इदमपि त्वत्-सङ्कल्पेनैव कर्तुं शक्यं,
अथाऽप्येवमाचरत इति भावः । का मनीषा का बुद्धिः कीदृशस् सङ्कल्पइत्यर्थः । आश्रित-वात्सल्य-प्रयुक्त-व्यामोहेन
सङ्कल्पोऽभिभूत इति भावः ॥ ६३ ॥

मूलम्

विश्वं धियैव विरचय्य निचाय्य भूयः सञ्जह्रुषः सति समाश्रितवत्सलत्वे ।
आजग्मुषस्तव गजोत्तमबृंहितेन पादं पराममृशुषोऽपि च का मनीषा? ॥ ६३ ॥

श्रीनिवासः - प्रस्तावः

तिर्यग्-जाति-सम्भूते गजेन्द्रे कथम् एतादृश-व्यामोह इत्यत्राऽऽह -

विश्वास-प्रस्तुतिः

यः कश्चिद् एव यदि किञ्चन हन्त! जन्तुः
भव्यो भजेत भगवन्तम् अनन्य-चेताः ।
तं सोऽयम् ईदृश इयान् इति वाऽप्य् अजानन्
है! वैनतेय-समम् अप्य् उररी करोषि ॥ ६४ ॥

श्रीनिवासः

[[43]]
य इति । भव्यः यः कश्चिदेव जन्तुः जात्यादिभि र्निकृष्ट एवाऽपि त्वदीयचरणसमाश्रयणानुगुणशुभस्वभावविशिष्टः प्राणीत्यर्थः । भगवन्तं तदीयसमीचीनाचारादिनिरपेक्षक्षमादि गुणवन्तं त्वां अनन्यचेताः अन्यस्मिन् उपायोपेयवस्तुनि न विद्यते चेतो यस्य सः तथोक्त सन् किञ्चन भजेत यदि अल्पं समाश्रये द्यदि भजनानुकूला द्वेषादिमात्रं कुर्या द्यदीति भावः । तं सोऽयं एतज्जातीयोऽयं ईदृशः एतादृशाचारः इयान् एतादृशगुणपूर्तियुक्त इति वाऽप्यजानन् दोषानादरहेतुस्नेहविशेषो वात्सल्यमिति निर्वचनात् वैनतेयेन समं सदृशं यथा तथा, तस्यैव कटाक्षपात्रभूतत्वादिति भावः। उररीकरोषि अङ्गीकरोषि ।
है इति विस्मये, प्रसिद्धौ वा ।
हन्तेति हर्षे ।
ईदृश भगवद्वात्सल्यानुसन्धान मनुष्ठितसाङ्गोपाङ्गानामाश्रितानां हर्षावहमिति भावः ।

“अपि चेत् स-दुर्-आचारो
भजते माम् अनन्यभाक् ।
साधुर् एव स मन्तव्यस्
सम्यग्-व्यवसितो हि सः”

इति श्लोकोऽत्रानुसन्धेयः ॥ ६४ ॥

मूलम्

यः कश्चिदेव यदि किञ्चन हन्त! जन्तुः भव्यो भजेत भगवन्तमनन्यचेताः ।
तं सोऽयम् ईदृश इयानिति वाऽप्यजानन् है! वैनतेयसममप्युररीकरोषि ॥ ६४ ॥

सौशील्यम्

श्रीनिवासः - प्रस्तावः

इदानीं महतो मन्दैस् सह नीरन्ध्रेण संश्लेष इति निरुक्तं सौशील्यम् अनुसन्धत्ते -

विश्वास-प्रस्तुतिः

त्वत्-साम्यम् एव भजताम् अभिवाञ्छसि त्वं
तत्-सात्कृतैर् विभव-रूप-गुणैस् त्वदीयैः ।
मुक्तिं ततो हि परमं तव साम्यम् आहुस्
त्वद्-दास्यम् एव विदुषां परमं मतं तत् ॥ ६५ ॥

श्रीनिवासः

[[44]]

त्वदिति । भजतां पुंसां तत्-सात्-कृतैः तदायत्तीकृतैः त्वदीयैः विभवरूपगुणैः विभवः, रूपं विग्रहः, गुणाः ज्ञानशक्त्यादयः, तैरुपलक्षितस्त्वं भक्तपराधीनत्वात् भवगत इति भावः ।
त्वत्-साम्यं त्वया समान-ज्ञानादि-धर्मवत्त्वं अभिवाञ्छसि उत्पादयितुमिति शेषः । ततो हेतो र्हि तव परमं साम्यं मुक्तिमाहुः । “निरञ्जनः परमं साम्य मुपैति “, " मम साधर्म्य मागताः इत्याद्याः श्रुतिस्मृतयः इति भावः ।
विदुषां - भगवद्-अनन्यार्ह-शेषत्व-रूप–
स्वात्म-याथात्म्य-ज्ञानवतां तादृश-शेषत्वानु-रूपतया प्रसिद्धं त्वद्-दास्यं त्वदीय-कैङ्कर्यम् एव परमं उत्कृष्टं मतम्
नीरन्ध्रेण संश्लेषो नाम परम-साम्यम् इति भावः ॥ ६५ ॥

मूलम्

त्वत्साम्यमेव भजतामभिवाञ्छसि त्वं तत्सात्कृतैर्विभवरूपगुणैस्त्वदीयैः ।
मुक्तिं ततो हि परमं तव साम्यमाहुः त्वद्दास्यमेव विदुषां परमं मतं तत् ॥ ६५ ॥

श्रीनिवासः - प्रस्तावः

तदेव सौशील्यं कारणान्तरेणानुसन्धत्ते

विश्वास-प्रस्तुतिः

तद् वै तथाऽस्तु कतमो ऽयम् अहो! स्वभावो
यावान् यथा-विध-गुणो भजते भवन्तम् ।
तावान् तथा-विध-गुणस् तद्-अधीन-वृत्तिः
संश्लिष्यसि त्वम् इह तेन समान-धर्मा ॥ ६६ ॥

श्रीनिवासः

77

तदिति ।
श्रीभाष्ये “तत्क्रतुश्च” इति सूत्रस्य विषय-वाक्यतया

‘यथाक्रतुर्
अस्मिन् लोके पुरुषो भवति
तथा इतः प्रेत्य भवति”

इति श्रुतिम् उपादाय
यादृश-स्व-रूप–रूप-गुणादि-विशिष्टतया चेतनो भगवन्तम् उपास्ते,
तादृश-स्वरूपादि-विशिष्टम् एव भगवन्तं प्राप्नोतीति
तात्पर्यार्थः प्रतिपादितः ।
स एवाऽर्थः प्रतिपाद्यतेऽनेनश्लोकेन ।

तद्वै तथाऽस्तु,
पूर्वोक्तं सौशील्यं हि तथा भवतु । यावान् यादृशपरिमाणज्ञानादियुक्तः पुरुषः यथाविधगुणः स्वकीयरुच्यनुगुणमुपास्यतया परिगृहीतयादृशप्रकारगुणविशिष्टः सर्व विद्यासाधारणानन्दादिगुणो वा तत्तद्विद्यामात्रप्रतिपादित सन्मात्रत्वादिगुणो वा यस्य स तथोक्त स्सन्, यं गुणं यादृशप्रकारविशिष्टमुपास्यतयाऽङ्गीकुर्वन् सन् इत्यर्थः । भवन्तं भजते । इह पूर्वोक्तमुक्तिविषये, तावान् तज्ज्ञानाद्यनुगुणविषयस्वस्वरूपः, तथाविधगुणः तदुपासितगुण-मात्राविष्कार युक्तः अतएव तदधीना उपासकाधीना वृत्तिर्यस्य स तथोक्तः त्वं तेन समानधर्मा सन् संश्लिष्यसि संश्लेषं सङ्गतिं प्राप्नोषि ।

[[45]]
निरङ्कुशस्वतन्त्रस्य तव प्रकारान्तरेणाऽपि उपासनफलसंश्लेषप्रदाने शक्येऽपि यथोपासनमेव संश्लेषरूपः अयं स्वभावः कतमः कीदृश: ? अवाङ्मनसगोचरः इत्यर्थः । अहो आश्चर्यम् ॥ ६६ ॥

मूलम्

तद्वै तथाऽस्तु कतमोऽयमहो! स्वभावः यावान् यथाविधगुणो भजते भवन्तम् ।
तावान् तथाविधगुणस्तदधीनवृत्तिः संश्लिष्यसि त्वमिह तेन समानधर्मा ॥ ६६ ॥

चिरन्तन-संसर्ग-प्रार्थना

दर्शनानुग्रहः

श्रीनिवासः - प्रस्तावः

इदानीं स्वकीय-रुचि-विषय-फलं प्रार्थयते

विश्वास-प्रस्तुतिः

नीलाञ्जनाद्रि-निभम् उन्नसम् आयताक्षम्
आजानु-जैत्र-भुजम् आयत-कर्ण-पाशम् ।
श्रीवत्स-लक्षणम् उदार-गभीर-नाभिं
पश्येम देव! शरदः शतम् ईदृशं त्वाम् ॥ ६७ ॥

श्रीनिवासः

नीलाञ्जनेति । हे देव, “दिवु क्रीडाविजिगीषाव्यवहारद्युति स्तुतिमोदमद स्वप्नकान्तिगतिषु ” इति धातूक्तसकलगुणविशिष्ट, अनेन श्रीवैकुण्ठनाथ इति सम्बुद्धि स्सिद्धा । नीलाञ्जनमयेन अद्रिणा निर्भ सदृशं, वर्णान्तरमुक्तत्वेऽपि नेत्रदोषापहसर्वद्रव्यस्याऽपि अञ्जनत्वेन नीलाञ्जनमिति विशिष्यते; श्रीवैकुण्ठनाथः कालमेघश्याम इति प्रसिद्धिः । उन्नता नासा यस्य तं उन्नसम् । ‘पद्दनोमास्हृत्’ इत्यादिना नासिकाया नसादेशः । आयते अक्षिणी यस्य तम् । आजानवः जानुपर्यन्ता: जैत्राः जयशीला भुजा यस्य तम् । आयतौ कर्णपाशौ यस्य तम् । श्रीवत्सो लक्षणं यस्य तम्, श्रीवत्सस्य असाधारणत्वा दिति भावः । उदारा ऊर्जिता गभीरा महती र्यस्य तम् ! ईदृशम् एतादृशदिव्यमङ्गलविग्रहविशिष्टं त्वां शरदः शतं संवत्सरान् पश्येम “कालाध्वनो रत्यन्तसंयोगे” इत्यनेन द्वितीया । “सदा पश्यन्ति सूरय इतिवत् निरन्तरदर्शनविषयं कुर्यामेत्यर्थः । अनेन भगवत्स्वरूपानुभवाद विग्रहानुभव एव साधीया निति भावः ॥ ६७ ॥

मूलम्

नीलाञ्जनाद्रिनिभम् उन्नसमायताक्षम् आजानुजैत्रभुजम् आयतकर्णपाशम् ।
श्रीवत्सलक्षणम् उदारगभीरनाभिं पश्येम देव! शरदः शतमीदृशं त्वाम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अम्भो-रुहाक्षम् अरविन्द-निभाङ्घ्रि-युग्मम्
आताम्र-तामरस(=पद्म)-रम्य-कराग्र-कान्तिम् ।
भृङ्गालकं भ्रमर-विभ्रम-काय-कान्तिं
पीताम्बरं वपुर् अदस् तु वयं स्तवाम ॥ ६८ ॥

श्रीनिवासः

अम्भोरुहेति ।
वयन्तु स्वरूप-गुणानुभव-निष्ठेभ्यो व्यावृत्ता वयमिति भावः ।
अम्भोरुहवत् पुण्डरीकवत् अक्षिणी यस्य तत् अरविन्देन निभं सदृशं अङ्घ्रियुग्मं यस्य तत् ।
आताम्र तामरसम् इव रक्तोत्पलम् इव रम्या मनोज्ञा कराग्रस्य कान्तिर् यस्य तत् ।
भृङ्ग इव अलका यस्य तत्, नीलालकम् इत्यर्थः । भ्रमरस्य विभ्रमः विलासः स इव विभ्रमो यस्यास्सा कायकान्तिर् यस्य तत् तथोक्तम् ।
कायशब्देन विग्रहैकदेशो लक्ष्यते ।
पीताम्बरम् अदः पूर्वोक्तं वपुः स्तवाम स्तुतिविषयं करवाम । ष्टुञ् स्तुतौ इति धातोः लोडुत्तमपुरुषबहुवचनम्। “वपु रद स्तव संस्तवाम” इति पाठे, संस्तवाम परिचिनुयाम इत्यर्थः । “संस्तवः स्यात्परिचयः” इत्यमरः ॥ ६८ ॥

मूलम्

अम्भोरुहाक्षम् अरविन्दनिभाङ्घ्रियुग्मम् आताम्रतामरसरम्यकराग्रकान्तिम् ।
भृङ्गालकं भ्रमरविभ्रमकायकान्तिं पीताम्बरं वपुरदस्तु वयं स्तवाम ॥ ६८ ॥

विश्वास-प्रस्तुतिः

भ्रू-विभ्रमेण मृदु-शीत-विलोकितेन
मन्द-स्मितेन मधुराक्षरया च वाचा ।
प्रेम-प्रकर्ष-पिशुनेन विकासिना च
सम्भावयिष्यसि कदा मुख-पङ्कजेन ॥ ६९ ॥

श्रीनिवासः

भ्रूविभ्रमेति । अत्र पूर्वार्धोक्तानि भ्रूविभ्रमेणेत्यादीनि स्वतन्त्राणि वा । भ्रुवोर्विभ्रमो विलासो यस्मिंस्तेन, मृदु सौम्यं शीतं दयार्द्रञ्च विलोकितं यस्मिं स्तेन, मन्दं अत्यल्पं स्मितं यस्मिं स्तेन, प्रेम्णः वात्सल्यस्य प्रकर्षस्य अतिशयस्य पिशुनेन सूचकेन अतएव विकासिना चमुखपङ्कजेन मधुराण्यक्षराणि यस्यां तया वाचा च कदा मां सम्भावयिष्यसि सम्भावितं सत्कृतं करिष्यसि, तादृशी दशा मेकदा भूया दिति भावः ॥ ६९ ॥

स्पर्शानुग्रहः

मूलम्

भ्रूविभ्रमेण मृदुशीतविलोकितेन मन्दस्मितेन मधुराक्षरया च वाचा ।
प्रेमप्रकर्षपिशुनेन विकासिना च सम्भावयिष्यसि कदा मुखपङ्कजेन ॥ ६९ ॥

विश्वास-प्रस्तुतिः

वज्राङ्कुश-ध्वज–सरो-रुह–शङ्ख-चक्र-
मत्सी(=मत्स्यस्त्री)-सुधा-कलश-कल्पक-कल्पिताङ्कम् ।
त्वत्-पाद-पद्म-युगलं विगलत्-प्रभाद्भिः
भूयो ऽभिषेक्ष्यति कदा नु शिरो मदीयम्? ॥ ७० ॥

श्रीनिवासः

[[47]]

वज्रेति । वज्रः वज्रायुधम् । मत्सी मत्स्यस्य स्त्रीति योपधाच्छब्दात् ङीष्प्रतिषेधे सत्यापि, “ योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेध इति ङीष् । “सूर्यतिष्ये” त्यादिना यकारलोपः । सुधाकलशं अमृतकलशः कल्पकः सुरतरुः रेखारूपै र्वज्रादिभिः कल्पितः रचितः अङ्कः लक्षणं यस्य तत् त्वत्पादपद्मयुगलं भूयः बहुशः विगलन्तीभिः प्रभाभिः मदीयं शिरः कदानु अभिषेक्ष्यति अभिषिक्तं करिष्यति । सपदि त्वत्पादारविन्दमूलं प्रापयेत्यर्थः ॥ ७० ॥

मूलम्

वज्राङ्कुशध्वजसरोरुहशङ्खचक्रमत्सीसुधाकलशकल्पककल्पिताङ्कम् ।
त्वत्पादपद्मयुगलं विगलत्प्रभाद्भिः भूयोऽभिषेक्ष्यति कदा नु शिरो मदीयम्? ॥ ७० ॥

श्रीनिवासः - प्रस्तावः

अप्राकृत सौकुमार्यादियुक्तस्य मदीय-चरणस्य
कथं तवोत्तमाङ्ग-निक्षेप इति
भगवद्-अभिप्रायम् आशङ्क्य
साधारणम् असाधारणञ्च
दृष्टान्त-द्वयं वदन्
स्वस्याऽप्य् अभिलाषम् आविष्करोति -

विश्वास-प्रस्तुतिः

त्रैविक्रम-क्रम-कृताक्रमण–त्रि-लोकम् उत्तंसम्(=किरीटम्) उत्तमम् अनुत्तम-भक्ति-भाजाम् ।
नित्यं धनं मम कदा हि मद्-उत्तमाङ्गम्
अङ्गीकरिष्यति चिरं तव पाद-पद्मम् ॥ ७१ ॥

श्रीनिवासः

त्रैविक्रमेति । मदुत्तमाङ्गं त्रैविक्रमे त्रिविक्रमसम्बन्धिनि क्रमे पदविन्यासे कृताक्रमणं आक्रान्तं त्रिलोकं येनेति तथोक्तम् । अनुत्तमां सर्वोत्तरां भक्तिं भजन्ते इति तथोक्तानां उत्तमं श्लाघ्यं उत्तंसं शिरोभूषणं मम नित्यं धनं निरन्तरस्पृहणीयं तव पादपद्मं कदा हि कदा वा चिरं अङ्गीकरिष्यति यावदात्मभाविस्वनिक्षेपरूपाङ्गीकारविषयं करिष्यतीत्यर्थ ॥ ७१ ॥

मूलम्

त्रैविक्रमक्रमकृताक्रमणत्रिलोकम् उत्तंसमुत्तमम् अनुत्तमभक्तिभाजाम् ।
नित्यं धनं मम कदा हि मदुत्तमाङ्गम् अङ्गीकरिष्यति चिरं तव पादपद्मम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

उन्निद्र-पत्र–शत-पत्र–स-गोत्रम् अन्तर्-
लेखारविन्दम् अभिनन्दनम् इन्द्रियाणाम् ।
मन्-मूर्ध्नि हन्त! कर-पल्लव-तल्लजं(=श्रेष्ठं) ते
कुर्वन् कदा कृत-मनो-रथयिष्यसे माम् ॥ ७२ ॥

श्रीनिवासः

[[48]]

उन्निद्रेति । उन्निद्राणि विकसितानि पत्राणि यस्य तस्य शतपत्रस्य सगोत्रं समानकुलं सदृशम् इत्यर्थः । अन्तः अन्तः प्रदेशे लेखारूपम् अरविन्दं यस्य तम्, इन्द्रियाणा मभिनन्दन मानन्दावहं मार्दवौज्ज्वल्य सौगन्ध्यादीना मनेकेन्द्रियानुभाव्यगुणानां सत्त्वा दिन्द्रियाणामिति बहुवचनम् । ते तव कर एव पल्लवतल्लजः किसलयश्रेष्ठः तं मन्मूर्ध्नि कुर्वन् सन् कदा मां कृतमनोरथयिष्यसे कृतार्थयिष्यसे ॥ ७२ ॥

मूलम्

उन्निद्रपत्रशतपत्रसगोत्रम् अन्तर्लेखारविन्दम् अभिनन्दनमिन्द्रियाणाम् ।
मन्मूर्ध्नि हन्त! करपल्लवतल्लजं ते कुर्वन् कदा कृतमनोरथयिष्यसे माम् ॥ ७२ ॥

प्रभा

विश्वास-प्रस्तुतिः

आङ्गी निसर्ग-नियता त्वयि हन्त कान्तिर्
नित्यं तवालम् इयम् एव तथाऽपि चान्या ।
वैभूषणी भवति कान्तिर् अलन्तरां सा
है पुष्कलैव निखिला ऽपि भवद्-विभूतिः ॥ ७३ ॥

श्रीनिवासः

आङ्गीति । त्वयि आङ्गी अङ्गेषु भवा कान्तिः निसर्गेण स्वभावेन नियता सम्बद्धा स्वाभाविकी, भवतीति शेषः । इयमेव नित्यं तव अलं त्वदीयभोग्यतायै पर्याप्तेत्यर्थः । हन्त ! हर्षे । तथाऽपि अस्या एव पर्याप्तत्वेऽपि अथ अन्या सा प्रसिद्धा वैभूषणी विभूषणसम्बन्धिनी कान्तिः अलन्तरां भवति, सुतरां भोग्यतायै पर्याप्तेत्यर्थः । निखिलाऽपि भवद्विभूतिः, भवद्विभूतिभूतं सर्वम् अपीत्यर्थः, पुष्कलैव पूर्णैव । है ! आश्चर्ये । एकैकस्यैव यावदात्मभाविनित्यमुक्तभोगाय पर्याप्तत्वादिति भावः ॥ ७३ ॥

मूलम्

आङ्गी निसर्गनियता त्वयि हन्त कान्तिः नित्यं तवालमियमेव तथाऽपि चान्या ।
वैभूषणी भवति कान्तिरलन्तरां सा है पुष्कलैव निखिलाऽपि भवद्विभूतिः ॥ ७३ ॥

श्रीनिवासः - प्रस्तावः

सम्प्रति विभूषणकान्त्यनुभवम् एव प्रार्थयते -

विश्वास-प्रस्तुतिः

श्रीवत्स-कौस्तुभ-किरीट-ललाटिकाभिः
केयूर-हार-कटकोत्तम-कण्ठिकाभिः।
उद्दाम-दाम–मणि-नूपुर–नीवि-बन्धैः
भान्तं भवन्तम् अनिमेषम् उदीक्षिषीय ॥ ७४ ॥

श्रीनिवासः

श्रीवत्सेति । श्रीवत्सस्य दिव्यविग्रहालङ्कारत्वाद्भूषणकोटौ परिगणनम् । ललाटिका ललाटालङ्कार ललन्तिकादिः, श्रीवत्सादिभिः । कर्णिका कर्णभूषणम् उत्तमेति तद्विशेषणम् केयूरादिभिः उद्गताः दाम्नः उद्दद्यमानः [[49]] अप्रतिहतशोभा इति यावत्, ते च ते, दाम च दाम वनमाला, मणिनूपुरो रत्नमञ्जीरः, नीविबन्धः पट्टबन्धश्च | ‘पट्टबन्धैः’ इत्येवपाठे पट्टबन्धः उदरबन्धः, तै र्भान्तं प्रकाशमानं भवन्तम्, न विद्यते निमेषो यस्मिन्कर्मणि तद्यथा तथा, उदीक्षिषीय; उत्पूर्वादीक्षते र्धातो रात्मनेपदाशिषिलिङ् ॥ ७४ ॥

मूलम्

श्रीवत्सकौस्तुभकिरीटललाटिकाभिः केयूरहारकटकोत्तमकण्ठिकाभिः उद्दामदाममणिनूपुरनीविबन्धैः भान्तं भवन्तम् अनिमेषम् उदीक्षिषीय ॥ ७४ ॥

श्रीनिवासः - प्रस्तावः

सम्प्रति भगवद्-विग्रहावयव-शोभाम् आभरण-शोभाञ्
चानुभवितुं प्रार्थयते-

विश्वास-प्रस्तुतिः

ऐन्दीवरी क्वचिद् अपि क्वचनारविन्दी
चान्द्रातपी क्वचन च, क्वचनाऽथ हैमी ।
कान्तिस् तवोढ–पर-भाग–परस्-पर-श्रीः
पार्येत पारणयितुं किमु चक्षुषोर् मे ॥ ७५ ॥

श्रीनिवासः

ऐन्दीवरीति । क्वचनाऽथेत्यत्र क्वचन अथ इति पदच्छेदः । क्वचिदपि ऐन्दीवरी इन्दीवर सम्बन्धिनी, विग्रहकनीनिकादा विति भावः । क्वचन आरविन्दी अरविन्दसम्बन्धिनी, वदनकरतलचरणतलादा विति भावः । क्वचन चान्द्रातपी चन्द्रिकासम्बन्धिनी, मन्दहासमुक्ताहारादा विति भावः । क्वचन हैमी कोस्तुभपीताम्बरादा विति भावः ।
एवं ऊढः धृतः परभागः वर्णान्तर-सान्निध्य-लब्धवर्णोत्कर्षो यया तादृशी परस्परस्य श्रीः शोभा यस्या स्सा तथोक्ता, तव कान्तिः मे चक्षुषोः पारणयितुं तृप्तिं कर्तुंम् इत्यर्थः । पार्येत शक्नुयात् किमु, तादृशी दशा कदा मे भविष्यतीति भावः ॥ ७५ ॥

मूलम्

ऐन्दीवरी क्वचिदपि क्वचनारविन्दी चान्द्रातपी क्वचन च, क्वचनाऽथ हैमी ।
कान्तिस्तवोढपरभागपरस्परश्रीः पार्येत पारणयितुं किमु चक्षुषोर्मे ॥ ७५ ॥

नेत्रानन्दः

विश्वास-प्रस्तुतिः

त्वां सेवितं जल-ज–चक्र-गदासि-शार्ङ्गैस्
तार्क्ष्येण सैन्य-पतिना ऽनुचरैस् तथाऽन्यैः ।
देव्या श्रिया सह लसन्तम् अनन्त-भोगे
भुञ्जीय साञ्जलिर् अ-सङ्कुचिताक्षि-पक्ष्मा ॥ ७६ ॥

श्रीनिवासः

[[50]]
त्वामिति । जलजः शङ्खः । “अब्जौ शङ्ख शशाङ्कौ च’ इत्यमरः । पाञ्चजन्यसुदर्शनकौमोदकीनन्दकशाङ्गैः, तार्क्ष्यण पक्षिराजेन, सौन्यपतिना विष्वक्सेनेन, तथा पूर्वोक्त पाञ्चजन्यादिवत् अनुचरैः अन्यैः कुमुद चण्डप्रचण्डादिभिश्च सेवितम्, श्रिया श्रीनाम्न्या “श्रीरित्येव च नाम ते भगवति !” इत्युक्ताभिधानवत्येति भावः । देव्या महिष्या सह । अनन्तस्य नागराजस्य भोगे विग्रहे वसन्तं त्वां साञ्जलि रहं असङ्कुचितानि असञ्जात सङ्कोचानि अक्षिपक्ष्माणि यस्य तथोक्तस्सन्, अनिमेष स्सन्नित्यर्थः । " पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेऽप्यणीयसि " इत्यमरः । अक्षिपक्ष्मेति प्रयोगः करिघटा मेघकादम्बिनी वंशकरीरः इत्यादिवत् । भुञ्जीय अनुभवेयम्। “भुजोऽनवने” इत्यात्मनेपदे लिङ् ॥ ७६ ॥

मूलम्

त्वां सेवितं जलजचक्रगदासिशार्ङ्गैः तार्क्ष्येण सैन्यपतिनाऽनुचरैस्तथाऽन्यैः ।
देव्या श्रिया सह लसन्तमनन्तभोगे भुञ्जीय साञ्जलिरसङ्कुचिताक्षिपक्ष्मा ॥ ७६ ॥

सत्सङ्गः

विश्वास-प्रस्तुतिः

कैङ्कर्य-नित्य-निरतैर् भवद्-एक-भोगैः, नित्यैर् अनुक्षण-नवीन-रसार्द्र-भावैः ।
(त्वद्-दासोऽस्मीति)
नित्याभिवाञ्छित-परस्पर-नीच-भावैर्
मद्-दैवतैः परिजनैस् तव सङ्गसीय(←गं कर्मणि आशीर्लिङ्) ॥ ७७ ॥(5)

विश्वास-टिप्पनी

तत्रोक्तेषु भागवत-विशेषणेषु पूर्वः पूर्वो गरीयान् मे भाति।

श्रीनिवासः

कैङ्कर्येति । कैर्यनित्यनिरतैः निरन्तरसन्तन्यमान भगवत्कैर्यैरित्यर्थः । भवत्येकस्मिन्नेव भोगो येषां तैः भवदनन्यभोगै रित्यर्थः । नित्यैः नित्यसिद्धैः अनुक्षणं नवीनो नूतनो यो रसः भगवद्नुरागः, तेनार्द्रः द्रवीभूतो भावो येषां तैः । नित्य मभिवाञ्छितः परस्परं नीचभावः शेषत्वं यैस्तैः, भागवतशेषत्वस्य सर्वैरपि प्रार्थनीयत्वा दिति भावः । मद्दैवतैः मदाराध्यै रित्यर्थः । तव परिजनैः पूर्वश्लोकोक्तैः विष्वक्सेनप्रभृतिभिर्नित्यसिद्धैः अनुक्तैर्मुक्तैश्च सङ्गसीय सङ्गतो भूयासम् । सम्पूर्वाद्गमेः आत्मनेपदाशिषिलिङुत्तमैकवचनम् ॥ ७७ ॥

मूलम्

कैङ्कर्यनित्यनिरतैर्भवदेकभोगैः नित्यैरनुक्षणनवीनरसार्द्रभावैः ।
नित्याभिवाञ्छितपरस्परनीचभावैः मद्दैवतैः परिजनैस्तव सङ्गसीय ॥ ७७ ॥

श्री-नुतिः

श्रीनिवासः - प्रस्तावः

परम-प्राप्य–भगवत्-परिजन-समागमानन्तरं
तद्-अनुष्ठेयं श्री-भूमि-नीला-सहितस्य भगवतोऽनुभवं प्रार्थयमानः
प्रथमतः प्रधान-महिष्या श्रिया विशिष्टस्यानुभव-परीवाह-रूप-परिचर्यां प्रार्थयते
श्लोक त्रयेणैकवाक्येन -

विश्वास-प्रस्तुतिः

यत् किञ्चिद् उज्ज्वलम्, इदं यद् उपाख्यया ऽऽहुः
सौन्दर्यम् ऋद्धिर् इति यन्-महिमांश-लेशः ।
नाम्नैव यां श्रियम् उशन्ति, यदीय-धाम
त्वाम् आमनन्ति, यतमा यतमान(=यति)-सिद्धिः …॥ ७८ ॥

श्रीनिवासः

[[51]]
यत्किञ्चिदिति । उज्ज्वलं तेजिष्ठं इदं परिदृश्यमानं यत्किञ्चिद्वस्तु, न तु जात्यादिनैयत्येनेति भावः । यस्याः श्रियः उपाख्यया नाम्ना आहुः, तेजिष्ठं सर्वमपि श्रीरिति वदन्तीत्यर्थः । यस्याः महिम्नोंऽशस्य एकदेशस्य लेश: अणुः सौन्दर्यं अवयवशोभा ऋद्धिः सम्पदितिचोच्यते । यद्वा, सौन्दर्य मृद्धिश्च यन्महिमांशलेश इत्युच्यते । यां नाम्नैव श्रियमुशन्ति, योगरूढिभ्यामिति भावः । त्वां यदीयं धाम आमनन्ति, भगवतः श्रीनिवासत्वा दिति भावः । यतमा या श्रीः, यच्छब्दात्तमप् प्रत्ययः । यतमानानां " मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये” इत्युक्तानां योगिनां सिद्धिस्वरूपिणी भवति । श्रिय एव सिद्धिप्रदत्वात् । कारणे कार्योपचारः । एतच्छ्लोकोक्तयच्छब्दानां तृतीयश्लोक प्रयुक्तेन तामिति पदेनाऽन्वयः ॥ ७८ ॥

मूलम्

यत् किञ्चिदुज्ज्वलमिदं यदुपाख्ययाऽऽहुः सौन्दर्यमृद्धिरिति यन्महिमांशलेशः ।
नाम्नैव यां श्रियमुशन्ति यदीयधाम त्वामामनन्ति यतमा यतमानसिद्धिः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

या वै त्वयाऽप्य् उदधि-मन्थन-यत्न-लभ्या याऽन्तर्हितेति जगद्-उन्मथनोद्यतो ऽभूः (रामायणे सीताभुप्रवेशे यथा)
या च प्रतिक्षणम् अ-पूर्व-रसानुबन्धैर्
भावैर् भवन्तम् अभिनन्दयते सदैव …॥ ७९ ॥

श्रीनिवासः

येति । त्वयाऽपि सत्यसङ्गल्पेन त्वयाऽपि या उदधिमन्थनम् एव यत्नः प्रयासः तेन लभ्या भवति ।
या अन्तर्हितेति तिरोहितेति जगदुन्मथने जगदुपसंहारे उद्यतः उद्युक्तोऽभूः ।
प्रसिद्धञ् चैतदारण्यकाण्डे, उत्तरश्रीरामायणे च ।
या प्रतिक्षणं, अपूर्वाणां निरन्तरानुभवेऽपि नित्यापूर्वाणां कदाचिदपि अननुभूतव दाश्चर्यावहाणां रसाना मनुबन्धो येषु तैः भावै स्सात्त्विकादिभावैः भवन्त मभिनन्दयते च आनन्दिनं करोति च । ता मित्यनन्तरश्लोकेनाऽन्वयः । ७९ ॥

मूलम्

या वै त्वयाऽप्युदधिमन्थनयत्नलभ्या याऽन्तर्हितेति जगदुन्मथनोद्यतोऽभूः ।
या च प्रतिक्षणमपूर्वरसानुबन्धैः भावैर्भवन्तमभिनन्दयते सदैव ॥ ७९ ॥

विश्वास-प्रस्तुतिः

रूप-श्रिया गुण-गणैर् विभवेन धाम्ना
भावैर् उदार-मधुरैश् चतुरैश् चरित्रैः ।
नित्यं तवैव सदृशीं श्रियम् ईश्वरीं तां,
त्वां चाञ्चितः परिचरेयम् उदीर्ण(=उद्गत)-भावः ॥ ८० ॥

श्रीनिवासः

[[52]]

रूपेति । रूपस्य विग्रहस्य श्रिया शोभया लावण्य सौन्दर्यसौकुमार्यादिभिरिति यावत् । गुणगणैः दयावात्सल्यादि गुणसमूहैः, गुणानां गणत्वम् आश्रयण सौकर्यापादकत्वाऽऽश्रितकार्यापादकत्वादि- कार्यभेदे नेति मन्तव्यम् । विभवेन अवतारेण, धाम्ना स्थानेन, उदारैः महद्भिः मधुरैश्च तैः, भावैश्चित्तवृत्तिभिः, चतुरैः आश्रितसंरक्षणादिसमर्थैः चरित्रैः व्यापारैश्च नित्यं तवैव सदृशीम्,

“तुल्यशीलवयोवृत्तां
तुल्याभिजनलक्षणाम् ।
राघवोऽर्हति वैदेहीं,
तञ्चेयम् असितेक्षण"

इत्याद्युक्तसाधर्म्यविशिष्टाम् इत्यर्थः ।

“ईश्वरीं सर्वभूतानां त्वा मिहोपह्वये श्रियम्"

इत्युक्तां तां श्रियं, त्वाञ्च अञ्चितः प्राप्तः, अञ्चतेः कर्तरि क्तः । अहमिति शेषः ।
उदीर्णभावः उदारकैङ्कर्यमनोरथस् सन्नित्यर्थः । परिचरेयं परिचर्यां कुर्याम्, उत्तरवाक्योक्तकैङ्कर्यैकरतिर् भूयासमिति भावः ॥ ८० ॥

मूलम्

रूपश्रिया गुणगणैर्विभवेन धाम्ना भावैरुदारमधुरैश्चतुरैश्चरित्रैः ।
नित्यं तवैव सदृशीं श्रियमीश्वरीं तां त्वां चाञ्चितः परिचरेयमुदीर्णभावः ॥ ८० ॥

भूः

विश्वास-प्रस्तुतिः

या बिभ्रती स्थिर-चरात्मकम् एव विश्वं
विश्वम्-भरा, परमया क्षमया क्षमा च ।
तां मातरं च, पितरं च भवन्तम् अस्य
व्युच्छन्तु(←उच्छी विवासे) रात्रय इमाः वरिवस्यतो मे ॥ ८१ ॥

श्रीनिवासः

या इति । या देवी स्थिरचरात्मकं स्थावरजङ्गमस्वरूपं विश्वं जगत् बिभ्रत्येव वहन्त्येव (सती) विश्वम्भरा विश्वम्भरानामधेया भवति; न तु केवल रूढ्येति भावः । परमया निरवधिकया क्षमया क्षमागुणेन क्षमा क्षमानाम्नी भवति, अपराधसहिष्णुता क्षमा । मातरं सर्वसाधारण निरूपाधिकमातृत्वयुक्ताम् इत्यर्थः । क्षमाभरणयोः मातुरसाधारणगुणत्वा दिति भावः । तां भूमिदेवीं, पितरं भवन्तञ्च वरिवस्यतः शुश्रूषमाणस्य अस्य मे इमा रात्रयः, इमे काला इत्यर्थः नित्यविभूतौ दिवा रात्रिविभागा- भावात् । व्युच्छन्तु व्युष्टास्स्युः, प्रभातानि भवन्तु, कैङ्कर्योपयुक्त काला भवन्त्वित्यर्थः । रात्रय इत्युक्तानुगुणो व्युच्छन्त्विति निर्देशः ॥ ८१ ॥

मूलम्

या बिभ्रती स्थिरचरात्मकमेव विश्वं विश्वम्भरा परमया क्षमया क्षमा च ।
तां मातरं च पितरं च भवन्तमस्य व्युच्छन्तु रात्रय इमाः वरिवस्यतो मे ॥ ८१ ॥

नीला

विश्वास-प्रस्तुतिः

भावैर् उदार-मधुरैर् विविधैर् विलासैः
भ्रू-विभ्रम–स्मित-कटाक्ष-निरीक्षणैश् च ।
या त्वन्मयी, त्वम् अपि यन्मय एव सा मां
नीला नितान्तम् उररी-कुरुताम् उदारा ॥ ८२ ॥

श्रीनिवासः

[[53]]
भावैरिति । उदारमधुरैः गभीरमनोहरैः भावैश्चित्तवृत्तिभिः विविधै र्विलासैः नानाविधै श्चित्तवृत्तिसूचकशृङ्गारचेष्टितैश्च भ्रूविभ्रमस्मितकटाक्ष- निरीक्षणैश्च भ्रूभङ्ग मन्दहासापाङ्गविलोकनैश्च । यद्वा, विविधैः भ्रूविभ्रमस्मित कटाक्षनिरीक्षणै र्विलासैश्चेत्यन्वयः । या नीला त्वन्मयी त्वमपि यन्मय एव । " मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः” इत्युक्तप्रकारेण अन्योन्य मनन्यभोग्यौ भवन्ता वित्यर्थः । नितान्तमुदारा आश्रिताभिलषित- प्रदाननियता, सा नीला मामुररीकुरुताम् नित्यकिङ्करत्वेन अङ्गीकारार्हं करोतु । “ऊरीकृतमुररीकृत मङ्गीकृतम्” इत्यमरः । “नीलातुङ्गस्तन- गिरितटीसुप्तम्" इत्युक्तप्रकारेण नीलाया भगवदभिमतवल्लभात्वात् तदङ्गीकार एव परमप्राप्य इति भावः ॥ ८२ ॥

मूलम्

भावैरुदारमधुरैर्विविधैर्विलासैः भ्रूविभ्रमस्मितकटाक्षनिरीक्षणैश्च ।
या त्वन्मयी त्वमपि यन्मय एव सा मां नीला नितान्तमुररीकुरुतामुदारा ॥ ८२ ॥

विश्वास-प्रस्तुतिः

भावैर् अनुक्षणम् अ-पूर्व-रसानुविद्धैर्
अत्यद्भुतैर् अभिनवैर् अभिनन्द्य देवीः ।
भृत्यान् यथोचित-परिच्छदिनो यथार्हं
सम्भावयन्तम् अभितो भगवन्! भवेयम् ॥ ८३ ॥

श्रीनिवासः

भावै रनुक्षणमपूर्वरसानुविद्धै- रत्यद्भुतैरभिनवै रभिनन्द्य देवीः । भृत्या न्यथोचितपरिच्छदिनो यथार्हं सम्भावयन्त मभितो भगवन्भवेयम् ॥ ८३ ॥ भावैरिति । हे भगवन्, अनुक्षण मपूर्वेण भोग्यतातिशयात् नित्यापूर्ववत्प्रतीयमानेन, रसेन शृङ्गाररसविशेषेण अनुविद्धैर्मिलितैः अत्यद्भुतैः अत्याश्चर्यावहैः अभिनवै र्नित्य मपूर्वैः भावै स्सात्त्विकादिभिः भावैः देवीः श्रीभूमिनीलाः अभिनन्द्य अत्यन्तानन्दयुक्ताः कृत्वा यथोचितः स्वस्वाधिकारानुरूपः परिच्छदः परिकरः वेत्रच्छत्रादि रेषा मस्तीति तथोक्तान् भृत्यान् विष्वक्सेनादीन् यथार्हं अधिकारानुगुणं सम्भावयन्तं सत्कृता न्कुर्वन्त मङ्गीकुर्वन्तम् इत्यर्थः । भवन्तमिति शेषः । अभितः [[54]] भवेयम् । “अभितः परितः" इत्यादिना द्वितीया । भवद्विषयक सर्वविधकैङ्कर्यकरण शीलो भूयासम् इत्यर्थः । यद्वा, भवन्तमभितो भवेयम् पत्नीपरिजनादिविशिष्टस्य भवतः परित स्सञ्चरन् भवदीयदिव्यमङ्गल- विग्रहमनुभवेयम् इत्यर्थः ॥ ८३ ॥

मूलम्

भावैरनुक्षणम् अपूर्वरसानुविद्धैः अत्यद्भुतैरभिनवैरभिनन्द्य देवीः ।
भृत्यान् यथोचितपरिच्छदिनो यथार्हं सम्भावयन्तमभितो भगवन्! भवेयम् ॥ ८३ ॥

विनयवाक्

श्रीनिवासः - प्रस्तावः

एवं परिपूर्ण भगवद्नुभवप्रार्थनां कृत्वा
स्वनैच्यानुसन्धानेन
एतादृशी प्रार्थनाऽपि अपचारावहेत्याह-

विश्वास-प्रस्तुतिः

हा हन्त हन्त! हतको ऽस्मि खलो ऽस्मि धिङ् मां
मुह्यन्न् अहो! अहम् इदं किम् उवाच वाचा ।
त्वाम् अङ्ग! मङ्गल-गुणास्पदम् अस्त-हेयम्
आः! स्मर्तुम् एव कथम् अर्हति मादृग्-अंहः ॥ ८४ ॥

श्रीनिवासः

हा हन्तेति । अङ्गेति सम्बोधने । “स्युः प्यावाडङ्ग है है भोः" इत्यमरः । हा हन्त हन्ते त्यव्ययसमुदायेन खेदातिशय स्सूच्यते । हतकोऽस्मि दुष्कर्मभि र्हतप्रायः कृतोऽस्मीत्यर्थः । “असन्नेव स भवति, असद्ब्रह्मेति वेदचेत्, अस्ति ब्रह्मेति चे द्वेद, सन्त मेनं ततो विदुः" इत्युक्त ब्रह्मज्ञानालाभमूल- सत्ताहानि र्जायत इति भावः । अत एव खलोऽस्मि विषयान्तर प्रवणोऽस्मि । मां धिक् ! निन्दाविषं कुरु । “धि निर्भत्सननिन्दयोः” इत्यमरः ।मुह्यन् अभोग्येषु शब्दादिषु भोग्यतया भ्राम्यन्नहं, वाचा अहृदयया केवलवाचेत्यर्थः । इदं किमुवाच कि मवोचम् । उवाचेति लिडुत्तम- पुरुषैकवचनम् । अहो ! आश्चर्ये । निरन्तरं विषयानुभवप्रार्थनापरस्य मे भगवद्नुभवप्रार्थना कथञ्जातेति भावः । अस्तहेयं निरस्त समस्तहेयगुणं, मङ्गलगुणास्पदं कल्याणगुणाकरं त्वां स्मर्तुम् एव स्मृतिविषयं कर्तुमेव । एवकारेण अनुभवप्रार्थना व्यवच्छिद्यते । मादृगंहः मादृशानां जनाना मंहः दुरितं कर्तृ । “कलुषं वृजिनैनोघमंहो दुरितदुष्कृतम्” इत्यमरः । कथ मर्हति, कथं वा युक्तं भवति ? स्मर्तुम् एव नाऽऽर्हति किं पुनः प्राप्तुम् इत्यर्थः । आः ! पीडायाम्। “आस्तु स्यात्कोपपीडयोः” इत्यमरः ॥ ८४ ॥

मूलम्

हा हन्त हन्त! हतकोऽस्मि खलोऽस्मि धिङ्मां मुह्यन् अहो! अहमिदं किमुवाच वाचा ।
त्वामङ्ग! मङ्गलगुणास्पदमस्तहेयम् आः! स्मर्तुमेव कथमर्हति मादृगंहः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

अंहः प्रसह्य विनिगृह्य, विशोध्य बुद्धिं,
व्यापूय विश्वम् अशिवं जनुषा ऽनुबद्धम् ।
आधाय सद्-गुण-गणान् अपि नाहम् अर्हस्
त्वत्-पादयोर् यद् अहम् अत्र चिरान् निमग्नः ॥ ८५ ॥

श्रीनिवासः

[[55]]
अंह इति । यत् यस्मात् कारणात् अहं तत्र अंहस्सु चिरं निमग्नः अवगाढः, अतोहेतोः, अंहः दुरितं, प्रसह्य विनिगृह्य बलात्कारेण निराकृत्य “धर्मेण पाप मपनुदति” इति न्यायेन क्रमेण चिरकालानुष्ठित- प्रायश्चित्तविनाश्यं दुष्कर्म क्षमाविषयं कृत्वेत्यर्थः । बुद्धिं विशोध्य, “जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते" इत्युक्तप्रकारेण प्रक्षीणाशेषकल्मषपुरुषचित्तोत्पत्तियुक्तां भक्तिमपि मदीयबुद्ध्या उत्पाद्येत्यर्थः । जनुषा जन्मना अनुबद्धं अनुषक्तं, विश्वं समस्तं अशिवं अशुभावहं विषयवासनारुच्यादि । अशिवं विश्वमिति वाऽन्वयः । व्यापूय शोधयित्वा, वि, आड् पूर्वात् पूञ् पवने इति धातो र्त्यप् । व्याधूयेति पाठे अपोह्येत्यर्थः । सद्गुणगणान् अपहतपाप्म- त्वादिगुणसमाजान् आधाय उत्पाद्याऽपि त्वत्पादयोः नाऽर्हः त्वच्चरण- परिचरणार्हो न भवामीत्यर्थः ॥ ८५ ॥

मूलम्

अंहः प्रसह्य विनिगृह्य विशोध्य बुद्धिं व्यापूय विश्वमशिवं जनुषाऽनुबद्धम् ।
आधाय सद्गुणगणानपि नाहमर्हः त्वत्पादयोर्यदहमत्र चिरान्निमग्नः ॥ ८५ ॥

श्रीनिवासः - प्रस्तावः

भगवतो दयावात्सल्यादिकम् अनुसन्धाय पुनस् समाहित हृदयो भवति ।

विश्वास-प्रस्तुतिः

जाने ऽथवा किम् अहम् अङ्ग! यद् एव सङ्गाद्
अङ्गीकरोषि, न हि मङ्गलम् अन्यद् अस्मात् ।
तेन त्वम् एनम् उररी कुरुषे जनं चेद्
नैवामुतो भवति युक्ततमो हि कश्चित् ॥ ८६ ॥

श्रीनिवासः

जाने इति ।
अथवेति पक्षान्तरे । अङ्गेति सम्बोधने ।
अहं किं जाने, एवं न जाने । त्वदङ्गीकारहेतुभूत त्वदीयवात्सल्यादिकं परिच्छिद्य न जानामीत्यर्थः ।
यदेव पूर्वोक्तं दुरितम् एव, सङ्गात् स्वस्वामिभावसम्बन्धात् कारणात्, अस्मा द्दुरिता दन्यत् मङ्गलं परिणाह्यता हेतुभूतं सुकृतं नास्तीति [[56]] मत्वेति शेषः ।
अङ्गीकरोषि हि; दुरितम् एव सुकृतत्वेनाङ्गीकरोषिहीत्यर्थः ।
प्रसिद्धञ् चैतत् -

“दोषो यद्यपि तस्य स्यात्
सतामेतदगर्हितम् ।
विभीषणो वा सुग्रीव,
यदि वा रावणः स्वयम्”

इत्यादौ । यद्वा,

देव, यत्तु समा दङ्गीकरोषि अस्माद्भवदङ्गीकारात् अन्यन्मङ्गलं नहीत्यन्वयः । भवदङ्गीकृतत्वम् एव मङ्गलमिति भावः; अन्य त्समानम् ।

तेन दोषेषु गुणत्वबुद्धिमूलकारणेन सङ्गेन त्वं एनं जनं

“ आः स्मर्तुमेव कथ मर्हति मादृगंहः”

इति पूर्वोक्तकलुषदूषित मिमम् इत्यर्थः । उररीकुरुषे चेत्, अङ्गीकरोषि यदि, अमुतः अमुष्मात् जनात् । पञ्चम्यास्तसिल् ।

युक्ततरः कश्चित्

“तेषां ज्ञानी नित्ययुक्तः
एकभक्ति र्विशिष्यते”

इत्युक्तो योऽपि कोऽपि योगिश्रेष्ठो नैव भवति हि नास्त्येव हि ।
“नाऽयमात्मा प्रवचनेन” इत्यारभ्य
" यमेवैष वृणुते तेन लभ्यः” इत्यत्र तात्पर्यम् ।(5)
स्वस्वामिभावरूपसङ्गेन दोषेषु गुणत्वबुद्धिरूपवात्सल्यं जायते ।

तेनाऽस्मादृशा मपि अनुष्ठित साङ्गभक्तियोगानाम् इव भवदङ्गीकारो भवतीति भावः ॥ ८६ ॥

मूलम्

जानेऽथवा किमहमङ्ग! यदेव सङ्गाद् अङ्गीकरोषि न हि मङ्गलमन्यदस्मात् ।
तेन त्वमेनमुररीकुरुषे जनं चेद् नैवामुतो भवति युक्ततमो हि कश्चित् ॥ ८६ ॥

श्रीनिवासः - प्रस्तावः

केवलवात्सल्यमूल-भगवत्-कृपा-विषयत्वं निरन्तराचरित-पाप-प्रचुरस्य स्वस्य
कथं सम्भवतीति पुनर् अप्य् आशङ्कते -

विश्वास-प्रस्तुतिः

यन् नाभवाम भवदीय-कटाक्ष-लक्षं
संसार-गर्त-परिवर्तम् अतो ऽगमाम
आगांसि ये खलु सहस्रम् अजस्रम् एव
जन्मस्व् अतन्महि कथं त इमे ऽनुकम्प्याः ॥ ८७ ॥

श्रीनिवासः

यदिति । यत् यस्मात्कारणात् भवदीयकटाक्षस्य लक्षं लक्ष्यं पात्रम् इत्यर्थः। “लक्ष्यं लक्षं शरव्यञ्च" इत्यमरः । नाऽभवाम न भूताः । अतो हेतोः संसार एव गर्तः बिलम् इत्यर्थः । “गर्तावटौ भुविश्वभ्रे ” इत्यमरः । संसारस्य अशक्यारोहणत्वात् गर्तत्वोक्तिः । तस्मिन्परिवर्तं परिवर्तनम् अगमाम प्राप्ताः स्मः । लुङत्तम बहुवचनम् । जायमानकालकटाक्षाभावात [[57]] नित्यसंसारिणो जाता इत्यर्थः । एवं जन्मसु अनेकजन्मनीत्यर्थः । अजस्रं अविच्छेदेन सहस्रं आगांसि अकृत्यकरणाद्यपराधानेव खलु, अतन्महि अरचयाम। तनोतेरात्मनेपदलङुत्तमबहुवचनम् । त इमे असंख्यातेषु जन्मसु निरन्तर मनन्तापराधकारिण एते वयमित्यर्थः । कथ मनुकम्प्याः । " वधार्ह मपि काकुत्स्थः कृपया पर्यपालयत्" इत्यत्राऽपि सकृत् कृत एवापराध इति भावः ॥ ८७ ॥

मूलम्

यन्नाभवाम भवदीयकटाक्षलक्षं संसारगर्तपरिवर्तम् अतोऽगमाम ।
आगांसि ये खलु सहस्रमजस्रमेव जन्मस्वतन्महि कथं त इमेऽनुकम्प्याः ॥ ८७ ॥

श्रीनिवासः - प्रस्तावः

सम्प्रति संसार-गर्त-परिवर्तन-श्रान्तस्य कर्म-ज्ञान-भक्ति-शून्यस्य मम

“ एवं संसृति-चक्र-स्थे
भ्राम्यमाणे स्वकर्मभिः,
जीवे दुःखाकुले विष्णोः
कृपा काऽप्य् उपजायते”

इत्युक्तनिर्हेतुक-कृपैव गतिर् इत्याह

विश्वास-प्रस्तुतिः

सत्-कर्म नैव किल किञ्चन सञ्चिनोमि
विद्या ऽप्य् अवद्य-रहिता विद्यते मे ।
किञ्च त्वद्-अञ्चित-पदाम्बुज-भक्ति-हीनः
पात्रं भवामि भगवन्! भवतो दयायाः ॥ ८८ ॥

श्रीनिवासः

सदिति । हे भगवन् ज्ञानशक्त्यादिषाङ्गुण्यपरिपूर्ण, किञ्चन किञ्चिदपि सत्कर्म, फल-सङ्ग - कर्तृत्व रहितं केवल भगवदाराधनरूपं यज्ञदानादिकं नित्यनैमित्तिकभेदेन वर्णाश्रमविहितं कर्म, नैव सञ्चिनोमि न सम्पादयाम्येव । नैवेति एक मव्ययं वा । किलेति प्रसिद्धौ । अवद्यरहिता संशयविपर्ययादि- दोषरहिता विद्याऽपि ज्ञानञ्च मे नतु विद्यते । अर्थपञ्चक विषयकसमीचीन- ज्ञान ञ्च नास्तीत्यर्थः । किञ्च, तदुभयाभावे सत्यपि त्वदञ्चितपदाम्बुजयोः त्वदीय सर्वसमर्चितपादारविन्दयोः भक्तिहीनः प्रीतिशून्यः, महनीयविषया प्रीति भक्ति रित्युच्यते । कर्मज्ञानभक्तियोगेषु प्रवेशमात्र मपि नास्तीति निष्कृष्टार्थः । एवम्भूतोऽहं भवतो दयायाः निर्हेतुककृपायाः पात्रं भवामि, स्वकीयदयाया स्तथाविधत्वा दिति भावः ॥ ८८ ॥

मूलम्

सत्कर्म नैव किल किञ्चन सञ्चिनोमि विद्याऽप्यवद्यरहिता न च विद्यते मे ।
किञ्च त्वदञ्चितपदाम्बुजभक्तिहीनः पात्रं भवामि भगवन्! भवतो दयायाः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

किं भूयसा प्रलपितेन! यद् एव किञ्चित्
पापाह्वम् अल्पम् उरु वा तद् अ-शेषम् एषः ।
जानन् न वा शत-सहस्र-परार्ध-कृत्वो
यो ऽकार्षम् एनम् अ-गतिं कृपया क्षमस्व ॥ ८९ ॥

श्रीनिवासः

किमिति । भूयसा बहुना, प्रलपितेन प्रलापेन । नपुंसके भावे क्तः । किम् ? न किमपि प्रयोजनम् इत्यर्थः । अल्पमुरु वा स्वल्पं महद्वा, यदेव किञ्चित्पापाह्वं पापशब्दभिधेयं, मे यत्किञ्चित्कर्माऽस्ति, तदशेषं तत्सर्वं जानन्वा न वा, ज्ञानेन अज्ञानेन वा, बुद्धिपूर्व मबुद्धिपूर्वं वेत्यर्थः । अल्पमुरु वा स्वल्पं महद्वा योऽहं शतसहस्रपरार्धकृत्वः अपरिमितकृत्व इत्यर्थः । अकार्षं कृतवानस्मि । अतः अगति मेनं गत्यन्तरशून्यम् अनन्यशरणमिमं जनं, कृपया केवलदयया क्षमस्व क्षमाविषयं कुरुष्व मदीयापराधान् क्षमस्वेत्यर्थः ॥ ८९ ॥

मूलम्

किं भूयसा प्रलपितेन! यदेव किञ्चित् पापाह्वम् अल्पमुरु वा तदशेषमेषः ।
जानन् न वा शतसहस्रपरार्धकृत्वो योऽकार्षम् एनम् अगतिं कृपया क्षमस्व ॥ ८९ ॥

श्रीनिवासः - प्रस्तावः

इदानीं भवदीय-परिग्रहातिशय-सूचक–
ज्ञान-भक्त्यादि-सम्पन्न- भगवद्-रामानुजार्य-कृपा-विषयम् अपि मां
विषय-वासना दूषयतीति विषीदति-

विश्वास-प्रस्तुतिः

देव! त्वदीय-चरण-प्रणय-प्रवीण-रामा-
नुजार्य-विषयी-कृतम् अप्य् अहो! माम् ।
भूयः प्रधर्षयति वैषयिको विमोहो -
(तत्-कारयितुर्) मत्-कर्मणः कतरद् अत्र (जगति) समान-सारम् ॥ ९० ॥

श्रीनिवासः

देवेति । हे देव स्वामिन्, त्वदीयचरणयोः प्रणये भक्त्यां प्रवीणः निपुणः भवदीयपादविषयक भक्त्यनुष्ठानकुशल इत्यर्थः । तादृशो यो रामानुजार्यः तेन विषयीकृतं परिगृहीतमपि मां वैषयिकः विषयसम्बन्धी विमोहः भ्रान्तिः अत्यन्तहेयविषयकभोग्यताबद्धि रित्यर्थः । भूयः भूयशः प्रधर्षयति परिभवति स्ववशीकरोतीत्यर्थः ।
अत्र अस्मिन् जगति मत्कर्मणः समानसारं तुल्यबलं कतरत् कीदृशं वा कर्मेत्यर्थः । तादृशं प्रबलं दुष्कर्म न परिदृश्यत इति भावः ॥ ९० ॥

मूलम्

देव! त्वदीयचरणप्रणयप्रवीणरामानुजार्यविषयीकृतम् अप्यहो! माम् ।
भूयः प्रधर्षयति वैषयिको विमोहो मत्कर्मणः कतरदत्र समानसारम् ॥ ९० ॥

सांसारिक-दुःखानि

श्रीनिवासः - प्रस्तावः

सम्प्रति सांसारिकदुःखसन्ततेर् अत्यन्त-दुस्सहतां पञ्चभिः श्लोकैराह-

विश्वास-प्रस्तुतिः

गर्भेषु निर्भर-निपीडन-खिन्न-देहः
क्षोदीयसो(=अतिक्षुद्रस्य) ऽतिमहतो ऽप्य् अखिलस्य जन्तोः ।
जन्मान्तराण्य् अनुविचिन्त्य परस्सहस्राण्य्
अत्राहम् अप्रतिविधिर् निहतश् चरामि ॥ ९१ ॥

श्रीनिवासः

[[59]] गर्भेष्विति । क्षोदीयसः अतिक्षुद्रस्य, अल्पशरीरपरिमाणस्येत्यर्थः । अतिमहतः अतिस्थूलशरीरपरिमाणस्यापि, अखिलस्य जन्तोः कृत्स्नस्य सत्त्वस्य, गर्भेषु निर्भरनिपीडनेन अतिमात्रसम्बाधजन्यपीडयेत्यर्थः । खिन्नदेहः क्लिष्टशरीरः, परस्सहस्राणि जन्मान्तराणि अनुविचिन्त्य निहतः निहतप्रायः अहं अत्र अस्मिन् काले अप्रतिविधिः अप्रतिक्रियः प्रायश्चित्तशून्यस्सन् चरामि गर्भदशायां जातिस्मरणं, जातस्य ज्ञानभ्रंशोऽपि, “निरुच्छ्वासस्सचैतन्य स्स्मरन् जन्मशतान्यपि, आस्ते गर्भेऽतिदुःखेन निजकर्म- निबन्धनः ॥ विज्ञानभ्रंश माप्नोति ज्ञातश्चमुनिसत्तम" इति विष्णु पुराणे प्रतिपादितः । ‘क्षोदीयसोऽतिमहतः’ इति पिपीलिकादिः गजान्तश्च गृह्यते ॥ ९१ ॥

मूलम्

गर्भेषु निर्भरनिपीडनखिन्नदेहः क्षोदीयसोऽतिमहतोऽप्यखिलस्य जन्तोः ।
जन्मान्तराण्यनुविचिन्त्य परस्सहस्राण्यत्राहम् अप्रतिविधिर्निहतश्चरामि ॥ ९१ ॥

विश्वास-प्रस्तुतिः

भूयश् च जन्म-समयेषु सु-दुर्-वचानि
दुःखानि दुःखम् अतिरिच्य किम् अप्य् अजानन्
मूढो ऽनुभूय, पुनर् एव तु बाल-भावात्
दुःखोत्तरं निज-चरित्रम् अमुत्र सेवे ॥ ९२ ॥

श्रीनिवासः

भूयश्चेति । भूयश्च गर्भक्लेशानुभवानन्तरञ्च, जन्मसमयेषु, जन्मना मनेकत्वा द्बहुवचनम्। सुदुर्वचानि, ईदृशानि इयन्तीति निर्वक्तुमशक्यानि दुःखानि अनुभूय, दुःख मतिरिच्य किमप्यजानन् दुःखादन्य त्किमप्यननुभव न्नित्यर्थः । मूढः दुःखनिवर्तकोपायज्ञानशून्यः अहं, पुनरेव तु ‘अपिच’ इतिवत् एकपदमव्ययम्; पुनरपीत्यर्थः । बालभावात् बालत्वात् सुखोपायज्ञानानुष्ठानशून्यत्वा दित्यर्थः । अमुत्र परलोके, दुःखोत्तरं दुःखमुत्तरं यत्रेतिविग्रहः, प्रचुरदुःखावहं निजचरित्रं स्वकर्म सेवे भजामि, तादृशं पाप मनुतिष्ठामीत्यर्थः ॥ ९२ ॥

मूलम्

भूयश्च जन्मसमयेषु सुदुर्वचानि दुःखानि दुःखमतिरिच्य किमप्यजानन् ।
मूढोऽनुभूय पुनरेव तु बालभावात् दुःखोत्तरं निजचरित्रममुत्र सेवे ॥ ९२ ॥

श्रीनिवासः - प्रस्तावः

[[60]]
इदानीं यौवनकालिकं चरित्र मनुसन्धत्ते -

विश्वास-प्रस्तुतिः

भूयांसि भूय उपयन् विविधानि दुःखान्य्
अन्यच् च दुःखम् अनुभूय सुख-भ्रमेण ।
दुःखानुबन्धम् अपि दुःख-विमिश्रम् अल्पं
क्षुद्रं जुगुप्सित-सुखं सुखम् इत्य् उपासे ॥ ९३ ॥

श्रीनिवासः

भूयांसीति । भूयः पुनरपि विविधानि नानाप्रकाराणि भूयांसि, बहूनि दुःखानि उपयन् प्राप्नुवन् अहं अन्य दुःखञ्च दुःखे ष्वन्यतमम् एव सुखभ्रमेण अनुभूय दुःखविमिश्रं अनुभवदशायाम् एव क्लेशाविनाभूतं, दुःखानुबन्धमपि कालान्तरे दुःखोत्पादकञ्च, अल्पं अल्परूपं क्षुद्रं अल्पकालिकं, क्षयिष्णु इत्यर्थः, स्वप्नकल्पमिति यावत् । जुगुप्सितसुखं शिष्टगर्हितं, विषयानुभवसुखमिति यावत् । इदम् एव सर्वोत्तीर्णं सुखमिति मत्वा उपासे तत्साधनान्यनुतिष्ठा मीत्यर्थः ॥ ९३ ॥

मूलम्

भूयांसि भूय उपयन् विविधानि दुःखानि +अन्यच्च दुःखमनुभूय सुखभ्रमेण ।
दुःखानुबन्धमपि दुःखविमिश्रमल्पं क्षुद्रं जुगुप्सितसुखं सुखमित्युपासे ॥ ९३ ॥

विश्वास-प्रस्तुतिः

लोलद्भिर् इन्द्रिय-हयैर् अ-पथेषु नीतो
दुष्प्-राप–दुर्-भग–मनो-रथ–मथ्यमानः
विद्या-धनाभिजन-जन्म-मदेन काम–
क्रोधादिभिश् च हत-धीर् न शमं प्रयामि ॥ ९४ ॥

श्रीनिवासः

लोलद्भिरिति । लोलद्भिः चलद्भिः इन्द्रियहयैः, “इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः” इत्युक्तप्रकारेण विशृङ्खलप्रचारै रिन्द्रियाश्वैः अपथेषु अपमार्गेषु नीतः, अतएव दुष्प्रापै दुर्लभैः, दुर्भगै र्गर्हितैश्च मनोरथै र्मनोरथशतैः, “य त्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः, एकस्याऽपि न पर्याप्तम्" इत्युक्तप्रकारेण असंख्यातै र्मनोरथैः मथ्यमानः पीड्यमानः, अतएव हतभीः निर्भयोsहं, विद्याधनाभिजनेभ्यो जन्म यस्य तेन मदेन, “विद्यामदो धनमदस्तथैवाऽभिजनो मदः" इत्युक्तमदत्रयेणेत्यर्थः । कामक्रोधादिभिश्च आदिशब्देन असूयामात्सर्यादयो गृह्यन्ते । शम मिन्द्रियजयं न प्रयामि न भजामि ॥ ९४ ॥

मूलम्

लोलद्भिरिन्द्रियहयैरपथेषु नीतः दुष्प्रापदुर्भगमनोरथमथ्यमानः ।
विद्याधनाभिजनजन्ममदेन कामक्रोधादिभिश्च हतधीर्न शमं प्रयामि ॥ ९४ ॥

श्रीनिवासः - प्रस्तावः

उक्तमर्थम् एव विवृणोति -

विश्वास-प्रस्तुतिः

लभ्येषु दुर्-लभतरेष्व् अपि वाञ्छितेषु
जाता सहस्र-गुणतः प्रतिलम्भने(=लाभे) ऽपि ।
विघ्नैर् हतेष्व् अपि च तेषु स-मूल-घातं,
वर्धिष्णुर् एव, तु शाम्यति हन्त तृष्णा ॥ ९५ ॥

श्रीनिवासः

[[61]] लभ्येष्विति । लभ्येषु सुलभेषु, दुर्लभतरेषु अत्यन्तदुर्लभेष्वपि वाञ्छितेषु इष्टवस्तुषु जाता तृष्णा सहस्रगुणतः सहस्रकृत्वः तेषां सुलभानां प्रतिलम्भने लाभे ऽपि, तेषु दुर्लभतरेषु समूलघातं यथा तथा विध्नै र्हतेषु हिंसितेष्वपि वर्धिष्णु रेव प्रतिक्षणं पल्लविता भवतीत्यर्थः । किन्तु न शाम्यति, लभ्याना मनन्तकृत्वो लाभेऽपि न तृष्णोप शमः; सर्वात्मना दुर्लभानां समूलहानावपि न तृष्णोपशम इतिभावः । हन्तेति खेदे । न तु शाम्यति, किन्तु वर्धिष्णुरेवेति वाऽन्वयः ॥ ९५ ॥

मूलम्

लभ्येषु दुर्लभतरेष्वपि वाञ्छितेषु जाता सहस्रगुणतः प्रतिलम्भनेऽपि ।
विघ्नैर्हतेष्वपि च तेषु समूलघातं वर्धिष्णुरेव न तु शाम्यति हन्त तृष्णा ॥ ९५ ॥

श्रीनिवासः - प्रस्तावः

प्रातिकूल्य-वर्जनाभावम् उक्त्वा,
आनुकूल्य-सङ्कल्पो ऽपि नास्तीत्याह-

विश्वास-प्रस्तुतिः

त्वत्-कीर्तन-स्तुति–नमस्-कृति–वेदनेषु
श्रद्धा न भक्तिर् अपि शक्तिर् अथो न चेच्छा ।
नैवानुताप-मतिर् एष्व् अकृतेषु, किं तु
भूयान् अहो! परिकरः प्रतिकूल-पक्षे ॥ ९६ ॥(4)

श्रीनिवासः

त्वदिति । त्वदीयनामकीर्तन गुणकीर्तनप्रणामध्यानेषु भक्तिः अत्यन्ताभिनिविष्ट-भोग्यता-बुद्धिः
न श्रद्धा विश्वास-त्वरा च न, शक्तिः अनुष्ठानसत्त्वमपि न, अथो अथवा पूर्वोक्तत्रितयाभावेऽपि इच्छा रुचिरपि चन।
एष्व् अकृतेषु अननुष्ठितेषु अनुतापमतिश्च नैव।

एकस्मिन्न् अप्य् अतिक्रान्ते
मुहूर्ते ध्यान-वर्जिते ।
दस्युभिर् मुषितेनेव
युक्तम् आक्रन्दितुं नमः (5)

इत्युक्तानुतापोऽपि नास्ति । किन्तु प्रतिकूलपक्षे भूयान् अनेक.. उपकरणं अस्तीति शेषः । अहो आश्चर्ये ॥ ९६ ॥

मूलम्

त्वत्कीर्तनस्तुतिनमस्कृतिवेदनेषु श्रद्धा न भक्तिरपि शक्तिरथो न चेच्छा ।
नैवानुतापमतिरेष्वकृतेषु किं तु भूयान् अहो! परिकरः प्रतिकूलपक्षे ॥ ९६ ॥

श्रीनिवासः - प्रस्तावः

प्रातिकूल्यसद्भावम् एवाऽऽह

विश्वास-प्रस्तुतिः

एतेन वै सु-विदितं बत मामकीनं
दौरात्म्यम् अ-प्रतिविधेयम् अ-पारम् ईश! ।
सम्मूर्च्छतो ऽप्य् अपदम् अस्मि यतस् त्वदीय-
निस्सीम-भूम-करुणामृत-वीचि-वायोः ॥ ९७ ॥

श्रीनिवासः

[[62]]

एतेनेति । हे ईश, यतः कारणात् सम्मूर्छतोऽपि सर्वत्र विसृत्वरस्यापि त्वदीया निस्सीमभूमा निरवधिकमहिमा च करुणैव अमृतवीचिः क्षीरार्णवः अमृतोत्पत्तिनिमित्तत्वात् क्षीरार्णवस्य तथोक्तिः, तस्या स्सम्बन्धिनो वायोः करुणापरम्परा सम्बन्ध स्यापीत्यर्थः । अपद मस्मि अपात्र मस्मि । एतेन कारणेन अपारं अप्रतिविधेयं दुस्समाधेयं प्रायश्चित्ताविनाश्यम् इत्यर्थः । मामकीनं दौरात्म्यं दुस्स्वभावत्वं, "" आत्मा देहे धृतौ बुद्धौ स्वभावे परमात्मनि” इत्यमरः (‘आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च’ इत्यमरकोशपाठः ) । सुविदितं हि सुप्रसिद्धं हीत्यर्थः । विषयविभागाभावेन विजृम्भमाण भगवद्नुकम्पापयोनिधितरङ्ग शीकर सम्बन्धिगन्धवहस्याप्यविषयत्वात् मदीयदुष्कृतं निष्कृतिरहितमिति विदितमिति भावः ॥ ९७ ॥

मूलम्

एतेन वै सुविदितं बत मामकीनं दौरात्म्यम् अप्रतिविधेयमपारम् ईश! ।
सम्मूर्च्छतोऽप्यपदमस्मि यतस्त्वदीयनिस्सीमभूमकरुणामृतवीचिवायोः ॥ ९७ ॥

श्रीनिवासः - प्रस्तावः

तर्हि का गतिर् इत्य् आशङ्कायां
मद्-अङ्गीकारेण भवदीय-कल्याण-गुणानां विषय-लाभो भवतीत्याह-

गतिः

विश्वास-प्रस्तुतिः

ऐश्वर्य-वीर्य-करुणा-गरिम-क्षमाद्याः
स्वामिन्! अ-कारण-सुहृत्त्वम् अथो विशेषात् ।
सर्वे गुणाः स-विषयास् तव, माम् अ-पार-
घोराघ-पूर्णम् अ-गतिं निहतं समेत्य ॥ ९८ ॥(5)

श्रीनिवासः

[[63]]

ऐश्वर्येति । हे स्वामिन्, अनया सम्बुद्धया अपराधसहन- पूर्वकेष्टप्रापकत्वे प्राप्ति रुक्ता । ऐश्वर्यं किञ्चित्कारनिरपेक्षत्वे हेतुः । वीर्यं सङ्कल्पानुगुणरक्षणे हेतुः । करुणा “व्यसनेषु मनुष्याणाम्" इत्युक्तप्रकारेण आश्रितदुःखनिवृत्तेः स्वदुःखनिवृत्तित्वे हेतु: । गरिमा आश्रितदोषा- नभिज्ञतायां हेतुः । क्षमा अपराधसहनशीलता । आद्यशब्देन वात्सल्य- सौशील्यादयो गृह्यन्ते । तव सर्वे गुणाः अथो अनन्तरं विशेषात् अकारणसुहृत्त्वम् अनुपकारिण्यपि सौहार्दम् । इदमनिष्टनिवृत्ति- पूर्वकेष्टप्रापणे हेतुः अयं गुणश्च अपारघोराघपूर्णं दुस्तरदुर्विषह (निरयावहपुरस्कृतत्वावच्छिन्न) दुष्कृतसम्पूर्णं अगतिं प्रायश्चित्तादि शून्यम्, अतएव नितरां हतं मां समेत्य सविषयाः विषयलाभवन्तः; अन्यत्र भवदुणानां सर्वेषां विषयलाभो न भवतीति भावः ॥ ९८ ॥

मूलम्

ऐश्वर्यवीर्यकरुणागरिमक्षमाद्याः स्वामिन्! अकारणसुहृत्त्वम् अथो विशेषात् ।
सर्वे गुणाः सविषयास्तव माम् अपारघोराघपूर्णम् अगतिं निहतं समेत्य ॥ ९८ ॥

श्रीनिवासः - प्रस्तावः

यथाकथञ्चिद् अपराध-सहनेऽपि अपवर्गप्रदानम् अनुष्ठित-साधनानाम् एवेत्याशङ्कयाऽऽह -

विश्वास-प्रस्तुतिः

त्वत्-पाद-संश्रयण-हेतुषु साधिकारान्
उद्युञ्जतश् चरित-कृत्स्न-विधींश् च तांस् तान् ।
त्वं रक्षसीति महिमा न तवालम् एषः
मां चेद् अन्-ईदृशम् अन्-अन्य-गतिं न रक्षेः ॥ ९९ ॥(5)

श्रीनिवासः

त्वदिति । हे स्वामि नित्यनुषङ्गः । त्वत्पादसंश्रयणे भवत्पदारविन्दप्राप्तौ हेतुषु साधनभूतेषु कर्मयोगादिषु साधिकारान् उपनयनाध्ययनाद्यधिकारसहितान् उद्युञ्जतः अनुष्ठानोद्योगवतः, चरितकृत्स्नविधीन् अनुष्ठितसाङ्गसाधनांश्च तांस्तान् त्वं रक्षसीति तवैष महिमा, नाऽलं न पर्याप्तः । कुत इत्यत आह मामिति । अनीदृशं पूर्वोक्ताधिकारानुष्ठानशून्यम्, अतएव अनन्यगतिं उपायान्तर शून्यं न रक्षे श्चेत् तव महिमा नाऽलमिति पूर्वेणान्वयः । अनुष्ठितसाधनजनरक्षणं कृतप्रतिकृतप्रायं स्यादिति भावः ॥ ९९ ॥

मूलम्

त्वत्पादसंश्रयणहेतुषु साधिकारान् उद्युञ्जतश्चरितकृत्स्नविधींश्च तांस्तान् ।
त्वं रक्षसीति महिमा न तवालमेषः मां चेदनीदृशमनन्यगतिं न रक्षेः ॥ ९९ ॥

श्रीनिवासः - प्रस्तावः

तर्हि अपवर्गसाधनानुष्ठानविधिवैयर्थ्यं स्यादित्यत आह -

विश्वास-प्रस्तुतिः

या कर्मणाम् अधिकृतिर्, य इहोद्यमस् तेष्व्
अप्य् एष्व् अनुष्ठितिर् अ-शेषम् इदं हि पुंसाम् ।
त्वाम् अन्तरेण कथञ्चन शक्यम् आप्तुम्
एवं च तेषु मयि चास्ति न ते विशेषः ॥ १०० ॥

श्रीनिवासः

[[64]]
येति । या पूर्वोक्ता कर्मणा मधिकृतिः अधिकारः इह तेषु शास्त्रप्रसिद्धेषु एषु कर्मसु उद्यमः उद्योगः अनुष्ठितिः अनुष्ठान मपि । अत्र कर्मशब्देनमुक्तिसाधनमुच्यते । अशेष मिदं अधिकारोद्योगानुष्ठानानीत्यर्थः । त्वा मन्तरेण त्वत्सङ्कल्प मन्तरेणेत्यर्थः । आप्तुं अधिगन्तुं कथञ्चन अतिप्रयासेनाऽपि न शक्यम् । एवञ्च सति, अशेषस्याऽपि त्वत्सङ्कल्पायत्तत्वे सति तेषु अनुष्ठितसाधनेषु, मयि च ते तव विशेषो नाऽस्ति; साधनानुष्ठान मपि त्वत्सङ्कल्पायत्त श्चेत् त्वत्पादसंश्रयणे एव सङ्कल्पः कर्तव्य इति भावः ॥ १०० ॥

मूलम्

या कर्मणामधिकृतिर्य इहोद्यमस्तेषु +अप्येष्वनुष्ठितिरशेषमिदं हि पुंसाम् ।
त्वामन्तरेण न कथञ्चन शक्यमाप्तुम् एवं च तेषु मयि चास्ति न ते विशेषः ॥ १०० ॥

श्रीनिवासः - प्रस्तावः

साधनानुष्ठानद्वारैव रक्षितव्यम्
इति यदि सङ्कल्पस्
तदानीं गतिमाह-

विश्वास-प्रस्तुतिः

निर्बन्ध एष यदि ते यद् अ-शेष-वैध-
संसेविनो वरद! रक्षसि नेतरान्स् त्वम् ।
तर्हि त्वम् एव मयि शक्त्य्-अधिकार-वाञ्छाः
प्रत्यूह-शान्तिम् इतरच् च विधेहि विश्वाम् ॥ १०१ ॥

श्रीनिवासः

निर्बन्धेति । हे वरद, वरं श्रेष्ठपुरुषार्थं ददातीत्यर्थः । अनेन सिद्धोपायत्वं भगवत स्सूचितम् । अशेषवैधसंसेविनः विध्युक्तसमस्त साधनानुष्ठानानुष्ठातून् रक्षसि, इतरान् न रक्षसीति यत् एष निर्बन्धः ते यदि अस्ति चेत्, तर्हि तदा त्वमेव मयि शक्त्यधिकारवाञ्छाः वाञ्छाशक्तिभ्यां तत्कार्ये उद्योगानुष्ठाने लक्ष्येते । प्रत्यूहशान्तिं विघ्नशमनं, इतर द्विश्वं च [[[65]]] अङ्गोपाङ्गपूर्तिरूप मन्य त्सर्वञ्च विधेहि । अत्र “सुदुष्करेण शोचेद्यो येन येनेष्टहेतुना, स स तस्याऽहम् एवेति चरमश्लोकसङ्ग्रहः" इत्यभियुक्तोक्ति रनुसन्धेया ॥ १०१ ॥

मूलम्

निर्बन्ध एष यदि ते यदशेषवैधसंसेविनो वरद! रक्षसि नेतरान्स्त्वम् ।
तर्हि त्वमेव मयि शक्त्यधिकारवाञ्छाः प्रत्यूहशान्तिमितरच्च विधेहि विश्वाम् ॥ १०१ ॥

कृतज्ञता-स्तुतिः

विश्वास-प्रस्तुतिः

व्यक्तीकुर्वन् निगम-शिरसाम् अर्थम् अन्तर् निगूढं
श्री-वैकुण्ठ-स्तवम् अकृत यः श्रेयसे सज्जनानाम् ।
कूराधीशं गुरुतर-दया-दुग्ध-सिन्धुं तम् ईडे
श्रीवत्साङ्कं श्रुति-मत-गुरु-च्छात्र-शीलैक-धाम ॥

मूलम्

व्यक्तीकुर्वन् निगमशिरसामर्थमन्तर्निगूढं श्रीवैकुण्ठस्तवमकृत यः श्रेयसे सज्जनानाम् ।
कूराधीशं गुरुतरदयादुग्धसिन्धुं तमीडे श्रीवत्साङ्कं श्रुतिमतगुरुच्छात्रशीलैकधाम ॥

विश्वास-प्रस्तुतिः

अर्वाञ्चो यत्-पद-सरसि-ज-द्वन्द्वम् आश्रित्य पूर्वे
मूर्ध्ना यस्यान्वयम् उपगता देशिका मुक्तिम् आपुः ।
सोऽयं रामानुज-मुनिर् अपि स्वीय-मुक्तिं कर-स्थां
यत्-सम्बन्धाद् अमनुत कथं वर्ण्यते कूरनाथः? ॥(5)

मूलम्

अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे मूर्ध्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः ।
सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां यत्सम्बन्धादमनुत कथं वर्ण्यते कूरनाथः? ॥

इति हारीतकुलतिलक श्रीवत्सचिह्नमिश्र विरचिते पञ्चस्तवे श्रीवैकुण्ठस्तवः परिसमाप्तः


  1. परिरक्षकावतार इति ग्रन्थाक्षर मुद्रितः पाठः । परीक्षितावतार इति वा परिरक्षितावतार इति वा पाठो भवेदित्यूह्यते । ↩︎