अतिमानुषस्तवः

विश्वास-प्रस्तुतिः

(श्रीवत्स-चिह्नमिश्रेभ्यो
नम उक्तिम् अधीमहे
यद्-उक्तयस् त्रयी-कण्ठे
यान्ति मङ्गलसूत्रताम् ॥)(5)

मूलम्

(श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥)

श्रीनिवासः - प्रस्तावः

एवं श्रीवैकुण्ठ-नाथ-विषयं श्रीवैकुण्ठ-स्तवं परिसमाप्य
व्यूहावतारस्याऽपि
तत्-समान-योग-क्षेमतया
तम् उपेक्ष्य
अनन्तरं विभवावतारं तुष्टूषन्तः श्रीवत्साङ्कमिश्राः,
अतिमानुषावह-चित्र-चरित्रासक्त-
भगवद्-वाल्मीकि–पराशर–पाराशर्य-शुक-प्रभृतिभिर्
भट्ट-नाथ–पराङ्कुश–पर-काल-प्रभृतिभिः परमाचार्यैश् चाऽऽविष्कृतं
अतिरहस्यं अतिमानुष-चरित्र-वैचित्र्यम् एव
मादृशां प्रकाशयितुं
प्रथमतो नमस्-क्रिया-रूपं मङ्गलं निबध्नन्ति -

विश्वास-प्रस्तुतिः

अतिमानुष-शील-वृत्त-वेषैर्
अतिवृत्तामर-विक्रम-प्रतापैः ।
अतिलङ्घित–सर्व-लोक-साम्यं
वरये वैष्णव-वैभवावतारम् ॥ १ ॥

श्रीनिवासः

1 अतीति । विक्रमः निर्विशङ्कं शत्रुसैन्यप्रवेशः, प्रतापः परैरनभिभवनीयत्वं, अविषह्यत्वञ्च अमराणां विक्रमप्रतापौ अतिवृत्तौ अतिक्रान्तौ यै स्तैः । अतिमानुषैः मानुषा नतिक्रान्तैश्च तैः शीलवृत्तवेषैः स्वभावव्यापाराकारैः । यद्वा, अतिवृत्तामरैश्च तै र्विक्रमप्रतापैश्चेति स्वतन्त्रं वा । तदानीं विक्रमप्रतापयो रवान्तरभेदेन बहुत्वं द्रष्टव्यम् । मनुष्ये ष्वदृष्टचरैश्शीलवृत्तवेषैः, अमरेष्वप्यदृष्टचरै र्विक्रमप्रतापैश्च अतिलङ्घितं सर्वलोकसाम्यं सर्वजनसादृश्यं सकलभुवनेषु सादृश्यं येन तम्, “जन्मकर्म च मे दिव्यम्’ इत्युक्ते रिति भावः । वैष्णवं विष्णुसम्बन्धिनं वैभवावतारं विभव एव वैभवम्, विभवावतारम् इत्यर्थः । वरये समाश्रयणीयत्वेन वृणोमि [[67]] स्वीकरोमीत्यर्थः, " स उ श्रेयान्भवति जायमानः” इति श्रुतेः । “य स्सर्वज्ञ स्सर्ववित्", “पराऽस्य शक्ति र्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च”, “त मीश्वराणां परमं महेश्वरम्”, “न तत्समश्चाभ्यधिकश्च दृश्यते”, “अपहतपाप्माविजरः” इत्याद्युक्ताः कल्याणगुणाः अवतारेष्वेव सम्यक्प्रकाशन्ते इति स एव समाश्रयणीय इति भावः ॥ १ ॥

मूलम्

अतिमानुषशीलवृत्तवेषैर् अतिवृत्तामरविक्रमप्रतापैः ।
अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १ ॥

रङ्ग-पाद-नुतिः

श्रीनिवासः - प्रस्तावः

अनन्तरं सर्वावतारप्रधान श्रीदाशरथिप्रतिनिधि-श्रीरङ्गनाथ- चरणारविन्द-प्रणामरूपांश् चतुरः श्लोकानाह -

विश्वास-प्रस्तुतिः

श्रेयः किरन्तु किरणाश् चरणारविन्द-
निष्यन्दमान-मकरन्द-रसौघ-देश्याः(=निभाः)
तज्-जाः श्रुतेर् “मधुन उत्स” इति प्रतीताः
माङ्गल्य-रङ्ग-निलयस्य परस्य धाम्नः ॥ २ ॥

श्रीनिवासः

[[77]]

श्रेय इति ।
माङ्गल्यं मङ्गलप्रदं यदङ्गं श्रीरङ्गविमानं तत्-निलयो वासस्थानं यस्य तस्य परस्य धाम्नः, “नारायण परो ज्योतिः " इत्युक्तस्य भगवतः चरणारविन्द-निष्यन्दमानस्य प्रवहतः मकरन्दरसौघस्य देश्याः सदृशप्रायाः ।
“ ईषद् असमाप्तौ कल्पब्देश्यदेशीयरः" इति देश्य प्रत्ययः ।
श्रुतेर् वेदात् मधुनो मकरन्दस्य उत्सः प्रवाह इति प्रतीताः प्रसिद्धाः ।

“विष्णोः पदे परमे मध्व उत्सः”

इति श्रुतेर् इति भावः ।

तज्जाः । चरणारविन्दजनिताः किरणाः श्रेयः किरन्तु विस्तारयन्तु, वर्धयन्त्व् इत्यर्थः ।
चरणारविन्दानाम् अत्यन्तभोग्यतया मधुसाम्यम् इति मन्तव्यम् ।
मदीयशरण-वरण-विषयाः
रङ्ग-रमण-चरण-किरणाः अतिमानुषावतार-चरित्रस्तोत्रानुगुणां वाणीसमृद्धिं प्रदिशन्त्व् इति हार्दो भावः ॥ २ ॥

मूलम्

श्रेयः किरन्तु किरणाश्चरणारविन्दनिष्यन्दमानमकरन्दरसौघदेश्याः ।
तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः माङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २ ॥

विश्वास-प्रस्तुतिः

श्रीमत्-पराङ्कुश-मुनीन्द्र-मनो–निवासात्
तज्-ज+अनुराग-रस–मज्जनम् अञ्जसा ऽऽप्य
अद्याप्य् अनारत-तद्-उत्थित-राग-योगं
श्रीरङ्ग-राज-चरणाम्बुजम् उन्नयामः ॥ ३ ॥(4)

श्रीनिवासः

[[69]]

श्रीमदिति । श्रीमत्-पराङ्कुश-मुनीन्द्र-मनसि निवासात् निरन्तर-वासात् तज्जे पराङ्कुश-मूनीन्द्र-मनो-जनिते अनुराग-रसे मज्जनम् अवगाहनम्,
अञ्जसा द्रुतम् आप्य अधिगम्य अद्यापि अनारतः अविश्रान्तः तदुत्थितः अनुरागरसमज्जनजनितः रागयोगः रक्तिमसम्पर्को यस्य तत् श्रीरङ्गराजचरणाम्बुजं उन्नयामः उन्नतं कुर्मः प्रणता भवाम इत्यर्थः । श्रीपराङ्कुशान्तरङ्गस्य श्ररङ्गनाथचरणविषयकानुरागभरितत्वात् तस्मि न्निवसत स्तस्य तदीयानुरागवर्ण सम्पर्को जात इत्युत्प्रेक्ष्यते ॥ ३ ॥

मूलम्

श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात् तज्जानुरागरसमज्जनम् अञ्जसाऽऽप्य ।
अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजम् उन्नयामः ॥ ३ ॥

विश्वास-प्रस्तुतिः

वज्र-ध्वजाङ्कुश-सुधा-कलशातपत्र-
पङ्के-रुहाङ्क-परिकर्म-परीतम् अन्तः ।
आ-पाद–पङ्क-ज–विशृङ्खल-दीप्र-मौलेः(=किरीटस्य)
श्री-रङ्गिणश् चरणयोर् युगम् आश्रयामः ॥ ४ ॥

श्रीनिवासः

वज्रेति ।
अन्तः अन्तःप्रदेशे वज्रं वज्रायुधं सुधाकलशः अमृतकलशः वज्रध्वजाङ्कुशसुधाकलशातपत्रपङ्केरुहाणां अङ्काः चिह्नान्येव परिकर्म अलङ्कारः तेन परीतम् आवृतम्,
आपादपङ्कजं पादपङ्कजपर्यन्तं विशृङ्खलम् अनर्गलं यथातथा दीप्र उज्ज्वलः मौलिः किरीटं यस्य तस्य श्रीरङ्गिणः चरणयो र्युग माश्रयामः । सर्वेश्वरत्वसूचकसमुज्ज्वलमौलेः श्रीरङ्गराजस्य अत्यन्तभोग्यवज्रादिचिह्नसमग्रतलमङ्घ्रियुग्मं शरणं भजाम इत्यर्थः ॥ ४ ॥

मूलम्

वज्रध्वजाङ्कुशसुधाकलशातपत्रपङ्केरुहाङ्कपरिकर्मपरीतमन्तः ।
आपादपङ्कजविशृङ्खलदीप्रमौलेः श्रीरङ्गिणश्चरणयोर्युगम् आश्रयामः ॥ ४ ॥

त्रिविक्रमः

विश्वास-प्रस्तुतिः

श्री-रङ्ग-राज-चरणौ प्रणुमो ययोः खलु
एकस् त्रि-विक्रम-विधौ वसुधाम् अशेषाम् ।
व्यक्रंस्त साचल-कुलाम् अपि विप्रकीर्ण-
स्थूलावलग्न-सिकताम् इव निर्(गत)-णतोच्चम् ॥ ५ ॥

श्रीनिवासः

श्रीरङ्गेति । श्रीरङ्गराजचरणौ प्रणुमः स्तुम इत्यर्थः । णु स्तुता विति धातुः । ययो र्मध्ये एकः त्रिविक्रमविधौ त्रिविक्रमणविधाने साचलकुलां अचलकुलसहितां, कुलाचलसहिताम् इति वा । आहिताग्न्यादित्वा त्साधुः ।

[[69]]

अशेषामपि वसुधां विप्रकीर्णस्थूलावलग्नसिकतामिव स्थिताम्, विप्रकीर्णाः स्थूलाः पादत-लावलग्नाः सिकताः यस्यास्सा इति विग्रहः । तदानीं कुलाचलाः पादतललग्न स्थूल सिकता इव स्थिता इति भावः । निर्णतोच्चं - निर्गताः नतोच्चाः नीचोन्नता यस्मिन्कर्मणि तद्यथा भवति तथा, उच्चनीचरहितम् इति यावत् । अनेन कृत्स्नपदार्थाना मविशेषेण पादस्पर्शो विवक्षितः । व्यक्रंस्त खलु अक्रान्तवा न्किल । ‘क्रमु पादविक्षेपे’ इत्य स्मा द्धातोः कर्तरिलुङ् ॥ ५॥

मूलम्

श्रीरङ्गराजचरणौ प्रणुमो ययोः खलु एकस्त्रिविक्रमविधौ वसुधामशेषाम् ।
व्यक्रंस्त साचलकुलामपि विप्रकीर्णस्थूलावलग्नसिकतामिव निर्णतोच्चम् ॥ ५ ॥

अनुग्रह-भावाः

व्यूहाः

विश्वास-प्रस्तुतिः

ज्ञानं बलं विपुलम् ईशन-वीर्य-शक्ति-
तेजांसि च त्रि-युग-भूयम् उपागतानि
(ज्ञान-बले → सङ्कर्षण, ऐश्वर्य-वीर्ये → प्रद्युम्नः, शक्ति-तेजसी → अनिरुद्ध इति)
पूर्णानि षट् च (वासुदेवरूपे) परिगृह्य भवंश् चतुर्धा
भक्तं जनं त्वम् अनुजग्रहिथा ऽनुरागात् ॥ ६ ॥

श्रीनिवासः

ज्ञानमिति ।
विपुलम् इति विशेषणं
वचनव्यत्यासेन सर्वत्र योज्यम् ।
ज्ञानबले ऐश्वर्यवीर्ये शक्तितेजसी इति त्रियुगभूयं युगल-त्रयत्वं उपागतानि प्राप्तानि पूर्णानि समस्तानि - षट् च परिगृह्य स्वीकृत्य
चतुर्धा भवन् वासुदेव-सङ्कर्षणप्रद्युम्नानिरुद्ध-रूपेण
चतुः-प्रकारस् सन्
त्वं अनुरागात् प्रेम्णः अनुग्रहावहप्रसादा दित्यर्थः ।
भक्तं जनं अनुजग्रहिथ अनुगृहीतवान् ।
भवतश्चतुर्विधविग्रहपरिग्रहः आश्रितानुग्रहायेति भावः ।

षाङ्गुण्याद् वासुदेवः पर इति स भवान् मुक्त-भोग्यो, बलाढ्यात्
बोधात् सङ्कर्षणस् त्वं हरसि, वितनुषे शास्त्रम्, ऐश्वर्य-वीर्यात् । प्रद्युम्नस्, सर्ग-धर्मो नयसि च भगवन् ! शक्ति-तेजो ऽनिरुद्धो
बिभ्राणः पासि तत्त्वं, गमयसि च तथा व्यूह्य रङ्गाधिराज!

इति श्लोकोऽत्र अनुसन्धेयः ॥ ६ ॥

मूलम्

ज्ञानं बलं विपुलमीशनवीर्यशक्तितेजांसि च त्रियुगभूयमुपागतानि ।
पूर्णानि षट् च परिगृह्य भवंश्चतुर्धा भक्तं जनं त्वमनुजग्रहिथाऽनुरागात् ॥ ६ ॥

वाग्-अतीतता, अवतार-प्रयोजनम्

विश्वास-प्रस्तुतिः

एकान्त-मङ्गल-गुणास्पदम् अस्त-हेयं
नित्यं पदं तव यतस् तत एव देव! ।
आम्नायते तद् इह विश्व-विरूप-रूपं
तेनैव नन्व् इदम् अ-शब्दम् अ-रूपम् आहुः ॥ ७ ॥

श्रीनिवासः

एकान्तेति । हे देव! तव पदं पद्यते प्राप्यते उपास्यते इति पदं स्वरूपं यतः नित्यं सदा एकान्ताना मसाधारणानां मङ्गलगुणाना मास्पदं आधारभूतं अस्तहेयं निरस्तावद्यञ्च, भवतीति शेषः । ततः कारणादेव तत्पदम् इह विश्वविरूपरूपं सकल विलक्षणाकारं आम्नायते आम्नायैः प्रतिपाद्यते । तेनैव हेतुना इदं स्वरूपं अरूपं रूपरहितम्, अशब्दं नाम रहितञ्च आहुः, आम्नाया इति शेषः । लौकिकसकल विसजातीय हेयप्रत्यनीक । कल्याणैकतान त्वोभयलिङ्गविशिष्टं भवत्स्वरूपं “ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते तस्योदिति नाम" इति रूपनामवत्त्वेऽपि नामरूपरहित माम्नायते इति भावः ॥ ७ ॥

मूलम्

एकान्तमङ्गलगुणास्पदम् अस्तहेयं नित्यं पदं तव यतस्तत एव देव! ।
आम्नायते तदिह विश्वविरूपरूपं तेनैव नन्विदम् अशब्दम् अरूपम् आहुः ॥ ७ ॥

श्रीनिवासः - प्रस्तावः

उक्तमर्थम् एव विवृणोति -

विश्वास-प्रस्तुतिः

शब्दादि-हेय (विषयजातम्) इह गोचर इन्द्रियाणां,
तत्-प्रत्यनीक-विभवस् त्वम् अतीन्द्रियो ऽसि
तेनैव ते बत दर्शनम् अस्ति किञ्चिद्
वाचो धियश् च तत एव न गोचरोऽसि ॥ ८ ॥

श्रीनिवासः

[[70]]
शब्दादीति । शब्दादिश्चाऽसौ हेयश्च तथोक्तः हेय-शब्दादि-विषय इत्यर्थः । इन्द्रियाणां गोचरः विषयः श्रोत्रादीन्द्रियग्राह्य इत्यर्थः ।
तत्प्रत्यनीकः, अन्धकारस्याऽऽतप इव सहावस्थानासह इति भावः ।
विभवः कल्याणगुणसम्पत् यस्य स तथोक्तः, त्वम् अतीन्द्रियोऽसि इन्द्रियाविषयोऽसि ।
तेनैव हेतुना ते दर्शनं साक्षात्कारः नाऽस्ति ।

“न मांसचक्षुर् अभिवीक्षते तम्” ।

तत एव हेतोः वाचो धियश्च न गोचरोऽसि ।

“न चक्षुषा गृह्यते नाऽपि वाचा”,
“मतं यस्य न वेद सः” ।

बतेति खेदे । एतादृशस्य भवतो दर्शनं मम कदाऽपि न सम्भवतीति भावः ॥ ८ ॥

मूलम्

शब्दादिहेय इह गोचर इन्द्रियाणां तत्प्रत्यनीकविभवस्त्वम् अतीन्द्रियोऽसि ।
तेनैव ते न बत दर्शनमस्ति किञ्चिद् वाचो धियश्च तत एव न गोचरोऽसि ॥ ८ ॥

विश्वास-प्रस्तुतिः

एवं (अतीन्द्रियत्वे) स्थिते त्वद्-उपसंश्रयणाभ्युपायो
(प्र)मानेन केनचिद् अलप्स्यत नोपलब्धुम्(→अनुष्ठातुम्)
नो चेद् अमर्त्य-मनुजादिषु योनिषु त्वम्
इच्छा-विहार-विधिना समवातरिष्यः ॥ ९ ॥

श्रीनिवासः

[[71]]

एवमिति ।
एवं स्थिते,
भवतोऽतीन्द्रियत्वे स्थिते सति
त्वमिच्छाविहार विधिना | स्वैरसञ्चारविधानेन हेतुना अमर्त्यमनुजादिषु योनिषु, आदिशब्देन तिर्यक्स्थावरौ गृह्येते नो समवारतिष्यश्चेत्,
अवतारं नाऽकरिष्यो यदि त्वदुपसंश्रयणाभ्युपायः भवत्समाश्रयरूप उपायः उपलब्धुं ज्ञातुं केनचिन्मानेन अवताराविषयकेन केनाऽपि प्रमाणेन नाऽलप्स्यत, लभेरात्मनेपदे लृङ्, दुर्लभोऽभविष्यद् इत्यर्थः ।
अवतारेण सकल-मनुज-नयन-विषयतां गतत्वात् त्वत्-समाश्रयणीयत्व-ज्ञानं सुलभं बभूवेतिभावः ।

“तमेव शरणं गतः” “मा मेकं शरणं व्रज”, “नमश्चक्रुर्जनार्दनम्” इत्युक्त प्रकारेण शरणागतिज्ञान मवतारविषयक श्रीरामायणाद्यधीनम् इति हृदयम् ॥ ९ ॥

मूलम्

एवं स्थिते त्वदुपसंश्रयणाभ्युपायो मानेन केनचिदलप्स्यत नोपलब्धुम् ।
नो चेद् अमर्त्यमनुजादिषु योनिषु त्वम् इच्छाविहारविधिना समवातरिष्यः ॥ ९ ॥

श्रीनिवासः - प्रस्तावः

उक्तमेव विवृणोति -

विश्वास-प्रस्तुतिः

शीलः क एष तव हन्त! दयैक-सिन्धो!
क्षुद्रे पृथग्(=प्राकृत)-जन-पदे जगद्-अण्ड-मध्ये ।
क्षोदीयसो(=अतिक्षुद्रस्य) ऽपि हि जनस्य कृते कृती त्वम्
अत्रावतीर्य ननु लोचन-गोचरो ऽभूः ॥ १० ॥

श्रीनिवासः

शील इति । हे दयैकसिन्धो ! कृती कृतकृत्य स्त्वं जगदण्ड मध्ये क्षुद्रे अत्यल्पे पृथग्जनपदे निहीनजनानां वासस्थाने,

“प्राकृतश्च पृथग्जनः,
निहीनोऽपशदो जाल्म ”

इत्यमरः । क्षोदीयसः अतिक्षुद्रस्य जनस्य कृते जनायेत्यर्यः । अत्राऽवतीर्य लोचनगोचरोऽभूः । नन्विति प्रसिद्धौ । तव क एष शीलः? महतो मन्दै स्सह संश्लेषः इया निति परिच्छेत्तु मशक्य इत्यर्थः । हन्तेति हर्षे ।
शेषशेषाशानादि सूरिपरिषत्-सेव्यस्य उभयविभूत्य् अधिपतेः तव
एकस्मिन्न् अण्डे अतिक्षुद्रे निहीनावासे
अतिक्षुद्रजन-निमित्तावतार-प्रयुक्तश्शीलः
परमपरिच्छेद्य इति भावः ॥ १० ॥

मूलम्

शीलः क एष तव हन्त! दयैकसिन्धो! क्षुद्रे पृथग्जनपदे जगदण्डमध्ये ।
क्षोदीयसोऽपि हि जनस्य कृते कृती त्वम् अत्रावतीर्य ननु लोचनगोचरोऽभूः ॥ १० ॥

क्रीडा- सौशील्यम्, माया

श्रीनिवासः - प्रस्तावः

इदानीं सौशील्यप्रयुक्तं स्वतन्त्र्यमाह -

विश्वास-प्रस्तुतिः

यं (स्व-पितृ-शिरश्-छेद-)पातकात् सुमहतो ऽप्य् उदधारयस् त्वं
त्वत्-पाद-वारि-परिपूत-शिराश् च योऽभूत् (शिवः)
तं (कृष्णावतारे) वन्दसे किल, ततश् च (पुत्रोत्पत्तिं) वरं वृणीषे!
क्रीडा-विधिर् बत विलक्षण-लक्षणस् ते ॥ ११ ॥

श्रीनिवासः

यमिति । त्वं यं रुद्रं सुमहतोऽपि पातकात् स्वपितृचतुरानन शिरश्छेदप्रयुक्तपातकात् उदधारयः उद्धृतं कृतवान् कपालमोचनेनेति भावः ।
यः त्वत्पादवारिणा गङ्गाजलेन परिपूतशिराश्च अभूत् तं रुद्रं वन्दसे प्रणमसि ।
ततः रुद्रात् वरञ्च पुत्रोत्पत्तिरूपं कैलासयात्रायाम् इति भावः । वृणीषे याचसे ।
ते तव क्रीडाविधिः लीलाव्यापारः, विलक्षणं लोकविसदृशं लक्षणं यस्य तथोक्तो भवति । बतेत्याश्चर्ये । स्वरक्ष्यविषये प्रणमनवरप्रार्थने अत्याश्चर्यकरे इति भावः ॥ ११ ॥

मूलम्

यं पातकात् सुमहतोऽप्युदधारयस्त्वं त्वत्पादवारिपरिपूतशिराश्च योऽभूत् ।
तं वन्दसे किल ततश्च वरं वृणीषे! क्रीडाविधिर्बत विलक्षणलक्षणस्ते ॥ ११ ॥

श्रीनिवासः - प्रस्तावः

कृष्णेन प्रणामादिके कृतेऽपि कथं रुद्रस्तन्महिमानमजानन्निव स्थितवान् इत्य् आशङ्कायाम् आह-

विश्वास-प्रस्तुतिः

क्रीडाविधेः परिकरस् तव या तु माया
सा मोहिनी, न कतमस्य तु हन्त! जन्तोः ।
है! मर्त्य-सिंह-वपुषस् तव तेजसो ऽंशे (कीट इव)
शम्भुर् भवन् हि शरभः शलभो बभूव ॥ १२ ॥(4)

श्रीनिवासः

क्रीडा विधेरिति ।
या तु माया परिदृष्ट-विचित्र-वस्तु-स्वभाव-वैषम्यवती या प्रकृतिः
तव क्रीडाविधेः परिकरः उपकरणं भवति,
सा कर्त्री कतमस्य जन्तोः न मोहिनी ज्ञानाधिकानां जीवाना मपि मोहिन्येवेत्यर्थः ।
तु शब्दोऽवधारणे “तु स्याद्भेदेऽवधारणे” इत्यमरः ।
हि यस्मात्कारणात् शरभो भवन् सिंहहिंसक शरभाख्य मृगाकारः शम्भुः
मर्त्यसिंहवपुषः नरसिंहविग्रहस्य तव तेजसः अंशे एकदेशे शलभो बभूव दग्धो बभूवेत्यर्थः ।

“हन्तुम् अभ्यागतं रौद्रं
शरभं नरकेसरी ।
नखैर् विदारयामास
हिरण्यकशिपुं यथा ।
नमोऽस्तु नरसिंहाय
लक्ष्मी-स्थिति-जितक्रुधे ।
यत् क्रोधाग्नौ पुरा रौद्रश्
शरभश् शलभायितः”

इत्यादिपौराणिकवचनम् अत्रानुसन्धेयम् ।

[[73]]

“भगवत्-स्वरूप–तिरो-धान-करीं स्व-विषयायाश् च भोग्य-बुद्धेर् जननीम्”,

“दैवीगुणमयी माया”

“मायया मोहितं जगत्”,

“अनीशया शोचति मह्यमानः”

इत्य् उक्तप्रकारेण माया-मोहितत्वात्
युद्धोन्मुखस्य प्रणामादि-स्वीकारः
उचित एवेति भावः ॥ १२ ॥

मूलम्

क्रीडाविधेः परिकरस्तव या तु माया सा मोहिनी न कतमस्य तु हन्त! जन्तोः ।
है! मर्त्यसिंहवपुषस्तव तेजसोऽंशे शम्भुर्भवन् हि शरभः शलभो बभूव ॥ १२ ॥

श्रीनिवासः - प्रस्तावः

भगवतः पारतन्त्र्यमपि स्वातन्त्र्य-काष्ठेत्याह -

विश्वास-प्रस्तुतिः

यस्यात्मतां त्रि-पुर-भङ्ग-विधाव् अधास् त्वं
त्वच्-छक्ति-तेजित-शरो विजयी च योऽभूत् ।
दक्ष-क्रतौ तु किल तेन विनिर्जितस् त्वं
युक्तो विधेय-विषयेषु हि कामचारः ॥ १३ ॥(4)

श्रीनिवासः

यस्येति । त्रिपुरभङ्गविधौ यस्य रुद्रस्य आत्मतां अन्तरात्मतां त्वं अधाः अधारयः। यः त्वच्छक्तितेजितशर स्सन् आहित तैक्ष्ण्यबाण स्सन् शराग्रे त्वच्छक्त्याहिततेजास्सन् विजयी चाऽभूत् । तेजृ शातने इति धातुः । (1. तिज निशाने इति धातु पाठः )

“विष्णुरात्मा भगवतो
भवस्यामिततेजसः ।
तस्माद् धनुर्-ज्या-संस्पर्शं
स विषेहे महेश्वरः ।
पुरा पराजयं प्राप्य
समरे त्रिपुरासुरात् ॥”

दक्षक्रतौ तु तेन त्वं तु विनिर्जितः किल; अन्यथा क्रतुध्वंसा सम्भवादिति भावः । विधेयविषयेषु वश्येष्वपि कामचारः पराजयरूप स्वैरचारः युक्तो हि, स्वाधीनजनपारतन्त्र्य मतिशयावहम् एवेति भावः ॥ १३ ॥

मूलम्

यस्यात्मतां त्रिपुरभङ्गविधावधास्त्वं त्वच्छक्तितेजितशरो विजयी च योऽभूत् ।
दक्षक्रतौ तु किल तेन विनिर्जितस्त्वं युक्तो विधेयविषयेषु हि कामचारः ॥ १३ ॥

विश्वास-प्रस्तुतिः

मुग्धः शिशुर् वट-दले शयितो ऽतितन्वा
तन्वा, जगन्ति बिभृषे स-विकासम् एव ।
ऐशीम् इमां तु तव शक्तिम् अतर्कितव्याम्
अव्याजतः प्रथयसे किम् इहावतीर्णः? ॥ १४ ॥

श्रीनिवासः

मुग्ध इति । वटदले शयितः । प्रलयार्णवे इति शेषः । मुग्धः शिशुः अतिबालः त्वं अतितन्वा अतिसूक्ष्मया तन्वा मूर्त्या जगन्ति सकल भुवनानि सविकासम् एव असम्बाधम् एवेत्यर्थः । बिभृषे दधासि । अत्यन्त [[74]] बालस्य स्वविग्रहोदरान्तरे प्रलयकालिक सकल भुवनानि धृत्वा महार्णवोद्भूतातिकोमल वटदल शयनं स्वकीयपरत्वसूचकम् इति भावः । अतर्कितव्याम् अचिन्तनीयाम् अपरिच्छेद्याम् इत्यर्थः । इमां तव शक्तिन्तु शक्तिम् एव। “तु स्याद्भेदेऽवधारणे” इत्यमरः । इहावतीर्णस् सन् अव्याजतः अहेतुकं अकृत्रिमम् इति वा । किं प्रथयसे, प्रथितां ख्यातां करोषि I यशोदावश्यशैशवरूपसौलभ्येऽपि परत्वाविष्कार अत्याश्चर्यकर इति भावः ॥ १४ ॥

मूलम्

मुग्धः शिशुः वटदले शयितोऽतितन्वा तन्वा जगन्ति बिभृषे सविकासमेव ।
ऐशीमिमां तु तव शक्तिमतर्कितव्याम् अव्याजतः प्रथयसे किमिहावतीर्णः? ॥ १४ ॥

सौलभ्यम्

श्रीनिवासः - प्रस्तावः

“स उ श्रेयान् भवति जायमानः” इत्युक्तप्रकारेण अवतार-सौलभ्यम् अपि परत्वम् इत्याह -

विश्वास-प्रस्तुतिः

ब्रह्मेश-मध्य-गणना गणनाऽर्कपङ्क्ताव्
इन्द्रानुजत्वम् अदितेस् तनयत्व-योगात् ।
इक्ष्वाकु-वंश–यदु-वंश-जनिश् च हन्त!
श्लाघ्यान्य् अमून्य् अनुपमस्य परस्य धाम्नः ॥ १५ ॥

श्रीनिवासः

ब्रह्मेति । अनुपमस्य, “न तत्समश्चाभ्यधिकश्च दृश्यते” इत्युक्तस्ये त्यर्थः ः । परस्य धाम्नः, “नारायण परो ज्योतिः” इत्युक्तस्य ब्रह्मेशमध्यगणना " मध्येविरिञ्चगिरिशं प्रथमावतारः " विधीशयो मध्ये तु विष्णु रिति यः प्रथमावतारः इत्युक्तावतार इत्यर्थः । अर्कपङ्क्तौ द्वादशादित्याना म्मध्ये गणना " आदित्याना महं विष्णु ज्र्ज्योतिषां रवि रंशुमान्” इत्युक्तावस्थानम् इत्यर्थः । अदिते स्तनयत्वयोगात् इन्द्रानुजत्व मुपेन्द्रावतारः, इक्ष्वाकुवंशयदुवंशजनिश्च रामकृष्णावतारौ च अमूनि, सामान्ये नपुंसकं प्रयोक्तव्यमित्यनुशासनात् नपुंसकलिङ्ग प्रयोगः । श्लाघ्यानि अतिशयावहानि । हन्तेति हर्षे ॥ १५ ॥

मूलम्

ब्रह्मेशमध्यगणना गणनाऽर्कपङ्क्तौ इन्द्रानुजत्वम् अदितेस्तनयत्वयोगात् ।
इक्ष्वाकुवंश-यदुवंशजनिश्च हन्त! श्लाघ्यान्यमून्यनुपमस्य परस्य धाम्नः ॥ १५ ॥

त्रिविक्रमः

श्रीनिवासः - प्रस्तावः

सम्प्रति त्रिविक्रमावतार सौलभ्य मनुसन्धत्ते -

विश्वास-प्रस्तुतिः

(सृष्टौ) त्वन्-निर्मिता, (लये) जठर-गा च तव त्रिलोकी,
किं भिक्षणाद् इयम्(→त्रिलोकी) ऋते भवता दुरापा? ।
मध्ये कदा तु न विचक्रमिषे जगच् चेत्
त्वद्-विक्रमैः कथम् इव श्रुतिर् अञ्चिता(=पूजिता) स्यात्? ॥ १६ ॥

श्रीनिवासः

[[75]]

त्वदिति ।
त्वन्निर्मिता,
“अप एव ससर्जादौ” इत्यादि क्रमेण अण्ड सृष्टिपर्यन्तं स्वयम् एव कृत्वा
ततः स्वसृष्ट स्वांशभूत चतर्मुखेन सृष्टेत्यर्थः ।
तव जठरं कुक्षिं गच्छतीति तथोक्ता च,
प्रलये इति भावः ।
इयं त्रिलोकी भिक्षणाद् ऋते याचनां विना “अन्यारादितर्ते” इति पञ्चमी ।
भवता दुरापा अलभ्या किम् ? लभ्यैवेत्यर्थः । तर्हि त्रिविक्रमावतारः किमर्थ इत्यत आह- मध्ये इति ।
कदा तु कदाचित् मध्ये सृष्टिप्रलयो रन्तराले जगत् न विचक्रमिषे चेत् विक्रान्तं कृतवान्नाऽसि यदि ।
क्रमु पाद वक्षेपे इत्यस्माद्धातोः आत्मनेपदलिण्मध्यमपुरुषैकवचनम् ।
कथमिव कथं वा श्रुतिः त्वद्विक्रमैः अञ्चिता पूजिता स्यात् ?

" इदं विष्णुर् विचक्रमे
त्रेधा निदधे पदम्”
“त्रीणि पदा विचक्रमे”,
“विचक्रमाणस् त्रेधोरुगायः”,
“उरुक्रमस्य सहिबन्धुर् इत्था,
विष्णोः पदे परमे मध्व उत्सः”

इत्यादिना त्रिविक्रमापदानेनैव श्रुतिः परिष्कृते ति भावः ।
सृष्टि-प्रलय-विषयक-प्रमाणैस्
त्रिलोक्यां त्वदीयायां सत्याम् अपि
श्रुति-स्तुति-विषयापदान-सम्पादनार्थं सुमनो-याचनां रचितवान् इति पिण्डितार्थः ॥ १६ ॥

मूलम्

त्वन्निर्मिता जठरगा च तव त्रिलोकी किं भिक्षणादियमृते भवता दुरापा? ।
मध्ये कदा तु न विचक्रमिषे जगच्चेत् त्वद्विक्रमैः कथमिव श्रुतिरञ्चिता स्यात्? ॥ १६ ॥

रामः

श्रीनिवासः - प्रस्तावः

अनन्तरं श्री-रामावतारातिमानुष-चरित्र-विशेषान्
सप्त-दशभिः श्लोकैः सङ्गृह्य विवक्षुः
प्रथमतो गृध्र-राजाय मुक्ति-प्रदान-वैचित्र्यं वदन्
परिहारस्य स्वयम् ऊहितुम् अशक्यत्वात् तम् एव पृच्छति

विश्वास-प्रस्तुतिः

पृच्छामि किञ्चन यदा किल राघवत्वे
माया-मृगस्य वशगो मनुजत्व-मौग्ध्यात् ।
सीता-वियोग-विवशो, न च तद्-गति-ज्ञः
प्रादास् तदा पर-गतिं हि कथं? ख-गाय ॥ १८ ॥

श्रीनिवासः

पृच्छामीति । किञ्चन किमप्याश्चर्यकरं चरित्रं पृच्छामि । यदा राघवत्वे मनुजत्व मौग्ध्यात्, “आत्मानं मानुषं मन्ये रामं दशरथात्मजम्" इत्युक्त मनुष्यत्वप्रयुक्तमोहात्, मृगस्य मारीचस्य वशगः सीताया वियोगेन विश्लेषेण विवशः मूर्च्छित इत्यर्थः । तस्या स्सीताया गतिं गमनं जानातीति तद्गतिज्ञश्च न भवसीति शेषः । तदा खगाय पक्षिणे परगतिं कथं प्रादाः न, प्रदत्तवानसि? मनुष्यभावनया अज्ञत्व मारोपितञ्चेत्, “मया त्वं समनुज्ञातो गच्छ लोका ननुत्तमान् ” इति जटायवे परमपदप्रदानस्य परिहार स्त्वयैव वक्तव्य इति भावः ॥ १७ ॥

मूलम्

पृच्छामि किञ्चन यदा किल राघवत्वे मायामृगस्य वशगो मनुजत्वमौग्ध्यात् ।
सीतावियोगविवशो न च तद्गतिज्ञः प्रादास्तदा परगतिं हि कथं? खगाय ॥ १८ ॥

श्रीनिवासः - प्रस्तावः

उक्तम् एव मुख-भेदेन विवृणोति -

विश्वास-प्रस्तुतिः

अ-क्षुण्ण-योग-पथम् अग्र्य-हतं जटायुं
तिर्यञ्चम् एव बत मोक्ष-पथे नियोक्तुम्
शक्नोषि वेत्सि च यदा, स तदा कथं त्वं
देवीम् अवाप्तुम् अन्-अलं व्यथितो विचिन्वन् ॥ १९ ॥

श्रीनिवासः

अक्षुण्णेति । अक्षुण्णः अनभ्यस्तः योगपथः योगमार्गो येन तम् अननुष्ठित साधनम् इत्यर्थः । तिर्यञ्चं साधनानुष्ठानानुगुण जन्मविहीनम् इत्यर्थः । अग्ग्रहतं ब्राह्मणेन हतम् । " नाऽग्रहतस्य लोकोऽस्ति " इत्युक्तपरगति प्रतिबन्धक शरीर विश्लेषहेतुम् इत्यर्थः । जटायुं मोक्षपथे नियोक्तुं यदा वेत्सि शक्नोषि च ज्ञानशक्ति युक्तो भवसि तदा स त्वं देवीं विचिन्वन् मार्गमाणः अज्ञइवेत्यर्थः अवाप्तुं अनलं अशक्तश्च सन् कथं व्यथितो भवसि । बतेत्याश्चर्थे ॥ १८ ॥

मूलम्

अक्षुण्णयोगपथम् अग्र्यहतं जटायुं तिर्यञ्चमेव बत मोक्षपथे नियोक्तुम् ।
शक्नोषि वेत्सि च यदा स तदा कथं त्वं देवीमवाप्तुमनलं व्यथितो विचिन्वन् ॥ १९ ॥

श्रीनिवासः - प्रस्तावः

उक्तम् एव शक्त्यभाव-भावनाम् अनुभवति -

विश्वास-प्रस्तुतिः

सालान् हि सप्त स-गिरीन् स-रसातलान् यान्
एकेषु-मन्द-जवतो निर्-अपत्रयस्(←निष्पत्र + णिच्) त्वम् ।
तेष्व् एक-विव्यथन-खिन्न–कपि(→वालि)-प्रणुन्नं
शाखा-मृगं मृगयसे स्म कथं सहायम्? ॥ २० ॥

श्रीनिवासः

सालानिति । सगिरीन् सरसातलान् यान् एकस्य इषोः बाणस्य [[77]] मन्दजवतः अल्पवेगात् । अतिवेगतित्वे अण्डभित्तिभेदएव स्यादिति भावः । निरपत्रयः, निष्पत्रं कृतवान्, भिनत्सिस्मेत्यर्थः ।

“बिभेद च पुनस् सालान्
सप्तैकेन महेषुणा ।
गिरीन् रसातलञ्चैव "

इति संक्षेपे ।

“इमे च विपुलास् सालास्
सप्तशाखावलम्बिनः ।
यत्रैकं घटते वाली
निष्पत्रयितुम् ओजसा"

इति किष्किन्धाकाण्डोक्त्यनुगुणः ‘निरपत्रय’ इति प्रयोगः ।
तेषु सालेषु एकस्य विव्यथने विदारणे खिन्नेन कपिना वालिना प्रणुन्नं निरस्तं शाखामृगं वानरं सुग्रीवं कथं सहायं मृगयसे स्म, मार्गितवानसि । स्वापेक्षयाऽतिशयितशक्तिः किल सहायतयाऽपेक्षणीय इति भावः ॥ १९ ॥

मूलम्

सालान् हि सप्त सगिरीन् सरसातलान् यान् एकेषुमन्दजवतो निरपत्रयस्त्वम् ।
तेष्वेकविव्यथनखिन्नकपिप्रणुन्नं शाखामृगं मृगयसे स्म कथं सहायम्? ॥ २० ॥

श्रीनिवासः - प्रस्तावः

सप्त-सालादि-विदारणम् अपि सुग्रीव-विषयक-सौशील्य-कृत्यम् इत्याह-

विश्वास-प्रस्तुतिः

दासः सखा समभवत् तव यः कपीन्द्रस्,
तद्-विद्विषं कपिम् अ-मर्ष-वशात् जिघांसुः
त्वत्-स्नेह-विक्लव-धियं तम् इमं कपीन्द्रं
(सौशील्याद्) विस्रम्भयन् सपदि साल-गिरीन् अविध्यः ॥ २१ ॥

श्रीनिवासः

दास इति । यः कपीन्द्रः सुग्रीवः तव दास स्सखा च समभवत् सम्भूतः । तस्य विद्विषं शत्रुं कपिं वालिनं अमर्षवशात् रोषपारवश्यात् जिघांसुः हन्तु मिच्छुः त्वं त्वत्स्नेहेन भवद्विषयभक्त्या विक्लबधियं विह्वलबुद्धिं प्रेमान्धबुद्धिम् इत्यर्थः ।
तमिमं कपीन्द्रं सुग्रीवं सपदि विस्रम्भयन् सन् विश्वस्तं कुर्वन् सन् सालगिरीन् अविध्यः विद्धा नकरोः, तादृशं तव सौशील्यम् इतिभावः ॥ १० ॥

मूलम्

दासः सखा समभवत् तव यः कपीन्द्रः तद्विद्विषं कपिम् अमर्षवशात् जिघांसुः ।
त्वत्स्नेहविक्लवधियं तमिमं कपीन्द्रं विस्रम्भयन् सपदि सालगिरीन् अविध्यः ॥ २१ ॥

विश्वास-प्रस्तुतिः

यद् वा मृगं मृगयुवत् मृगया-पथेन
छन्नो जघन्थ, न तु शत्रुवद् आभिमुख्यात् ।
तद् युक्तम् एव तव राघव-वंश-जस्य
तिर्यक्षु नैव हि विपक्षतयोपचारः ॥ २२ ॥

श्रीनिवासः

[[78]]

यद्वेति । यद्वेति । पक्षान्तरे । अथवा यत् वा इति पदद्वयम् । वाशब्दोऽवधारणवाचकः । मृगयुवत् व्याध इव, मृगं वालिनं मृगयापथेन आखेटपरिपाट्या, छन्नो वा निगूढ एव जघन्थ हतवा नसि । हन्ते र्लिण्मध्यमपुरुषैकवचनम् । शत्रुवत् आभिमुख्यात् न जघन्थ इति यत्, तत् राघववंशजस्य तव युक्तम् एव । राघवाणां तादृशपराक्रमशालि सार्वभौमत्वा दिति भावः । हि यस्मा त्कारणात् तिर्यक्षु तिर्यग्जातिषु विपक्षतया शत्रुत्वेन उपचारः सत्कारः, तुल्यबलत्व प्रतिपत्ति रिति यावत् । नैव न भवत्येव; यतो राघवाणां तिर्यक्षु न तुल्यबलत्वप्रतिपत्तिः, ततः आभिमुख्यं विनाऽपि शाखामृग हननमुचितम् इति भावः ॥ १२ ॥

मूलम्

यद्वा मृगं मृगयुवत् मृगयापथेन छन्नो जघन्थ न तु शत्रुवदाभिमुख्यात् ।
तद् युक्तमेव तव राघववंशजस्य तिर्यक्षु नैव हि विपक्षतयोपचारः ॥ २२ ॥

श्रीनिवासः - प्रस्तावः

अनन्तरं सेतुनिर्माण रूपा तिमानुषकर्माऽनुसन्धत्ते -

विश्वास-प्रस्तुतिः

मानुष्यकं चरितम् आचरितुं प्रवृत्तो
देवातिगं चरितम् अङ्ग! किम् अङ्ग्य् अकार्षीः
यत् सागरे बत बबन्धिथ नाथ! सेतुं
शैलैः प्लवङ्-गम-समिङ्गित-सम्प्रणुन्नैः ॥ २३ ॥(5)

श्रीनिवासः

मानुष्यकमिति । अङ्गेति सम्बोधने । अङ्ग नाथ, हे स्वामिन्, मानुष्यकं मनुष्यसम्बन्धिचरित माचरितुं प्रवृत्त स्त्वं देवातिगं देवा न प्यतिक्रान्तं चरितं कि मङ्ग्यकार्षीः अङ्गीकृतवा नसि ? यत् यस्मा त्कारणात् प्लवङ्गमै र्वानरैः समिङ्गितै राहृतैः, सम्प्रणुन्नैः प्रक्षिप्तैश्च शैलै ः सागरे सेतुं बबन्धिथ बद्धवानसि। लिण्मध्यमपुरुषैकवचनम्। बते त्याश्चर्थे । मनुष्य भावनोद्युक्तस्य भवतः देवैरप्यशक्यः सेतुबन्धः अत्याश्चर्यकर इति भावः ॥ २२ ॥

मूलम्

मानुष्यकं चरितमाचरितुं प्रवृत्तो देवातिगं चरितमङ्ग! किमङ्ग्यकार्षीः ।
यत् सागरे बत बबन्धिथ नाथ! सेतुं शैलैः प्लवङ्गमसमिङ्गितसम्प्रणुन्नैः ॥ २३ ॥

विश्वास-प्रस्तुतिः

यो विक्रमेण मनुजत्व-विभूषणेन
देवं वरं वरुण-राजम् अज! व्यजेष्ठाः(←जि जये)
कृत्वोपदां(=उपहारं) दश-रथं विधि-रुद्र-मुख्यैः
देवैः स्तुतश् च, स किलेन्द्रजिता जितोऽसि ॥ २४ ॥

श्रीनिवासः

[[79]]

य इति । हे अज, यस्त्वं मनुजत्वम् एव विभूषणं यस्य
तेन विक्रमेण विक्रमस्य मनुजत्वविभूषणत्वं नाम -

“समुद्रं राघवो राजा
शरणं गन्तुम् अर्हति”

इत्युक्तप्रकारेण समुद्रम् उद्दिश्य शरणागतिपूर्वकत्वम् । वरं देवं देवश्रेष्ठं वरुणराजं वरुण एव राजेति कर्मधारयः । व्यजेष्ठाः विजितवानसि । विपूर्वाज् जयतेः “विपराभ्यां जेः” इत्यात्मनेपदि लुङ्गध्यमपुरुषैक वचनम्। दशरथम् उपदाम् उपहारं कृत्वा पुरस्कृत्येर्थः ।
दशरथ-प्रदानस्य रामप्रसादार्थत्वाद् उपदात्वोक्तिः ।
देवैः स्तुतश्च

सीता लक्ष्मीर्भवान्विष्णुः

इत्यादिनेति भावः ।
स किल स एव त्वं इन्द्रजिता जितोऽसि

समुद्राधिदैवत वरुणराज-विजेतुः ब्रह्मरुद्रादिभिर् दशरथ-प्रदान-पूर्वकं परत्वेन स्तुतस्य भवतः इन्द्रजिता पराजयो मनुष्यभावनानुगुण इति भावः ॥ २३ ॥

मूलम्

यो विक्रमेण मनुजत्वविभूषणेन देवं वरं वरुणराजम् अज! व्यजेष्ठाः ।
कृत्वोपदां दशरथं विधिरुद्रमुख्यैः देवैः स्तुतश्च स किलेन्द्रजिता जितोऽसि ॥ २४ ॥

श्रीनिवासः - प्रस्तावः

मनुष्यभावनायाम् अपि परत्वाविष्कारं पदान्तरेणाऽऽह-

विश्वास-प्रस्तुतिः

अब्धिं न तेरिथ, जिगेथ न राक्षसेन्द्रं
नैवास्य जज्ञित यदा च बलाबलं त्वम् ।
निस्संशयः सपदि तस्य पदे ऽभ्यषिञ्चः
तस्यानुजं कथम् इदं हि विभीषणं च (ऋते परत्वात्)॥ २५ ॥

श्रीनिवासः

अब्धिम् इति । यदा अब्धिं न तेरिथ न तरितवानसि राक्षसेन्द्रं रावणं न जिग्यिथ न जितवानसि, अस्य रावणस्य बलाबलञ्च न जज्ञिथ न ज्ञातवानसि । तदेत्यध्याहार्यम् । निस्संशय स्सन् तस्य रावणस्य अनुजं विभीषणञ्च तस्य पदेस्थाने सपदि सहसा अभ्यषिञ्चः अभिषिक्तवा नसि । हीति प्रसिद्धौ । इदं कथम् ? सागरतरण राक्षसेन्द्रबलाबल परीक्षण तज्जयानां पूर्वमेव विभीषणस्य राक्षसेन्द्रत्वेन पट्टाभिषेकः स्वकीयसत्य सङ्कल्पत्वाविष्कारं विना कथं घटत इति भावः ॥ २४ ॥

मूलम्

अब्धिं न तेरिथ जिगेथ न राक्षसेन्द्रं नैवास्य जज्ञित यदा च बलाबलं त्वम् ।
निस्संशयः सपदि तस्य पदेऽभ्यषिञ्चः तस्यानुजं कथमिदं हि विभीषणं च ॥ २५ ॥

श्रीनिवासः - प्रस्तावः

समुद्रमुद्दिश्य संहितेनसायकेन अत्यन्तदूरतद्-अन्तरीप-निवासि-दस्यु-निरास-रूपातिमानुष-शील-विशेषम् अनुभवन्न् आह

विश्वास-प्रस्तुतिः

त्वं दक्षिणस्य निवसन्न् उदधेस् तटेऽपि
दूरान्तरोत्तर–पयो-धि–महान्तरीपे ।
दैत्यान् निजैक-शर-पारणयन्(=पारणां कुर्वन्) किम् एतां
लङ्कां स्थितोऽत्र कुरुषे किल स्म भस्म? ॥ २६ ॥

श्रीनिवासः

[[80]]

त्वमिति । दक्षिणस्य उदधे स्तटे निवसन्नपि दूर मन्तर मवकाशो यस्य तस्य उत्तरपयोधे र्महान्तरीपे अतिविशाले द्वीपे दैत्यान् निजस्य एक शरस्य पारणयन् पारणां कुर्वन् लक्ष्यं कुर्वन्नित्यर्थः । त्वं अत्र स्थितस्सन् दक्षिणोदधितटे निवसन् लङ्कां भस्म न कुरुषे किल, किं न कृतवा नसि । अतिदूरोत्तर सागर द्वीपस्थानेक बलवत्तरदैत्यान् एकेन सायकेन संहृतवत स्तव सन्निहितलङ्कानिलय राक्षस संहारोऽत्र स्थित्वैव शक्य इति भावः ॥ २५ ॥

मूलम्

त्वं दक्षिणस्य निवसन्न् उदधेस्तटेऽपि दूरान्तरोत्तरपयोधिमहान्तरीपे ।
दैत्यान् निजैकशरपारणयन् किमेतां लङ्कां स्थितोऽत्र कुरुषे किल न स्म भस्म? ॥ २६ ॥

श्रीनिवासः - प्रस्तावः

समुद्र-मथन-कालीनाश्चर्याण्य् अपि प्रसङ्गाद् आह

विश्वास-प्रस्तुतिः

एतत् कथं कथय यन् मथितस् त्वयाऽसौ
हित्वा स्व-भाव-नियमं प्रथितं त्रिलोक्याम् ।
अश्वाप्सरो-विष-सुधा-विधु-पारिजात-
लक्ष्म्य्-आत्मना परिणतो जल-धिर् बभूव ॥ १७ ॥

श्रीनिवासः

एतदिति । त्वया मथितः असौ जलधिः त्रिलोक्यां प्रथितं प्रसिद्धं स्वभावनियमं, इद मेतदाकारेण परिणमतीति स्वभावनियतिं हित्वा त्यक्त्वा अश्वः उच्चैःश्रवाः विषं हालाहलम्, अमृतचन्द्रकल्पकलक्ष्मी स्वरूपेणेत्यर्थः । परिणतोबभूव, परिपाकं प्रापेत्यर्थः, इति यत् एतत्कथं, कथय । दुष्परिहरस्याऽस्य परिहार स्त्वयैव व्याहर्तव्य इत्यर्थः । त्वया मथितस्य सागर सलिलस्य अश्वाद्यात्मना परिणामो जगत्त्रयनियत तत्तद्वस्तुस्वभाव विसदृशः त्वदीयाघटितघटनाशक्ति घटित इति भावः ॥ २६ ॥

मूलम्

एतत् कथं कथय यन्मथितस्त्वयाऽसौ हित्वा स्वभावनियमं प्रथितं त्रिलोक्याम् ।
अश्वाप्सरोविषसुधाविधुपारिजातलक्ष्म्यात्मना परिणतो जलधिर्बभूव ॥ १७ ॥

श्रीनिवासः - प्रस्तावः

अनवधिकापराध-विधायि-विरोधिष्व् अपि निर्निरोध-सञ्चारां करुणाम् अनुभवन्नाह -

विश्वास-प्रस्तुतिः

यत् तादृशागसम् अरिं (रावणं) रघुवीर वीक्ष्य
विश्रम्यताम्” इति मुमोचिथ मुग्धम् आजौ ।
कोऽयं गुणः कतर-कोटि-गतः कियान् वा
कस्य स्तुतेः पदम् अहो वद, कस्य भूमिः? ॥ २७ ॥

श्रीनिवासः

[[81]]

यदिति ।
हे रघुवीर, तादृशागासं इयत्तानवच्छिन्नापराधम् इत्यर्थः
आज युद्धे मुग्धं मेहं प्राप्तम्,
अरिं शत्रुभूतं रावणं वीक्ष्य
विश्रम्यतामिति मुमोचिथ मुक्तवानसि - “ गच्छाऽनुजानामि रणार्दित स्त्वं प्रविश्य- रात्रिञ्चरराज, लङ्काम् आश्वास्य निर्याहिं इत्युक्तप्रकारेणेति भावः । इति यत् अयं गुणः कः ? अस्य गुणस्य नाम किमित्यर्थः । कतरकोटिगतः, आश्रयणसौकर्यापादकत्वं, आश्रितकार्यापादकत्वम् इति गुणानां कोटिद्वय मस्ति । तत्र सौशील्य सौलभ्यादयः आश्रयणसौकर्यापादकाः, ज्ञानशक्त्यादयः आश्रित कार्यापादकाः । अस्य गुणस्य कुत्र कोटौ निवेश इति भावः । कियान्वा कि यत्परिमाणो वा ? कस्य स्तुतेः पदम् ? अवाङ्मनसगोचरवैभव इत्यर्थः । कस्य भूमिः ? केन वा साक्षात्कर्तव्यः ? वद | दयायाः परदुःखासहिष्णुत्वरूपत्वेऽपि ईदृशमहापराधिषु तस्याः प्रवृत्त्यसम्भवात् । अस्य गुणस्य स्वरूप स्वभाव परिमाणनिर्णयः, स्तुति साक्षात्कारौ च न सम्भवन्तीति भावः ॥ २७ ॥

मूलम्

यत् तादृशागसमरिं रघुवीर वीक्ष्य विश्रम्यताम् इति मुमोचिथ मुग्धमाजौ ।
कोऽयं गुणः कतरकोटिगतः कियान् वा कस्य स्तुतेः पदमहो वद कस्य भूमिः? ॥ २७ ॥

श्रीनिवासः - प्रस्तावः

एवं रावण-प्रमापण-निपुण-निज-भुज-बलस्य रामचन्द्रस्य
इन्द्रजिद्-अस्त्र बन्धन-मूर्छा
कथं सङ्गच्छते इत्याशङ्कायाम् आह -

विश्वास-प्रस्तुतिः

यल् लक्ष्मणस् त्वद्-अनुजो (इन्द्रजिद्-आख्य)रिपु–शक्ति-मुग्धः,
शत्रोर् गुरुः (इति स उक्तः), हनुमतस् तु लघुर् बभूव (तद्-अस्त्र-सहने)
एतेन वै सु-विदितो ऽभवद् इन्द्र-शत्रोः
मायास्त्र-बन्धन-निबन्धन-जो (मनुष्यत्वाभिनयाख्यो) विमोहः ॥ २८ ॥

श्रीनिवासः

यदिति । रिपोः शक्त्या आयुधविशेषण मुग्धः मूर्छितः त्वदनुजो लक्ष्मणः शत्रोर् गुरुर् बभूवहनुमतस्तु लघुर्बभूव, पुष्पमालिकावद् उद्धरणार्हो बभूवेत्यर्थः ।

“हिमवान्मन्दरो मेरुस्
त्रैलोक्यं वा सहाऽमरैः ।
शक्यं भुजाभ्याम् उद्धर्तुं
न संख्ये भरतानुजः ।

शत्रूणाम् अप्रकम्प्योऽपि
लघुत्वम् अगमत् कपेः”

इति युद्धकाण्डे । इति यत्,
ऐतेन कर्मणा इन्द्रशत्रोः इन्द्रजितः मायास्त्रबन्धनम् एव निबन्धनं हेतुः, तज्जो [[82]] विमोहः मूर्छा सुविदितः सुतरां ज्ञातोऽभवत् । वै प्रसिद्धौ । रिपुशक्तिमुग्धत्वेऽपि लक्ष्मणस्य रक्षःपतिनोद्धर्तुम् अशक्यत्वात् इन्द्रजिद्-अस्त्रबन्धनं मनुष्यभावना - इति विदितम् इति भावः ॥ २८ ॥

मूलम्

यल्लक्ष्मणस्त्वदनुजो रिपुशक्तिमुग्धः शत्रोर्गुरुः हनुमतस्तु लघुर्बभूव ।
एतेन वै सुविदितोऽभवदिन्द्रशत्रोः मायास्त्रबन्धननिबन्धनजो विमोहः ॥ २८ ॥

श्रीनिवासः - प्रस्तावः

इदानीं चराचर-मुक्ति-प्रदान-वैचित्र्यम् अनुभवन्
तदानीं स्वस्य निःश्रेयस-लाभाभावेन विषीदति ।

विश्वास-प्रस्तुतिः

हा हन्त हन्त भवतश् चरणारविन्द-
द्वन्द्वं कदा नु विषयी भविता ममाक्ष्णोः ।
योऽहं निरर्गल-विनिर्गलद्-अन्धकारैर्
वृक्षैस् तृणैश् च सु-लभं (अवतार-)समयं व्यतीतः ॥ २९ ॥

श्रीनिवासः

हा हन्तेति । योऽहं निरर्गलं निष्प्रतिद्वन्द्वं, निष्प्रतिबन्धं यथा तथा विशेषेण निर्गलन् निर्गच्छन् अन्धकारः अज्ञानं येषां तैः, वृक्षत्वादिप्रयुक्ताज्ञत्वशून्यै रित्यर्थः । वृक्षैः तृणैश्च सुलभं सुखेन लब्धुं योग्यं समयं कालं व्यतीतः अतिरिक्तोऽस्मि अतिक्रान्तोऽस्मि । तदानीन्तनेषु वृक्षतृणेषु अन्यतमो न जातोऽस्मीति भावः । तस्य मम अक्ष्णोः नयनयोः भवतश्चरणारविन्दद्वन्द्वं कदानु कदा वा विषयो भविता लक्ष्यं भविष्यति ? न कदापीत्यर्थः । भवितेति लुट् । हा हन्त हन्तेति निपातसमुदाय श्शोकातिशयवाचकः । भूरिदानेऽप्यलब्धधनस्य परीक्षादाने का वा प्रसक्ति रिति भावः ॥ २९ ॥

मूलम्

हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्वं कदा नु विषयी भविता ममाक्ष्णोः ।
योऽहं निरर्गलविनिर्गलदन्धकारैः वृक्षैस्तृणैश्च सुलभं समयं व्यतीतः ॥ २९ ॥

श्रीनिवासः - प्रस्तावः

भक्ति-प्रपत्त्योर् एव मुक्त्य्-उपायत्वात्
कथं वृक्षेभ्योऽपि मोक्ष-प्रदानम् इत्य् आशङ्कायाम् आह

विश्वास-प्रस्तुतिः

वंशं रघोर् अनुजिघृक्षुर् इहावतीर्णो
(मेघवद्) दिव्यैर् ववर्षिथ तथाऽत्र भवद्-गुणौघैः ।
त्वत्-सन्निधि-प्रभव-शैत्य-जुषो यथा ही
वृक्षाश् च तान्तिम्(=म्लानिं) अलभन्त (वनवासरूप-)भवद्-वियोगे ॥ ३० ॥(4)

श्रीनिवासः

[[83]]

वंशमिति ।
रघोर् वंशम् अनुजिघृक्षुः अनुग्रहीतु मिच्छु स्सन् इहाऽवतीर्णः अवतारं कृतवां स्त्वं अत्रभूतले दिव्यैः अप्राकृतै र्भवद्गुणौघैः । भवदीय कल्याणगुणगणैः तथा ववर्षिथ वृष्टवानसि ।

कथ मित्याशङ्कायामाह - त्वदिति । त्वत्सन्निधिना त्वदीय सन्निधानेन प्रभवं जातं शैत्यं जुषन्ते सेवन्ते इति तथोक्ताः ।
यद्वा त्वत्-सन्निधेः प्रभवः उत्पत्तिः यस्य तत् इति वा विग्रहः । वृक्षाश्च भवद्विश्लेषानभिज्ञा अपीत्यर्थः । यद्वा, सलिलमात्रधारका अपीत्यर्थः । यथा भवद्वियोगे कानन-यात्रा-रूप–त्वदीय-विश्लेषे तान्तिं म्लानिं अलभन्त लब्धवन्तः, तथेति पूर्वेणान्वयः ।
रामविरहकालिकया ग्लान्या परमाभक्ति स्सूचिता ।
अलभन्तेति क्रियाप्रयोगेण
रघुवंशजानां स्वकीय-कल्याण-गुणवर्षैः
वृक्षाणाम् अपि

“पुनर्विश्लेषभीरुत्वं
परमा भक्तिर् उच्यते”

इत्य्-उक्त-लक्षणां परम-भक्तिं सम्पाद्य
मुक्तिं प्रादाद्
इति साम्प्रदायिको भावस् सूच्यते ॥ ३० ॥

मूलम्

वंशं रघोरनुजिघृक्षुरिहावतीर्णः दिव्यैर्ववर्षिथ तथाऽत्र भवद्गुणौघैः ।
त्वत्सन्निधिप्रभवशैत्यजुषो यथा ही वृक्षाश्च तान्तिमलभन्त भवद्वियोगे ॥ ३० ॥

विश्वास-प्रस्तुतिः

ये धर्मम् आचरितुम् अभ्यसितुं च योगं
बोद्धुं च किञ्चन जात्व् अधिकार-भाजः ।
तेऽपि त्वद्-आचरित-भू-तल-बन्ध-गन्धाद्
बन्धातिगाः पर-गतिं गमितास् तृणाद्याः ॥ ३१ ॥(4)

श्रीनिवासः

य इति । तृणाद्याः ये जीवाः धर्म माचरितुं कर्मयोग मनुष्ठातुं, किञ्चन ईषदपि बोद्धु ञ्च ज्ञानयोग मनुष्ठातु मपि, योगं ध्यानम् अभ्यसितुञ्च भक्तियोग मनुष्ठातुमपि, जातुकदाचिदपि अधिकारभाजो न भवन्ति, तेऽपि त्वादाचरितेन भवता कृतपदविन्यासेन भूतलेन बन्धस्सम्बन्ध एव, गन्ध स्सौरभं, पुण्यम् इति यावत् । तस्माद्धेतोः बन्धातिगाः, अतिक्रान्त- कर्मबन्धा स्सन्तः परगतिं उत्कृष्टां गतिं, मोक्षं गमिताः प्रापिताः त्वयेति [[84]] शेषः । देशवासं व्याजीकृत्य तृणादिभ्यो मुक्तिं दत्तवा नसीत्यर्थः । तृणादीनाम् " उभयपरिकर्मितस्वान्तस्य ऐकान्तिकात्यन्तिक परभक्तियोगलभ्यः” इति भगवल्लाभसाधनतयोक्त सपरिकर भक्तियोगाभाव मुक्त्वा देशवासे नैव परगति प्राप्त्युक्तेः देशवासस्य प्रपत्ति मुखभेदत्वं सिद्धमिति सम्प्रदायः ॥ ३१ ॥

श्रीनिवासः - प्रस्तावः

“देशोऽयं सर्वकाम-धुक्”

“ते वयं भवता रक्ष्या
भवद्विषय वासिनः '

इत्य्-उक्त-प्रकारेण
भगवद्-भागवताभिमत-देश-वासस्याऽपि
प्रपत्त्य्-अन्तर्भावेन साधनत्वात्
स एव तृणादि-मुक्ति-हेतुर् इत्य् आह-

मूलम्

ये धर्ममाचरितुम् अभ्यसितुं च योगं बोद्धुं च किञ्चन न जात्वधिकारभाजः ।
तेऽपि त्वदाचरितभूतलबन्धगन्धाद् बन्धातिगाः परगतिं गमितास्तृणाद्याः ॥ ३१ ॥

श्रीनिवासः - प्रस्तावः

किं बहुना। परम-पद-नाथाद् अपि
काकुत्स्थे एव कल्याण-गुणाधिक्यम्
इति सोपपत्तिकम् आह -

विश्वास-प्रस्तुतिः

तादृग्-गुणो ननु बभूविथ राघवत्वे
यस् तावकं चरितम् अन्वहम् अन्वभुङ्क्त
सोऽत्रैव हन्त! हनुमान् परमां विमुक्तिं
बुद्ध्या ऽवधूय चरितं तव सेवतेऽसौ ॥ ३२ ॥(5)

श्रीनिवासः

तादृगिति । हे राघव, यो हनुमान् तावकं त्वदीयं चरितं, चरितमिति स्वरूपरूपादीना मुपलक्षणम् । अन्वहं निरन्तरं अन्वभुङ्क्त अनुभूतवान् । “भुजोऽनवने” इत्यात्मनेपदम् । सोऽसौ हनुमान् परमा मुत्कृष्टां विमुक्तिं परिपूर्णब्रह्मानुभवपर्यन्ताम् इत्यर्थः । अवधूय अनपेक्ष्येत्यर्थः । अत्रैव लीलाविभूत्याम् एव तव चरितं बुद्ध्या सेवते मनसाऽनुभवतीत्यर्थः । त्वं तादृग्गुणः परमपदनाथादपि अधिककल्याणगुणः बभूविथ अभूः (भूसत्तायामितिधातोः) लिट् । नन्विति प्रसिद्धौ । हन्तेति हर्षे । परमपदनाथे गुणानां सद्भावमात्रं विषयलाभनिबन्धन विनियोगोऽत्रैवेति आधिक्यं द्रष्टव्यम् । “बहवो दुर्लभा श्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः” इति मानुषत्वे परत्व मुक्तम् । “स्नेहो मे परमो राजं स्त्वयिनित्यं प्रतिष्ठितः । भक्तिश्च नियता वीर, भावो नाऽन्यत्र गच्छति” इति हनुमदुक्तिः । अत्र “स्नेहः परम” इत्यनेन परभक्तिः, ‘नित्यं प्रतिष्ठितः’ इत्यनेन तदनुवृत्तिरूपंपरज्ञानम्, नियता भक्तिरित्येनन परभक्तिश्वोक्तेति रहस्यम्। नाऽन्यत्र गच्छति परमपदनाथेऽपि न गच्छतीत्यर्थः ॥ ३२ ॥

मूलम्

तादृग्गुणो ननु बभूविथ राघवत्वे यस्तावकं चरितमन्वहम् अन्वभुङ्क्त ।
सोऽत्रैव हन्त! हनुमान् परमां विमुक्तिं बुद्ध्याऽवधूय चरितं तव सेवतेऽसौ ॥ ३२ ॥

श्रीनिवासः - प्रस्तावः

[[85]]

" धातूनाम् इव शैलेन्द्रो
गुणानाम् आकरो महान्"

इत्युक्त प्रकारेण
काकुत्स्थस्य सकल-कल्याण-गुणाकरत्वेऽपि

" वधार्हम् अपि काकुत्स्थः
कृपया पर्यपालयत्”

इत्युक्ता कृपैव महापराधिनां शरणम् इत्य् उपसंहरति ।

विश्वास-प्रस्तुतिः

यस् त्वं कृतागसम् अपि प्रणति-प्रसक्तं
तं वायसं परमया कृपया ऽक्षमिष्ठाः
तेनैव मादृश-जनस्य महागसोऽपि
युक्तं समाश्वसनम् इत्य् उपधारयामि ॥ ३३ ॥

श्रीनिवासः

यत्त्वं कृतागस मपि प्रणति प्रसक्तं तं वायसं परमया दयया क्षमिष्ठाः । तैनैव मादृशजनस्य महागसोऽपि युक्तं समाश्वसन मित्युपधारयामि ॥ ३३ ॥ यदिति । कृतागस मपि विहितापराधमपि प्रणतौ प्रणामे प्रसक्तं उद्युक्तं " स तं निपतितं भूमौ" इत्युक्तत्वात् प्रणामोद्योग एव कृत इति भावः । " त्रीन्लोका सम्परिक्रम्य तमेव शरणं गतः" इत्यस्यापि लोकत्रयं सम्यक्परिक्रम्य तमेव रामाश्रमं प्राप्येत्यर्थ इति भावः । तं बलवदपराध- भूयस्तया पित्रादिभिरपि परित्यक्तम् इत्यर्थः । वायसं परमया निरवधिकया दयया अक्षमिष्टाः क्षमाविषयं कृतवानसि इति यत् तेनैव हेतुना महागसोऽपि मादृशजनस्य समाश्वसनं रक्षिष्यतीति विश्वसनं युक्त मित्युपधारयामि निश्चिनोमि । अन्तः पुरापराधविधायिनि वायसेऽपि निर्निरोधां कृपा प्रवृत्ति मनुसन्धाय महापराधिना मपि महाविश्वासो भवतीति भावः ॥ ३३ ॥

मूलम्

यस्त्वं कृतागसमपि प्रणतिप्रसक्तं तं वायसं परमया कृपयाऽक्षमिष्ठाः ।
तेनैव मादृशजनस्य महागसोऽपि युक्तं समाश्वसनम् इत्युपधारयामि ॥ ३३ ॥

कृष्णः

श्रीनिवासः - प्रस्तावः

अथ पञ्चविंशत्या श्लोकैः
श्रीकृष्णावतारातिमानुष-चरित्र-वैचित्र्यम् अनुबुभूषुः
प्रथमतः परिस्पन्दनानर्हातिबाल्य-लीलया
प्रबल-पूतना-शकट-यमलाऽर्जुनादीन् निर्जितवतस् तव
कथं कंस-भयान् नन्द-व्रज-गमनम् इत्य् आह -

विश्वास-प्रस्तुतिः

सा पूतना शकटम् अर्जुनयोश् च युग्मं
बाल्योचिते ऽन्य-पर-चेष्टित-विस्फुलिङ्गे ।
यस्यालभन्त शलभत्वम् अहो! निगूढः
स त्वं व्रजे ववृधिषे किल कंस-भीत्या (इति किं न्याय्यम्?)॥ ३४ ॥(5)

श्रीनिवासः

[[86]]

सेति । यस्य तव बाल्योचिते अन्यपरे लीलानुगुणे न तु हिंसानुगुणे इत्यर्थः । चेष्टितविस्फुलिङ्गे व्यापार रूपाग्निकणे सा शिशुनिधने प्रसिद्धा पूतना, शकटं असुराविष्टञ्च, अर्जुनयो र्युग्मं यमलार्जुनौ च शलभत्वमलभन्त दग्धा अभिवन्नित्यर्थः । विस्फुलिङ्गसादृश्येन चेष्टितस्य अल्पत्वं द्योत्यते । स त्वं कंसभीत्या, निगूढ स्तिरोहित स्सन् व्रजे ववृधिषे वृद्धिं प्राप्तोऽसि किल । अहो पूतनादि निरसनवत् कंसनिरसनेऽपि बाल्यलील यैव कर्तुं शक्ये तद्भयेनाऽन्यत्र तिरोधान माश्चर्यकरम् इति भावः

मूलम्

सा पूतना शकटम् अर्जुनयोश्च युग्मं बाल्योचितेऽन्यपरचेष्टितविस्फुलिङ्गे ।
यस्यालभन्त शलभत्वमहो! निगूढः स त्वं व्रजे ववृधिषे किल कंसभीत्या ॥ ३४ ॥

श्रीनिवासः - प्रस्तावः

श्रियः पतेर् नित्यसूरि-सेव्यस्य
विभूति-द्वय-नायकस्य योगि-जन-परिमृग्यमाणस्य तव
कथं नवनीत-चौर्यं सङ्गच्छत इत्याह-

विश्वास-प्रस्तुतिः

पश्यत्सु सूरिषु सदा परमं पदं ते
देव्या श्रिया सह वसन् परया विभूत्या ।
योगेन योगनिरतैः परिमृग्यमाणः
किं त्वं व्रजेषु नव-नीतम् अहो! व्यमुष्णाः? ॥ ३५ ॥

श्रीनिवासः

पश्यत्स्विति । ते परमंपदं सूरिषु सदा पश्यत्सु सत्सु “ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इत्युक्त प्रकारेणेति भावः । परया विभूत्या उभयविभूति निर्वाहरूपया सम्पदा उपलक्षितः, श्रिया देव्या सह वसन् शेषपर्यङ्क इति शेषः । योगे निरतैः निरन्तराभ्यस्तयोगे रित्यर्थः । योगेन ध्यानेन परिमृग्यमाणः, न तु साक्षात्कृत इत्यर्थः । त्वं व्रजेषु नवनीतं किं व्यमुष्णाः? किमित्यचूचुरः। ‘अहो सूरिसेव्यत्वं योगिध्येयत्व ञ्च व्रजजन साक्षात्कार्यत्वेन विरुद्धम् । उभयविभूतिनायकत्वश्रियः पतित्वे नवनीत चौर्येण विरुद्धे इति भावः ॥ ३५ ॥

मूलम्

पश्यत्सु सूरिषु सदा परमं पदं ते देव्या श्रिया सह वसन् परया विभूत्या ।
योगेन योगनिरतैः परिमृग्यमाणः किं त्वं व्रजेषु नवनीतमहो! व्यमुष्णाः? ॥ ३५ ॥

श्रीनिवासः - प्रस्तावः

“दाम्ना चैवोदरे बद्ध्वा
प्रत्यबध्नाद् उलूखले ।
यदि शक्नोषि गच्छ त्वम्
अतिचञ्चलचेष्टित”

इत्युक्तं नवनीतचौर्य-निबन्धन-बन्धनम् अनुभवन्नाह -

विश्वास-प्रस्तुतिः

यं दुर्-ग्रहं सुमनसो मनसाऽपि नित्यं
बन्ध-च्छिदं परमम् ईशम् उदाहरन्ति
दाम्ना निबद्ध इति शुश्रुम तं भवन्तं
नालं बभूविथ! बत! श्लथनाय तस्य ॥ ३६ ॥

श्रीनिवासः

[[87]] यमिति । यं भवन्तं सुमनसः ‘उभयपरिकर्मित स्वान्तस्य’ इत्युक्त । कर्मज्ञान परिष्कृतान्तःकरणस्य मनसाऽपि दुर्ग्रहं परिच्छिद्य ज्ञातुमशक्यं, बन्धच्छिदं ‘यस्याऽमतं तस्य मतं, मतं यस्य न वेद सः’ इति श्रुत्युक्त प्रकारेणापरिच्छिन्न स्वरूपादिमत्त्वेन उपासकानां संसार सम्बन्धनिवर्तकं परम मीशम्, “तमीश्वराणां परमं महेश्वरम्” इत्युक्तप्रकारेण ईश्वरत्वाभि- मानिना मपि ईश्वर मुदाहरन्ति । तं भवन्तं दाम्ना निबद्ध इति शुश्रुम, श्रुतवन्तः स्म । ( श्रुश्रवणे इति धातोः ) लिट् । तस्य बन्धनस्यश्लथना अलं न बभूविथ, समर्थो नाऽभवः । बतेति विस्मये । ‘विस्मयामन्त्रणे बत" इत्यमरः । योगिमनोदुर्ग्रहस्य संसारबन्धमोचक स्य दामबन्धन- मोचनासामर्थ्य ञ्चाऽऽश्चर्यकरम् इति भावः ॥ ३६ ॥

मूलम्

यं दुर्ग्रहं सुमनसो मनसाऽपि नित्यं बन्धच्छिदं परममीशमुदाहरन्ति ।
दाम्ना निबद्ध इति शुश्रुम तं भवन्तं नालं बभूविथ! बत! श्लथनाय तस्य ॥ ३६ ॥

श्रीनिवासः

[[८८]]
“सा पूतना शकटम्" इत्यादि-श्लोक-त्रयोक्तम् अर्थम् एव
“ऐशं हि शैशवम्” इत्यादिना श्लोक-पञ्चकेन विवृणोति -

विश्वास-प्रस्तुतिः

ऐशं हि शैशवम् अपि व्यतिवेल-खेलं
यत् पूतनां शकटम् अर्जुनयोश्च युग्मम् ।
बाल्योचितान्य–पर-साचि(=वक्र)-विचेष्टितेन
हन्तालभन्त शलभायितम् ओजसस् ते ॥ ३७ ॥

श्रीनिवासः

ऐशं हि शैशव मपि व्यतिवेलखेलं यत्पूतना शकट मर्जुनयोश्च युग्मम् । बाल्योचितान्यपर साचिविचेष्टितेन हन्ताऽलभन्त शलभावित मोजस स्ते ॥ ३७ ॥ ऐशम् इति । ऐशं ईशसम्बन्धि शैशव मपि बाल्य मपि, विशेषेण अतिक्रान्ता वेला यया सा व्यतिवेला खेला यस्मिन् तत्तथोक्तम् । अपरिच्छेद्यलीलम् इत्यर्थः । भवतीति शेषः । यत् यस्मात्कारणात् पूतना शकटमर्जुनयो युग्म ञ्च ते तव बाल्योचितान्यपरेण बाल्यानुकूल लीलापरेण न तु प्रतिकूल निरसनपरेण, साचिना तिरश्चा यादृच्छिकेन वा न तु विमृश्य प्रयुक्तेन विचेष्टितेन व्यापारेण, बाल्योचितान्यपरसाचि विचेष्टितेन ते [[88]] ओजसः भवदीय तेजसः शलभायितं, शलभव दाचरितं, शलभतामित्यर्थः । अलभन्त प्रापुः । हन्तेति हर्षे ॥ ३७ ॥

मूलम्

ऐशं हि शैशवमपि व्यतिवेलखेलं यत् पूतनां शकटम् अर्जुनयोश्च युग्मम् ।
बाल्योचितान्यपरसाचिविचेष्टितेन हन्तालभन्त शलभायितमोजसस्ते ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सत्य् एव गव्य-निवहे निज-धाम्नि भूम्ना
पर्यन्त-सद्मसु किम्-अर्थम् अचूचुरस् त्वम् ।
मुष्णञ् च किं व्यजघटो घट-शेषम् अग्रे?
गोपी-जनस्य परिहास-पदं किम् आसीः? ॥ ३८ ॥

श्रीनिवासः

सत्येवेति । निजधाम्नि स्वगृहे भूम्ना बहुशः गव्यनिवहे गोसम्बन्धि नवनीतादि द्रव्यराशौ सत्येव विद्यमान एव " सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्” इत्यमरः । पर्यन्तसद्मसु आसन्नगृहेषु किमर्थं कस्मै प्रयोजनाय अचूचुरः अमुष्णाः, अपहृतवा नसि । मुष्णंश्च अपहरंश्च घटशेषं घटे विद्यामानम् अवशिष्टं किं व्यजघटः किं विघटितवा नसि । किं गोपीजनस्य परिहासपदं परिहासास्पदं आसीः अभवः कृत्स्नस्याऽपि लीलैव प्रयोजनम् इत्यर्थः ॥ ३८ ॥

मूलम्

सत्येव गव्यनिवहे निजधाम्नि भूम्ना पर्यन्तसद्मसु किमर्थम्? अचूचुरस्त्वम् ।
मुष्णञ्च किं व्यजघटो घटशेषमग्रे? गोपीजनस्य परिहासपदं किमासीः? ॥ ३८ ॥

विश्वास-प्रस्तुतिः

यन् नाम नाथ! नव-नीतम् अचूचुरस् त्वं
तच्-छादनाय यदि ते मतिर् आविर् आसीत्
किं मुग्ध! दिग्धम् अमुना (नवनीतम्) कर-पल्लवं ते
गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः
(कथम् अयम् अकुशलश् छादन-प्रयासः!?)॥ ३९ ॥

श्रीनिवासः

यदिति । हे नाथ स्वामिन्, त्वं नवनीत मचूचुरः अपहृतवान् । नाम प्रसिद्धौ । इति यत् तच्छादनाय चौर्यगोपनाय ते तव मति रावि रासी द्यदि बुद्धिः प्रादुर्भूता चेत्, हे मुग्ध, गोपनप्रकारानभिज्ञ, अमुना नवनीतेन दिग्धं लिप्तं करपल्लवं ते गात्रे प्रमृज्य मार्जयित्वा निर्विशङ्कस् सन् निरगाः निर्गतवान् किल।
इदं नवनीत चौर्यच्छादनानुगुणं वा स्वाङ्गे नवनीतदिग्धकर पल्लव प्रमार्जनम् इति भावः ।
निर् पूर्वात् इण् गतौ इति धातोः “इणो गा लुङि " इति गादेशेकृते निरगा इति लुङ्गध्यमैक वचने रूपम् ॥ ३९ ॥

मूलम्

यन्नाम नाथ! नवनीतम् अचूचुरस्त्वं तच्छादनाय यदि ते मतिराविरासीत् ।
किं मुग्ध! दिग्धममुना करपल्लवं ते गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

त्वाम् अन्य-गोप-गृह-गव्य-मुषं यशोदा
गुर्वी त्वदीयम् अवमानम् अमृष्यमाणा
प्रेम्णा ऽथ दाम-परिणाम-जुषा (=दामीभूतेन) बबन्ध
तादृङ् ते चरितम् आर्यजनाः (→भागवताः) सहन्ते (सर्व-शक्तत्व-लीला-निगूहनम्)॥ ४० ॥

श्रीनिवासः

[[89]] त्वामिति । गुर्वी अतिशयाभिमानवती यशोदा त्वदीय मवमानं “यशोदानन्दनेन अस्मदृहे क्षीरम् अपहृतम्, अस्मगृहे नवनीतम् अपहृतम्”

इत्येवं रूपं परिवादं अमृष्यमाणा असहमाना सती अन्यगोपगृहगव्य मुषं इतरगोपालभवनभवक्षीरनवनीताद्यपहारिणं त्वाम्, अथ अनन्तरं दामपरिणामजुषा दामात्मना प्राप्त परिणामेन प्रेम्णा बबन्ध बद्धवती, दाम बन्धनस्य प्रेमनिबन्धन कार्यत्वात् दामपरिणामजुषा प्रेम्णेत्युक्तिः ।

आर्यजनाः शुकपराशरादयः भट्टनाथ पराङ्कुशपरकालादयश्च,
ते तादृक्-चरितं यशोदाप्रेमपरिणाम-दाम-बद्धत्वरूपं अद्भुतं व्यापारं न सहन्ते ।

“दाम्ना चैवोदरे बद्ध्वा
प्रत्यबध्नादुलूखले ।
यदि शक्नोषि गच्छत्वम्
अतिचञ्चलचेष्टित”

इत्यत्र

“यदि शक्नोषि गच्छ त्वम्” इति सर्वशक्तिं प्रत्युक्तिर् असहन-सूचिकेति भावः ॥ ४० ॥

मूलम्

त्वामन्यगोपगृहगव्यमुषं यशोदा गुर्वी त्वदीयमवमानममृष्यमाणा ।
प्रेम्णाऽथ दामपरिणामजुषा बबन्ध तादृङ् न ते चरितम् आर्यजनाः सहन्ते ॥ ४० ॥

श्रीनिवासः - प्रस्तावः

“तादृङ् न ते चरितम् आर्यजनास् सहन्ते "

इत्युक्तम् एव विवृणोति -

विश्वास-प्रस्तुतिः

मात्रा यदि त्वमसि दामनि सन्निबद्धः
तच्-छ्राविणाम् उदित-चाक्षुष-निर्झराणाम् ।
बध्नासि हन्त हृदयं भगवन्! कुतस् तत्?
सर्वो हि वश्य-विषये विवृणोति वीर्यम् ॥ ४१ ॥(5)

श्रीनिवासः

मात्रेति । हे भगवन् त्वं मात्रा दामनि सन्निबद्धोऽसि यदि तच्छ्राविणां तद्बन्धनं शृण्वताम् अत एव उदितचाक्षुषनिर्झराणां प्रदुर्भूताश्रुप्रवाहाणाम्, आर्यजनानाम् इति पूर्वश्लोकात्, विभक्तिव्यत्यासे नाऽनुषङ्गः हृदयं कुतो तोः बध्नासि, तादृश सौशील्यैकासक्तचित्तान् करोषीत्यर्थः । हन्तेत्याश्चर्थे । अर्थान्तरन्यासेन समाधत्ते - सर्वो हीति । सर्वो जनः वश्यविषये वीर्यं विवृणोति हि । मातुर्भवान् वश्यः भवत स्त्वार्यजना वश्या इति भावः ॥ ४१ ॥ [[90]]

मूलम्

मात्रा यदि त्वमसि दामनि सन्निबद्धः तच्छ्राविणाम् उदितचाक्षुषनिर्झराणाम् ।
बध्नासि हन्त हृदयं भगवन्! कुतस्तत्? सर्वो हि वश्यविषये विवृणोति वीर्यम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कान्तालकान्तम् अमलं कमलायताक्षम्
उद्भ्रू-विलासम् उदित-स्मितम् उन्नसं च ।
वक्त्रं वहन् परम! गोप-गृहेषु किं त्वं
गोपी-मनांसि नव-नीतम् उताभ्यमोषीः? ॥ ४२ ॥(4)

श्रीनिवासः

कान्तेति । हे परम, परो मा यस्मा दिति परमः सर्वेश्वर इत्यर्थः । । कान्तालकान्तं मञ्जुलचूर्णकुन्तलपर्यन्तम्, अमलं हेयप्रतिभटशोभं कमलायताक्षं कर्णान्तविश्रान्तकमलतुलितलोचनम् इत्यर्थः । उद्भूविलासम् उत्तुङ्ग भ्रूभङ्ग सौभाग्यम् उँदितस्मितम्, उन्नस मुन्नतनासिकम्। “उपसर्गा” च्चेति नासिकाशब्दस्य नसादेशः । वक्त्रं वहन् त्वं गोपीमनांसि अभ्यमोषीः अचूचुरः, उत नवनीतं अभ्यमोषीः । उभयमप्यपहृतवा नसीत्यर्थः नवनीत हरो मनोहरश्चाऽभव इति भावः ॥ ४२ ॥

मूलम्

कान्तालकान्तममलं कमलायताक्षम् उद्भ्रूविलासम् उदितस्मितम् उन्नसं च ।
वक्त्रं वहन् परम! गोपगृहेषु किं त्वं गोपीमनांसि नवनीतमुताभ्यमोषीः? ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सर्वं गुणाय गुणिनाम् इति सत्यम् एतत्
यत् खल्व् इहेतर-जने मलिनत्व-हेतुः ।
यद् गोप-वेष-विनिवेषणम् उत्तमं ते
गोपालनं च गणयन्ति गुणं गुणेषु ॥ ४३ ॥

श्रीनिवासः

सर्वमिति । यत्कृत्यं इतरजने गुणहीनजने मलिनत्वहेतुः दोष निदानं भवति, तत्सर्वं मकृत्यत्वावच्छिन्नं कृत्स्न मपि गुणिनां गुणवतां गुणाय गुणावहं भवति । खल्विति प्रसिद्धौ । यत् यस्मात्कारणात् ते गोपवेष विनिषेवणं गोपाल विग्रहपरिग्रहं, गोपालन ञ्च गोरक्षणञ्च गुणेषु उत्तमं गुणं गणयन्ति परिगणयन्ति, मुख्यं गुणं व्यवहरन्तीत्यर्थः । सन्त इति शेषः । सर्वस्मात्परस्य तव अत्यन्त सौलभ्यम प्यतिशयावहम् इति भावः ॥ ४३ ॥

मूलम्

सर्वं गुणाय गुणिनाम् इति सत्यमेतत् यत् खल्विहेतरजने मलिनत्वहेतुः ।
यद् गोपवेषविनिवेषणमुत्तमं ते गोपालनं च गणयन्ति गुणं गुणेषु ॥ ४३ ॥

विश्वास-प्रस्तुतिः

गोपाल-पोतकतया निभृतं धरित्रीम्
आवस्तु-काम इव सन्न् अपि बाल्य-लौल्यात् ।
ऐन्द्रं निहत्य महम्, अद्रिम् अथो दधानः
किं (गोपाल-बाल-वेष-विरुद्धं) (प्रति-)तस्थिषे सुर-गणाय स-वासवाय ॥ ४४ ॥(4)

श्रीनिवासः

[[91]]

गोपाल इति । निभृतं निगूढं यथा तथा गोपालपोतकतया नन्दगोपकुमारतयां धरित्री मावस्तुकाम इव सन्नपि पृथिव्या मावस्तुम् इवेच्छु भवन्नपि इवशब्दप्रयोगेण निभृत मावासः भावनेति भावः । “उपान्वध्यावसः” इति सप्तम्यर्थे द्वितीया । बाल्यलौल्यात् बाल्योचितचाञ्चल्यात्, अथो अनन्तरम् ऐन्द्रं इन्द्रदेवताकं मखं निहत्य यज्ञं विनिहतं विघ्नितं कृत्वा महम् इति पाठेऽपि मह मुत्सव माराधनम् इत्यर्थः । अद्रिं गोवर्धनमहीध्रम् दधानः बिभ्राणस् सन् सवासवाय सुरगणाय देवबृन्दाय किं तस्थिषे किमर्थं प्रत्यवतिष्ठसे !
“श्लाघ-हुङ्स्था-शपां ज्ञीप्स्यमानः” इति सम्प्रदाने चतुर्थी ।
स्वाराधनविघ्न-हेतु-कोपोद्रिक्त-सुत्राम-प्रयुक्त-पुष्कलावर्तकादि–सप्त-काल-मेघ-युक्तं महा-वर्षम् अपि सप्त-रात्रं गोवर्धनम् उद्धृत्य
व्यर्थं कृत्वा
इति निष्कृष्टार्थः ।
गोपशिशुभाव मनुभवितु मनाः भवान्
कथमित्थम् अनुष्ठितवान् इति भावः ॥ ४४ ॥

मूलम्

गोपालपोतकतया निभृतं धरित्रीम् आवस्तुकाम इव सन्नपि बाल्यलौल्यात् ।
ऐन्द्रं निहत्य महम् अद्रिमथो दधानः किं तस्थिषे सुरगणाय सवासवाय ॥ ४४ ॥

श्रीनिवासः - प्रस्तावः

उक्तम् एव विवृणोति -

विश्वास-प्रस्तुतिः

वेणु-क्वण-प्रणयिनि त्वयि लोक-नाथ!
वृन्दा-वनं चरण-सञ्चरणैः पुनाने
भावास् तदा वन-भुवः किल कीदृशस् ते
त्वद्-गीत-सिक्त-सिकतासु वसुन्धरासु ॥ ४५ ॥

श्रीनिवासः

वेण्विति । हे लोकनाथ, वेणुक्कण प्रणयिनि मुरलीगीति प्रीतिमतित्वयि बृन्दावनं चरणसञ्चरणैः पादसञ्चारैः पुनाने पूत मातन्वाने सति तदा वसुन्धरासु त्वद्गीत सिक्तसिकतासु सतीषु । सिक्तेत्युक्ते गते रमृत धारा साम्यं गर्भितं, वेणुगीतिरूपामृतधारया बृन्दावनप्रान्त कालिन्दी सिकता श्शीतीकृता इत्यर्थः । वसुन्धरा स्विति बहुवचनं यमुनातीर्थ भेदाभिप्रायात् । तदा वनभुवः बृन्दावनजाः ते तादृश सौभाग्यवन्तः [[92]] भावाःजन्तवः, “भाव स्सत्ता स्वभावभिप्रायचेष्टात्मजन्तुषु ” इत्यमरः । कीदृशः किल कीदृग्भूताः खलु ! वेणुगानानुभवेन नियतस्वभावं परित्यज्य, “शैलोऽग्निश्च जलाम्बभूव मुनयो मूढाम्बभूवुर्जडाः प्राज्ञामासु रगा स्सगोप ममृतामासु र्महाशीविषाः । गोव्याघ्रा स्सहजाम्बभूवुरपरेत्वन्याम्बभूवुः प्रभो, त्वन्तेष्वन्यतमाम्बभूविथ भवद्वेणु क्वणोन्मादने” इत्येवं प्रकारेण स्वभावान्तर मवापु रित्यर्थः ॥ ४५ ॥

मूलम्

वेणुक्वणप्रणयिनि त्वयि लोकनाथ! वृन्दावनं चरणसञ्चरणैः पुनाने ।
भावास्तदा वनभुवः किल कीदृशस्ते त्वद्गीतसिक्तसिकतासु वसुन्धरासु ॥ ४५ ॥

विश्वास-प्रस्तुतिः

धन्यैः श्रुतं तद् इह तावक-रास-काले
गीतेन येन हि शिलाः सलिलाम्(←सलिल+क्विप्) बभूवुः
पञ्चापि किञ्च परिवृत्त-गुणानि भूतान्य्
उर्वी-कृशानु-मरुद्-अम्बर-शम्बराणि(=जलानि) ॥ ४६ ॥(5)

श्रीनिवासः

धन्यै रिति ।
इह जगति तावक-रासकाले
त्वदीयरासक्रीडासमये
येन गीतेन वेणुगानेन शिलाः दृषदः सलिलाम्बभूवुः जलान्यासन् ।
क्लीबान्तस्य सलिल शब्दस्य " सनाद्यन्ता धातवः " इति धातुसंज्ञायां
लिटि कास् प्रत्ययाद् इति आमि, “कृच्चाऽनुप्रयुज्यते” इत्यनुप्रयोगे रूपम् ।

किञ्च उर्वीकृशानु-मरुदम्बरशम्बराणि, कृशानुर् अग्निः, सूर्यस्याप्युपलक्षणम् । अम्बरम् आकाशः शम्बरं जलम् एतानि पञ्चभूतान्य् अपि परिवृत्तगुणानि व्यत्यस्त-स्वभावान्यासन् । तद्गीतं धन्यैः भाग्याधिकैः श्रुतम् । पृथिव्या गुणव्यत्यासो मार्दवं तेजस श्शैत्यम्, अम्बुनो वेगपरित्यागः, अन्तरिक्षस्य प्रत्यक्षमूर्तित्वम् इति द्रष्टव्यम् ॥ ४६ ॥

मूलम्

धन्यैः श्रुतं तदिह तावकरासकाले गीतेन येन हि शिलाः सलिलाम्बभूवुः ।
पञ्चापि किञ्च परिवृत्तगुणानि भूतानि +उर्वीकृशानुमरुदम्बरशम्बराणि ॥ ४६ ॥

श्रीनिवासः - प्रस्तावः

उक्तं व्यत्यस्त गुणत्वं भुजङ्गमेष्वपि सङ्गमयति-

विश्वास-प्रस्तुतिः

तेभ्यः कृती न किल कश्चिद् इहास्ति ये वै
रासोत्सवोत्सुक-धियस् तव काननान्ते ।
वेणु-स्वन-स्रुत-रसौघ-परिप्लुतान्ते
स्वे सृक्वणी(=ओष्ठप्रान्तौ) रसनया लिलिहुर् भुजङ्गाः
(यतो विषम् एव अमृततया परिणतम्)॥ ४७ ॥(5)

श्रीनिवासः

[[93]]
तेभ्यइति । ये भुजङ्गाः काननान्ते बृन्दावनान्ते रासोत्सवोत्सुकधियः रासक्रीडोत्कण्ठित बुद्धयः, ते तव वेणुस्वनेन हेतुना स्रुतेन क्षरितेन रसौघेन अमृत-रस-प्रवाहेण परिप्लुतः सिक्तः अन्तः प्रान्तो ययोस्ते
तथोक्ते स्वे सृक्किणी ओष्ठप्रान्तौ रसनया जिह्वया लिलिहुः आस्वादयामासुः । तेभ्यो भुजङ्गेभ्यः इह जगति कश्चित्कृती सुकृती नास्ति किल
भवति ननु वै प्रसिद्धौ ।
अयमर्थः प्रसिद्ध इत्यर्थः ।
" प्रान्ता वोष्ठस्य सृक्किणी” इत्यमरः ।
वेणु-गान-श्रवणेन विष-धरस्यान्तर्गतं विषम् एव अमृततया परिणतम् -
अतस् तेभ्यो भाग्याधिका भुवने न भवन्तीति भावः ॥ ४७ ॥

मूलम्

तेभ्यः कृती न किल कश्चिदिहास्ति ये वै रासोत्सवोत्सुकधियस्तव काननान्ते ।
वेणुस्वनस्रुतरसौघपरिप्लुतान्ते स्वे सृक्वणी रसनया लिलिहुर्भुजङ्गाः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अम्भो-द-नीलम् अरविन्द-दलायताक्षं
पिञ्छावतंसम् उररी-कृत–वेणु-पाणिम् ।
त्वां गोप-वेष-परिकर्मित–काय-कान्तिं
धन्यास् तदा ददृशुर् उन्मथितान्यभावाः ॥ ४८ ॥

श्रीनिवासः

अम्भोदेति । तदा रासक्रीडाकाले अम्भोदनीलं कालमेघश्यामं अरविन्द दलायताक्षं तामरसकुसुम पलाशसदृश कर्णान्त विश्रान्तलोचनं, पिञ्छावतंसं बर्हिबर्हशेखरं “पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे इत्यमरः । उररीकृतवेणुः अङ्गीकृतकीचकः पाणिर् यस्य तं तथोक्तं, “वेणवः कीचका स्ते स्युर्ये स्वनन्त्यनिलोद्धताः” इत्यमरः । गोपवेषेण गोपालालङ्कारेण परिकर्मिता अलङ्कृता या कायकान्ति Áिग्रहशोभा यस्य तं तथोक्तं त्वां धन्याः भाग्याधिकजनाः उन्मथितान्यभावाः, अन्यविषयको भावः अन्यभावः । उन्मथित भोग्यवस्त्वन्तरविषयकाभिप्राया स्सन्तः ददृशुः साक्षात्कृतवन्तः । विषयान्तर विमुखतया भगवद्विग्रहसौन्दर्यानुभवो भाग्याधिकानामेव भवतीति भावः ॥ ४८ ॥

मूलम्

अम्भोदनीलम् अरविन्ददलायताक्षं पिञ्छावतंसम् उररीकृतवेणुपाणिम् ।
त्वां गोपवेषपरिकर्मितकायकान्तिं धन्यास्तदा ददृशुरुन्मथितान्यभावाः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गोवर्धनो गिरिवरो, यमुना नदी सा
बृन्दा-वनं च मथुरा च पुरी पुराणी ।
अद्यापि हन्त! सु-लभाः कृतिनां जनानाम्
एते भवच्-चरण-चार-जुषः प्रदेशाः ॥ ४९ ॥

श्रीनिवासः

[[94]]

गोवर्धन इति ।
गिरिवरः कृष्णकरस्पर्श श्रेष्ठ्यविशिष्टः गोवर्धन- महीध्रः सा प्रसिद्धा यमुनानदी, बृन्दावनञ्च पुराणी पुरातनी, कृष्णावतारात्पूर्वमेव शत्रुघ्नधिष्ठिता मधुरा पुरीच भावच्चरणचारजुषः भवदीयपाद सञ्चारभाजः एते प्रदेशाः, कृतिनां सुकृतिनां जनानां अद्याऽपि भवदवतारकाल विप्रकर्षे सत्यपि सुलभाः साक्षात्कारार्हाः भगवत्साक्षात्कार इव भगवदधिष्ठितदेशसाक्षात्कारोऽपि सुकृतिनाम् एव लभत इति भावः । अस्मिन् श्लोके भगवत्सम्बन्धवतो देशस्यैव परमप्राप्यत्व मुक्तमिति मन्तव्यम् ॥ ४९ ॥

मूलम्

गोवर्धनो गिरिवरो यमुना नदी सा बृन्दावनं च मथुरा च पुरी पुराणी ।
अद्यापि हन्त! सुलभाः कृतिनां जनानाम् एते भवच्चरणचारजुषः प्रदेशाः ॥ ४९ ॥

श्रीनिवासः - प्रस्तावः

अनन्तरं “ते वयं भवता रक्ष्या भवद्विषयवासिनः” इत्युक्ततप्रकारेण देशस्य भगवल्लाभप्रापकत्वं मुखान्तरेणोच्यते -

विश्वास-प्रस्तुतिः

बृन्दावने स्थिर-चरात्मक-कीट-दूर्वा-
पर्यन्त-जन्तु-निचये बत ये तदानीम् ।
नैवालभामहि जनिं हतकास् त एते
पापाः पदं तव कदा पुनर् आश्रयामः ॥ ५० ॥

श्रीनिवासः

बृन्दावने इति । तदानीं कृष्णसञ्चारकाले स्थिरचरात्मकः स्थावरजङ्गमस्वभावः कीटदूर्वापर्यन्तः कीटदूर्वावधिकः जन्तुनिचयो जीवसमूहो यस्मिंस्तथोक्ते बृन्दावने कीटः क्रिमिविशेषः जङ्गमनिकर्षावधिः, दूर्वातॄणविशेषः स्थावरनिकर्षावधिः । तृणादीना मपि क्षयवृद्धियोगेन अन्तस्संज्ञावत्त्वात् जन्तुशब्दोक्ति स्सङ्गता । ये वयं जनिं जन्म ने वाऽलभामहि न लब्धवन्त एव भवामः । आत्मनेपदि लङ् बहुवचनम् ।

हतकाः प्रणष्टाः । त एते पापाः पापिष्ठाः, कदा पुनः तव पदं आश्रयामः, कदापीत्यर्थः । बतेति खेदे ॥ ५० ॥

मूलम्

बृन्दावने स्थिरचरात्मककीटदूर्वापर्यन्तजन्तुनिचये बत ये तदानीम् ।
नैवालभामहि जनिं हतकास्त एते पापाः पदं तव कदा पुनराश्रयामः ॥ ५० ॥

श्रीनिवासः - प्रस्तावः

[[95]]
भगवत्-सम्बन्धि-सम्बन्धिषु केषुचिद् अपि जन्म उत्तारकम् इत्य् आह -

विश्वास-प्रस्तुतिः

हा जन्म तासु सिकतासु मया न लब्धं
रासे त्वया विरहिताः(=विश्लेषिताः) किल गोपकन्याः ।
यास् तावकीन-पद-पङ्क्ति-जुषो ऽजुषन्त
निक्षिप्य तत्र निजम् अङ्गम् अन्-अङ्ग–तप्तम् ॥ ५१ ॥

श्रीनिवासः

हेति ।
अन्योन्य-संवलित-करानेक-पात्रः अनेक-ताल-प्रबद्धो मण्डलाकार-नृत्त-विशेषो रासः
रासे त्वया विरहिताः विश्लेषिताः या गोपकन्याः,
तत्र विरहे अनङ्गतप्तं मन्मथदग्धं,
निजम् अङ्गं स्वकीयम् एवाऽवयवं निक्षिप्य, तावकीनपदपङ्क्तिजुषः भवदीयपद विन्यास क्रमभाजः, याः सिकताः अजुषन्त अप्रीणन् । जुषी प्रीतिसेवनयोः इति धातो र्लङ् प्रथमपुरुष बहुवचनम्। कृष्णविश्लेषकाले तत्पदमुद्राचिह्निता स्सिकता एव विरहिणीनां गोप कन्याना मालिङ्गनमङ्गलप्रदानेन अनङ्गतापापहा अभवन्निति भावः । तासु मया जन्म न लब्धं किल, मया सिकतात्वेन न जातं ननु । हा इति खेदे ॥ ५१ ॥

मूलम्

हा जन्म तासु सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोपकन्याः ।
यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

आचिन्वतः कुसुमम् अङ्घ्रि-सरो-रुहं ते
ये भेजिरे बत! वनस्-पतयो लता वा ।
अद्यापि तत्-कुल-भुवः कुल-दैवतं मे
वृन्दावनं मम धियं च सनाथयन्ति ॥ ५२ ॥(5)

श्रीनिवासः

आचिन्वत इति । ये वनस्पतयः, लता वा वृक्षा वीरुधो वा कुसुममा चिन्वतः आहरतः ते तव असिरोरुहं भेजिरे आरोहणावरोहण इति भावः । बतेति विस्मये। तत्कुलभुवः भवत्पदपङ्कजस्पर्शिवनस्पतिलताकुलजाः[[96]] वनस्पतयो लताश्च | अद्याऽपि बृन्दावनं मम धियञ्च सनाथन्ति सनाथीकुर्वन्ति, परिष्कुर्वन्तीत्यर्थः । बृन्दावनालङ्कारभूता स्तत्कुलभुव एव मम बुद्ध्या भोग्यतयाऽनुसन्धीयन्ते इत्यर्थः । पूर्वस्मिन् श्लोके परम्परया भगवत्सम्बन्ध्यचेतनत्वप्राप्तिरेव परमप्राप्ये ब्रह्मानन्दे हेतु रित्युक्तम् । अस्मिन् श्लोके परम्परासम्बन्धिनो वनस्पत्यादय स्स्वयं परमप्राप्या इत्युक्तम् । अतः परम्परासम्बन्धिनाम प्युपायोपेयत्वे भवत इति सम्प्रदायः ॥ ५२ ॥

मूलम्

आचिन्वतः कुसुममङ्घ्रिसरोरुहं ते ये भेजिरे बत! वनस्पतयो लता वा ।
अद्यापि तत्कुलभुवः कुलदैवतं मे वृन्दावनं मम धियं च सनाथयन्ति ॥ ५२ ॥

श्रीनिवासः - प्रस्तावः

अनन्तरं भगवच्चेषृितस्य कृत्स्न स्याऽपि पावनत्वमनुभवति -

विश्वास-प्रस्तुतिः

यत् त्वत्-प्रियं तद् इह पुण्यम्, अ-पुण्यम् अन्यत्,
नान्यत् तयोर् भवति लक्षणम् अत्र जातु ।
धूर्तायितं तव हि यत् किल रास-गोष्ठ्यां,
तत्-कीर्तनं परम-पावनम् आमनन्ति ॥ ५३ ॥

श्रीनिवासः

यदिति । इह यत् त्वत्प्रियं भवत्प्रीतिकरं तत् पुण्यम्, अन्यत् त्वदप्रियं अपुण्यम् । अत्र पुण्यापुण्ययोः लक्षणं किमित्यत्राऽऽह - नेत्यादि । अन्यत् त्वत्प्रियत्वाप्रियत्वाभ्या मन्यत् तयोः पुण्यापुण्ययोर्लक्षणं जातु न, कदाऽपि न सम्भवति । सामान्यत उक्तं विशेषेण द्रढयति । रासगोष्ठयां रासक्रीडागोष्ठ्यां तव यद्भूर्तायितम् - " अङ्गना मङ्गना मन्तरे माधवो माधवं माधव ञ्चान्तरेणाऽङ्गनाः” इत्युक्तप्रकारेण यद्धूर्तव दाचरितं, तत्कीर्तनं तद्धूर्तायितसङ्कीर्तनं परमपावन मत्यन्तपरिशुद्धिकरम् आमनन्ति हि शुकपराशरादयः स्मरन्तीत्यर्थः । त्वद्धूर्तायितस्य पापत्वे “अघवादी हरे त्पापम्” इति तत्कीर्तयितु रपि पापम् एव स्यात् । शुकपराशरादिभिस्तु भवद्भूर्तायितकीर्तनस्य पुण्यत्वमुक्तम् । अत स्त्वदाज्ञारूपश्रुति स्मृति विहित- निषिद्धेष्वपि त्वत्प्रियत्वाप्रियत्वे एव अनुगते लक्षणे इति भावः ॥ ५३ ॥

मूलम्

यत् त्वत्प्रियं तदिह पुण्यम् अपुण्यमन्यत् नान्यत् तयोर्भवति लक्षणमत्र जातु ।
धूर्तायितं तव हि यत् किल रासगोष्ठ्यां तत्कीर्तनं परमपावनम् आमनन्ति ॥ ५३ ॥

विश्वास-प्रस्तुतिः

या कंस-मुख्य–नृप-कीट–निबर्हणोत्था
सा निर्जित-त्रि-जगतस् तव नैव कीर्तिः
गोपालनादि यद् इदं भवदीय-कर्मेत्य्
आर्द्री करोति विदुषां हृदयं तद् एतत् ॥ ५४ ॥(5)

श्रीनिवासः

[[97]]
येति । कंसमुख्यनृपकीटनिबर्हणोत्था कीटप्रायकंसप्रभृति नरेन्द्र प्रमापणभवा या कीर्तिः सा निर्जितत्रिजगतः त्रिजगदपहारिहिरण्य महाबलि प्रभृतीन् जितवत स्तव कीर्तिः नैव, अतिशयित प्रतीतिकरी न भव त्येवेत्यर्थः। हिरण्यादीन् जितवतः कंसादिजयो नाऽतिशयावह इति भावः । य दिदं गोपालनादि, कृत्यम् इति शेषः । तदेत द्भवदीयकर्मे ति उभयविभूतिनिर्वाहकभवच्चेष्टितम् इति, विदुषां हृदयं आर्द्रा करोति शिशिरीकरोति । कंसादिजयानुसन्धानाद् अपि गोपालनाद्यनुसन्धानम् एव तत्त्व-विदां चित्तव्यामोहकरं भवतीत्यर्थः ॥ ५४ ॥

मूलम्

या कंसमुख्यनृपकीटनिबर्हणोत्था सा निर्जितत्रिजगतस्तव नैव कीर्तिः ।
गोपालनादि यदिदं भवदीयकर्मेत्यार्द्रीकरोति विदुषां हृदयं तदेतत् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

गोपाल-वेष-परिकर्म परावरेशं
यन् नाम धाम परमं तमसः परस्तात् ।
तत् पिञ्छ-लाञ्छन–सु-दाम(=माला)–कृतोपवीतं
गो-धूलि-धूसरित-कुन्तलम् अन्तर् आस्ताम् ॥ ५५ ॥

श्रीनिवासः

गोपालेति ।
परा उत्कृष्टाः अनन्तगरुडविष्वक्सेनादयः
अवराः निकृष्टाः ब्रह्मरुद्रादयः उभयेषामपि ईशं परावरेशम्,
उभयविभूति निर्वाहकम् इति यावत् ।
परमम् उत्कृष्टं यत् धाम तेजः तमसः परस्तात् तमश्-शब्दवाच्यात् प्रकृतेः परस्तात्, वर्तत इति शेषः । नाम “ अदित्यवर्णं तमसः परस्ता " दिति श्रुतिप्रसिद्धम् इत्यर्थः । गोपालवेषः परिकर्म अलङ्कारो यस्य तत् पिञ्छलाञ्छनेन बर्हचिह्नेन शोभमानेन दाम्ना मालया कृतोपवीतम् उपवीताकारमालम् इत्यर्थः ।
गोधूलिधूसरितकुन्तलं गोखुरोत्क्षिप्त परागपरिमिलित केशपाशं तत् धाम अन्तर् आस्ताम्, मम मनसि वर्तताम् । भगवत्पारम्यादपि अवतार सौशील्यम् एव भोग्यतया निरन्तरानुभाव्यम् इति भावः ।। ५५ ।।

मूलम्

गोपालवेषपरिकर्म परावरेशं यन्नाम धाम परमं तमसः परस्तात् ।
तत् पिञ्छलाञ्छनसुदामकृतोपवीतं गोधूलिधूसरितकुन्तलम् अन्तरास्ताम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यद् वै जरा-सुत-भयाद् विपलायथास् त्वं
तच् चेन् मनुष्य-चरितानुविधान-जं ते ।
तर्हि त्रि-लोक-गुरुम् ईश्वरम् ईश्वराणां
बाणाहवे किम् इति शम्भुम् अजृम्भयस् त्वम् ॥ ५६ ॥

श्रीनिवासः

[[98]]

यदिति । जरासुतभयात् जरासन्धनिमित्ताद्भयात् त्वमपि विपला यथा पलयितवा निति यत् । वै प्रसिद्धम् । तत् पलायनं ते तव मनुष्य चरितानुविधानजञ्चेत् मर्त्य चरितानुवर्तनजन्यं यदि तर्हि त्रिलोकगुरुं अत एव ईश्वराणां लोकपालाना मिन्द्रादीना मपीश्वरम्, शम्भुं रुद्रं बाणाहवे बाणासुर युद्धे किमिति अजृम्भयः जृम्भित मकरोः ? तदुक्तं भारते

“जृम्भणास्त्र-प्रयोगेण
जृम्भयामास शङ्करम् ।
जृम्भाभिभूतस्तु हरो
रथोपस्थ उपाविशत् ।
न शशाक तथा योद्धुं
कृष्णेनाऽक्लिष्टकर्मणा । "

इति । जरासन्धभयात् पलायितस्य शम्भुजृम्भणं कथं घटते इति परिचोदनात्, मनुष्यभावनाया मपि भवतः पारम्यं दुरपह्नवम् इति भावः । विपलायथा इति विपरापूर्वात्, अय गतौ इति धातोर्लङ् मध्यमैकवचनम् । “उप सर्गस्यायतौ” इति रेफस्य लत्वम् ॥ ५६ ॥

मूलम्

यद्वै जरासुतभयाद् विपलायथास्त्वं तच्चेन्मनुष्यचरितानुविधानजं ते ।
तर्हि त्रिलोकगुरुम् ईश्वरमीश्वराणां बाणाहवे किमिति शम्भुम् अजृम्भयस्त्वम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

जातं कुतस् तद् अ-कृत-ज्ञ–विचेष्टितं ते
पुत्रीयया(←पुत्र+क्यच्+अ) किल वरं ववृषे वृषाङ्कात् ।
अक्षेषु सक्त-मतिना च निरादरेण
वाराणसी हर-पुरी भवता विदग्धा ॥ ५७ ॥
(अतो वरयाचनं मनुष्यत्व-विडम्बनम्। )

श्रीनिवासः

जातमिति ।
पुत्रीयया = आत्मनः पुत्त्रेच्छया
“सुपः आत्मनः क्यच्” इति आत्मनः पुत्त्रेच्छायां पुत्त्रशब्दात् क्यच् प्रत्यये विहिते, “क्यचि च” इति ईत्वे च कृते (“अ प्रत्ययात्‌” इत्यनेन) पुत्रीयेति रूपं सिध्यति । वृषाङ्कात् वृषभध्वजात् वरं ववृषे अक्षेषु सक्तमतिना अक्षकीडाव्यासक्त-बुद्धिना निरादरेण आदररहितेन [[99]] अभिनिवेशशून्येन भवता, हरपुरी वाराणसी काशी विदग्धा
पौण्ड्रक-वासुदेव-सहाय-भूत–स्व-पितृ–वधामर्षितेन काशीराजेन रुद्र-वर- प्रसादोत्पादितया कृत्यया द्वारका-दहने प्रसक्ते,
रुक्मिण्या साकम् अक्ष-क्रीडा-सक्तेन कृष्णेन
प्रेषितो हेति-राजः,
काशी-राज-प्रहितां कृत्यां, काशीं, तं राजानञ्च
भस्मी चकारेति
भागवते प्रसिद्धम् ।
तत् प्रसिद्धं अ-कृतज्ञ-विचेष्टितं कृतघ्नव्यापारः, ते तव कुतो हेतो जतम् ।
यस्मात्पशुपतेः पुत्रार्थवरलाभः तत्पुरवाराणसी-दहनं सर्वात्मना अनुचितम् इति भावः ।
सर्वेश्वरस्य तव पुत्त्रार्थनादिकं मनुष्यत्वविडम्बनानुगुणम् इति निष्कृष्ट-तात्पर्यम् ॥ ५७ ॥

मूलम्

जातं कुतस्तदकृतज्ञविचेष्टितं ते पुत्रीयया किल वरं ववृषे वृषाङ्कात् ।
अक्षेषु सक्तमतिना च निरादरेण वाराणसी हरपुरी भवता विदग्धा ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सञ्जीवयन्न् अपि मृतं सुतम् उत्तरायाः
सान्दीपनेश् चिर-मृतं सुतम् आनयंश् च ।
धाम्नो निजाद् द्विज-सुतान् पुनर् आनयन् वा
(मृतात्मन आनयनम् अस्तु कथञ्चित् -)
स्वाम् एव तां (मृत-दग्धादि-)तनुम् अहो! कथम् आनयस् त्वम् ॥ ५८ ॥

श्रीनिवासः

सञ्जीवयन्निति । मृत मुत्तराया स्सुतम् अश्वत्थाम प्रयुक्तापाण्ड- वस्त्रदग्ध मभिमन्युपत्न्या उत्तराया गर्भस्थं पुत्त्रं सञ्जीवयन्नपि

" द्रौण्यस्त्र विप्लुष्ट मिदं शरीरं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे य श्शरणं गतायाः । पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च । पस्पर्श पुण्डरीकाक्षः आपादतलमस्तकम् । यदि मे ब्रह्मचर्यं स्यात्सत्यञ्च मयि तिष्ठति । आव्याहतं ममैश्वर्यं तेन जीवतु बालकः

इत्युक्त प्रकारेण रक्षन्नपि, मृतं सान्दीपिनेस् सुतम् आनयंश्च;

विद्याप्रदातुः सान्दीपिनेः कालान्तरे पञ्चजन-नाम्ना असुरेण भक्षितं सुतं गुरुदक्षिणात्वेन पञ्चजनोदरात्पुनः आनयन्नपि,

निजधाम्नः श्रीवैकुण्ठात् द्विजसुतान्पुनर् आनयन्वा,
जातमात्रे एव मृतान् कस्यचित् द्वारकास्थस्य ब्राह्मणस्य सुतान् तत्प्रार्थनया पार्थेन साकं रथम् आरुह्य,
सप्त-लोकान् अण्डावरण-सप्तकम् [[100]] अप्य् अतीत्य गत्वा
पुनर् आनयन् वा

त्वं स्वां स्वकीयां तां तनुम् एव मरण-कालीनं तत्-तच्-छरीरम् एव कथम् आनयः ?

उत्तरासुतस्य काल-विप्रकर्षाभावेऽपि
भस्मी-भूतस्य तस्य शरीरस्य आनयनम् आश्चर्यावहम् इति मन्तव्यम् ।

पराऽस्य शक्तिर् विविधैव श्रूयते

इत्युक्तसर्वशक्तेर् अघटितघटनया सम्भवतीति भावः ॥ ५८ ॥

मूलम्

सञ्जीवयन् अपि मृतं सुतमुत्तरायाः सान्दीपनेश्चिरमृतं सुतमानयंश्च ।
धाम्नो निजाद् द्विजसुतान् पुनरानयन् वा स्वामेव तां तनुमहो! कथमानयस्त्वम् ॥ ५८ ॥

शरणागतिः

श्रीनिवासः - प्रस्तावः

इत्थं “अतिमानुषशील वृत्तिवेषैः" इत्य् उपक्रमानुगुणं

“आत्मानं मानुषं मन्ये
रामं दशरथात्मजम्”,

“अहं वो बान्धवो जातः”

इति मनुष्यत्व-भावनायाम् अपि
अतिमानुषं ज्ञानशक्त्यादि गुण-गणम् अनुभूय
प्रबन्धं परिसमापयितुकामश्
शरणागति-पूर्वकं स्वाभिमतं प्रार्थयते श्लोकत्रयेण ।

विश्वास-प्रस्तुतिः

अद्यापि नास्त्य् उपरतिस् त्रिविधापचारात्
पापः परे निपतितो ऽस्मि तमस्य् अपारे ।
एतादृशो ऽहम् अगतिर्, भवतो दयायाः
पात्रं, त्वदीय-चरणौ शरणं प्रपद्ये ॥ ५९ ॥

श्रीनिवासः

अद्यापीति । पापः पापिष्ठः अहं परे महति अतएव अपारे दुस्तरे तमस्यज्ञाने निपतितोऽस्मि । पाप इत्यनेन कर्मयोगाभाव उक्तः । तदभावा देव " कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते " इत्युक्त ज्ञानयोगाभावश्च तमसि निपतितोऽस्मीत्यनेनोक्तः । त्रिविधापचारात् भगवदपचार- भागवतापचारासह्यापचाररूपात् उपरति र्निवृत्तिः अद्याऽपि नाऽस्ति । ज्ञानकार्यत्वात् अपचारोपरते रितिभावः । भक्तियोगस्य तदुभय साध्यत्वात् तदभावश्च सिद्धः । एतादृशः अगतिः उपायान्तरशून्यः भवतो दयायाः पात्र महं त्वदीयचरणौ शरणं प्रपद्ये । यद्वा त्रिविधापचारात् उपरतिर्नाऽस्तीत्यनेन प्रातिकूल्यवर्जनाभावः उक्तः । पाप इत्यनेन आनुकूल्यसङ्कल्पाभाव उक्तः । तमसि निपतितोऽस्मीत्यनेन [[101]] महाविश्वासाभावः उक्तः । एतादृशः अगतिः अङ्ग सम्पत्तिरहितोऽहं भवतो दयायाः पात्रम् । अकिञ्चनानां कृपैव उत्तारिकेति भावः ॥ ५९ ॥

मूलम्

अद्यापि नास्त्युपरतिः त्रिविधापचारात् पापः परे निपतितोऽस्मि तमस्यपारे ।
एतादृशोऽहमगतिर्भवतो दयायाः पात्रं त्वदीयचरणौ शरणं प्रपद्ये ॥ ५९ ॥

श्रीनिवासः - प्रस्तावः

उक्तमेव विवृणोति -

विश्वास-प्रस्तुतिः

विस्रम्भणं त्वयि यद्य् अपि मेऽस्ति, नापि
श्रद्धा (गत-श्लोक-)यथोक्त-वचनार्थ-गता तथाऽपि ।
वाचं त्व् इमां सकृद् अथाप्य् (वा) असकृन् मयोक्तां
सत्यां (→मनः-पूर्विकां) कुरुष्व दययैव दयैक-सिन्धो ॥ ६० ॥

श्रीनिवासः

विस्रम्भणमिति । हे दयैकसिन्धो, यद्यपि त्वयि विस्रम्भणं रक्षिष्यतीति विश्वासो नास्ति ।
यथोक्तवचनार्थगता

“एतादृशोऽहम् अगतिर् भवतो दयायाः
पात्रं त्वदीयचरणौ शरणं प्रपद्ये”

इत्युक्तवाक्यार्थगता श्रद्धा विश्वासत्वराऽपि नास्ति । उक्ति रनुष्ठानपर्यवसायिनी न भवतीति यावत् । तथाऽपि सकृदुक्ताम् इमां वाचम्, अथाऽपि असकृदुक्तां निरन्तरमुच्चारितां वा, सत्यां करणत्रयेणाप्यनुष्ठितां मनः पूर्विकां वा दययैव कुरुष्व । एव कारेण दयैव साङ्गं साधनम् इति भावः ॥ ६० ॥

मूलम्

विस्रम्भणं त्वयि न यद्यपि मेऽस्ति नापि श्रद्धा यथोक्तवचनार्थगता तथाऽपि ।
वाचं त्विमां सकृदथाप्यसकृन्मयोक्तां सत्यां कुरुष्व दययैव दयैकसिन्धो ॥ ६० ॥

विश्वास-प्रस्तुतिः

पापीयसोऽपि शरणागति-शब्द-भाजो
नोपेक्षणं मम तवोचितम् ईश्वरस्य ।
त्वज्-ज्ञान-शक्ति-करुणासु सतीषु नेह
पापं पराक्रमितुम् अर्हति मामकीनम् ॥ ६१ ॥

श्रीनिवासः

पापीयस इति । हे दयैकसिन्धों, पापीयसोऽपि अत्यन्तपापिनोऽपि शरणागति शब्दभाजः “त्वदीयचरणौ शरणं प्रपद्ये" इत्युक्तिमात्रं प्राप्तस्य मम उपेक्षणं उपेक्षा ईश्वरस्य शक्तिमतः तव नोचितम् । अस्तु वा, शरणागत इत्युक्तिरेव फलसाधनं, प्रतिबन्धकपापोपशमनं तु त्वदनुष्ठित [[102]] प्रायश्चित्तसाध्यम् इत्यत आह-त्वदिति । त्वज्ज्ञानशक्तिकरुणासु सतीषु विद्यमानासु मामकीनं पापं पराक्रमितुं प्रतिबन्धकीभवितुं नार्हति न क्षमते । यथातथावाऽपि शरणागत इत्युक्तिमतां प्रतिबन्धकपाप निरसनद्वारा भवच्चरणारविन्द निरन्तरदास्य प्रदान दीक्षितासु त्वज्ज्ञानशक्ति रुणासु सतीषु मदीयं पापं फलप्रतिबन्धनाय नाऽलम् इति, भवताऽहम् अवश्यं रक्षणीय इति भावः ।

त्वज्ज्ञानशक्तिकरुणास्वित्यत्र दयायाः पात्रं दययैवेति
प्रकरणानुगुण्येन दयायाः प्रधान-साधनत्वं
ज्ञानशक्त्योस्तदङ्गत्वम् इति सम्प्रदायः ॥ ६१ ॥

पञ्चस्तवव्याख्यायां अतिमानुषस्तवव्याख्या परिसमाप्ता ||पञ्चस्तवे

मूलम्

पापीयसोऽपि शरणागतिशब्दभाजो नोपेक्षणं मम तवोचितमीश्वरस्य ।
त्वज्ज्ञानशक्तिकरुणासु सतीषु नेह पापं पराक्रमितुमर्हति मामकीनम् ॥ ६१ ॥