श्रीस्तवः

विश्वास-प्रस्तुतिः

(श्रीवत्स-चिह्नमिश्रेभ्यो
नम उक्तिम् अधीमहे
यद्-उक्तयस् त्रयी-कण्ठे
यान्ति मङ्गलसूत्रताम् ॥)+++(5)+++

मूलम्

(श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥)

श्रीनिवासः

Source: TW

इह खलु निखिलश्रुत्यन्त-तत्त्वार्थं
यामुन-मुनि-कुल-तिलक–रामानुजमुनेरधिगतवन्तः श्रीवत्साङ्कमिश्राः,

प्रथमतो

“नमोऽचिन्त्याद्भुताऽक्लिष्ट-
ज्ञान-वैराग्यराशये ।
नाथाय मुनयेऽगाध-
भगवद्-भक्ति-सिन्धवे ”

इत्य् उपक्रम्य,

“पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तम् अचिन्तयित्वा ”

इति स्तोत्ररत्नं परिसमाप्य,
चतुश्-श्लोकीम् उक्तवतो यामुनमुनेः पन्थानम् अनुसृत्य,

प्रथमतो “यो नित्य मच्युतपदाम्बुजे”त्य् आरभ्य,
“रामानुजस्य चरणौ शरणं प्रपद्ये” इत्युपक्रम्य,
प्रबन्ध-चतुष्टयं सृष्ट्वा
“रामानुजाङ्घ्रिशरणोऽस्मि वरदाऽस्मि तवेक्षणीयः” इति परिसमाप्य,
भगवत्-समाश्रयणोद्युक्त-समस्त-चेतन-जातेनाऽपि
पुरुष-कारतया प्रथमतस् समाश्रयणीयां श्रियम्
एकादशभिः श्लोकैः स्तोतु-कामाः
अशीर्वचन-रूपं मङ्गलम् अन्तराय-परिहाराय निबध्नन्ति -

विश्वास-प्रस्तुतिः

स्वस्ति श्रीर् दिशताद् अ-शेषजगतां सर्गोपसर्ग-स्थितीः
स्वर्गं दुर्-गतिम् आपवर्गिक-पदं सर्वञ् च कुर्वन् हरिः ।
यस्या वीक्ष्य मुखं तद्-इङ्गित-पराधीनो विधत्ते ऽखिलं,
क्रीडेयं खलु नान्यथा ऽस्य रस-दा स्याद् ऐकरस्यात्+++(→अन्यथा)+++ तया ॥१॥+++(5)+++

मूलम्

स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थितीः स्वर्गं दुर्गतिमापवर्गिकपदं सर्वञ्च कुर्वन् हरिः ।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥१॥

श्रीनिवासः

[[244]]
स्वस्तीति । अशेषजगतां सर्गोपसर्गस्थितीः, उपसर्ग, उपद्रवः, संहारः । सृष्टिसंहाररक्षाः । स्वर्गं दुर्गतिं नरकम्,

“स्यान्नारकस्तु नरको
निरयो दुर्गतिः स्त्रियाम्”

इत्यमरः । अपवर्गः मोक्षः तत्सम्बन्धि पदं स्थानं आपवर्गिकपदं सर्वञ्च उक्तव्यतिरिक्तं ऐहिकामुष्मिकभोगविशेषञ्च सर्वं कुर्वन् चिकीर्ष न्नित्यर्थः । हरिः यस्याः श्रियो मुखं वीक्ष्य, तदिङ्गितपराधीन स्सन् तत्तत्सूचकभ्रूभङ्गादीङ्गित परतन्त्र स्सन् अखिलं सर्गादिकं सकलं विधत्ते करोति । अन्यथा तदिङ्गितपराधीनत्वाभावे, अस्य तया श्रिया ऐकरस्यात् एकरसत्वाद्धेतोः इयं क्रीडा सर्गादिकृतिरूपा क्रीडा रसदा न स्यात् आनन्दावहा न भवेत्खलु; प्रयासप्राया हि भवे दित्यर्थः । श्रिया एकरसत्वं नाम तदभिमत्यनभिमत्यनुविधायिस्वप्रियाऽप्रियत्वम् । सा श्रीः " श्री रित्येव च नाम ते भगवति” इत्युक्तवैभवा श्री नामधेया सा स्वस्ति दिशतात् ददातु; स्तोत्रनिर्माणोद्युक्ताय मह्यं तदनुकूलवाक्समृद्ध्यादिकं प्रदद्यादित्यर्थः ॥ १ ॥

विश्वास-प्रस्तुतिः

हे श्रीर् देवि! समस्त-लोक-जननीं त्वां स्तोतुम् ईहामहे
युक्तां भावय भारतीं, प्रगुणय प्रेम-प्रधानां धियम् ।
भक्तिं भन्दय+++(←भदि कल्याणे)+++, नन्दयाश्रितम् इमं दासं जनं तावकं
लक्ष्यं लक्ष्मि! कटाक्ष-वीचि-विसृतेस् ते स्याम चामी वयम् ॥२॥

मूलम्

हे श्रीर्देवि! समस्तलोकजननीं त्वां स्तोतुमीहामहे युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् ।
भक्तिं भन्दय नन्दयाश्रितमिमं दासं जनं तावकं लक्ष्यं लक्ष्मि! कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥२॥

श्रीनिवासः

स्वस्तिश्री र्दिशता दित्युक्तमेव विवृणोति -

हे श्री देवि लक्ष्मि, सम्बोधनत्रयेऽपि द्वयोर्विशेषणत्व मेकस्य विशेष्यत्वम् इति मन्तव्यम् । वयं समस्तलोकजननीं, लोकशब्दो जनवाचकः, त्वां स्तोतु मीहामहे, ईह चेष्टायाम् - प्रयतामहे इत्यर्थः युक्तां स्तुत्युपयुक्तां भारतीं वाचं भावय उत्पादय । प्रेमप्रधानां स्तुत्युपयुक्त भारतीहेतुभूतत्वदीय कल्याणगुणगणविषय प्रणयप्रचुरां धियं मतिं प्रगुणय अभिवर्धय ।
भक्तिं भन्दय भदि कल्याणे सुखे च इति धातुः । उक्त लक्षणप्रणयकारणभूतां भक्तिं कल्याणीं कुरुष्व; परमभक्तिपर्यन्तपरिपाकवतीं रचयेत्यर्थः । आश्रितं इमं जनं तावकं दासं [[245]] नन्दय; आश्रिता नस्मान् परमभक्त्यनन्तरभाविभवदीयनित्य कैङ्कर्यनिरतान् कृत्वा सन्तोषयेत्यर्थः । अमी वयञ्च ते तव कटाक्षवीचिविसृतेः अपाङ्गतरङ्गविजृम्भणस्य लक्ष्यं स्याम पात्रभूता भवेम । वयञ्चेत्यत्र चकारो नित्यमुक्तान् समुच्चिनोति । यथा नित्यमुक्ता स्त्वदीयकिङ्कराः त्वदपाङ्गतरङ्गनिरन्तराभिषिक्ता भवन्ति, तथा वय मपि भवेमेति भावः ॥ २ ॥

विश्वास-प्रस्तुतिः

स्तोत्रं नाम किम् आमनन्ति कवयो, यद्य् अन्यदीयान् गुणान्
अन्यत्र त्व् अ-सतो ऽधिरोप्य फणितिस्, सा तर्हि वन्ध्या त्वयि ।
सम्यक् सत्य-गुणाभिवर्णनम् अथो ब्रूयुः, कथं तादृशी
वाग् वाचस्-पतिना ऽपि शक्य-रचना त्वत्-सद्-गुणार्णो-निधौ ॥३॥+++(5)+++

मूलम्

स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान् अन्यत्र त्वसतोऽधिरोप्य फणितिस्सा तर्हि वन्ध्या त्वयि ।
सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी वाग्वाचस्पतिनाऽपि शक्यरचना त्वत्सद्गुणार्णोनिधौ ॥३॥

श्रीनिवासः

एवं स्तवानुगुणवाणी प्रभृतिनित्यकिङ्करत्व पर्यन्तं स्वाभिमतं सम्प्रार्थ्य, सम्प्रति, कविजनाभिमतस्तोत्ररचना निरवधिकाति- विलक्षणगुणवत्यां भवत्यां न सम्भवतीत्याह - स्तोत्रमिति । कवयः कवनशीलाः किन्नाम किं वा स्तोत्रमामनन्ति वदन्ति, स्तोत्रं किंलक्षणलक्षित माचक्षते इत्यर्थः । असतः स्तुत्ये वस्तुनि अवद्यिमानान्, अन्यदीयान् अन्यस्मिन् वस्तुनि विद्यमानान् गुणान् अधिरोप्य फणितिः उक्तिः स्तोत्रं यदि, तर्हि तदा सा आत्मन्यविद्यमानान्यगुणारोपरूपा फणितिः त्वयि वन्ध्या विफला; असङ्ख्यातगुणगणनिधौ भवत्यां अविद्यमानगुणारोपासम्भवा दिति भावः । अथो अथवा सम्यक् यथावत् सत्यगुणाभिवर्णनं विद्यमानगुणानां अभितो वर्णनं स्तोत्रं ब्रूयुः वदेयु र्यदि, त्वत्सद्गुणार्णोनिधौ भवदीयकल्याणगुणसागरे विषये तादृशी वाक् विद्यमान कृत्स्नगुणवर्णनरूपा वाक् वाचस्पतिनाऽपि वागीश्वरेण बृहस्पतिनाऽपि कथं शक्य रचना ? रचयितुं अशक्यैवेत्यर्थः । कल्याणगुणनिधित्वात् अविद्यमान गुणारूपो, विद्यमानगुणयथावद्वर्णन ञ्च न सम्भवतीति भावः ॥ ३ ॥

[[246]]

विश्वास-प्रस्तुतिः

ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास् तावकास्
तान् एव प्रति साम्बु-जिह्व-मुदिता है! मामिका भारती ।
हास्यं तत् तु न मन्महे - हि चकोर्य् “एकाऽखिलां चन्द्रिकां
नालं पातुम्” इति प्रगृह्य रसनाम् आसीत सत्यां तृषि ॥४॥ +++(4)+++

मूलम्

ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः तानेव प्रति साम्बुजिह्वमुदिता है! मामिका भारती ।
हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥४॥

श्रीनिवासः

इत्थं गुणाना मपरिच्छिन्नत्वे स्तोत्रप्रवृत्तिः कथमित्याशङ्क्य सदृष्टान्तं परिहरति - य इति ।

तावका स्त्वदीयाः ये गुणाः वाचां मनसाञ्च दुर्ग्रहतया अवाङ्गनसगोचरतया ख्याताः, तान् गुणानेव प्रति स्तुत्यतयोद्दिश्य मामिका मदीया भारती वाक् साम्बुजिह्वं गुणाना मत्यन्तरस्यताज्ञानाद्द्रव सहितरसनं यथा तथा उदिता, अवश्यं स्तौमि इत्येवं सङ्कल्प्य सरसं प्रवृत्तेत्यर्थः । है आश्चर्ये । तत्तु उदयनन्तु हास्यं न मन्महे परिहासास्पदं न जानीमहे ।
हि यस्मात्कारणात् एका चकोरी तृषि सत्यां इच्छायां सत्यां अखिलां चन्द्रिकां कौमुदीं पातुं नाऽलम्, न समर्थाऽस्मीति रसनां जिह्वां प्रगृह्य नाऽऽसीत नावतिष्ठेत । भारतीदृष्टान्तानुगुणं चकारे पत्नीतिप्रयोगः । पिपासावती चकोरी कृत्स्नचन्द्रिकापानाशक्तावपि यथा प्रवर्तते, तथा मदीयभारती च तुष्टषावती प्रवर्तत इति भावः ॥ ४ ॥

विश्वास-प्रस्तुतिः

क्षोदीयान् अपि दुष्ट-बुद्धिर् अपि निस्स्नेहो ऽप्य् अनीहोऽपि ते
कीर्तिं देवि लिहन्न् अहं न च बिभेम्य् अ-ज्ञो न जिह्रेमि च ।
दुष्येत् सा +++(श्रीः)+++ तु तावता, हि शुना लीढा ऽपि भागीरथी
दुष्येच्, छ्वाऽपि न लज्जते न च बिभेत्य् आर्तिस् तु शाम्येच् छुनः ॥५॥

मूलम्

क्षोदीयानपि दुष्टबुद्धिरपि निस्स्नेहोऽप्यनीहोऽपि ते कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च ।
दुष्येत्सा तु न तावता न हि शुना लीढाऽपि भागीरथी दुष्येच्छ्वाऽपि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥५॥

श्रीनिवासः

स्तोतुं स्वस्य गुणशून्यतया स्तोत्रप्रवृत्तौ लज्जाभयोन्मेषं, स्तुत्यस्य विषयस्य दोषस्पर्शम प्याशङ्क्य सदृष्टान्तं परिहरति- क्षोदीयानिति । हे देवि, क्षोदीया नपि अतिक्षुद्रोऽपि अत एव दुष्टबुद्धि रपि, अत एव निःस्नेहोऽपि भक्तिरहितोऽपि अत एवाऽनीहोऽपि -[[247]] ईहचेष्टायाम् - भक्तिकार्यपरिचर्यारहितोऽपि ते कीर्तिं गुणवत्ताप्रथां लिहन् स्तुत्यतया आस्वादयन् अज्ञः अहं न च बिभेमि न च भीतिमान् भवामि, न जिह्रेमि च ह्रीमान्न च भवामि । सा तु कीर्ति स्तु तावता मदीयास्वादनेन न दुष्येत् न दोषं प्राप्नुयात् । हि यस्मात्कारणात् शुना शुनकेन लीढा आस्वादिताऽपि भागीरथी न दुष्येत् श्वाऽपि न लज्जते, न बिभेति च, शुनः शुनकस्य आर्तिस्तु पिपासा तु शाम्येत् शान्ता भवेत् । तथा त्वत्कीर्त्यास्वादनेन मदीयतुष्टृषा शान्ति स्सम्भवे दिति भावः ॥ ५ ॥

विश्वास-प्रस्तुतिः

ऐश्वर्यं महद् एव वाऽल्पम् अथवा दृश्येत पुंसां हि यत्
तल् लक्ष्म्याः समुदीक्षणात् तव यतः सार्वत्रिकं वर्तते
तेनैतेन न विस्मयेमहि जगन्-नाथोऽपि नारायणो
धन्यं मन्यत ईक्षणात् तव यतः स्वात्मानम् आत्मेश्वरः ॥६॥

मूलम्

ऐश्वर्यं महदेव वाऽल्पमथवा दृश्येत पुंसां हि यत् तल्लक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते ।
तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणः धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥६॥

श्रीनिवासः

इत्थं स्तुतिं प्रस्ताव्य स्तौति - ऐश्वर्यम् इति । सार्वत्रिकम् ऐहिकमामुष्मिकञ्च । पुंसां य दैश्वर्यं महदेव वा अल्प मथवा अल्पं वा दृश्यते विलोक्यते
तदैश्वर्यं लक्ष्म्यास् तव यतः समुदीक्षणात् यस्माद् भवदीक्षणात् कटाक्षात् वर्तते प्रवर्तते तेनैतेन तादृशवैभवेन अनेन कटाक्षेण न विस्मयेमहि आश्चर्यवन्तो न भवामः । विस्मयाभावे हेतुमाह - जगन्नाथोऽपीत्यादिना । यतः कारणाज्जगन्नाथः आत्मेश्वरः, “पतिं विश्वस्याऽऽत्मेश्वरम्” इति श्रुति प्रतिपादितः नारायणोऽपि " नारायण परं ब्रह्म तत्त्व न्नारायणः परः” इत्युक्तोऽपि, तव ईक्षणात्स्वात्मानं “सत्यं ज्ञान मनन्तं ब्रह्म”, “आनन्दो ब्रह्म”, “रसो वै सः” इत्याद्युक्तवैलक्षण्यस्वरूपादिक ( युक्त ) मपि, यद्वा स्वात्मानं " प्रकतिं स्वा मधिष्ठाय सम्भवामि “, " न तस्य प्राकृता मूर्तिः " इत्याद्युक्तमहिमस्वदिव्यविग्रहं वा, धन्य म्मन्यते, सौभाग्यवन्तं जानाति । ततः इतरेषा मैश्वर्यं त्वदीक्षणायत्त मित्यत्र नाऽऽश्चर्यम् इति भावः ॥ ६ ॥ [[248]]

विश्वास-प्रस्तुतिः

ऐश्वर्यं यद् अ-शेष-पुंसि+++(←चिति)+++, यद् इदं सौन्दर्य-लावण्ययो
रूपं, यच् च हि मङ्गलं, किम् अपि यल् लोके सद् इत्य् उच्यते
तत् सर्वं त्वद्-अधीनम् एव, यद् अतः श्रीर् इत्य् अ–भेदेन वा
यद् वा श्रीमद्-इतीदृशेन वचसा देवि! प्रथाम् अश्नुते ॥७॥

मूलम्

ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते ।
तत्सर्वं त्वदधीनमेव यदतः श्रीरित्यभेदेन वा यद्वा श्रीमदितीदृशेन वचसा देवि! प्रथामश्नुते ॥७॥

श्रीनिवासः

ऐश्वर्यम् इति । अशेषपुंसि समस्तेषु चेतनेष्वित्यर्थः । यदैश्वर्यं - सौन्दर्यं अवयवशोभा, लावण्यं समुदायशोभा, यदिदं सौन्दर्यलावण्ययो रूपं, लोके यच्च मङ्गलं हि मङ्गलतया प्रसिद्धं, यत् किमपि सत् समीचीनमित्युच्यते । उच्यत इति पदस्य सर्वत्राऽनुषङ्गः । तत्सर्वं अशेषपुरुषनिष्ठैश्वर्यादिकं सर्वं यत् यस्मात्कारणात् त्वदधीनम् एव, भवतीति शेषः । अतो हेतोः श्री रिति अभेदेन अभेदाध्यवसायेन वा यद्वा- ‘श्रीमत् ’ इतीदृशेन श्रीम दित्येवंप्रकारेण वचसा वा प्रथां प्रसिद्धिं अश्नुते प्राप्नोति ।
लौकिक-सकल-चेतन-गतैश्वर्य-सौन्दर्यलावण्य-
मङ्गल-सद्-आदि-शब्द-वाच्यानां श्री-शब्देन श्रीमच्-छब्देन वा वाच्यत्वं
त्वत्-कटाक्षायत्तत्व-निबन्धनम् इति निष्कृष्टार्थः ॥ ७ ॥

विश्वास-प्रस्तुतिः

देवि त्वन्-महिमावधिर् हरिणा, नापि त्वया ज्ञायते
यद्य् अप्य् एवम् अथापि नैव युवयोस् स-र्वज्ञता हीयते
यन् नास्त्य् एव तद्-अ-ज्ञताम् अनुगुणां सर्वज्ञताया विदुर् -
व्योमाम्भो-जम् इदन्तया किल विदन् - “भ्रान्तो ऽयम्” इत्य् उच्यते ॥८॥ +++(5)+++

मूलम्

देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोस्सर्वज्ञताहीयते ।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः व्योमाम्भोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते ॥८॥

श्रीनिवासः

एतादृशं त्वदीयैश्वर्यं भवद्भ्यामपरिच्छेद्य मित्याह - देवि, त्वन्महिमावधि र्न हरिणा नाऽपि त्वया ज्ञायते यद्यप्येव, मथाऽपि नैव युवयो स्सर्वज्ञता हीयते। यन्नास्त्येव तदज्ञता मनुगुणां सर्वज्ञताया विदु - व्यमाम्भेज मिदन्तया किल विदन्भ्रान्तोऽय मित्युच्यते ॥ ८ ॥ देवीति । हे देवि, त्वन्महिम्नोऽवधिः हरिणा न ज्ञायते, त्वयाऽपि न ज्ञायते । एवं यद्यपि, अथाऽपि युवयोः भवतो: सर्वज्ञता न हीयत एव, हीना न भवत्येव । कथं वा न सर्वज्ञताहानिरित्यत आह- यन्नाऽस्त्येवेति । तदज्ञतां अविद्यमानाज्ञतां सर्वज्ञताया अनुगुणां विदुः । तत्र दृष्टान्तं

[[249]] व्यतिरेकेणाऽऽह - व्योमाम्भोजं, अविद्यमानमिति भावः । इदन्तया पुरोवर्तितया विदन् जानन् अयं भ्रान्त इत्युच्यते, तटस्थैरिति शेषः । अतो वस्तुत एवाऽविद्यमानत्वन्महिमावध्यज्ञानं सर्वज्ञतानुगुणम् इति भावः ॥ ८ ॥

विश्वास-प्रस्तुतिः

लोके वनस्-पति–बृहस्-पति–तारतम्यं
यस्याः प्रसाद-परिणामम् उदाहरन्ति
सा भारती भगवती तु यदीय-दासी
तां देव-देव-महिषीं श्रियम् आश्रयामः ॥९॥

मूलम्

लोके वनस्पतिबृहस्पतितारतम्यं यस्याः प्रसादपरिणाममुदाहरन्ति ।
सा भारती भगवती तु यदीयदासी तां देवदेवमहिषीं श्रियमाश्रयामः ॥९॥

श्रीनिवासः

लोक इति । वनस्पतिः अज्ञोत्कृष्टः, बृहस्पतिः ज्ञानादुत्कृष्टः, तयोः तारतम्यं यस्याः प्रसादपरिणाम मुदाहरन्ति, प्रसादस्य परिणामं न्यूनाधिकपरिपाकं व्यवहरन्ति सा भगवती पूज्या भारती सरस्वती यदीयदासी यत्परिचारिका भवति देवदेवमहिषीं तां श्रियमाश्रयामः, ज्ञानप्रसादपरिपाक (हेतु ?) भारतीपरिचरितचरणनलिनयुगलां श्रियं शरणं भजाम इति भावः ॥ ९ ॥

विश्वास-प्रस्तुतिः

यस्याः कटाक्ष-मृदु-वीक्षण-दीक्षणेन
सद्यस् समुल्लसित-पल्लवम् उल्ललास
विश्वं +++(कटाक्ष-)+++विपर्यय-समुत्थ-+++(सत्ता-)+++विपर्ययं प्राक्
तां देव-देव-महिषीं श्रियम् आश्रयामः ॥१०॥

मूलम्

यस्याः कटाक्षमृदुवीक्षणदीक्षणेन सद्यस्समुल्लसितपल्लवमुल्ललास ।
विश्वं विपर्ययसमुत्थविपर्ययं प्राक् तां देवदेवमहिषीं श्रियमाश्रयामः ॥१०॥

श्रीनिवासः

यस्या इति । प्राक् प्रलयकाले विपर्ययेन कटाक्षाभावेन समुत्थः सञ्जातः विपर्ययः अभावः यस्य तत्तथोक्तं, विश्वं जगत्, यस्याः कटाक्षरूपं यत् मृदुवीक्षणं तस्य दीक्षणेन सङ्कल्पेन
सद्यस्-समुल्लसित-पल्लवं सञ्जाताङ्कुरं यथा तथा उल्ललास आविर्बभूव ।
तां देवदेवमहिषीं श्रियम् आश्रयामः ॥१०॥

विश्वास-प्रस्तुतिः

यस्याः कटाक्ष-वीक्षा-
क्षण-लक्षं लक्षिता महेशास् स्युः
श्रीरङ्गराज-महिषी
सा माम् अपि वीक्षतां लक्ष्मीः ॥११॥

मूलम्

यस्याः कटाक्षवीक्षाक्षणलक्षं लक्षिता महेशास्स्युः ।
श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥११॥

श्रीनिवासः

इत्थं स्वव्यतिरिक्तविषये सुलक्षितं लक्ष्मीकटाक्षवैलक्षण्यवैभवं स्वस्मिन्नपि सम्प्रार्थ्य स्तोत्रं परिसमापयति- [[250]]

यस्या इति । यस्याः कटाक्षवीक्षायाः क्षणलक्षं क्षणमात्रं लक्ष्यं ये ते महेशाः स्युः । अत्यन्तैश्वर्यवन्तो भवेयुः । श्रीरङ्गराजमहिषी सा लक्ष्मीः मामपि वीक्षताम्, तत एव कृतकृत्यो भवेय लक्षिताः जनाः, मिति भावः ॥ ११ ॥ इति पञ्चस्तवव्याख्यायां श्री स्तवव्याख्या परिसमाप्ता ॥

विश्वास-प्रस्तुतिः

(अर्वाञ्चो यत्-पद–सरसि-ज–द्वन्द्वम् आश्रित्य पूर्वे
मूर्ध्ना यस्यान्वयम् उपगता देशिका मुक्तिम् आपुः
सोऽयं रामानुजमुनिर् अपि स्वीय-मुक्तिं कर-स्थां
यत्-सम्बन्धाद् अमनुत कथं वर्ण्यते कूर-नाथः ॥)+++(5)+++

मूलम्

(अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे मूर्ध्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः ।
सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां यत्सम्बन्धादमनुत कथं वर्ण्यते कूरनाथः ॥)