ThirumAl-irum-chOlai (शठकोपः)
SrI SundarabAhu Sthavam is a big sthavam with 132 slOkams . KurEsar enjoyed the Vaibhavam of ThirumAlirum-chOlai SundararAja PerumAl intensively as the Six AzhwArs did through their 128 Paasurams . PeriyAzhwAr , ANDAL , Thirumangai , BhUthatthAzhwAr , pEy AzhwAr and NammAzhwAr have blessed us with 128 deeply moving Pasaurams about the divya Soundharyam of the Lord celebrated as Azhagar , MaalalankArar , Sundara ThOLudayAn , Sundara Baahu , KaLLazhagar. As archA Moorthy , Azhagar’s aprAkrutha soundharyam shines through His aparanji tanga ThirumEni .
Here at ThirmAlirumchOlati known otherwise as Azhagar Koil , Lord SundarabAhu enjoys the cool breezes from Vrushabha Giri and enjoys Thirumanjanam from the waters of SilambARu (Noopura Gangai) . Here the Lord is accompanied by Sundaravalli ThAyAr and resides under Somasundara VimAnam . The fragrant breeze from the Vrushabha Giri embraces the natural perfume of the Sandal Wood Trees , which are the Sthala Vrukshams at this dhivya dEsam .
kuresha (शठकोपः)
KurEsar’s ancestors were performing atthANi sEvakam to SundarabAhu and Sundaravalli ThAyAr for centuries before one of their descendants settled down in Kooram agrahaaram near Kaanchipuram . Hence , KooratthAzhwAn had ancestral links to ThirumAlirumchOlai . In the 76th SlOkam of SundarabAhu Sthavam , Swamy KurEsar refers to his ancestral links to ThirumAlirumchOlat :
" MaamakAsccha Gurava: purAdhanaa: Sundaram Vanamaheedhragam srithA: "
Here , KurEsar states that his ancestors arrived at ThirumAlirumchOlai and gained Parama PurushArTam through their worship of Azhagar, who had settled earlier at the foothills of VrushabhAdhri .
This elaborate Sthavam was created by KurEsar at ThirumAlirumchOlai , when he was an exile from ChOLa Naadu due to the cruelty of the fanatic ChOLa king . He missed the Sriranga SrI. His AchAryan was away at Melkote. He was approaching the ripe age of one hundred .
Here at " Thenn KooDarkkOn tennan koNDAdum tenn ThirumAlirumchOlai " , KurEsar reminds the Lord about his ancestor’s atthANi sEvakam to Him following the foot steps of Malayadhwaja Paandyan , the ruling king of Tenn Mathurai, who gained Moksham at this dhivya dEsam . Lord SundarabAhu is pratyaksham to Malayadhwaja PaaNDyan even today at this dhivya dEsam .
Here KurEsar missed antharanga Kaimkaryam for his AchAryan (BhAshyakArar) , who was away at Melkote and prayed to Lord SundarabAhu to unite him with his AchAryan . This union happened and AchArya RaamAnuja took his dearest sishyan to Lord VaradarAjan’s Sannidhi and commanded his sishyan to pray for the restoration of his eyesight . The matchless boon giver, Lord VaradarAjan responded positively . KurEsar did not want the eye sight for seeing any one except his AchAryan and Lord VardarAjan , His aarAdhana Moorthy . Lord VaradarAjan granted that special boon to his dear devotee.
विश्वास-प्रस्तुतिः
(श्रीवत्स-चिह्नमिश्रेभ्यो
नम उक्तिम् अधीमहे ।
यद्-उक्तयस् त्रयी-कण्ठे
यान्ति मङ्गलसूत्रताम् ॥)+++(5)+++
मूलम्
(श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥)
शरणागतिः
विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः
अथ भगवद्-भाष्यकार-परम-कृपा-लब्ध-परावर-तत्त्व-याथात्म्याः
तदीय-पदारविन्दद्-वन्द्व-सेवैक-धारकाः श्रीवत्साङ्कमिश्राः
पाषण्ड-प्रभु-विवासित–तद्-विश्लेषम् असहमानाः
विभवावतार-स्तवानन्तरम् अर्चावतार-स्तु तेः प्रस्तुतत्वाच् च,
समाश्रित-जन-सर्वाभीष्ट-प्रद–वन-गिरि-मन्दिर–सुन्दर-बाहु-महिम-स्तव-प्रवृत्ताः
प्रस्तावे एव भाष्य-कार-चरण-नलिनावलोकनम् एव फलत्वेन सङ्कल्प्य
स-कल-श्रुत्य्-अन्त-तत्त्वार्थ-राशिं प्रकाशयितुं प्रारभन्ते-
विश्वास-प्रस्तुतिः
श्रीमन्तौ हरिचरणौ समाश्रितोऽहं
श्री-रामावरज-मुनीन्द्र-लब्ध-बोधः ।
निर्भीकस् तत इह सुन्दरोरु-बाहुं
स्तोष्ये तच्-चरण-विलोकनाभिलाषी ॥ १ ॥
विस्तारः (द्रष्टुं नोद्यम्)
श्रीमन्ताविति । श्रीरामावरज मुनीन्द्रलब्धबोधः श्री रामानुजयोगीन्द्रसम्प्राप्त त्रय्यन्तज्ञानः, अत एव, श्रीमन्तौ हरिचरणौ समाश्रितः ततो हेतोः निर्भीकः भयशून्यः अहं भाष्यकार विश्लेषकाले तच्चरणविलोकनाभिलाषी सन्, सुन्दरोरुबाहुं सुन्दरः रुचिरः उरुः पीनश्च बाहुर्यस्य तं स्तोष्ये, - रामानुजचरणनलिन विलोकनकामः सुन्दरबाहु स्तोष्यामीतिभावः । अयमर्थः “विज्ञापनां वनगिरीश्वर सत्युरूपा मङ्गीकुरुष्व करुणार्णव, मामकीनाम् । श्री रङ्गधामनि यथापुर मेष सोऽहं [[104]]
रामानुजार्यवशगः परिवर्तिषीय " इत्युपसंहारेऽपि स्पष्टः । आदौ श्रीशब्दप्रयोग एव प्रबन्धस्य मङ्गलाचार इति मन्तव्यम् । सुन्दरोरुबाहुं स्तोष्ये इति वस्तुनिर्देशो वा ॥ १ ॥
मूलम्
श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः ।
निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥
नूपरापगा
विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः
सुन्दरबाहोर् इव वनाद्रि-सम्भूत-नूपुरापगाया अपि अभीष्ट-वरप्रदत्वमाह -
विश्वास-प्रस्तुतिः
सुन्दरायत-भुजं भजामहे
वृक्ष-षण्डमयम् अद्रिम् आश्रितम् ।
यत्र सुप्रथित-नूपुरापगा-
तीर्थम् अर्थित-फल-प्रदं विदुः ॥ २ ॥
विस्तारः (द्रष्टुं नोद्यम्)
सुन्दरायतेति । वृक्षषण्डमय मद्रिं आश्रितं सुन्दरायतभुजं भजामहे सेवामहे । सुन्दरश्च आयतश्च भुजो यस्येति विग्रहः । “आयता श्च सुवृत्ता श्च” इत्यादि । यत्र वृक्षषण्डमयाद्रौ सुप्रथिता सुतरां प्रसिद्धा या नूपुरापगा तस्यास्तीर्थं सलिलं अर्थितफलप्रदम् अभिलषित प्रयोजनदायि विदुः जानन्ति सन्त इति शेषः । “ विदो लटो वा ” इति विदेर्लटि णलाद्यादेशः ॥ २ ॥
मूलम्
सुन्दरायतभुजं भजामहे वृक्षषण्डमयमद्रिम् आश्रितम् ।
यत्र सुप्रथितनूपुरापगातीर्थम् अर्थितफलप्रदं विदुः ॥ २ ॥
विश्वास-प्रस्तुतिः
क्वचित् त्वरित-गामिनी क्वचन मन्द-मन्दालसा
क्वचित् स्खलित-विह्वला क्वचन फेनिला सारवा ।
पतन्त्य् अपि किल क्वचित् व्रजति नूपुराह्वा नदी
सु-सुन्दर-भुजाह्वयं मधु निपीय मत्ता यथा ॥ ३ ॥
विस्तारः (द्रष्टुं नोद्यम्)
क्वचिदिति । क्वचित् प्रदेशे त्वरितगामिनी शीघ्रं गच्छन्ती वचन मन्दमन्दालसा अलसेव अत्यल्पवेगवती; यद्वा, मन्दमन्दा च सा अलसा चेति विशेषण समासः । क्वचित् स्खलितविह्वला स्खलन्ती भ्रमन्ती च क्वचन फेनिला सञ्जातफेना, क्वचन सारवा साट्टहासा, क्वचित्पतन्त्यपि उन्नता त्प्रदेशात् पतन्ती च नूपुराह्वा नदी, सुसुन्दरभुजाह्वयं सुन्दरबाहुनामकं निपीय पीत्वा मत्ता यथा मत्तेव व्रजति, यत्र नूपुराह्वा नदी तं ‘वृक्षषण्डमय मद्रि माश्रितम्’ इति पूर्वेणान्वयः ॥ ३ ॥
मूलम्
क्वचित् त्वरितगामिनी क्वचन मन्दमन्दालसा क्वचित् स्खलितविह्वला क्वचन फेनिला सारवा ।
पतन्त्यपि किल क्वचित् व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥ ३ ॥
सुन्दर-बाहुः
विश्वास-प्रस्तुतिः
उदधि-ग–मन्दराद्रि-मथि–मन्थन-लब्ध–पयो-
मधुर-रसेन्दिराह्व-सुध+++(→[जनक]-दोः-परिघ)+++–सुन्दर-दोः-परिघम् ।
अ-शरण-मादृशात्म-शरणं शरणार्थि-जन-
प्रवण-धियं भजेम तरु-षण्डमयाद्रि-पतिम् ॥ ४ ॥
विस्तारः (द्रष्टुं नोद्यम्)
[[105]]
उदधिगमन्दराद्रिमथिमन्थनलब्धपयो- मधुररसेन्दिराह्न सुधसुन्दरदोः परिघम् । अशरण मादृशात्मशरणं शरणार्थिजन-
प्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥ ४ ॥
उदधीति । मन्दराद्रिरेव मन्थाः मथनसाधनदण्डः,
उदधिगेन मन्दराद्रिमथा यन् मन्थनं उदधिगमन्दराद्रिमथिमन्थनं
तेन लब्धे पयोमधुररसेन्दिराह्वसुधे याभ्यां तथोक्तौ सुन्दरदोः परिघौ रुचिर-भुजार्गल-दण्डौ यस्य तं तथोक्तम् ।
पयोमधुररसः अमृतं क्षीराब्धिपय स्सारभूतत्वादमृतस्य । इन्दिराह्वा लक्ष्मीनाम्नी सुधा इन्दिराह्वसुधा,
पयोमधुररसश्च इन्दिराह्वसुधाचेति पयोमधुररसेन्दिराह्वसुधे
यस्य दोः परिघाभ्यां कर्तृभ्यां मन्थनेन करणेन पयोमधुर-रसेन्दिराह्वसुधे लब्धे तम् इत्यर्थः । अशरणानां रक्षकान्तररहितानां मादृशां अस्मत्सदृशानां आत्मनां शरणं रक्षितारं रक्षणार्थिजने रक्षकापेक्षिजने प्रवणधियं आसक्तधियं आभिमुख्यमात्रतृप्तम् इत्यर्थः । तरुषण्ड मयाद्रिपतिं वनगिरिनाथं भजेम सेवेमहि ॥ ४ ॥
विश्वास-टिप्पनी
L L L L G L G L L L G — L L G L L G
(कोकिलकम् (नर्दटकम्))
मूलम्
उदधिगमन्दराद्रिमथिमन्थनलब्धपयोमधुररसेन्दिराह्वसुध सुन्दरदोः परिघम् ।
अशरणमादृशात्मशरणं शरणार्थिजनप्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
शश-धर-रिङ्खण+++(=स्खलन)++++आढ्य-शिखम् उच्छिखर-प्रकरं तिमिर-निभ-प्रभूत-तरु-षण्डमयं भ्रम-दम् ।
+++(नाना-पदार्थ-रूपेण)+++ भिदुरित+++(←भिद्)+++-सप्त-लोक–सु-विशृङ्खल-शङ्ख-रवं
वन-गिरिम् आवसन्तम् उपयामि हरिं शरणम् ॥ ५ ॥
विस्तारः (द्रष्टुं नोद्यम्)
शशधरेति । शशधररिङ्खणेन शशाङ्कसञ्चारेण आढ्या सम्पन्ना शिखा चूडाभूभागो यस्य तम्, उच्छिखरप्रकरम् उन्नतशृङ्गसमूहं तिमिरनिभप्रभूत तरुषण्डमयम् अन्धकार सङ्काश बहुमहीरुहसमूहप्रचुरम् । प्राचुर्यार्थे मयट् । अत एव भ्रमदं तरुषण्ड (मय) एवाऽयं न पर्वतइति भ्रान्तिप्रदम्, एवम्भूतं वनगिरिं आवसन्तं, वनगिरौ वसन्तम् इत्यर्थः । “उपान्वध्याङ्ग्वसः” इति सप्तम्यर्थे द्वितीया ।
भिदुराः पदार्था अस्य सञ्जाताः भिदुरिताः ।
“तदस्य सञ्जातं तारकादिभ्य इतच्” इतीतच् । यद्वा भिदुराः कृताः भिदुरिताः ।
[[106]]
“तत्करोति तदाचष्टे” इति णिचि विहिते निष्पन्नपदं वा ।
भिदुरितेषु सप्तलोकेषु सुविशृङ्खलः निरर्गलः शङ्खरवः शङ्खध्वनिर्यस्मिंस् तम् । हरिं शरण मुपयामि शरणत्वेनोपयामीत्यर्थः ।
प्रथमयोजनायां सुन्दरबाहु-पाणिस्थपाञ्चजन्यध्वनिना सप्तलोकस्थाः पदार्था भिन्ना भवन्तीत्यर्थः ।
द्वितीययोजनायां सप्तलोका एव भिन्ना भवन्तीति भेदः ।
पूर्वश्लोके ‘उदधिगमन्दराद्री’त्यादि विशेषणानि,
एतच्छ्लोकस्थ ‘शशधर - रिङ्खणे त्यादि विशेषणान्यपि दिव्यप्रबन्धानुसारेणेति द्रष्टव्यम् ॥ ५ ॥
मूलम्
शशधररिङ्खणाढ्यशिखम् उच्छिखरप्रकरं तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् ।
भिदुरितसप्तलोकसुविशृङ्खलशङ्खरवं वनगिरिम् आवसन्तम् उपयामि हरिं शरणम् ॥ ५ ॥
वनाद्रिः
विश्वास-प्रस्तुतिः
यत्-तुङ्ग-शृङ्ग-विनिषङ्गि-सुराङ्गनानां
न्यस्तोर्ध्व-पुण्ड्र-मुख-मण्डन-मण्डितानाम् ।
दर्पण्य् अभूद् धृतम् अ-पङ्क-शशाङ्क-पृष्ठं
तद् धाम सुन्दर-भुजस्य महान् वनाद्रिः ॥ ६ ॥
विस्तारः (द्रष्टुं नोद्यम्)
यत्तुङ्गेति । न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानां न्यस्तं धृतं यत् ऊर्ध्वपुण्ड्रम् एव मुखालङ्कारः तेन अलङ्कृतानाम्, यत्तुङ्गशृङ्गविनिषङ्गिण्यर्यस्य वनाद्रेः समुन्नत सानुविनिषण्णाः, या स्सुराङ्गना स्तासाम्, धृत मनुत्तुङ्गशृङ्गधृतम्, अपाङ्क मपगतकलङ्कं यत् शशाङ्कपृष्ठं चन्द्र चरमभागः । “पृष्ठन्तु चरमं तनोः” इत्यमरः ।
कलङ्कत्वेनोक्तस्य शशस्य चन्द्रोत्सङ्ग-स्थत्वात् पृष्ठम् अपाङ्कं भवतीति भावः ।
दर्पण्यभूत् दर्पणोऽभूत् । दर्पण्य- भूदित्येकं पदम् । अभूततद्भावे च्विः “च्वौच” इति दीर्घः । तत्सुन्दरभुजस्य धाम वासस्थानंवनाद्रिः महान् महावैभवः । वनगिरिनामकंसुन्दरबाहुवासस्थानं दिव्यम् इत्यर्थः । पूर्वश्लोके “शशधररिङ्खणाढ्यशिखम्” इत्युक्तम् । ततोऽप्युत्तुङ्गशृङ्गस्थानां सुराङ्गनानां निम्नशुङ्गसञ्चारात् चन्द्रपृष्ठं दर्पणीभवतीति भावः ।।६॥
मूलम्
यत्तुङ्गशृङ्गविनिषङ्गिसुराङ्गनानां न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् ।
दर्पण्यभूत् धृतमपङ्कशशाङ्कपृष्ठं तद् धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
यदीय-शिखरागतां,, शशि-कलां तु शाखा-मृगाः
निरीक्ष्य हर-शेखरी–भवनम् आमृशन्तस् ततः ।
स्पृशन्ति न हि देवता,,न्तर-समाश्रितेति स्फुटं
स एष सुमहा-तरु–व्रज-गिरिः गृहं श्रीपतेः ॥ ७ ॥ +++(4)+++
विस्तारः (द्रष्टुं नोद्यम्)
[[107]] यदीयेति । शाखामृगाः कपयस्तु यदीयशिखरागतां वनगिरि - सम्बन्धिशृङ्गमायातां शशिकलां निरीक्ष्य, हरशेखरीभवनम् अशेखरस्य शेखरतया सम्पत्तिः शेखरीभवनं रुद्रशिरोऽलङ्कारत्वम् आमृशन्तः विचारयन्त सन्तः, ततो हेतोः देवतान्तरसमाश्रितेति न स्पृशन्ति हि । स एषः देवतान्तरसम्बन्धिसम्बन्धासहत्वं चपलानां कपीना मपि यत्सम्बन्धनिबन्धनं सोऽसौ सुमहातरुव्रजगिरिः श्रियः पतेः स्फुटं प्रसिद्धं गृहम्, इन्दिरेशमन्दिरत्वेन सर्वत्र प्रसिद्धेष्वपि प्रसिद्धम् इत्यर्थः ॥ ७ ॥
मूलम्
यदीयशिखरागतां शशिकलां तु शाखामृगाः निरीक्ष्य हरशेखरीभवनम् आमृशन्तस्ततः ।
स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं स एष सुमहातरुव्रजगिरिः गृहं श्रीपतेः ॥ ७ ॥
विश्वास-प्रस्तुतिः
सुन्दर-दोर्-दिव्याज्ञा–ऽऽलम्भन+++(=स्पर्श)+++-
कातर-वशा+++(=करिणी)+++-ऽनुयायिनि करिणि ।
+++(करिणी-गति-मान्द्यात्)+++ प्रणय-ज-कलह-समाधिर् यत्र
वनाद्रिः स एष सुन्दर-दोष्णः ॥ ८ ॥
विस्तारः (द्रष्टुं नोद्यम्)
सुन्दरेति । यत्र वनाद्रौ करिणि श्रीवनगजे, सुन्दरदोर्दिव्याज्ञाया आलम्भनेन स्पर्शेन कातरा भीतिमती या वशा करिणी
तद्-अनुयायिनि तदनुसारिणि सति, वशाकरिणोः प्रणयकलहे करिण्या द्रुतगमने प्रस्तुते सति करिणा न गच्छेति सुन्दरदोर्दिव्याज्ञायां कृतायां करिणी कातरा सती मन्दं गच्छति । ततः करी तदनुसारी भवतीति भावः । “आलम्भः स्पर्श हिंसयोः" इत्यमरः (1. अमरकोशे नोपलभ्यते । )।
एवं सति प्रणयजकलहस्य समाधि स्समाधानं भवति । स एष वनाद्रिः सुन्दरदोष्णः सुन्दर-दोस्-सम्बन्धि-दिव्य-स्थानम् इत्य्-अर्थः ।
तत्रत्य-तिरश्चाम् अपि प्रणयकलहसमाधानसाधनं सुन्दरदोर्दिव्याज्ञैवेति दिव्य-स्थानस्य सकल-जन्तु-जात-समीचीन-ज्ञान-प्रदायित्व म् उक्तं भवतीति
मन्तव्यम् ॥ ८ ॥
मूलम्
सुन्दरदोर्दिव्याज्ञालम्भन कातरवशानुयायिनि करिणि ।
प्रणयजकलहसमाधिर्यत्र वनाद्रिः स एष सुन्दरदोष्णः ॥ ८ ॥
विश्वास-प्रस्तुतिः
स एष सौन्दर्य-निधेर् धृत-श्रियो
वनाचलो नाम सु-धाम यत्र हि ।
भुजङ्-ग-राजस्य कुलस्य गौरवान्
न खण्डिताः कुण्डलिनः शिखण्डिभिः ॥ ९ ॥
विस्तारः (द्रष्टुं नोद्यम्)
[[108]]
स इति । यत्र वनाद्रौ कुण्डलिनः फणिनः भुजङ्गराजस्य कुलस्य शेषसन्तानस्य गौरवात् पूज्यतया हेतोः शिखण्डिभि र्मयूरैः न खण्डिताः न दष्टा हि । स एष वनाचलः सौन्दर्यनिधे र्धृतश्रियः आरूढश्रियः सुधाम नाम शोभनस्थानत्वेन प्रसिद्धं भुजङ्गराज-कुलीनतारूपराज कुलमाहात्म्यात् कुण्डलिनः शिखण्डिभिः न खण्डिता हीत्यनेन वनाचलस्य निसर्गविरोधिनाम् अपि निर्वैरत्वापादकत्वरूप शोभनता प्रसिद्धेति भावः ।
आरूढश्रीरिति सुन्दरबाहोर् नामान्तरम् ॥ ९ ॥
मूलम्
स एष सौन्दर्यनिधेर्धृतश्रियो वनाचलो नाम सुधाम यत्र हि ।
भुजङ्गराजस्य कुलस्य गौरवात् न खण्डिताः कुण्डलिनः शिखण्डिभिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
वृष-गिरिर् अयम् अच्युतस्य यस्मिन्
स्व-मतम् अ-लङ्घयितुं परस्-परेभ्यः ।
ख-ग-पति-चरणौ ख-गाः शपन्ते
भुज-ग-पतेर् भुजगाश् च सर्व एव …॥ १० ॥
+++(तेन तत्-स्वामी सत्य-सङ्कल्पः। )+++
विस्तारः (द्रष्टुं नोद्यम्)
वृषगिरिरिति । यस्मिन् वृषगिरौ स्वमतं स्वस्वाभिमतं प्रतिज्ञातं अलङ्घयितुं अनतिक्रमितुं,
सर्वे खगाः पक्षिणः खगपतिचरणाव् एव पक्षिराजपादाव् एव परस्परेभ्यः मिथः शपन्ते शापविषयौ कुर्वन्ति । चरणा वुद्दिश्यशपथं कुर्वन्तीत्यर्थः ।
सर्वे भुजङ्गाः भुजगपतेश् शेषस्य चरणौ शपन्ते ।
“श्लाघहुड्स्थाशपां ज्ञीप्स्यमानः” इत्यनुशासनात् परस्परेभ्य इतिचतुर्थी ।
अयं वृषगिरिः वृषभाद्रिः अच्युतस्यधाम,
“अत्यहं जीवितं जह्यां
त्वां वा सीते सलक्ष्मणाम् ।
नहि प्रतिज्ञां संश्रुत्य
ब्राह्मणेभ्यो विशेषतः”
इति प्रतिज्ञाच्यवनहीनस्य भगवतो वासस्थानम् इत्यर्थः ।
अत्र तिरश्चामपि स्तोमेन स्वस्वप्रतिज्ञातानुल्लङ्घनाय स्वस्वस्वामिचरणावुद्दिश्य शपथस्य क्रियमाणत्वात्
सर्वस्वामिनः सुन्दरबाहोस् सत्यप्रतिज्ञत्वम् एव अच्युतपदेन विवक्षितम् इति सम्प्रदायः ॥ १० ॥
मूलम्
वृषगिरिरयम् अच्युतस्य यस्मिन् स्वमतमलङ्घयितुं परस्परेभ्यः ।
खगपतिचरणौ खगाः शपन्ते भुजगपतेर्भुजगाश्च सर्व एव ॥ १० ॥
विश्वास-प्रस्तुतिः
हरि-कुलम् अखिलं हनूमद्-अङ्घ्रिं,
स्व-कुल-प–जाम्बवतस् तथैव भल्लाः ।
निज-कुल-प-जटायुषश् च गृध्राः स्व-कुल-पतेश् च गजा गजेन्द्र-नाम्नः ॥ ११ ॥
+++(स्वमतम् अ-लङ्घयितुं परस्परेभ्यः शपन्ते)+++
विस्तारः (द्रष्टुं नोद्यम्)
[[109]] हरिकुलमिति । " स्वमतमलङ्घयितुं परस्परेभ्यः” इति पूर्वश्लोका दनुषङ्गः कर्तव्यः । अत्र अखिलं हरिकुलं कपियूथं हनूमदङ्घ्रि शपते । तथैव हरिकुलवदेव भल्लाः ऋक्षाः स्वकुलपजाम्बवतः निजयूथपस्य जाम्बवतः अङ्घ्रिं शपन्ते । गृध्राः निजकुलपजटायुषः अङ्घ्रिं शपन्ते । गजाश्च गजेन्द्रनाम्नः स्वकुलपतेः अ िशपन्ते । अयं वृषगिरिः, “अच्युतस्य धाम इति पुर्वश्लोकेनाऽन्वयः ।
श्लोकद्वयेनाऽपि दिव्य-स्थानस्य भागवत-भक्ति-समृद्धि-प्रदत्व मुक्तं भवति ॥ ११ ॥
मूलम्
हरिकुलम् अखिलं हनूमदङ्घ्रिं स्वकुलपजाम्बवतस्तथैव भल्लाः ।
निजकुलपजटायुषश्च गृध्राः स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ ११ ॥
विश्वास-प्रस्तुतिः
वकुल-धर–सरस्-वती–विषक्त-
स्वर-रस-भाव-युतासु किन्नरीषु ।
द्रवति दृषद् अपि प्रसक्त-गानास्व्
इह वन-शैल-तटीषु सुन्दरस्य ॥ १२ ॥
विस्तारः (द्रष्टुं नोद्यम्)
वकुलधरेति । वकुलधरसरस्वत्यः शठकोपमुनिप्रणीताः द्रमिडोपनिषदः तासु विषक्ताः आसक्ताः ये स्वररसभावाः - स्वराः निषादादयः, रसाः शृङ्गारादयः, भावाः स्थायिभावादयः, तैर्युतासु किन्नरीषु प्रसक्तगानासु प्रारब्धगीतिषु सतीषु किन्नरीषु स्वरसभावोन्मेष- पूर्वकं द्रामिडोपनिषद्गानप्रसक्तासु सतीष्विति पर्यवसितार्थः । सुन्दरस्य इह वनशैल तटीषु सुन्दरबाहु सम्बन्धिष्वेतेषु वनाद्रितटेषु दृष दपि शिलाऽपि द्रवति द्रवीभवति । तत्रत्यकिन्नराङ्गनाना मपि द्रमिडोपनिषदनुभव स्तादृश इति दिव्यस्थानस्य ज्ञानप्रदत्व मुक्तमिति मन्तव्यम् ॥ १२ ॥
मूलम्
वकुलधरसरस्वतीविषक्तस्वररसभावयुतासु किन्नरीषु ।
द्रवति दृषदपि प्रसक्तगानास्विह वनशैलतटीषु सुन्दरस्य ॥ १२ ॥
विश्वास-प्रस्तुतिः
भृङ्गी गायति हंस-ताल-निभृतं,, तत् पुष्णती कोकिला
ऽप्य् उद्गायत्य् अथ वल्लि-तल्लज-मुखाद् आस्रं मधु स्यन्दते ।
निस्स्पन्द-स्तिमिताः कुरङ्ग-ततयः, शीतं शिला-सैकतं
सायाह्ने किल यत्र सुन्दर-भुजस् तस्मिन् वन-क्ष्मा-धरे ॥ १३ ॥+++(5)+++
मूलम्
भृङ्गी गायति हंसतालनिभृतं तत् पुष्णती कोकिलाऽप्युद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते ।
निस्स्पन्दस्तिमिताः कुरङ्गततयः शीतं शिलासैकतं सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन् वनक्ष्माधरे ॥ १३ ॥
विस्तारः (द्रष्टुं नोद्यम्)
भृङ्गीति । यत्र सुन्दरभुजः तिष्ठति, तस्मिन् वनक्ष्माधरे सायाह्ने हंसतालनिभृतं हंसानां पादतालैः परिपूर्णं यथा तथा भृङ्गी गायति ।
[[110]]
भृङ्गाङ्गनागाने हंसगति स्तालत्वेन पर्यवस्यतीत्यर्थः ।
पूर्वश्लोके किन्नरीकृत द्रमिडोपनिषद्गानस्य प्रसक्तत्वा दत्रापि भृङ्गीभि र्द्रमिडोपनिष देव गीयते इति हार्दो भावः ।
हंस स्वनस्यापि ताल स्वनानुकारित्वं केचिदूचुः ।
तद्गानं पुष्णती वर्धयन्ती सती कोकिलाऽपि कोकिलाङ्गनाऽपि उद्गायति उच्चैर्गायति ।
अथ गानानन्तरं वल्लितल्लजमुखात् लतामतल्लिकाग्रात् मधु मकरन्द एव आस्रं अश्रु स्यन्दते क्षरति । कुरङ्गततयः मृगपङ्क्तयः निष्पन्दस्तिमिताः निश्चेष्टाः स्तब्धाश्च भवन्ति । गानानुभवेनात्यन्तं स्तिमिता भवन्तीत्यर्थः निष्पन्दशब्देन करचरणादिस्पन्दराहित्यं, स्तिमितशब्देन अक्ष्यादिस्पन्दराहित्यश्चोच्यते । शिला च सैकतञ्च शिलासैकतं द्वन्द्वौकवद्भावः । शीतं भवति । तादृशाचेतनाना मपि शैत्यावहं गान सौभाग्यम् इति भावः ॥ १३ ॥
सुन्दरबाहुः
विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः
इतः परं वेदान्तोदित-प्रक्रियया स्तोतु-कामः
स्वरूपापेक्षया दिव्य-मङ्गल-विग्रहस्य शुभाश्रयतया
तद्-वैशिष्ट्यम् अनुसन्धत्ते ।
विश्वास-प्रस्तुतिः
पीताम्बरं वरद-शीत-ल–दृष्टि-पातम्
आजानु-लम्बि-भुजम् आयत-कर्ण-पाशम् ।
श्रीमन्-महा–वन-गिरीन्द्र–निवास-दीक्षं
लक्ष्मी-धरं किम् अपि वस्तु ममाविर् अस्तु ॥ १४ ॥
मूलम्
पीताम्बरं वरदशीतलदृष्टिपातम् आजानुलम्बिभुजम् आयतकर्णपाशम् ।
श्रीमन्महावनगिरीन्द्रनिवासदीक्षं लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ १४ ॥
विस्तारः (द्रष्टुं नोद्यम्)
पीताम्बरम् इति। पीताम्बरं “माहारजनं वास” इति श्रुत्युक्त प्रकारेण कनकाम्बरं, वरदः आश्रिताना मभीष्टदः शीतलः दृष्टिपातः कटाक्षो यस्य तत् आजानुलम्बि भुजम्, “ आयता श्च सुवृत्ताश्च बाहवः परिघोपमाः इत्युक्तप्रकारेण सुवृत्तस्फीतायतबाहु, आयतकर्णपाशम् अंसप्रान्त प्रलम्बिकर्णपाशम् - प्रशस्तः कर्णः कर्णपाशः । श्रीमान् महांश्च यो वनगिरीन्द्रः तस्मिन् निवासे दीक्षा सङ्कल्पो यस्य तत्तथोक्तम् । श्रीमन्महच्छब्दाभ्यां “सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः” इत्यत्र सुभगगिरिराजोपमशब्दौ सूच्येते । लक्ष्मीधरं वक्षःस्थलक्ष्मीकं, किमपि
[[111]] वाङ्मनसापरिच्छेद्यलावण्य सौन्दर्यसौकुमार्यादिशेवधिविग्रहविशिष्टं वस्तु मम आविरस्तु । साक्षात्कार योग्यं भवतु ।
“न ते रूपं न चाऽऽकारो
नाऽऽयुधानि न चाऽऽस्पदम् ।
तथाऽपि पुरुषाकारो
भक्तानां त्वं प्रकाशसे”
इत्युक्तप्रकारेण प्रकाशताम् इत्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
+++(यतो वा इमानि भूतानि जायन्ते…)+++
जनि-जीवनाप्यय-विमुक्तयो यतो
जगताम् इति श्रुति-शिरस्सु गीयते ।
तद् इदं समस्त-दुरितैक-भेषजं
वन-शैल-सम्भवम् अहं भजे महः ॥ १५ ॥
मूलम्
जनिजीवनाप्ययविमुक्तयो यतो जगतामिति श्रुतिशिरस्सु गीयते ।
तदिदं समस्तदुरितैकभेषजं वनशैलसम्भवम् अहं भजे महः ॥ १५ ॥
विस्तारः (द्रष्टुं नोद्यम्)
जनीति । जगतां तिष्ठति गच्छतीति च व्युत्पत्त्या स्थावरजङ्गमानां जनिजीवनाप्ययविमुक्तयः सृष्टिस्थितिसंहार संसार विमोचनानि, यतः यस्मादिति श्रुतिशिरस्सु वेदान्तेषु गीयते, “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति” श्रूयते इत्यर्थः । समस्तदुरितैकभेषजं “सर्वपापेभ्यो मोक्षयिष्या” मीति स्वसङ्कल्पेन सर्वदुष्कर्मनिवर्तकं वनशैलसम्भवं वनाद्रौ प्रादुर्भूतं तदिदं महः, “नारायण परो ज्योतिः" इत्युक्तं सन्निहितं तेजः अहं भजे जगज्जन्मादि कारणं परं ब्रह्मं सर्वसमाश्रयणीयत्वेन सकल कलुषनिवर्तकं सत् वनाद्रौ सुलभं भवतीति भावः ॥ १५ ॥
विश्वास-प्रस्तुतिः
+++(“सदेव सोम्येदमग्र आसीत्", “ब्रह्म वा इद मेकम् एवाऽग्र आसीत्”, “आत्मा वा इदमेक एवाऽग्र आसीत्”→)+++
सद्-ब्रह्मात्म-पदैस् त्रयी-शिरसि यो नारायणोक्त्या तथा
+++(←“एको ह वै नारायण आसीत्, न ब्रह्मा, नेशानः”)+++
व्याख्यातो गति-साम्य-लब्ध-विषयानन्यत्व-बोधोज्ज्वलैः ।
निस्तुल्याधिकम् अ-द्वितीयम् अमृतं तं पुण्डरीकेक्षणं
प्रारूढ-श्रियम् आश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६ ॥
मूलम्
सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः ।
निस्तुल्याधिकम् अद्वितीयममृतं तं पुण्डरीकेक्षणं प्रारूढश्रियम् आश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६ ॥
विस्तारः (द्रष्टुं नोद्यम्)
सद्ब्रह्मेति । त्रयीशिरसि वेदान्ते गति साम्येन “सदेव सोम्येदमग्र आसीत्", “ब्रह्म वा इद मेकम् एवाऽग्र आसीत्”, “आत्मा वा इदमेक एवाऽग्र आसीत्” इत्येवंरूपकारणवाक्यगतिसादृश्येन लब्धो यो
विषयानन्यत्वबोधः एकविषयत्वज्ञानं तेन उज्ज्वलैः प्रकाशमानैः ।
सर्वेषां [[112]] कारणविषयत्वेऽपि सामान्यविशेषन्यायेन प्रकाशमानैकविषयत्वैरित्यर्थः ।
सद्बह्मात्मपदैः कारणत्वेन प्रतिपादित इति शेषः ।
यः तथा देवता विशेषवाचितया नारायणोक्तया व्याख्यातः ।
“एको ह वै नारायण आसीत्, न ब्रह्मा, नेशान” इत्यादि कारणवाक्यस्थनारायणशब्देन निर्णीत इत्यर्थः ।
एतदुक्तं भवति -
“सदेव सोम्येदमग्र आसीत्” इत्यत्र सूक्ष्मविभुसाधारण्येन सन्मात्रवाचकस् सच्छब्दः, ब्रह्मवेत्यादि वाक्ये ब्रह्मशब्दः सूक्ष्मस्य कारणतां निरस्य चेतनाचेतन साधारण्येन विभुवस्तुनः कारणत्वं वक्ति ।
आत्मशब्दस्तु चेतनमात्र वाचित्वात् यस्य कस्याऽपि चेतनस्य कारणत्वं गृह्णाति ।
नारायणशब्दस्य भगवन्मात्रवाचित्वं सर्वप्रमाण शरणाविगीतम् ।
अतो नारायण शब्देनैव निर्णयो जात इति, निस्तुल्याधिकं " न तत्समश्चाभ्याधिकश्च दृश्यते” इति श्रुतिप्रतिपादितम्, अत एवाऽद्वितीय ममृतम् अमृतवद्धोग्यभूतं, “रसो वै सः” इति श्रुतेः ।
पुण्डरीकेक्षणं वनगिरेः कुञ्जोदितं वनाद्रेर् लतागृहे प्रादुर्भूतं, प्रारूढश्रियं, प्रारूढश्री रिति सुन्दरभुजस्य नामान्तरम् । तं सुन्दरं आश्रये शरणतया समाश्रयामि ॥ १६ ॥
विश्वास-प्रस्तुतिः
“पतिं विश्वस्यात्मेश्वरम्” इति परं ब्रह्म पुरुषः
“परं ज्योतिस्” “तत्त्वं परम्” अपि च “नारायण” इति ।
+++(“नारायणाद् ब्रह्मा जायते, नारायणाद्रुद्रो जायते”→)+++
श्रुतिर् ब्रह्मेशादीन्स् तद्-उदित-विभूतींस् तु गृणती
यम् आहारूढ-श्रीः स वन-गिरिधामा विजयते ॥ १७ ॥
मूलम्
पतिं विश्वस्यात्मेश्वरम् इति परं ब्रह्म पुरुषः परं ज्योतिस्तत्त्वं परमपि च नारायण इति ।
श्रुतिर्ब्रह्मेशादीन्स्तदुदितविभूतींस्तु गृणती यमाहारूढश्रीः स वनगिरिधामा विजयते ॥ १७ ॥
विस्तारः (द्रष्टुं नोद्यम्)
पतिम् इति । ब्रह्मेशादीन् तदुदित विभूती स्तु तदुदितविभूतीर् एवगृणती, “नारायणाद् ब्रह्मा जायते, नारायणाद्रुद्रो जायते" इत्यादिना ब्रह्मादीन् भगवद्विभूतिभूतानेव वदन्ती श्रुतिः यं आरूढश्रियं “ पतिं विश्वस्याऽऽत्मेश्व” मित्यादि, “नारायण परं ब्रह्म” “विश्वमेवेदं पुरुषः " नारायण परो ज्योतिः “, " तत्त्वं नारायणः परः” इति च आह ब्रूते वनगिरिधामा वनाद्रिनिलयः सः आरूढ श्रीः विजयते सर्वदेवतोत्कर्षेण [[113]] वर्तते । परत्व-शङ्कास्पदीभूतानां ब्रह्मरुद्रादीना मपि यद्विभूतित्वं यस्य च सर्वस्मात्परत्वं श्रुतिरेवाऽऽह स एव सर्वोत्कृष्ट इत्यर्थः ॥ १७ ॥
विश्वास-प्रस्तुतिः
+++(“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवी मन्तरो यमयति” …)+++
पृथिव्याद्य् आत्मान्तं नियमयति यस् तत्त्वनिकरं
तद्-अन्तर्यामी तद्-वपुर्, अविदितस् तेन भगवान् ।
स एष स्वैश्वर्यं न विजहद् अशेषं वन-गिरिं
समध्यासीनो नो विशतु हृदयं सुन्दर-भुजः ॥ १८ ॥
मूलम्
पृथिव्याद्यात्मान्तं नियमयति यः तत्त्वनिकरं तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् ।
स एष स्वैश्वर्यं न विजहदशेषं वनगिरिं समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥ १८ ॥
विस्तारः (द्रष्टुं नोद्यम्)
पृथिव्यादीति ॥ “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवी मन्तरो यमयति”, इत्यारभ्य “य आत्मनि तिष्ठन् आत्मनोन्तरः यमात्मा न वेद, यस्याऽऽत्मा शरीरं य आत्मान मन्तरो यमयति” “इत्यन्तं अन्तर्यामिब्राह्मणोक्त प्रकारेण यः भगवान् पृथिव्यादिश्चाऽसौ आत्मान्तश्चेति तथोक्तम् । तत्त्वनिकरं तत्त्वसमूहं नियमयति प्रवृत्तिनिवृत्तिशक्तं करोति । तदन्तर्यामी पृथिव्याद्यात्म- पर्यन्ततत्त्वान्तर्यामी तद्वपुः तच्छरीरकः, तेन तत्त्वनिकरेण अविदित श्च भवति । अशेषं स्वैश्वर्यं न विजहत् श्लोकद्वयोक्तं निजं सर्वेश्वरत्वं अत्यजन् सन् वनगिरिं समध्यासीनः वनगिरावासीन इत्यर्थः “अधिशीङ्स्थाऽऽसां कर्म” इति सप्तम्यर्थे द्वितीया । सुन्दरभुजः नः अस्माकं हृदयं विशतु । सर्वान्तर्यामित्वे साधारणेऽपि आश्रितानुग्रहाय विग्रहविशिष्ट स्सन् सन्निधत्ताम् इति भावः ॥ १८ ॥
विश्वास-प्रस्तुतिः
प्रत्यग्-आत्मनि कदाऽप्य् +++(कैवल्येऽप्य्)+++ अ-सम्भवद्
भूम+++(→आनन्द/विभुत्वादि)+++-+++(उत्पत्ति-)+++भूमिम् अभिवक्ति यं श्रुतिः ।
+++(→“एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण”)+++
तं वनाद्रि-निलयं सु-सुन्दरं
सुन्दरायत-भुजं भजामहे ॥ १९ ॥
मूलम्
प्रत्यगात्मनि कदाऽप्यसम्भवद् भूमभूमिमभिवक्ति यं श्रुतिः ।
तं वनाद्रिनिलयं सुसुन्दरं सुन्दरायतभुजं भजामहे ॥ १९ ॥
विस्तारः (द्रष्टुं नोद्यम्)
प्रत्यगात्मनीति ।
श्रुतिः यं, प्रत्यगात्मनि कदाऽपि मोक्षदशायामपि असम्भवतो भूम्नः महिम्नः, भूमिं उत्पत्तिस्थानम्, अभिवक्ति अभितो- वदति, सर्वत्राऽपि प्रतिपादयतीत्यर्थः ।
[[114]]
वनाद्रिनिलयं सुन्दरा आयताश्च भुजा यस्य तं सुसुन्दरं भजामहे ।
पूर्वस्मिन् श्लोके सर्वचेतनाचेतनान्तर्यामित्वमुक्तम् ।
अन्तर्यामित्वेऽपि तद्गतसर्वदोषैर् असंस्पृष्टत्वरूप-हेयप्रत्यनीकतां कल्याणैकतानत्वञ्च जीवात्मन्य् अ-सम्भाविततया “ एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण” इति श्रुतिर् आहेति भावः ॥ १९ ॥
विश्वास-प्रस्तुतिः
वन्देय सुन्दरभुजं भुजगेन्द्रभोगसक्तं महावनगिरिप्रणयप्रवीणम् ।
यं तं विदुर्दहरमष्टगुणोपजुष्टम् आकाशम् औपनिषदीषु सरस्वतीषु ॥ २० ॥
मूलम्
वन्देय सुन्दरभुजं भुजगेन्द्रभोगसक्तं महावनगिरिप्रणयप्रवीणम् ।
यं तं विदुर्दहरमष्टगुणोपजुष्टम् आकाशम् औपनिषदीषु सरस्वतीषु ॥ २० ॥
विश्वास-प्रस्तुतिः
यत् स्वायत्तस्वरूपस्थिति कृतिक निजेच्छा नियाम्यस्वशेषानन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः ।
विश्वैः शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्यः तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१ ॥

गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूपमेत्य ।
तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहुमाश्रयामः ॥ २२ ॥
मूलम्
गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूपमेत्य ।
तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहुमाश्रयामः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अतिपतितावधि स्वमहिमानुभवप्रभवत् सुखकृत निस्तरङ्ग जलधीयित नित्यदशम् ।
प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं हरिमिह सुन्दराह्वम् उपयामि वनाद्रितटे ॥ २३ ॥
मूलम्
अतिपतितावधि स्वमहिमानुभवप्रभवत् सुखकृत निस्तरङ्ग जलधीयित नित्यदशम् ।
प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं हरिमिह सुन्दराह्वम् उपयामि वनाद्रितटे ॥ २३ ॥
विश्वास-प्रस्तुतिः
सदा षाड्गुण्याख्यैः पृथुलबल विज्ञानशकनप्रभावीर्यैश्वर्यैरवधि विधुरैरेधितदशम् ।
द्रुमस्तोमक्ष्माभृत्परिसर महोद्यानमुदितं प्रपद्येऽध्यारूढश्रियम् इममहं सुन्दरभुजम् ॥ २४ ॥
मूलम्
सदा षाड्गुण्याख्यैः पृथुलबल विज्ञानशकनप्रभावीर्यैश्वर्यैरवधि विधुरैरेधितदशम् ।
द्रुमस्तोमक्ष्माभृत्परिसर महोद्यानमुदितं प्रपद्येऽध्यारूढश्रियम् इममहं सुन्दरभुजम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
सौशील्याश्रित वत्सलत्व मृदुता सौहार्दसाम्यार्जवैर्धैर्यस्थैर्य सुवीर्यशौर्य कृतिता गाम्भीर्यचातुर्यकैः ।
सौन्दर्यान्वित सौकुमार्य समता लावण्य मुख्यैर्गुणैः देवः श्रीतरुषण्ड शैलनिलये नित्यं स्थितः सुन्दरः ॥ २५ ॥

येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं कुर्यात् तादृशवैभवैरगणितैर्निस्सीम भूमान्वितैः ।
नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयैः इद्धं सुन्दरबाहुमस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६ ॥

सदा समस्तं जगदीक्षते हि यः प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः ।
स ईदृशज्ञाननिधिर्निधिस्तु नः सिंहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७ ॥
मूलम्
सदा समस्तं जगदीक्षते हि यः प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः ।
स ईदृशज्ञाननिधिर्निधिस्तु नः सिंहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७ ॥
विश्वास-प्रस्तुतिः
ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधाः सुन्दरबाहुसंश्रयाः ।
योऽसौ जगज्जन्मलयस्थितिक्रियाः सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८ ॥
मूलम्
ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधाः सुन्दरबाहुसंश्रयाः ।
योऽसौ जगज्जन्मलयस्थितिक्रियाः सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८ ॥
विश्वास-प्रस्तुतिः
यत् कल्पायुतभोगतोऽपि कृशतां यायान्न तावत्फलं येष्वेकस्य तथाविधैः सततजैः अंहोभिरुत्सीमभिः ।
अस्तादाविह संसृतावुपचितैश्छन्नं सुसन्नं जनं सन्नत्या क्षमते क्षणाद् वनगिरिप्रस्थप्रियः सुन्दरः ॥ २९ ॥

यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि ।
तज्जातीयस्तादृशस्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३० ॥
मूलम्
यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि ।
तज्जातीयस्तादृशस्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३० ॥
विश्वास-प्रस्तुतिः
निहीनो जात्या वा भृशमकुशलैर्वा स्वचरितैः पुमान् वै यः कश्चिद् बहुतृणमपि स्यादगुणतः ।
श्रयन्तं तं पश्येद् भुजगपतिना तुल्यमपि यो वनाद्रिप्रस्थस्थः स मम शरणं सुन्दरभुजः ॥ ३१ ॥
मूलम्
निहीनो जात्या वा भृशमकुशलैर्वा स्वचरितैः पुमान् वै यः कश्चिद् बहुतृणमपि स्यादगुणतः ।
श्रयन्तं तं पश्येद् भुजगपतिना तुल्यमपि यो वनाद्रिप्रस्थस्थः स मम शरणं सुन्दरभुजः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
एकैकमङ्गलगुणानुभवाभिनन्दम् ईदृक् त्वियानिति च सुन्दरदोष्णि कृष्णे ।
ते ये शतं त्विति नियन्तुमनाः श्रुतिर्है नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२ ॥
मूलम्
एकैकमङ्गलगुणानुभवाभिनन्दम् ईदृक् त्वियानिति च सुन्दरदोष्णि कृष्णे ।
ते ये शतं त्विति नियन्तुमनाः श्रुतिर्है नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अब्जपादम् अरविन्दलोचनं पद्मपाणितलम् अञ्जनप्रभम् ।
सुन्दरोरुभुजम् इन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३ ॥
मूलम्
अब्जपादम् अरविन्दलोचनं पद्मपाणितलम् अञ्जनप्रभम् ।
सुन्दरोरुभुजम् इन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कनकमरकताञ्जनद्रवाणां मथनसमुत्थितसारमेलनोत्थम् ।
जयति किमपि रूपमस्य तेजो वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४ ॥
मूलम्
कनकमरकताञ्जनद्रवाणां मथनसमुत्थितसारमेलनोत्थम् ।
जयति किमपि रूपमस्य तेजो वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
किं नु स्वयं स्वात्मविभूषणं भवन् असावलङ्कार इतीरितो जनैः ।
वर्द्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५ ॥
मूलम्
किं नु स्वयं स्वात्मविभूषणं भवन् असावलङ्कार इतीरितो जनैः ।
वर्द्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः ।
अलङ्कार्यैः सर्वैर्निगदितम् अलङ्कार इति यः समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥ ३६ ॥
मूलम्
सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः ।
अलङ्कार्यैः सर्वैर्निगदितम् अलङ्कार इति यः समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
मकुटमकुटमालोत्तंसचूडाललामस्वलकतिलकमालाकुण्डलैः सोर्ध्वपुण्ड्रैः ।
मणिवरवनमालाहारकेयूरकण्ठ्यैः तुलसिकटककाञ्चीनूपुराद्यैश्च भूषैः ॥ ३७ ॥
मूलम्
मकुटमकुटमालोत्तंसचूडाललामस्वलकतिलकमालाकुण्डलैः सोर्ध्वपुण्ड्रैः ।
मणिवरवनमालाहारकेयूरकण्ठ्यैः तुलसिकटककाञ्चीनूपुराद्यैश्च भूषैः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
असिजलजरथाङ्गैः शार्ङ्गकौमोदकीभ्याम् अगणितगुणजालैरायुधैरप्यथान्यैः ।
सततविततशोभं पद्मनाभं वनाद्रेः उपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८ ॥
मूलम्
असिजलजरथाङ्गैः शार्ङ्गकौमोदकीभ्याम् अगणितगुणजालैरायुधैरप्यथान्यैः ।
सततविततशोभं पद्मनाभं वनाद्रेः उपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८ ॥
विश्वास-प्रस्तुतिः
आजानजस्वगतबन्धुरगन्धलुब्धभ्राम्यद्विदग्धमधुपालिसदेशकेशम् ।
विश्वाधिराज्यपरिबर्हकिरीटराजं है! सुन्दरस्य बत सुन्दरमुत्तमाङ्गम् ॥ ३९ ॥
मूलम्
आजानजस्वगतबन्धुरगन्धलुब्धभ्राम्यद्विदग्धमधुपालिसदेशकेशम् ।
विश्वाधिराज्यपरिबर्हकिरीटराजं है! सुन्दरस्य बत सुन्दरमुत्तमाङ्गम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अन्धं तमस्तिमिरनिर्मितमेव यत् स्यात् तत्सारसाधितसुतन्त्वतिवृत्तवार्तम् ।
ईशस्य केशवगिरेरलकालिजालं तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४० ॥
मूलम्
अन्धं तमस्तिमिरनिर्मितमेव यत् स्यात् तत्सारसाधितसुतन्त्वतिवृत्तवार्तम् ।
ईशस्य केशवगिरेरलकालिजालं तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४० ॥
विश्वास-प्रस्तुतिः
जुष्टाष्टमीकज्वलदिन्दुसन्निभं धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् ।
भूम्ना ललाटं विपुलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१ ॥
मूलम्
जुष्टाष्टमीकज्वलदिन्दुसन्निभं धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् ।
भूम्ना ललाटं विपुलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सुचारुचापद्वयविभ्रमं भ्रुवोर्युगं सुनेत्राह्वसहस्रपत्रयोः ।
उपान्तगं वा मधुपावलीयुगं विराजते सुन्दरबाहुसंश्रयम् ॥ ४२ ॥
मूलम्
सुचारुचापद्वयविभ्रमं भ्रुवोर्युगं सुनेत्राह्वसहस्रपत्रयोः ।
उपान्तगं वा मधुपावलीयुगं विराजते सुन्दरबाहुसंश्रयम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अदीर्घमप्रेमदुघं क्षणोज्ज्वलं न चोरमन्तःकरणस्य पश्यताम् ।
अनुब्जमब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३ ॥
मूलम्
अदीर्घमप्रेमदुघं क्षणोज्ज्वलं न चोरमन्तःकरणस्य पश्यताम् ।
अनुब्जमब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
प्रश्च्योतत्-प्रेम-सारामृत-रस-+++(पाणि-)+++चुलक–प्रक्रम+++(=प्रकार)+++-प्रक्रियाभ्यां
विक्षिप्तालोकितोर्मि-प्रसरण-मुषित-स्वान्त-कान्ता-जनाभ्याम् ।
विश्वोत्पत्ति-प्रवृत्ति-स्थिति-लय-करणैकान्त-शान्त-क्रियाभ्यां
देवो ऽलङ्-कार-नामा वन-गिरि-निलयो वीक्षताम् ईक्षणाभ्याम् ॥ ४४ ॥
मूलम्
प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्यां
विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् ।
विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्यां
देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
प्रेमामृतौघपरिवाहिमहाक्षिसिन्धुमध्ये प्रबद्धसमुदञ्चितसेतुकल्पा ।
ऋज्वी सुसुन्दरभुजस्य विभाति नासा कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५ ॥
मूलम्
प्रेमामृतौघपरिवाहिमहाक्षिसिन्धुमध्ये प्रबद्धसमुदञ्चितसेतुकल्पा ।
ऋज्वी सुसुन्दरभुजस्य विभाति नासा कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धि मन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् ।
आभाति विद्रुमसमाधरमास्यमस्य देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६ ॥
मूलम्
व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धि मन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् ।
आभाति विद्रुमसमाधरमास्यमस्य देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यशोदाङ्गुल्यग्रोन्नमितचिबुकाघ्राणमुदितौ कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ ।
विराजेते विष्वग्विततसहकारासवरसप्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेः सुन्दरहरेः ॥ ४७ ॥
मूलम्
यशोदाङ्गुल्यग्रोन्नमितचिबुकाघ्राणमुदितौ कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ ।
विराजेते विष्वग्विततसहकारासवरसप्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेः सुन्दरहरेः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
व्यालम्बिकुण्डलम् उदग्रसुवर्णपुष्पनिष्पन्नकल्पलतिकायमलानुकारम् ।
यत्कर्णपाशयुगलं निगलं धियां नः सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८ ॥
मूलम्
व्यालम्बिकुण्डलम् उदग्रसुवर्णपुष्पनिष्पन्नकल्पलतिकायमलानुकारम् ।
यत्कर्णपाशयुगलं निगलं धियां नः सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सदंससंसञ्जितकुन्तलान्तिकावतीर्णकर्णाभरणाढ्यकन्धरः ।
सुबन्धुरस्कन्धनिबन्धनो युवा सुसुन्दरः सुन्दरदोर्विजृम्भते ॥ ४९ ॥
मूलम्
सदंससंसञ्जितकुन्तलान्तिकावतीर्णकर्णाभरणाढ्यकन्धरः ।
सुबन्धुरस्कन्धनिबन्धनो युवा सुसुन्दरः सुन्दरदोर्विजृम्भते ॥ ४९ ॥
विश्वास-प्रस्तुतिः
व्यूढगूढभुजजत्रुम् उल्लसत् कम्बुकन्धरधरं धराधरम् ।
वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजं भजामहे ॥ ५० ॥
मूलम्
व्यूढगूढभुजजत्रुम् उल्लसत् कम्बुकन्धरधरं धराधरम् ।
वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजं भजामहे ॥ ५० ॥
विश्वास-प्रस्तुतिः
मन्दरभ्रमणविभ्रमोद्भटाः सुन्दरस्य विलसन्ति बाहवः ।
इन्दिरासमभिनन्दभन्दनाः चन्दनागुरुविलेपभूषिताः ॥ ५१ ॥
मूलम्
मन्दरभ्रमणविभ्रमोद्भटाः सुन्दरस्य विलसन्ति बाहवः ।
इन्दिरासमभिनन्दभन्दनाः चन्दनागुरुविलेपभूषिताः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दरभुजस्य बाहवः ।
पारिजातविटपायितर्द्धयः प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२ ॥
मूलम्
ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दरभुजस्य बाहवः ।
पारिजातविटपायितर्द्धयः प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
सागराम्बरतमालकाननश्यामलर्द्धय उदारपीवराः ।
शेषभोगपरिभोगभागिनः तन्निभा वनगिरीशितुर्भुजाः ॥ ५३ ॥
मूलम्
सागराम्बरतमालकाननश्यामलर्द्धय उदारपीवराः ।
शेषभोगपरिभोगभागिनः तन्निभा वनगिरीशितुर्भुजाः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः ।
अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे वनगिरिपतेर्बाहाः शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४ ॥
मूलम्
अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः ।
अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे वनगिरिपतेर्बाहाः शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्मम् आरूढयोर्विमलशङ्खरथाङ्गयोस्तु ।
एकोऽब्जमाश्रित इवोत्तमराजहंसः पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५ ॥
मूलम्
श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्मम् आरूढयोर्विमलशङ्खरथाङ्गयोस्तु ।
एकोऽब्जमाश्रित इवोत्तमराजहंसः पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
लक्ष्म्याः पदं कौस्तुभसंस्कृतं च श्रीवत्सभूमिर्विमलं विशालम् ।
विभाति वक्षो वनमालयाऽऽढ्यं वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६ ॥
मूलम्
लक्ष्म्याः पदं कौस्तुभसंस्कृतं च श्रीवत्सभूमिर्विमलं विशालम् ।
विभाति वक्षो वनमालयाऽऽढ्यं वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६ ॥
विश्वास-प्रस्तुतिः
सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितं यातः किञ्च विरिञ्चिसम्भवनभूम्यभोजसम्भूतिभूः ।
नाभिः शुम्भति कुम्भिकुम्भनिभनिर्भातस्तनस्वर्वधूसम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥ ५७ ॥
मूलम्
सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितं यातः किञ्च विरिञ्चिसम्भवनभूम्यभोजसम्भूतिभूः ।
नाभिः शुम्भति कुम्भिकुम्भनिभनिर्भातस्तनस्वर्वधूसम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥ ५७ ॥
सुन्दरस्य किल सुन्दरबाहोः श्रीमहातरुवनाचलभर्तुः हन्तः! यत्र निवसन्ति जगन्ति प्रापितक्रशिम तत् तनुमध्यम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
पिष्टदुष्टमधुकैटभकीटौ हस्तिहस्तयुगलाभसुवृत्तौ ।
राजतः क्रमकृशौ च सदूरू सुन्दरस्य वनभूधरभर्तुः ॥ ५९ ॥
मूलम्
पिष्टदुष्टमधुकैटभकीटौ हस्तिहस्तयुगलाभसुवृत्तौ ।
राजतः क्रमकृशौ च सदूरू सुन्दरस्य वनभूधरभर्तुः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
यौवनवृषककुदोद्भेदनिभं नितरां भाति विभोरुभयं जानु शुभाकृतिकम् ।
सुन्दरभुजनाम्नो मन्दरमथिताब्धेः चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६० ॥
मूलम्
यौवनवृषककुदोद्भेदनिभं नितरां भाति विभोरुभयं जानु शुभाकृतिकम् ।
सुन्दरभुजनाम्नो मन्दरमथिताब्धेः चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६० ॥
विश्वास-प्रस्तुतिः
अधोमुखं न्यस्तपदारविन्दयोः उदञ्चितोदात्तसुनालसन्निभे ।
विलङ्घ्य जङ्घे क्व नु रंहतो दृशौ वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१ ॥
मूलम्
अधोमुखं न्यस्तपदारविन्दयोः उदञ्चितोदात्तसुनालसन्निभे ।
विलङ्घ्य जङ्घे क्व नु रंहतो दृशौ वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१ ॥
विश्वास-प्रस्तुतिः
सुसुन्दरस्यास्य पदारविन्दे पादारविन्दाधिकसौकुमार्ये ।
अतोऽन्यथा ते बिभृयात् कथं नु तदासनं नाम सहस्रपत्रम् ॥ ६२ ॥
मूलम्
सुसुन्दरस्यास्य पदारविन्दे पादारविन्दाधिकसौकुमार्ये ।
अतोऽन्यथा ते बिभृयात् कथं नु तदासनं नाम सहस्रपत्रम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सौन्दर्यमार्दवसुगन्धरसप्रवाहैः एते हि सुन्दरभुजस्य पदारविन्दे ।
अम्भोजडम्भपरिरम्भणम् अभ्यजैष्टां तद्वै पराजितमिमे शिरसा बिभर्ति ॥ ६३ ॥
मूलम्
सौन्दर्यमार्दवसुगन्धरसप्रवाहैः एते हि सुन्दरभुजस्य पदारविन्दे ।
अम्भोजडम्भपरिरम्भणम् अभ्यजैष्टां तद्वै पराजितमिमे शिरसा बिभर्ति ॥ ६३ ॥
विश्वास-प्रस्तुतिः
एते ते बत सुन्दराह्वयजुषः पादारविन्दे शुभे यन्निर्णेजसमुत्थितत्रिपथगास्रोतस्सु किञ्चित् किल ।
धत्तेऽसौ शिरसा ध्रुवः तदपरं स्रोतो भवानीपतिर्यस्यास्यालकनन्दिकेति निजगुः नामैवम् अन्वर्थकम् ॥ ६४ ॥

आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुहराजहंसम् ।
उत्पक्वधर्मसहकारफलप्रकाण्डं वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५ ॥
मूलम्
आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुहराजहंसम् ।
उत्पक्वधर्मसहकारफलप्रकाण्डं वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सुसुन्दरस्यास्य तु वामनाकृतेः क्रमत्रयप्रार्थिनि मानसे किल ।
इमे पदे तावदिहासहिष्णुनी विचक्रमाते त्रिजगत् पदद्वये ॥ ६६ ॥
मूलम्
सुसुन्दरस्यास्य तु वामनाकृतेः क्रमत्रयप्रार्थिनि मानसे किल ।
इमे पदे तावदिहासहिष्णुनी विचक्रमाते त्रिजगत् पदद्वये ॥ ६६ ॥
विश्वास-प्रस्तुतिः
सौन्दर्यसारामृतसिन्धुवीचीश्रेणीषु पादाङ्गुलिनामिकासु ।
न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या नखावली शुम्भति सुन्दरस्य ॥ ६७ ॥
मूलम्
सौन्दर्यसारामृतसिन्धुवीचीश्रेणीषु पादाङ्गुलिनामिकासु ।
न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या नखावली शुम्भति सुन्दरस्य ॥ ६७ ॥
विश्वास-प्रस्तुतिः
यो जातक्रशिमा मली च शिरसा सम्भावितः शम्भुना सोऽयं यच्चरणाश्रयी शशधरो नूनं नखव्याजतः ।
पूर्णत्वं विमलत्वमुज्ज्वलतया सार्धं बहुत्वं तथा यातस्तं तरुषण्डशैलनिलयं वन्दामहे सुन्दरम् ॥ ६८ ॥

यस्याः कटाक्षणम् अनुक्षणम् ईश्वराणाम् ऐश्वर्यहेतुरिति सर्वजनीनमेतत् ।
श्रीः सेति सुन्दरनिषेवणतो निराहुः तं हि श्रियः श्रियमुदाहुरुदारवाचः ॥ ६९ ॥
मूलम्
यस्याः कटाक्षणम् अनुक्षणम् ईश्वराणाम् ऐश्वर्यहेतुरिति सर्वजनीनमेतत् ।
श्रीः सेति सुन्दरनिषेवणतो निराहुः तं हि श्रियः श्रियमुदाहुरुदारवाचः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
दिव्याचिन्त्यमहाद्भुतोत्तमगुणैस्तारुण्यलावण्यकप्रायैरद्भुतभावगर्भसततापूर्वप्रियैर्विभ्रमैः ।
रूपाकारविभूतिभिश्च सदृशीं नित्यानपेतां श्रियं नीलां भूमिमपीदृशीं रमयिता नित्यं वनाद्रीश्वरः ॥ ७० ॥

अन्योन्यचेष्टितनिरीक्षणहार्दभावप्रेमानुभावमधुरप्रणयप्रभावः ।
आजस्रनव्यतरदिव्यरसानुभूतिः स्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१ ॥
मूलम्
अन्योन्यचेष्टितनिरीक्षणहार्दभावप्रेमानुभावमधुरप्रणयप्रभावः ।
आजस्रनव्यतरदिव्यरसानुभूतिः स्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
सुन्दरस्य वनशैलवासिनो भोगमेव निजभोगमाभजन् ।
शेष एष इति शेषताकृतेः प्रीतिमान् अहिपतिः स्वनामनि ॥ ७२ ॥
मूलम्
सुन्दरस्य वनशैलवासिनो भोगमेव निजभोगमाभजन् ।
शेष एष इति शेषताकृतेः प्रीतिमान् अहिपतिः स्वनामनि ॥ ७२ ॥
विश्वास-प्रस्तुतिः
वाहनासनवितानचामरादि आकृतिः खगपतिस्त्रयीमयः ।
नित्यदास्यरतिरेव यस्य वै ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३ ॥
मूलम्
वाहनासनवितानचामरादि आकृतिः खगपतिस्त्रयीमयः ।
नित्यदास्यरतिरेव यस्य वै ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
वनाद्रिनाथस्य सुसुन्दरस्य वै प्रभुक्तशिष्टाश्यथ सेन्यसत्पतिः ।
समस्तलोकैकधुरन्धरः सदा कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४ ॥
मूलम्
वनाद्रिनाथस्य सुसुन्दरस्य वै प्रभुक्तशिष्टाश्यथ सेन्यसत्पतिः ।
समस्तलोकैकधुरन्धरः सदा कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४ ॥
विश्वास-प्रस्तुतिः
छत्रचामरमुखाः परिच्छदाः सूरयः परिजनाश्च नैत्यगाः ।
सुन्दरोरुभुजमिन्धते सदा ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५ ॥
मूलम्
छत्रचामरमुखाः परिच्छदाः सूरयः परिजनाश्च नैत्यगाः ।
सुन्दरोरुभुजमिन्धते सदा ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
द्वारनाथगणनाथतल्लजाः पारिषद्यपदभागिनस्तथा ।
मामकाश्च गुरवः पुरातनाः सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६ ॥
मूलम्
द्वारनाथगणनाथतल्लजाः पारिषद्यपदभागिनस्तथा ।
मामकाश्च गुरवः पुरातनाः सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
ईदृशैः परिजनैः परिच्छदैः नित्यसिद्धनिजभोगभूमिगः ।
सुन्दरो वनगिरेस्तटीषु वै रज्यते सकलदृष्टिगोचरः ॥ ७७ ॥
मूलम्
ईदृशैः परिजनैः परिच्छदैः नित्यसिद्धनिजभोगभूमिगः ।
सुन्दरो वनगिरेस्तटीषु वै रज्यते सकलदृष्टिगोचरः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
आक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु वैकुण्ठधामनि समृद्धसुवापिकासु ।
श्रीमल्लतागृहवतीषु यथा तथैव लक्ष्मीधरः सजति सिंहगिरेस्तटीषु ॥ ७८ ॥
मूलम्
आक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु वैकुण्ठधामनि समृद्धसुवापिकासु ।
श्रीमल्लतागृहवतीषु यथा तथैव लक्ष्मीधरः सजति सिंहगिरेस्तटीषु ॥ ७८ ॥
विश्वास-प्रस्तुतिः
आनन्दमन्दिरमहामणिमण्टपान्तः लक्ष्म्या भुवाऽप्यहिपतौ सह नीलया च ।
निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो नित्यं वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९ ॥
मूलम्
आनन्दमन्दिरमहामणिमण्टपान्तः लक्ष्म्या भुवाऽप्यहिपतौ सह नीलया च ।
निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो नित्यं वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९ ॥
विश्वास-प्रस्तुतिः
प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि वैकुण्ठधामनि पराम्बरनाम्नि नित्ये ।
नित्यं वसन् परमसत्त्वमयेऽप्यतीतयोगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८० ॥
मूलम्
प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि वैकुण्ठधामनि पराम्बरनाम्नि नित्ये ।
नित्यं वसन् परमसत्त्वमयेऽप्यतीतयोगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८० ॥
विश्वास-प्रस्तुतिः
लोकांश्चतुर्दश दधत् किल सुन्दरस्य पङ्क्तीगुणोत्तरितसप्तवृतीदमण्डम् ।
अन्यानि चास्य सदृशानि परश्शतानि क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१ ॥
मूलम्
लोकांश्चतुर्दश दधत् किल सुन्दरस्य पङ्क्तीगुणोत्तरितसप्तवृतीदमण्डम् ।
अन्यानि चास्य सदृशानि परश्शतानि क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
सुरनरतिर्यगादिबहुभेदकभिन्नमिदं जगदथ चाण्डम् अण्डवरणानि च सप्त तथा ।
गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपतेः उपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२ ॥
मूलम्
सुरनरतिर्यगादिबहुभेदकभिन्नमिदं जगदथ चाण्डम् अण्डवरणानि च सप्त तथा ।
गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपतेः उपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
ज्ञानिनः सततयोगिनो हि ये सुन्दराङ्घ्रिपरभक्तिभागिनः ।
मुक्तिमाप्य परमां परे पदे नित्यकिङ्करपदं भजन्ति ते ॥ ८३ ॥
मूलम्
ज्ञानिनः सततयोगिनो हि ये सुन्दराङ्घ्रिपरभक्तिभागिनः ।
मुक्तिमाप्य परमां परे पदे नित्यकिङ्करपदं भजन्ति ते ॥ ८३ ॥
विश्वास-प्रस्तुतिः
देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः है! शीलवत्त्वम् अथवाऽऽश्रितवत्सलत्वम् ।
ऐशस्वभावमजहद्भिरिहावतारैर्योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४ ॥
मूलम्
देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः है! शीलवत्त्वम् अथवाऽऽश्रितवत्सलत्वम् ।
ऐशस्वभावमजहद्भिरिहावतारैर्योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४ ॥
विश्वास-प्रस्तुतिः
सिंहाद्रिनाथ! तव वाङ्मनसातिवृत्तं रूपं त्वतीन्द्रियमुदाह रहस्यवाणी ।
एवं च न त्वमिह चेत् समवातरिष्यः त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५ ॥
मूलम्
सिंहाद्रिनाथ! तव वाङ्मनसातिवृत्तं रूपं त्वतीन्द्रियमुदाह रहस्यवाणी ।
एवं च न त्वमिह चेत् समवातरिष्यः त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
ये भक्ता भवदेकभोगमनसोऽनन्यात्मसञ्जीवनाः तत्संश्लेषण-तद्विरोधिनिधनाद्यर्थं वनाद्रीश्वरः! ।
मध्येऽण्डं यदवातरः सुरनराद्याकारदिव्याकृतिः तेनैव त्रिदशैर्नरैश्च सुकरं स्वप्रार्थितप्रार्थनम् ॥ ८६ ॥

श्रीमन्! महावनगिरीश! विधीशयोस्ते मध्ये तु विष्णुरिति यः प्रथमावतारः ।
तेनैव चेत् तव महिम्नि जनाः किलान्धाः त्वन्मत्स्यभावमवगम्य कथं भवेयुः ॥ ८७ ॥
मूलम्
श्रीमन्! महावनगिरीश! विधीशयोस्ते मध्ये तु विष्णुरिति यः प्रथमावतारः ।
तेनैव चेत् तव महिम्नि जनाः किलान्धाः त्वन्मत्स्यभावमवगम्य कथं भवेयुः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये सौलभ्यतो विसदृशं चरितं महिम्नः ।
अङ्गीकरोषि यदि तत्र सुरैरमीभिः साम्यान्निकर्षपरिपालनमेव साधु! ॥ ८८ ॥
मूलम्
हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये सौलभ्यतो विसदृशं चरितं महिम्नः ।
अङ्गीकरोषि यदि तत्र सुरैरमीभिः साम्यान्निकर्षपरिपालनमेव साधु! ॥ ८८ ॥
विश्वास-प्रस्तुतिः
इहावतीर्णस्य वनाद्रिनाथ! ते निगूहतः स्वं महिमानमैश्वरम् ।
उमापतेः किं विजयः प्रियङ्करः प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९ ॥
मूलम्
इहावतीर्णस्य वनाद्रिनाथ! ते निगूहतः स्वं महिमानमैश्वरम् ।
उमापतेः किं विजयः प्रियङ्करः प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९ ॥
विश्वास-प्रस्तुतिः
पुच्छोत्पुच्छनमूर्च्छनोद्धतिधुतव्यावर्तितावर्तवत् संवर्तार्णवनीरपूरविलुठत्पाठीनदिव्याकृतेः ।
सिंहाद्रीश! न वैभवं तव कथं स्वालक्ष्यमालक्ष्यते पद्माक्षस्य जुघुक्षतोऽपि विभवं लक्ष्मीधराधोक्षज! ॥ ९० ॥

साचलावटतटाकदीर्घिकाजाह्नवीजलधिवर्धितः क्षये ।
शृङ्गसङ्गमितनौर्मनोरभूः अग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१ ॥
मूलम्
साचलावटतटाकदीर्घिकाजाह्नवीजलधिवर्धितः क्षये ।
शृङ्गसङ्गमितनौर्मनोरभूः अग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१ ॥
विश्वास-प्रस्तुतिः
प्रलयजनीरपूरपरिपूरितस्वनिलयावसन्नवदनभ्रमदशरण्यभूतशरणार्थिनाकिशरणं भवन् स्वकृपया ।
चलदुदधीरिताम्बुकलुषीक्रियाढ्यगमनः स्वपृष्ठविधृताऽचलकुल एष मीनतनुरत्र सुन्दरभुजो वनाद्रिनिलयः ॥ ९२ ॥

स्वपृष्ठे प्रष्ठाद्रिभ्रमणकरणैः किञ्च फणिनो विकृष्टिव्याकृष्टिव्यतिविधुतदुग्धाब्धिचलितैः ।
अविस्पन्दो नन्दन् विकसदरविन्देक्षणरुचिः पुराऽभूः सिंहाद्रेः प्रियतम हरे! कच्छपवपुः ॥ ९३ ॥

जगत् प्रलीनं पुनरुद्दिधीर्षतः सिंहक्षितिक्षिन्निलयस्थ! सुन्दर! ।
पुरा वराहस्य तवेयमुर्वरा दंष्ट्राह्वयेन्दोः किल लक्ष्मलक्षिता ॥ ९४ ॥
मूलम्
जगत् प्रलीनं पुनरुद्दिधीर्षतः सिंहक्षितिक्षिन्निलयस्थ! सुन्दर! ।
पुरा वराहस्य तवेयमुर्वरा दंष्ट्राह्वयेन्दोः किल लक्ष्मलक्षिता ॥ ९४ ॥
विश्वास-प्रस्तुतिः
न वायुः पस्पन्दे ययतुरथवाऽस्तं शशिरवी दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला ।
नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज! ॥ ९५ ॥
मूलम्
न वायुः पस्पन्दे ययतुरथवाऽस्तं शशिरवी दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला ।
नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज! ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अरालं पातालं त्रिदशनिलयः प्रापितलयो धरित्री निर्धूता ययुरपि दिशः कामपि दिशाम् ।
अजृम्भिष्टाम्भोधिः घुमुघुमिति घूर्णन् सुररिपोः विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज! ॥ ९६ ॥
मूलम्
अरालं पातालं त्रिदशनिलयः प्रापितलयो धरित्री निर्धूता ययुरपि दिशः कामपि दिशाम् ।
अजृम्भिष्टाम्भोधिः घुमुघुमिति घूर्णन् सुररिपोः विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज! ॥ ९६ ॥
विश्वास-प्रस्तुतिः
नखक्रकचकप्रधिक्रथितदैत्यवक्षस्स्थलीसमुत्थरुधिरच्छटाच्छुरितबिम्बितं स्वं वपुः ।
विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्कावशादत् य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७ ॥
मूलम्
नखक्रकचकप्रधिक्रथितदैत्यवक्षस्स्थलीसमुत्थरुधिरच्छटाच्छुरितबिम्बितं स्वं वपुः ।
विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्कावशादत् य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
क्षितिरियं जनिसंहृतिपालनैः निगिरणोद्गिरणोद्धरणैरपि ।
वनगिरीश! तवैव सती कथं वरद वामन भिक्षणमर्हति ॥ ९८ ॥
मूलम्
क्षितिरियं जनिसंहृतिपालनैः निगिरणोद्गिरणोद्धरणैरपि ।
वनगिरीश! तवैव सती कथं वरद वामन भिक्षणमर्हति ॥ ९८ ॥
विश्वास-प्रस्तुतिः
भार्गवः किल भवन् भवान् पुरा कुन्दसुन्दरवनाचलेश्वर! ।
अर्जुनस्य बलदर्पितस्य तु च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९ ॥
मूलम्
भार्गवः किल भवन् भवान् पुरा कुन्दसुन्दरवनाचलेश्वर! ।
अर्जुनस्य बलदर्पितस्य तु च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९ ॥
विश्वास-प्रस्तुतिः
आज्ञा तवात्रभवती विदिता त्रयी सा धर्मं तदुक्तमखिलेन वनाद्रिनाथ! ।
अन्यूनमाचरितुम् आस्तिकशिक्षणार्थम् अत्रावतीर्य किल सुन्दर! राघवोऽभूः ॥ १०० ॥
मूलम्
आज्ञा तवात्रभवती विदिता त्रयी सा धर्मं तदुक्तमखिलेन वनाद्रिनाथ! ।
अन्यूनमाचरितुम् आस्तिकशिक्षणार्थम् अत्रावतीर्य किल सुन्दर! राघवोऽभूः ॥ १०० ॥
विश्वास-प्रस्तुतिः
वनगिरिपतिरीशितेति देवैः त्रिपुरहरत्रिपुरघ्नचापभङ्गात् ।
व्यगणि परशुरामदर्शितस्य स्वकधनुषः परिमर्शदर्शनाच्च ॥ १०१ ॥
मूलम्
वनगिरिपतिरीशितेति देवैः त्रिपुरहरत्रिपुरघ्नचापभङ्गात् ।
व्यगणि परशुरामदर्शितस्य स्वकधनुषः परिमर्शदर्शनाच्च ॥ १०१ ॥
विश्वास-प्रस्तुतिः
अनवाप्तमत्र किल लिप्स्यते जनैः न च लब्धमेतदिह भोक्तुमिष्यते ।
अनवाप्तमत्र किल नास्ति राम! तद् जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२ ॥
मूलम्
अनवाप्तमत्र किल लिप्स्यते जनैः न च लब्धमेतदिह भोक्तुमिष्यते ।
अनवाप्तमत्र किल नास्ति राम! तद् जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२ ॥
विश्वास-प्रस्तुतिः
शिखरिषु विपिनेष्वप्यापगास्वच्छतोयासु अनुभवसि रसज्ञो दण्डकारण्यवासान् ।
तदिह तदनुभूतौ साभिलाषोऽद्य राम! श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३ ॥
मूलम्
शिखरिषु विपिनेष्वप्यापगास्वच्छतोयासु अनुभवसि रसज्ञो दण्डकारण्यवासान् ।
तदिह तदनुभूतौ साभिलाषोऽद्य राम! श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३ ॥
विश्वास-प्रस्तुतिः
उपवनतरुषण्डैर्मण्डिते गण्डशैलप्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे ।
वनगिरितटभूमिप्रस्तरे सुन्दर! त्वं भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४ ॥
मूलम्
उपवनतरुषण्डैर्मण्डिते गण्डशैलप्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे ।
वनगिरितटभूमिप्रस्तरे सुन्दर! त्वं भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४ ॥
विश्वास-प्रस्तुतिः
कलेऽब्धेः किल दक्षिणस्य निवसन् दूरोत्तराम्भोधिगान् दैत्यान् एकपतत्रिणाऽच्छिन इतीयं किंवदन्ती श्रुता ।
तत्रैवेश्वरमम्भसां व्यजयथाः! तस्माद् वनाद्रीश्वर! श्रीमन्! सुन्दर! सेतुबन्धनमुखाः क्रीडास्तवाडम्बरम् ॥ १०५ ॥

रघुकुलतिलक! त्वं जातुचिद् यातुधानच्छलमृगमृगयायां सम्प्रसक्तः पुराऽभूः ।
तदुपजनितखेदच्छेदनायाद्य गायन् मधुकरतरुषण्डं रज्यसे किं वनाद्रिम्? ॥ १०६ ॥
मूलम्
रघुकुलतिलक! त्वं जातुचिद् यातुधानच्छलमृगमृगयायां सम्प्रसक्तः पुराऽभूः ।
तदुपजनितखेदच्छेदनायाद्य गायन् मधुकरतरुषण्डं रज्यसे किं वनाद्रिम्? ॥ १०६ ॥
विश्वास-प्रस्तुतिः
है! सुन्दरैकतरजन्मनि कृष्णभावे द्वे मातरौ च पितरौ च कुले अपि द्वे ।
एकक्षणादनुगृहीतवतः फलं ते नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७ ॥
मूलम्
है! सुन्दरैकतरजन्मनि कृष्णभावे द्वे मातरौ च पितरौ च कुले अपि द्वे ।
एकक्षणादनुगृहीतवतः फलं ते नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७ ॥
विश्वास-प्रस्तुतिः
त्वं हि सुन्दर! यदा स्तनन्धयः पूतनास्तनमधास्तदा नु किम्? ।
जीर्णमेव जठरे पयोविषं दुर्जरं वद तदात्मना सह ॥ १०८ ॥
मूलम्
त्वं हि सुन्दर! यदा स्तनन्धयः पूतनास्तनमधास्तदा नु किम्? ।
जीर्णमेव जठरे पयोविषं दुर्जरं वद तदात्मना सह ॥ १०८ ॥
विश्वास-प्रस्तुतिः
आश्रितेषु सुलभो भवन् भवान् मर्त्यतां यदि जगाम सुन्दर! ।
अस्तु नाम तदुलूखले कियद्दामबद्ध इति किं तदाऽरुदः ॥ १०९ ॥
मूलम्
आश्रितेषु सुलभो भवन् भवान् मर्त्यतां यदि जगाम सुन्दर! ।
अस्तु नाम तदुलूखले कियद्दामबद्ध इति किं तदाऽरुदः ॥ १०९ ॥
विश्वास-प्रस्तुतिः
सुन्दरोरुभुज ! नन्दनन्दनः त्वं भवन् भ्रमरविभ्रमालकः ।
मन्दिरेषु नवनीततल्लजं वल्लवीधियमुत व्यचूचुरः ॥ ११० ॥
मूलम्
सुन्दरोरुभुज ! नन्दनन्दनः त्वं भवन् भ्रमरविभ्रमालकः ।
मन्दिरेषु नवनीततल्लजं वल्लवीधियमुत व्यचूचुरः ॥ ११० ॥
विश्वास-प्रस्तुतिः
कालियस्य फणतां शिरस्तु मे सत्कदम्बशिखरत्वमेव वा ।
वष्टि जुष्टवनशैल! सुन्दर! त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११ ॥
मूलम्
कालियस्य फणतां शिरस्तु मे सत्कदम्बशिखरत्वमेव वा ।
वष्टि जुष्टवनशैल! सुन्दर! त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११ ॥
विश्वास-प्रस्तुतिः
गूहितस्वमहिमाऽपि सुन्दर! त्वं व्रजे किमिति शक्रमाक्रमीः? ।
सप्तरात्रमदधाश्च किं गिरिं? पृच्छतश्च सुहृदः किमक्रुधः? ॥ ११२ ॥
मूलम्
गूहितस्वमहिमाऽपि सुन्दर! त्वं व्रजे किमिति शक्रमाक्रमीः? ।
सप्तरात्रमदधाश्च किं गिरिं? पृच्छतश्च सुहृदः किमक्रुधः? ॥ ११२ ॥
विश्वास-प्रस्तुतिः
हे नन्दनन्दन! सुसुन्दर सुन्दराह्व! बृन्दावने विहरतस्तव वल्लवीभिः ।
वेणुध्वनिश्रवणतस्तरुभिस्तदा वै सग्रावभिर्जतुविलायमहो विलिल्ये ॥ ११३ ॥
मूलम्
हे नन्दनन्दन! सुसुन्दर सुन्दराह्व! बृन्दावने विहरतस्तव वल्लवीभिः ।
वेणुध्वनिश्रवणतस्तरुभिस्तदा वै सग्रावभिर्जतुविलायमहो विलिल्ये ॥ ११३ ॥
विश्वास-प्रस्तुतिः
गायं गायं वनगिरिपते! त्वं हि बृन्दावनान्तः गोपीसङ्घैर्विहरसि यदा सुन्दर! व्यूढबाहो ।
रासारम्भोत्सवबहुविधप्रेम सीमन्तिनीनां चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥ ११४ ॥
मूलम्
गायं गायं वनगिरिपते! त्वं हि बृन्दावनान्तः गोपीसङ्घैर्विहरसि यदा सुन्दर! व्यूढबाहो ।
रासारम्भोत्सवबहुविधप्रेम सीमन्तिनीनां चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥ ११४ ॥
विश्वास-प्रस्तुतिः
इङ्गितं निमिषितं च तावकं रम्यमद्भुतमतिप्रियङ्करम् ।
तेन कंसमुखकीटशासनं सुन्दराल्पकमपि प्रशस्यते ॥ ११५ ॥
मूलम्
इङ्गितं निमिषितं च तावकं रम्यमद्भुतमतिप्रियङ्करम् ।
तेन कंसमुखकीटशासनं सुन्दराल्पकमपि प्रशस्यते ॥ ११५ ॥
विश्वास-प्रस्तुतिः
वाराणसीदहन पौण्ड्रकभौमभङ्गकल्पद्रुमाहरणशङ्करजृम्भणाद्याः ।
अन्याश्च भारतबलक्रथनादयस्ते क्रीडाः सुसुन्दरभुज! श्रवणामृतानि ॥ ११६ ॥
मूलम्
वाराणसीदहन पौण्ड्रकभौमभङ्गकल्पद्रुमाहरणशङ्करजृम्भणाद्याः ।
अन्याश्च भारतबलक्रथनादयस्ते क्रीडाः सुसुन्दरभुज! श्रवणामृतानि ॥ ११६ ॥
विश्वास-प्रस्तुतिः
त्वं हि सुन्दर! वनाद्रिनाथ! हे! वेङ्कटाह्वयमहीध्र मूर्धनि ।
देवसेवितपदाम्बुजद्वयः संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७ ॥
मूलम्
त्वं हि सुन्दर! वनाद्रिनाथ! हे! वेङ्कटाह्वयमहीध्र मूर्धनि ।
देवसेवितपदाम्बुजद्वयः संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७ ॥
विश्वास-प्रस्तुतिः
हस्तिशैलनिलयो भवन् भवान् साम्प्रतं वरदराजसाह्वयः ।
इष्टमर्थमनुकम्पया तदद् विश्वमेव दयते हि सुन्दर! ॥ ११८ ॥
मूलम्
हस्तिशैलनिलयो भवन् भवान् साम्प्रतं वरदराजसाह्वयः ।
इष्टमर्थमनुकम्पया तदद् विश्वमेव दयते हि सुन्दर! ॥ ११८ ॥
विश्वास-प्रस्तुतिः
मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर! त्वं तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः ।
विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११9 ॥कल्कीभविष्यन् कलिकल्कदूषितान् दुष्टान् अशेषान् भगवन् हनिष्यति ।
स एष तस्यावसरः सुसुन्दर! प्रशाधि लक्ष्मीश! समक्षमेव नः ॥ १२० ॥

ईदृशास्त्वदवतारसत्तमाः सर्व एव भवदाश्रितान् जनान् ।
त्रातुमेव न कदाचिदन्यथा तेन सुन्दर! भवन्तमाश्रये ॥ १२१ ॥
मूलम्
ईदृशास्त्वदवतारसत्तमाः सर्व एव भवदाश्रितान् जनान् ।
त्रातुमेव न कदाचिदन्यथा तेन सुन्दर! भवन्तमाश्रये ॥ १२१ ॥
विश्वास-प्रस्तुतिः
त्वामामनन्ति कवयः करुणामृताब्धिं त्वामेव संश्रितजनिघ्नम् उपघ्नमेषाम् ।
एषां व्रजन्निह हि लोचनगोचरत्वं हे सुन्दराह्व! परिचस्करिषे वनाद्रिम् ॥ १२२ ॥
मूलम्
त्वामामनन्ति कवयः करुणामृताब्धिं त्वामेव संश्रितजनिघ्नम् उपघ्नमेषाम् ।
एषां व्रजन्निह हि लोचनगोचरत्वं हे सुन्दराह्व! परिचस्करिषे वनाद्रिम् ॥ १२२ ॥
विश्वास-प्रस्तुतिः
अशक्यं नो किञ्चित् तव न च न जानासि निखिलं दयालुः क्षन्ता चास्यहमपि च नागांसि तरितुम् ।
क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च क्षमस्वैतावन्नो बलमिह हरे! सुन्दरभुज! ॥ १२३ ॥

लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं सान्दीपन्यभिजं मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् ।
गर्भं चार्जुनिसम्भवं व्युदधरः स्वेनैव रूपेण यः स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर! ॥ १२४ ॥

आयोध्य् अगान् सपशु-कीट-तृणांश् च जन्तून्
किङ्-कर्मणो नु बत कीदृश-वेदनाढ्यान् ।
सायुज्य-लभ्य-विभवान् निज-नित्य-लोकान्
सान्तानिकान् अगमयो वनशैलनाथ! ॥ १२५ ॥
मूलम्
आयोध्यगान् सपशुकीटतृणांश्च जन्तून् किङ्कर्मणो नु बत कीदृशवेदनाढ्यान् ।
सायुज्यलभ्यविभवान् निजनित्यलोकान् सान्तानिकान् अगमयो वनशैलनाथ! ॥ १२५ ॥
विश्वास-प्रस्तुतिः
हरित-वारण-भृत्य-समाह्वयं+++(=??-)+++
करि-गिरौ वरदस् त्वम् अपूर्विकाम् ।
दृशम् अलम्भय एव हि सुन्दर!
स्फुट-मदाश् च परश्-शतम् ईदृशम् ॥ १२६ ॥
मूलम्
हरितवारणभृत्यसमाह्वयं करिगिरौ वरदस्त्वमपूर्विकाम् ।
दृशमलम्भय एव हि सुन्दर! स्फुटमदाश्च परश्शतमीदृशम् ॥ १२६ ॥
विश्वास-प्रस्तुतिः
इह च देव! ददासि परान् वरान्!
वरद ! सुन्दर! सुन्दर-दोर्-धर ।
वन-गिरेर् अभितस् तटम् आवसन्
निखिल-लोचन-गोचर-वैभवः ॥ १२७ ॥
मूलम्
इह च देव! ददासि परान् वरान्! वरद ! सुन्दर! सुन्दरदोर्धर ।
वनगिरेरभितस्तटमावसन् निखिललोचनगोचरवैभवः ॥ १२७ ॥
विश्वास-प्रस्तुतिः
इदम् इमे शृणुमो मलय-ध्वजं +++(पाण्ड्यं)+++
नृपम् इह स्वयम् एव हि सुन्दर ।
+++(मोक्षदानेन)+++ चरणसात् कृतवान् इति तद् वयं
वन-गिरीश्वर! जात-मनोरथाः ॥ १२८ ॥
मूलम्
इदमिमे शृणुमो मलयध्वजं नृपमिह स्वयमेव हि सुन्दर ।
चरणसात् कृतवानिति तद् वयं वनगिरीश्वर! जातमनोरथाः ॥ १२८ ॥
विश्वास-प्रस्तुतिः
+++(ततः दण्डनेन कुराजानं चरणसात् कुर्व् इति)+++ विज्ञापनां वन-गिरीश्वर! सत्य-रूपां
अङ्गी-कुरुष्व करुणार्णव! मामकीनाम् ।
श्री-रङ्ग-धामनि यथा-पुरम् एष सोऽहं
रामानुजार्य-वश-गः परिवर्तिषीय ॥ १२९ ॥
मूलम्
विज्ञापनां वनगिरीश्वर! सत्यरूपाम् अङ्गीकुरुष्व करुणार्णव! मामकीनाम् ।
श्रीरङ्गधामनि यथापुरमेष सोऽहं रामानुजार्यवशगः परिवर्तिषीय ॥ १२९ ॥
विश्वास-प्रस्तुतिः
किञ्चेदं च विरिञ्च-भावन! वनाद्रीश! प्रभो! सुन्दर!
प्रत्याख्यान-पराङ्-मुखो वर-दतां पश्यन्न् अवश्यं कुरु ।
श्रीरङ्ग-श्रियम् अन्वहं प्रगुणयन् त्वद्-भक्त-भोग्यां कुरु
प्रत्यक्षं सुनिरस्तम् एव विदधत् +++(कु-चोल-निभ-)+++प्रत्य्-अर्थिनां प्रार्थनाम् ॥ १३० ॥
मूलम्
किञ्चेदं च विरिञ्चभावन! वनाद्रीश! प्रभो! सुन्दर! प्रत्याख्यानपराङ्मुखो वरदतां पश्यन्न् अवश्यं कुरु ।
श्रीरङ्गश्रियमन्वहं प्रगुणयन् त्वद्भक्तभोग्यां कुरु प्रत्यक्षं सुनिरस्तमेव विदधत् प्रत्यर्थिनां प्रार्थनाम् ॥ १३० ॥
विश्वास-प्रस्तुतिः
कारुण्यामृत-वारि-धे! वृष-पते हे! सत्य-सङ्कल्पन!
श्रीमन्! सुन्दर! +++(कु-चोल-निभ-)+++योग्यता-विरहितान् उत्सार्य सद्-वत्सल! ।
क्षाम्यन् साधु-जनैः कृतांस् तु निखिलान् एवापचारान् क्षणात्
तद्-भोग्याम् अनिशं कुरुष्व भगवन्! श्री-रङ्ग-धाम-श्रियम् ॥ १३१ ॥
मूलम्
कारुण्यामृतवारिधे! वृषपते हे! सत्यसङ्कल्पन! श्रीमन्! सुन्दर! योग्यताविरहितान् उत्सार्य सद्वत्सल! ।
क्षाम्यन् साधुजनैः कृतांस्तु निखिलानेवापचारान् क्षणात् तद्भोग्यामनिशं कुरुष्व भगवन्! श्रीरङ्गधामश्रियम् ॥ १३१ ॥
विश्वास-प्रस्तुतिः
इदं +++(→वक्ष्यमाणं वाक्यं)+++ भूयो भूयः, पुनर् अपि च भूयः, पुनर् अपि
स्फुटं विज्ञीप्सामीत्य् अगतिर् अबुधोऽनन्य-शरणः।
“कृतागा+++(←आगस्)+++ दुष्टात्मा कलुष-मतिर् अस्मी“त्य् अनवधेः
दयायास् ते पात्रं वन-गिरि-पते! सुन्दर-भुज! ॥ १३२ ॥
मूलम्
इदं भूयो भूयः पुनरपि च भूयः पुनरपि स्फुटं विज्ञीप्सामीत्यगतिरबुधोऽनन्यशरणः।
कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः दयायास्ते पात्रं वनगिरिपते! सुन्दरभुज! ॥ १३२ ॥