०४ वरदराजस्तवः

रिङ्खातो व्रजसदनाङ्गणेषु किन्ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् । आलम्बा द्धयनयसूत्रतोत्रयोर्वा पाणीनां वरद, तवारुणत्व मासीत् ।। ४६ ।। रिङ्खात इति । हे वरद, व्रजसदनाङ्गणेषु नन्दगोपव्रजे यानि सदनानि गृहाणि तेषा मङ्गणेषु अजिरेषु गोपगृहप्रान्तप्रदेशे ष्वित्यर्थः । रिङ्खातः जानुभ्यां पाणिभ्याञ्च भूमि मवलम्ब्य चङ्क्रमणात् किम् ? गोपगोष्ट्यां गोपालपरिषदि गोयष्टिग्रहणवशात् गोरक्षणसाधन दण्डग्रहणसञ्जात-

  1. डुभृञ् धारणापोषणयोरित्युचितम् । 2. नीला इति भाव्यम् । [[206]]

विमर्दात् किम् ? हयनयसूत्रतोत्रयोः नयः नयनम्, अर्जुनसारथ्यकालीन हयप्रचारसाधनसूत्रतोत्रयोः, शीघ्रगमनकाले आकृष्य स्तम्भनार्थं हयग्रीवाबद्धं सूत्रम्, गमनकाले प्रेरणार्थयष्टि स्तोत्रं, तयो रालम्बनात् ग्रहणा द्वा तव पाणीना मरुणत्व मासीत् । पाणीना मति सुकुमारत्व मवलम्ब्य सहजेऽप्यरुणत्वे हेतव उत्प्रेक्ष्यन्ते ॥ ४६ ॥ सर्वज्ञा स्समुचितशक्तय स्सदैव त्वत्सेवानियमजुष स्त्वदेकभोगाः । हेतीना मधिपतय स्सदा किमेतान् शोभार्थं वरद, बिभर्षि हर्षतो वा ॥ ४७ ॥ सर्वज्ञा इति । हे वरद, हेतीना मधिपतयः सुदर्शनादयः सर्वज्ञाः भवद्भावज्ञा इत्यर्थः । समुचितशक्त्यः हस्तेनोद्धृत्य प्रयोगाभावेऽपि शत्रुविजयसमर्था इत्यर्थः । सदैव, त्वदेकभोगाः विश्लेषासहिष्णव इत्यर्थः । अत एव त्वत्सेवानियमजुषः नियमेन त्वत्सेवाभाजश्च, एता नुक्तविशेषण चतुष्टयविशिष्टान् सुदर्शनपाञ्चजन्य शार्ङ्गकौमोदकीनन्दकान् सदा शोभार्थं बिभर्षि किं भूषणत्वेन वा दधासि ? हर्षतो वा सर्वज्ञत्वादिवैशिष्ट्यजनित हर्ष प्रकर्षाद्वा बिभर्षि ? आयुधतया धारणस्य वृथाऽऽयासत्त्वात् भूषणकोटावन्तर्भाव इत्यभिप्रायः । अयमर्थः ’ स्फुरत्किरीटाङ्गदहार- कण्ठिका’ इत्यादि स्तोत्ररत्नश्लोकेऽप्यनुसंहितः ॥ ४७ ॥ किं धातु र्गगनविधानमातृकाऽभू- द्वक्ष स्ते वरद वरेण्य यत्र नाम । पद्माया मुख मथ कौस्तुभश्च जातौ चन्द्रार्क वुडुनिकरायते तु हारः ॥ ४८ ॥ किमिति । हे वरदवरेण्य वरदश्रेष्ठ वरदराजे त्यर्थः । यत्र वक्षसि पद्माया मुखं, कौस्तुभश्च चन्द्रार्कौ जातौ चन्द्रसूर्यौ भवत इत्यर्थः । हार स्तु " उड्डुनिकरायते उडुनिकरवदाचरति नक्षत्रसमूहसदृशो भवति । ते तव तद्वक्षः

[[207]] धातुश्चतुर्मुखस्य गगनविधाने आकाशनिर्माणे मातृका प्रकृति रभूत्किम् ? किं वक्षो वीक्ष्य गगनं निर्मितवानित्यर्थः । “नीलत्वाल्लक्ष्मीवदनकौस्तुभ- रत्नमुक्तावलीरूप चन्द्र सूर्य नक्षत्रविशिष्टत्वा नित्यत्वाच्च वक्ष एवा- ऽन्तरिक्षं विधातुं मातृकाऽभवदिति भावः ॥ ४८ ॥ अण्डानां त्वदुदर मामानन्ति सन्तः स्थानं तद्वरद कथं नु कार्श्यमस्य ।

माहात्म्यं स्वत इह येषु नून मेषा मृद्धिः स्यान्महिमकरी न हीतरेषाम् ॥ ४९ ॥ अण्डानाम् इति । हे वरद, सन्तः ब्रह्मविदः, त्वदुदरं अण्डानां स्थान मामनन्ति । प्रलयविशेषे कृत्स्नानि ब्रह्माण्डानि भवज्जठरनिष्ठानीति पराशरादयः स्मरन्ति इत्यर्थः । तत् तस्मा त्कारणात् अस्य त्वदुदरस्य कार्श्यं कृशत्वं कथं नु घटते इत्यर्थः । आक्षिप्तमर्थमर्थान्तरन्यासेन समाधत्ते - माहात्म्यम् इति । इह जगति येषु वस्तुषु माहात्म्यं महत्त्वं स्वतः स्वतस्सिद्धं भवति । येषांस्वतो माहात्म्यं तेषां ऋद्धिः महिमकरी स्यात्, इतरोषां न तथा । हि प्रसिद्धौ । क्षुद्राणां समृद्धिसद्भावेऽपि माहात्म्यं न दृष्टम् । अतो महापुरुषलक्षणतया उदरकार्श्यस्य स्वतस्सिद्धत्वादण्ड- समृद्धिरपि माहात्म्यावहा भवति, क्षुद्राणां तु न भवतीति भावः ।। ४९ ।। सौन्दर्यामृत रसवाहवेगजस्स्या- 1 दावर्त स्तव किल पद्मनाभ नाभिः । तत्पद्यं वरद, विभाति कान्तिमय्या लक्ष्म्या स्ते सकलवपुर्जुषो नु सद्य ॥ ५० ॥ सौन्दर्येति । है पद्मनाभ, पद्मं नाभौ यस्य सः पद्मनाभः । तव नाभिः । सौन्दर्यम् एव अमृतरसवाहः । तस्य वेगेन जायत इति तथोक्तः आवर्तः स्यात् । “स्यादावर्तोऽम्भसां भ्रमः" इत्यमरः । तत् पद्मं नाभीपद्मं ते तव सकलवपुर्जुषः सर्वावयवभाजः कान्तिमय्याः कान्तिस्वरूपायाः लक्ष्म्याः [[208]]

श्रियः सद्म सदनं विभाति । अत्यन्तरस्यत्वा त्सौन्दर्यस्य अमृतत्वेन निरूपणम् । नाभे र्निम्नत्वाच्च लक्ष्म्याः तामरसवसतित्वा च्च नाभिपद्मस्य समग्रविग्रहशोभाभिधलक्ष्मीभवनत्वेन निरूपणू । पद्मनाभेति सम्बुद्धिरपि साभिप्राया ॥ ५० ॥ या दामोदर इति नामदा तवाऽऽसी- त्सा दामा किल किणकारिणी बभूव । तन्नूनं वरद, वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१ ॥ यादामेति । हे वरद, या दामा “न पुंसि दाम" इत्यमरः । तव दामोदर इति नामदा आसीत् सा दामा किणकारिणी बभूव किल । “दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्ना दुलूखले" इति बन्धसाधनं बभूव । दामा उदरे यस्य सः दामोदर इति नामधेयं या दामा ददाति स्म, सैव विमर्देन किणं जनयामासेत्यर्थः । ‘तत्किणं वलित्रयच्छलेन मध्यप्रथमविभुषणी बभूव । च्विप्रत्ययान्तविभूषण शब्देन एकीभूतं क्रियापदम् । (शुष्को व्रण एव किण उच्यते । ) त्रिगुणीकृतदामविमर्दातिशयजनितं किणत्रयमेव वलित्रयत्वेन भवदीयमध्यप्रदेशं । प्राधान्येन परिष्करोतीत्यर्थः ॥ ५१ ॥ यादृग्बीजाध्युषितभुवि यद्वस्तु हस्तीश जातं तत्तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत् । यस्मा दण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन किल फल त्यण्डषण्डा नखण्डान् ।। ५२ ।। यादृगिति । हे पद्मानन, हस्तीश, यादृक् बीजाध्युषितभुवि । यज्जातीयबीजेनाध्युषितायां अधिष्ठितायां उप्तायां भुवि यद्वस्तु यत्सस्यं जातं तत्तादृक्षं तज्जातीयं फलं फलति, उत्पादयति हि इति यत् तत्त्वय्यपि

  1. स किणः इत्युचितम् ।

[[209]] ईक्षामहे विलोकयामः । उक्तमेव व्यक्तं प्रदर्शयति । यस्मात्कारणात् अण्डाध्युषिते तावके उदरे जायमानं पद्मं नाभीपद्मं अखण्डान् पूर्णान् अण्डषण्डान् ब्रह्माण्डसङ्घातान् फलति किल उत्पादयति ननु । तत स्त्वय्यपीक्षामहे इति पूर्वेणान्वयः । उदराज्जायमानम् इति प्रयोक्तव्ये उदरे इति सप्तमीप्रयोगः जन्माधिकरणत्वमात्रविवक्षया; “विवक्षातः कारकाणि भवन्ति" इत्यनुशासनात् ॥ ५२ ॥ अज्ञे यज्ञेश्वर किल जने क्वा यदर्थं विमर्श विश्वाधीशः कतम इति, तन्निर्णयं वर्णयामः । व्यावक्रोशी नृषु समुदिता या नुपाश्रित्य तेऽपि ब्रह्माद्या स्ते वरद जनिता स्तुन्दकन्दारविन्दे ।। ५३ ।। अज्ञे इति । हे यज्ञेश्वर ! “ये यजन्ति पितॄन् देवान् ब्राह्मणान् 1 सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते” इत्युक्तप्रकारेण सर्वकर्माराध्य, वरद, अज्ञे क्वाऽपि जने कस्मिंश्चिज्जने विश्वाधीशः सर्वेश्वरः कतम इति विमर्शं विचारं अदर्शं दृष्टवानस्मि । अनभिज्ञोऽहं सर्वेश्वरः को वेति विचारितवानस्मीत्यर्थः । तनिर्णयं विचारिततत्त्वनिश्चयं वर्णयामः उदाहरामः । निर्णयप्रकार माह - यान् ब्राद्यान् उपाश्रित्य आलम्ब्य नृषु मनुष्येषु व्यवक्रोशी परव्यत्यासेन व्याक्रोशनं समुदिता उत्पन्ना । “हिरण्यागर्भ स्समवर्तताऽग्रे भूतस्य जातः पतिरेक आसीत्", “यदा तम स्तन्न दिवा न रात्रि र्न सन्न चासच्छिव एव केवलः”, “इन्द्रो मायाभिः पुरुरूप ईयते" इत्यादिवाक्य मापातप्रतीत्या परामृश्य प्रत्येकं ब्रह्मरुद्रेन्द्राद्यवलम्बेन यः कोलाहलो जात इत्यर्थः ते ब्रह्मरुद्रेन्द्रा अपि ते तव तुन्दकन्दारविन्दे, तुन्दमुदरम् एव कन्दः मूलं यस्य तस्मि न्नरविन्दे जनिता उत्पन्नाः परत्वसंशायास्पदब्रह्मण स्त्वन्नाभिपद्मोद्भवत्वात् “ब्रह्मणः पुत्राय ज्येष्ठाय विरूपाक्षाय” इति छन्दोगोक्त प्रयोगेण ब्रह्मपुत्रत्वा द्रुद्रस्य, देवेन्द्रस्य ब्रह्मपुत्रकाश्यपप्रजापतिपुत्रत्वाच्च नारायण एव परतत्त्व मित्यज्ञानामस्माकमपि निर्णयो जात इत्यर्थः ॥ ५३ ॥ [[210]] मुष्णन् कृष्ण, प्रियनिजजनैर्जय्य, हैयङ्गवीनं दाम्ना भूम्ना वरद, हि यया त्वं यशोदाकराभ्याम् । बद्धो बन्धक्षपणकरणीं तां किलाऽद्यापि मातुः प्रेम्णा गात्राभरण मुदराबन्धनाख्यं बिभर्षि ।। ५४ ।। ,

मुष्णन्निति । वरद, प्रियनिजजनैः स्वकीयभक्तजनैः जय्य, जेतुं हे शक्य, भक्तपरतन्त्रेत्यर्थः। कृष्णः त्वं हैयङ्गवीनं, “तत्तु हैयङ्गवीनं यद्ध्यो गोदोहोद्भवं घृतम्” इत्यमरः । नवनीतविशेषं मुष्णन् अपहरन् यशोदाकराभ्यां यया दाम्ना करणेन, भूम्ना अतिशयेन बद्धः, “दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्ना दुलूखले " इति बद्धोऽभूः । बन्धक्षपणकरणीं ध्यायतां संसारसम्बन्धविनाशहेतुभूतां तां दामान मद्याऽपि वरदराजदशाया मपि मातुः प्रेम्णा हेतुना उदराबन्धनाख्यं उदराबन्धननामकं गात्राभरणं विभर्षि । नवनीतचौर्ये यशोदाया स्त्वद्बन्धनसाधनं दामैव प्रीतिहेतुरिति इदानीमप्युदराबन्धनत्वेन बिभर्षीत्यर्थः ॥ ५४ ॥ सौन्दर्याख्या सरि दुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वा द्विषमगतिजावर्तगर्ताभनाभिः । प्राप्य प्राप्तप्रथिमजघनं विस्तृता हस्तिनाथ, स्रोतोभेदं भजति भवतः पाददेशापदेशात् ।। ५५ ।। सौन्दर्येति । हे हस्तिनाथ, उरसि विस्तीर्य वक्षसि विस्तृता भूत्वा मध्येनाऽवरुद्धा निरुद्धा स्थानाल्पत्वाद्धेतोः विषमगतिजः यः आवर्तः गर्तः आवर्तरूपं पल्वलं, तस्य आभेव आभा यस्य स तथोक्तः नाभिर्यस्याः सा विषमगतिजावर्तगर्ताभनाभिः नदीनां स्थानाल्पत्वप्रयुक्ता प्रवाहाभिमुख विषमगति र्यदा जायते तदानी मावर्तो भवति । सौन्दर्यसरितो मध्यनिरोधात् नाभीरूपावर्तो जात इति पर्यवसितोऽर्थः । प्राप्तः प्रथिमा पृथुत्वं येन तज्जघनं प्राप्य विस्तृता सौन्दर्यख्या सरित् भवतः पाददेशापदेशात् पादप्रदेशव्याजात् स्रोतोभेदं भजति भिन्नस्रोता भवतीत्यर्थः ॥ ५५ ॥

रम्भास्तम्भाः करिवरकराः कारभा स्सारभाजो वेषाश्लेषा अपि मरतकस्तम्भमुख्या स्तुलाख्याः । साम्यं सम्यग्वरद, न दधु स्सर्व मुर्वी स्तदूर्वो

र्न यैश्वर्यं दधति न तथा यौवनारम्भजृम्भात् ।। ५६ । [[211]] रम्भेति । हे वरद, सारभाजः प्राशस्त्ययुक्ताः तुला उपमेति आख्या येषां ते तथोक्ताः, उपमानतया प्रसिद्धा इति यावत् । रम्भास्तम्भाः कदलीकाण्डाः करिवरकराः हस्तिश्रेष्ठशुण्डाः, कारभाः करभसम्बन्धिनः वेषाश्लेषाः आकारपरिणामाः मरतकस्तम्भमुख्याः मरतकरत्नमयस्तम्भ- प्रभृतयश्च उर्वोः पीनयोः त्वदूर्वोः सम्यक् समीचीनं सर्वं साम्यं न दधु रित्यन्वयः । तुलााख्या इत्यस्य तुलां ख्यान्ति कथयन्तीति वाऽर्थः । ख्या प्रकथने इति धातुः ’ ॥ ५६॥ या ते गात्रे वरद जनिता कान्तिमय्यापगाऽभू- तस्यास्स्रोतोयुगल मिह यद्याति पादप्रवादम् । तज्जातोर्ध्व भ्रमियुगम् इवोद्भानुनी जानुनी ते स्या दुक्ष्णो र्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥ ५७ ॥ या ते इति । हे वरद, ते गात्रे कान्तिमयी या आपगा नदी अभूत् । इह गात्रे पादप्रवादं चरणद्वयव्यपदेशविशिष्टं, तस्याः यत्स्रोतोयुगलं याति प्रवहति उद्भानुनी उद्गच्छच्छविनी ते जानुनी तज्जातोर्ध्व भ्रमियुगम् इव पादप्रवाद स्रोतोयुगलजात मूर्ध्वाकारं भ्रमियुगमिव भातः । ऊर्ध्वभ्रमिः बुद्बुदविशेषः। यौवनैश्वर्यनाम्नोः यौवनसौन्दर्याभिधयोः उक्ष्णोः वृषभयोः ककुदयुगलं वा स्यात्, “वृषाङ्गे ककुदोऽस्त्रियाम्” इत्यमरः ॥ ५७ ॥ प्रेम्णा ssप्रातुं करिगिरिशिरोऽधोमुखीभाव भाजो - रङ्घ्रिद्वन्द्वाह्वयकमलयो र्दण्डकाण्डायमाने ।

  1. अत्र ग्रन्थपात इव भाति । [[212]] अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षा - द्रष्ट दृष्टि र्वरद, किमलं लङ्घितुं जङ्घि ते ॥ ५८ ॥

प्रेम्णेति । हे वरद, द्रष्टु र्दुष्टिः अनुभवतिः पुरुषस्य चक्षुः प्रेम्णा भोग्यतातिशय प्रयुक्तप्रीत्या करिगिरिशिरः आघ्रातुं अधोमुखीभावं अधोमुखत्वं भजत इति तथोक्तयोः अङ्घ्रिद्वन्द्वाह्वयक मलयोः पादद्वन्द्वाभिधारविन्दयोः दण्डकाण्डायमाने नालकाण्डव दाचरन्त्यौ अद्रिस्पर्शोद्भवसुखतः हेतोः, जाता दिति शेषः । रोमहर्षात् रोमाञ्चात् उत्कण्टके उत्कटकण्टके, कमलनालस्याऽपि सकण्टकत्वा दिति भावः । जङ्घिके जङ्घे लङ्घितुं अतिक्रम्य गन्तुं अलं किम्, समर्थ किम्, न समर्थेत्यर्थः । जङ्घासौन्दर्यमेव यावत्काल मनुभवायाऽलम् इति भावः ॥ ५८ ॥ भक्तानां यद्वपुषि दहरं पण्डितं पुण्डरीकं 1 यच्चाम्लानं वरद, सतताध्यासनादासनाब्जम् । आम्नायानां यदपि च शिरो यश्च मूर्धा शठारे

ईस्त्यदेर्वा किमतिसुखदं तेषु पादाब्जयो स्ते ॥ ५९ ॥ भक्तानामिति । हे वरद, भक्तानां वपुषि पण्डितं ज्ञानविकासवत् दहरं दहराख्यं, “दहं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्य संस्थम्, तत्राऽपि दहं गगनं विशोक स्तस्मि न्यदन्त स्तदुपासितव्यम्” इति श्रुत्या ‘सकलकल्याणगुणाकरदहराकाशाख्य परमपुरुष नित्यनिवासस्थानतया श्रुतम्, पुरशब्दवाच्ययोगिशरीरनिष्ठं विपाप्मशब्दाक्षिप्त ज्ञानविकासवत् यत्पुण्डरीक"म् इत्यर्थः । सतताध्यासना दपि अम्लानं म्लानिप्रसङ्गरहितं सत् आसनाब्जञ्च परमपदे भवत्पादपीठतया भगवच्छास्त्रादि प्रतिपादितं, विमलाद्यष्टशक्त्यधिष्ठितदलाष्टकं सकर्णिकं विकासोन्मुख मासनपद्मञ्च, यदपि चाऽऽम्नायानां शिरः वेदान्तः, “सर्वे वेदा यत्पद मामनन्ति” । अपि चेत्येकं समुच्चयवाचकम् । यश्च शठारे र्मूर्धा शठकोपमुनेः पादुकात्मना नित्यं भगवत्पादवहना दिति भावः । यः हस्त्यद्रेः मूर्धा शिखर [[213]] ञ्च तेषु उक्तेषु तेषु पञ्चसु ते तव पादाब्जयोः किं वाऽति सुखदम् ? हस्तिगिरिशिखरमे वाऽतिसुखदमिति भावः, अत्रैव यथा मनोरथं सकलसमाश्रयणसौकर्य सकलफलप्रदत्वसम्भवात् ॥ ५९ ॥ पद्या स्वद्याऽङ्गुलिषु वरद, प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभव मुभयी ष्वम्भसो लम्भितासु । विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लम्भित श्शुम्भित स्सन् ।। ६० ॥ पद्यास्विति । हे वरद, अद्य कान्तिसिन्धोः कान्ति समुद्रस्य अम्भसः प्रान्ततः पर्यन्तप्रदेशे वीचीवीथीविभवं तरङ्गपङ्क्तिसम्पदं लम्भितासु प्रापितासु, कर्तरि क्तः । पद्यासु पदसम्बन्धिनीषु, “शरीरावयवाद्यत्” इति यत्प्रत्ययः । उभयीषु उभयविधासु अङ्गुलिषु प्रतिफलनजां सम्पदं समृद्धिं विन्दन् भजन्, अत एव छायाच्छद्मा प्रति च्छायाव्याजः इन्दुः नखविततितां अङ्घ्रिनखपङ्कितां लम्भितः प्रापित स्सन् ते तव पदं शुम्भितः शोभितवान् किम् ? शुभशुम्भ शोभार्थे इति धातुः । दिव्यविग्रहलावण्यार्ण- वोर्मिपङ्क्ति सुन्दरपदाङ्गुलिषु बहुप्रतिफलनव्याजेन नखपङ्कित्वं प्राप्तः चन्द्रः किं पादारविन्दयुगं शोभय तीत्यर्थः । शुम्भित इत्यन्तर्भावितणिच्प्रत्ययान्तः । यद्वा, पदं नखविततितां लम्भितः पदयोःः नखविततितां प्राप्त इत्यर्थः । शुम्भितः शुशुभे इत्यर्थः । अथवा, प्राप्येत्यध्याहार्यम् । पदं प्राप्य शुम्भित इत्यन्वयः ।। ६० ।। उक्तमेवाऽर्थं विवृणोति शम्भो रम्भोरुहमुख सखा सन् सहाङ्कश्शशाङ्कः कुर्वन् सेवां वरद विकलो वृत्तहीन स्सुवक्रः । त्वत्पादाब्जे प्रियमख, नखच्छद्मनाऽऽश्रित्य नित्यं सद्वृत्तोऽभूत्स च दशगुणः पुष्कलो निष्कलङ्कः ।। ६१ । [[214]]

शम्भो रिति । हे अम्भोरुहमुख पद्मसदृशानन, प्रियमख, प्रियः इष्टो मखो यज्ञो यस्य सः तथोक्त, वरद, शशाङ्कश्चन्द्रः शम्भो स्सखा सन् सोमदिक्सामीप्या दीशानदिश इति भावः । सेवां कुर्वंश्च सन् शिरोभूषणत्वेनेति भावः । सहाङ्कः कलङ्कसहितः अन्यत्र पापसहितः विकलः विगतकलः क्षयिष्णुः अन्यत्र विद्याहीनः, अत एव वृत्तहीनः वर्तुलतारहितः, अन्यत्र चाऽऽचाररहितः, अत एव सुवक्रः वक्राकारः अन्यत्र कुटिलचित्तश्च, अभूदिति शेषः । स चन्द्रः नखच्छद्मना नखव्याजेन त्वत्पादाब्जे आश्रित्य तु निष्कलङ्कः, नित्यं पुष्कलः पूर्णः सद्वृत्तः तु दशगुणश्चाभूत् । नूनं देवतान्तरसेवाऽपकर्षकरी, भवत्सेवा उत्कर्षकरीति भावः ॥ ६१ ॥ त्वत्पादाब्जे प्रजाता सुरसरि दभव त्प्राक्चतुर्धा तत स्ता- स्वेकां धत्ते ध्रुवस्सा त्रिभुवन मपुना स्त्रीन् पथो भावयन्ती । तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुन स्सप्तधाऽभू- त्तास्वेका गां पुनाना वरद, सगरज स्वर्गसर्गं चकार ।। ६२ ।। त्वदिति । हे वरद, प्राक् त्रिविक्रमावतारकाले त्वत्पादाब्जे प्रजाता उत्पन्ना सुरसरित् गङ्गा चतुर्धा चतुष्प्रकारेणाऽभवत् । ततः तदनन्तरं तासु चतसृषु एकां ध्रुवः धत्ते, सा ध्रुवधृता त्रीन् पथः मार्गान् भावयन्ती प्रापयन्ती सती त्रिभुवनं स्वर्गान्तरिक्षपातालरूपं त्रिभुवनं अपुनात् पुनाति स्म । तत्र त्रिपथगा अन्तरिक्षं व्रजन्ती गच्छन्ती एका शिवं शिवयति मङ्गलं करोति । सा शिवधृता गङ्गा पुन स्सप्तधाऽभूत्, सप्तप्रकाराऽऽसीत्, तासु सप्तसु गां भूमिं पुनाना पवित्रयन्ती एका सगरजानां सगरात्मजानां स्वर्गस्य सर्गं सृष्टिं चकार, स्वर्गं ददा वित्यर्थः । “वामपादाम्बुजाङ्गुष्ठनखस्रोतोविनिर्गता । विष्णो बिभर्ति यां भक्त्या शिरसाऽहर्निशं ध्रुवः" इत्यारभ्य, “मेरुपृष्ठे पतित्वोच्चैन्निष्क्रान्ता शशिमण्डलात् । त्रिजगत्पावनार्थाय सा प्रयाति चतुर्दिशम् | सीता चालकनन्दा च क्षुर्भद्रा च वै क्रमात् । सैव याति

[[215]] चतुर्भेदात् दिग्भेदकृतलक्षणा । भेद ञ्चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् । दधार शिरसा प्रीत्या वर्षाणा मधिकं शतम्” इति श्रीविष्णुपुराणवचनानि, “विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे । हादिनी पद्मिनी चैव नलिनी च तथैव तु । तिस्रः प्राचीं दिशं जग्मुः गङ्गाश्शिवजला श्शुभाः । सु चक्षुश्चैव सीता च सिन्धु चैव महानदी । तिस्र स्त्वेता दिशं जग्मुः प्रतीचीश्च शिवोदकाः । सप्तमी चाऽन्वगात्तासां भगीरथ मथो नृपम् " इत्यादिश्रीरामायणवचनानि चाऽनुसन्धेयानि । पूर्वं त्रिविक्रिमेण भगवता सत्यलोकपर्यन्तं एकस्मिन्पादारविन्देऽभ्युच्छ्रिते सति चतुर्मुखेन स्वकमण्डलुजले धर्मतत्त्व मावाह्य पादारविन्दप्रक्षालने कृते तदुदकं, गङ्गा विष्णुपदी सुरसरिदित्यादिसामान्यनामधेये सत्यपि सीता, अलकनन्दा, चक्षुर्भद्रा इत्याद्यवान्तरसंज्ञाभेदं प्राप्य मेरोः प्राच्यादिषु दिक्षु प्रवहति स्म । दक्षिणदिक्प्रसृता अलकनन्दा ध्रुवमण्डल माप्लावयन्ती सती त्रिधा भूत्वा स्वर्गान्तरिक्षपातालेषु गता । अन्तरिक्षगता तु भगीरथप्रार्थनया शिवशिरसो बिन्दुसरसि पततिस्म इत्यादिकमत्र संक्षिप्तम् ॥ ६२ ॥ इत्थं मन्त्ररत्नपूर्वखण्डस्थनारायणशब्दार्थत्वेन विग्रहवैशिष्ट्यं विस्तरेण प्रतिपाद्य विभवावतारान् प्रस्तोतुकामः प्रतिपादितानां प्रतिपादयिष्यमाणानाञ्च सर्वेषा माश्रितार्थता माह- परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादय स्ते । परमपद मथाण्डा न्यात्मदेह स्तथाऽऽत्मा वरद, सकल मेतत्संश्रितार्थं चकर्थ ।। ६३ ।। परिजनेति । हे वरद, ते परिजनाः शेषशेषाशनादयः, परिबर्हाः परिच्छदाः छत्रचामरादयः, परिजनाश्च परिबर्हाश्चेति द्वन्द्वः । भूषणानि किरीटकुण्डलादीनि, आयुधानि सुदर्शन पाञ्चजन्यादीनि, ज्ञानशक्त्यादयः [[216]]

प्रवरगुणगणाश्च परमपदं श्रीवैकुण्ठलोकः अथ अण्डानि चतुर्दश भुवनावरणसप्तकादिविशिष्टानि ब्रह्माण्डानि आत्मदेहः स्वासाधारण विग्रहः तथा आत्मा - “सत्यं ज्ञान मनन्तं ब्रह्म” “आनन्दो ब्रह्म” ‘अन्तः प्रविष्ट श्शास्ता जनानां सर्वात्मा", “एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः” इत्याद्युक्तलक्षणस्वरूपः स्वयञ्च एतत्सकलं, “ नपुंसक मनपुंसकेनैकवच्चास्यान्यतरस्याम्" इत्येक- वद्भावात् एकवचनम् । संश्रितार्थं स्वचरणनलिनसमाश्रितजनशेषभूतं चकर्थ कृतवा नसि । समाश्रयणदशा मारभ्याऽनुभवदशापर्यन्तं भक्तजनोपयुक्तं चकर्थे त्यर्थः ॥ ६३ ॥ । इत्थं सामान्यतो भगवतः परिजनादिपरिग्रहस्य समाश्रितजनोपयुक्तता मुक्त्वा विभवावतारे वैशिष्ट्य मष्टभिः श्लोकैरभिष्टैति - अनाप्तं ह्याप्तव्यं न तव किल किञ्चिद्वरद ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् । तथाऽपि क्षोदीय स्सुरनरकुले ष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां चाऽवतरसि ॥ ६४ ॥ अनाप्तम् इति । हे वरद, हि यस्मात्कारणात्, हि यद्यपीति वाऽर्थः । तव अनाप्तं पूर्व मलब्धं, आप्तव्य मितः परं लब्धव्यम् किञ्चित् किमपि श्रेयो न किल । जगत्सृष्टिसंहारकर्तृत्वावाप्त्यर्थं अवतारो भवतीत्यत्राऽऽह- जगदिति । जगज्जन्मस्थेमप्रलयविधयः जगतां सृष्टिस्थितिसंहाररचनाः धीविलसितं ‘बहु स्याम्’ इति सङ्कल्पविलासः, सर्गादिरचना स्सङ्कल्पमात्रकल्प्या इत्यर्थः । तथापि जगज्जन्मादीना मपि सङ्कल्पकल्प्यत्वेन अवाप्तसमस्तकामत्वे सत्यपि आश्रितजनान् समाश्लेष्टं समालिङ्गितुं स्वदर्शनस्पर्श नसपर्याद्यलाभे शरीरधारणाक्षमाणां साक्षात्कारादिदानायेत्यर्थः । तदसुखकृतां आश्रितजनदुःखकारिणां पेष्टुं हिंसितुञ्च, “जासि निप्रहणनाटक्राथपिषां हिंसायाम्” इति कर्मणि षष्ठी ।

[[217]] 77 साधुपरित्राणदुष्कृ द्विनाशने एवावतारप्रयोजनम् इत्यर्थः । यद्यपि “परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय …… इत्यादि श्लोके धर्मसंस्थापन मपि प्रयोजनतयाऽनुसंहितम्, तथाऽपि धर्म संस्थापनं साधुपरित्राणान्तर्भूत मित्यभिप्रायः । क्षोदीयसा मतिक्षुद्राणां सुरनराणां कुलेषु अवतरसि । विभवावतारो भक्ताना मत्यन्त मुपयुक्त इति भावः ॥ ६४ ॥ ‘क्षोदीय स्सुरनरकुलेष्ववतरसी’ त्युक्तं सौशील्यमेवाऽनुसन्धत्ते - विवेकधिय मेकतो ह्यभिनिवेशलेशो हरे- महत्त्वभिनिवेशनं किमुत तन्महिम्नस्तव । अहो विसदृशे जगत्यवततर्थ पार्थादिकं निजं जन मुदञ्चयन् वरद, तं समाश्लेषकः ।। ६५ ।। विवेकधियमिति । हे वरद ! एकतः एकस्मिन् वस्तुनि । सार्वविभक्तिक स्तसिः । अभिनिवेशलेशः इद मवश्यं मया लब्धं भूयादित्यभिलाषप्रयुक्तप्रवृत्त्येकदेशोऽभिनिवेशलेशः, प्रेमान्ध्यं वा विवेकधियं विवेकरूपज्ञानं, इद मनुष्ठेय मिदननुष्ठेयम् इति विविच्य परिज्ञानं हरेत् । यस्मिन् कस्मिंश्चिदपि वस्तुनि रागपरिग्रहप्रयुक्त आग्रहो विवेक मपहरे दित्यर्थः । मह दभिनिवेशनम् अभिनिवेश स्तु किमुत, विवेकधियमपहरे दिति किमु वक्तव्यम्, अपहरे देवेत्यर्थः । तत् तस्मात्कारणात् तव महिम्नः माहात्म्यस्य विसदृशे अननुरूपे जगति “तद्विष्णोः परमं पदम् सदा पश्यन्ति सूरयः - दिवीव चक्षुराततं तद्विप्रासो विपन्यवो जागृवांस स्समिन्धते विष्णो र्यत्परमं पदम् ”, “तेह नाकं महिमान स्सचन्ते यत्र पूर्वे साध्या स्सन्ति देवाः”, “वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णु रचिन्त्यात्मा भक्तै र्भागवतै स्सह इत्याद्युक्त नित्यमुक्त नित्यसेवनीय श्रीवैकुण्ठापेक्षया सर्वात्मना निकृष्ठेऽस्मिन्विषये इत्यर्थः । पार्थादिकं अर्जुनप्रभृतिं आदिशब्देन [[218]]

अक्रूरमालाकार विदुरादयो गृह्यन्ते । जनं निज मुदञ्चयन् स्वकीयतया सम्भावयन् “अहं वो बान्धवो जातः” इत्युक्तप्रकारेणेति भावः । तं जनं समाश्लेषकः सम्यगाश्लिष्टं कुर्वन् नित्यपरिजनं कुर्वन् सन्नित्यर्थः । अवततर्थ- अवपूर्वात्तरतेः लिण्मध्यमैकवचनम् । अवतारं चकर्थे त्यर्थः । महतो मन्दैस्सह नीरन्ध्रेण संश्लेषः सौशील्य मित्युक्तसौशील्यहेतुकोऽवतार इति पर्यवसितम् । अहो ! ईदृशसौशील्य मत्याश्चर्यकरम् इति भावः ॥ ६५ ॥ उक्तं सौशील्य मनाश्रितेष्वपि तुल्य मित्याह - संश्लेषे भजतां त्वरा परवशः कालेन संशोध्य ता - नानीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत। अक्षाम्यन् क्षमिणां वरो वरद सन्नत्राऽवतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥ ६६ ॥ 77 संश्लेषे इति । हे वरद, क्षमिणां क्षमावतां वरः श्रेष्ठः असह्यापराधसह इत्यर्थः । भजतां भक्तिमतां संश्लेषविषये त्वरापरवशः त्वरापरतन्त्रः अतित्वरावान् त्वं तान् भक्तान् कालेन क्रमेण संशोध्य - “ एष एव साधुकर्म कारयति तं, य मेभ्यो लोकेभ्य उन्निनीषति”, “तेषाम् एवाऽनुकम्पार्थ मह मज्ञानजं तमः । नाशया म्यात्मभावस्था ज्ञानदीपेन भास्वता’ इत्युक्तप्रकारेण कर्मज्ञानाभ्यां परिशुद्धान् कृत्वा, संशोध्येत्यनेन “जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः, नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते" इत्युक्त भक्त्युत्पादन मप्यर्थसिद्धम् । अतो भजता मित्यत्र भक्तिः प्रीतिमात्रपरेति मन्तव्यम् । स्वपदे आनीय “वैकुण्ठे तु परे लोके" इत्युक्ते स्वासाधारणे स्थाने आतिवाहिकमुखेन आनीय स्व सङ्गमकृतं भक्तानां स्वकीयसंश्लेषविषये विहितं कालेन संशोध्य, स्वपादानयनरूपं विलम्बं कालक्षेपं अक्षाम्यन् असहमानस्सन्, अत्र लीलाविभूत्यां अवतीर्णो भवेः, कृतावतारो भूयाः । स्वयम् एवाऽवतरणं भक्तजनसंश्लेषत्वरापरवशस्य तवोचितम् इति भावः । असंश्रितेषु अभक्तेषु विषये वेष माकारं दिव्यविग्रहं

[[219]] वितरन् अनुभवयोग्यं कुर्वन् सन्नित्यर्थः । तां स्तुतानपि वृणीषे स्वीकरोषि, इदं किं नाम ? निरङ्कुशस्वभावस्वातन्त्र्यवतो भवतः अनाश्रित- शिशुपालादि विषयसौशील्य मपरिदृश्यमानातिशय मित्याशयः ॥ ६६ ॥ अवताराकरणे श्रुतिप्रतिपादितोपासनादि सम्भावनाऽपि न सम्भव तीत्याह - वरद, यदि न भुव्यवातरिष्य- श्रुतिविहिता स्त्वदुपासनार्चनाद्याः । करणपथविदूरगे सति त्व - य्यविषयतानिकृताः किलाऽभविष्यन् ।। ६७ ।। वरदेति । हे वरद, भुवि नावातरिष्यो यदि अवतारं नाऽकरिष्यश्चेत्, त्वयि परव्यूहाकारे भवति, करणपथस्य इन्द्रियमार्गस्य विदूरगे अत्यन्तदूरभाजि सति अप्रत्यक्षे सतीत्यर्थः । श्रुतिविहिताः त्वदुपासनार्चनाद्याः, आद्यशब्देन प्रदक्षिणनमस्कारादयो गृह्यन्ते । अविषयतानिकृता अभविष्यन् । “निकृत स्त्वनृजुश्शठः” इत्यमरः । निर्विषयकतया अयथार्थाः स्यु रित्यर्थः ॥ ६७ ॥ स्वविषयकापराधसहोऽपि स्वाश्रितविषयकापराध मसहमान एवाऽवतरसीत्याह

यदपराधसहस्रमजस्रज त्वयि शरण्य हिरण्य उपावहत् । वरद तेन चिरं त्व मविक्रियो विकृति मर्भकनिर्भजना दगाः ।। ६८ ।। यदिति । हे शरण्य, वरद, हिरण्यः त्वयि विषये अजस्रजं सार्व कालिकं यदपराधसहस्रं उपावहत् अकरोत् तेन अपराधसहस्रेण चिरं अविक्रियः निर्विकारः मनः कालुष्यरहितः त्वम् अर्भकनिर्भजनात् 17 [[220]]

शैशवावस्थप्रह्लादनिराकरणात् विकृतिं मनोविकारमगाः अभजः । तादृशवैभव माश्रितवात्सल्यं भवत इति भावः ॥ ६८ ॥ इदानीं दाशरथे र्निर्हेतुककृपा मनुसन्धत्ते - त्वा मामनन्ति कवयः करुणामृताब्धे ज्ञानक्रिया भजनलभ्य मलभ्य मन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्व मभजन्त हि जन्तवस्त्वाम् ।। ६९ ।। त्वामिति । हे करुणामृताब्धे कारुण्यदुग्धाब्दे, वरद, कवयः अप्रत्यक्षतत्त्वार्थ साक्षात्कारक्षमाः पराशरपाराशर्यादयः प्रबन्धारः त्वां ज्ञानक्रियाभजनलभ्यं ज्ञानयोगकर्मयोगभक्तियोगैः प्राप्यं “कर्मणैव हि संसिद्धि मास्थिता जनकादयः” । “वर्णाश्रमाचारवता पुरुषेण परः पुमान् विष्णुराराध्यते पन्था नाऽन्य स्तत्तोषकारकः” । “भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्ति मृच्छति”। “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मा मुपयान्ति ते" इति कर्मयोग ज्ञानयोगयो रपि स्वतन्त्रोपायत्व मस्त्येव । अतः परस्पर मङ्गाङ्गिभावः त्रयाणा मपि साधारण इति भावः । अन्यै रुपायान्तरैः अलभ्य मप्राप्यञ्च आमनन्ति । पूर्व मुत्तरकोसलस्थाः जन्तवः जीवात्मानः एतेषु ज्ञानक्रियाभजनेषु मध्ये केन वा उपायेन सदूर्वं दूर्वया सहितं यथा तथा त्वां अभजन्त प्रापुः । तृणादीना मप्यन्तस्संज्ञत्वा ज्जन्तुशब्दवाच्यत्व मस्तीति मन्तव्यम् । अननुष्ठितज्ञानयोगादीना मपि भवत्प्राप्ति र्निर्हेतुक- कृपाहेतुका, प्रपदनमुखभेदस्य स्वविषयवासस्य सदृशसाधनत्वाभावादिति भावः ।। ६९ ।। 1 सम्प्रतिपन्नं कृष्णावतारसौलभ्यमनुसन्धत्ते - भजत्सु वात्सल्य वशा त्समुत्सुकः प्रकाम मंत्रावतरे र्वरप्रद ।

भवेश्च तेषां सुलभोऽथ किन्विदं यदङ्ग, दाम्ना नियतः पुराऽरुदः ॥ ७० ॥ । [[221]] 7 भजत्स्विति । अङ्ग, वरप्रद, त्वं भजत्सु सेवमानेषु विषये वात्सल्यवशात् दोषे भोग्यतााहेतुस्नेहविशेषबलात्प्रकामं समुत्सुक स्सन् सोत्कण्ठ स्सन् संश्लेषेच्छु स्सन् इत्यर्थः । अत्र जगति अवतरेः अवतारं कुर्याः । तेषां भजतां सुलभो भवेश्च, वात्सल्यकार्यत्वा त्सौलभ्यस्येति भावः । अथ शब्दः प्रश्नार्थकः । “मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ’ इत्यमरः । पृच्छामीत्यर्थःः। पुरा दाम्ना रज्ज्वा नियतः बद्धस्सन् अरुदः रोदन मकरोः इति यत्, इदं किन्नु रोदनं किं सौलभ्यम् इति प्रश्नाभिप्रायः । परिहारस्तु सौलभ्यफल भूतत्वा दाम्ना बन्धनस्य तन्निबन्धनरोदन मपि तत्काष्ठैवैति भावः ॥ ७० ॥ “नृसिंहरामकृष्णेषु षाड्गुण्यं परिपूरितम्" इत्युक्तप्रकारेण सर्वावतार श्रेष्ठेऽवतारत्रयेऽपि वात्सल्य कृपासौलभ्यातिशयं क्रमशः प्रतिपाद्य, पुन स्सिंहावलोकनन्यायेन नृसिंहावतारे परत्वाविष्कारोऽप्याश्चर्यावह इत्याह- नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः । स्तम्भे च सम्भव स्ते पिशुनयति परेशतां वरद ॥ ७१ ॥ नरसिंहेति । हे वरद, ते अगौणी अप्राकृता नरसिंहतनुः प्रकृतेस्सत्त्व रजस्तमोमयत्वात्, “न तस्य प्राकृता मूर्ति" रित्युक्तप्रकारेण शुद्धसत्त्वमयी नृसिंहमूर्तिः भक्तगिरः प्रह्लादवचसः समसमयसमुद्भवश्च तुल्यकालप्रादुर्भावश्च स्तम्भे सम्भवश्च “वेत्थ यथा पञ्चम्या माहुतावापः पुरुषवचसो भवन्तिः” इति निषेकपूर्वकोदरवासं विनैव स्तम्भरूपेऽधिकरणे सम्भवोऽपि परेशतां पिशुनयति । " तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम्”, “पतिं विश्वस्यात्मेश्वरम्” इत्याद्युक्तं सर्वेश्वरत्वं [[222]]

प्रकाशयतीत्यर्थः । कर्मवश्याना मप्राकृतविग्रहपरिग्रह भक्तप्रतिज्ञा- समकालप्रादुर्भाव स्तम्भसम्भवाना मसम्भवा दिति भावः ॥ ७१ ॥ इत्थं श्रियःपतिं समस्तकल्याणगुणविशिष्टं आश्रयणसौकर्यावहदिव्य विग्रहविशिष्टं पत्नीपरिजनादिविशिष्टं स्वकीयकृपयैव साधुपरित्राणाय कृतावतारं वरदराजं श्रीमन्नारायण शब्दार्थभूतं विस्तरेण प्रतिपाद्य तदीयचरणौ शरणं प्रपित्सुः ‘अनुजो रावणस्याऽहं तेन चाऽस्म्यवमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः" इत्युक्तरीत्या प्रपत्तुः स्वस्य दोषभूयस्त्व माविष्करोति अष्टाभिः श्लोकैः - तापत्रयीमयदवानलदह्यमानं मुद्यन्त मन्त मवयन्त मनन्त नैव । स्थातुं प्रयातु मुपयातु मनीश मीश

हस्तीश, दृष्ट्यमृतवृष्टिभि राभजेथाः ।। ७२ ।। I तापत्रयीत्यादि । हे ईश ! स्वामिन्, अनन्त अपरिच्छिन्न- स्वरूपरूपगुणादिक, हस्तीश, तापानां आध्यात्मिकाधिदैविकाधि- भौतिकाख्यानां त्रयी तापत्रयी, तन्मयेन दवानलेन वनवह्निना दह्यमानं, तापत्रयात्मना परिणतवन्यवह्निना तप्यमानम् इत्यर्थः । अत एव मुह्यन्तं मोहं भजन्तं, अन्तं अवधिं नैवावयन्तं अजानन्तम् एव स्थितम् इत्यर्थः । स्थातुं प्रयातुं उपयातु मपि अनीशम् अवस्थान प्रवृत्तिनिवृत्त्यसमर्थम् इत्यर्थः । एवम्भूतं मां दृष्टयः कटाक्षा-एव अमृतवृष्टयः अमृतवर्षाणि ताभिः आभजेथाः आ समन्तात् सेवेथाः, आसिञ्चे रित्यर्थः । तत्र हस्तीशस्य कालमेघसाम्यं गर्भितम्। “एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते” इत्युक्तया निर्हेतुककृपया कटाक्षयेति हार्दो भावः ॥ ७२ ॥ “स्थातुं प्रयातु मुपयातु मनीश” मित्युक्तं विवृणोति - नानाविरुद्धविधिशासु दिशासु चाऽहो वन्ध्यै र्मनोरथशतै र्युगप द्विकृष्टः । त्वत्पादयोरनुदितस्पृह एष सोऽहं [[223]] I न स्वस्ति हस्तिगिरिनाथ निशामयामि ॥ ७३ ॥ नानाविरुद्धेति । हे हस्तिगिरिनाथ, वन्ध्यैः अफलैः मनोरथशतैः, शतै रित्युपलक्षणम्, निरवधिमनोरथै रित्यर्थः । नाना नानाविधाः विरुद्धाः परस्पर विरोधवत्यः विदिशः विपरीतदिशः तासु दिशासु च युगपत् एकदैव विकृष्टः विशेषेण इत स्तत आकृष्टः, अत्र दिशाशब्देन मार्गा उपलक्ष्यन्ते । शास्त्र विरुद्धमार्गेषु, शास्त्रविहितमार्गेषु चाऽऽकृष्ट इत्यर्थः । प्रातिकूल्यपूर्तिरुक्ता । आनुकूल्यलेशोऽपि नास्तीत्याह - त्वत्पादयो रनुदितस्पृह एष इति । अद्वेषाभिमुख्ये अपि न स्त इत्यर्थः । एवम्भूतोऽहं स्वस्ति न निशामयामि श्रेयो न पश्यामि । भवदीय दृष्ट्यमृतवृष्टिरेव श्रेयस्करीति भावः ॥ ७३ ॥ त्वदीयपादारविन्दयोरनुदितस्पृहस्य मम “हस्तीश, दृष्ट्यमृत वृष्टिभि राभजेथाः” इत्युक्तिरप्यपराध एवेत्याह- है निर्भयोऽस्म्यविनयोऽस्मि यत स्त्वदङ्घ्रौ लिप्सा मलब्धवति चेतसि दुर्विनीते । दुष्कर्मवर्म परिकर्मित एष सोऽह - मग्रे वरप्रद, तव प्रलपामि किञ्चित् ॥ ७४ ॥ है इति । हे वरप्रद, दुष्कर्मवर्मपरिकर्मितः दुष्कर्मकवचालङ्कृतः, दुष्कृताच्छादितस्वरूप इत्यर्थः । एष सोऽहं वर्तमानकाले भूतकाले च दुष्कृतकृदहं यतः कारणात् दुर्विनीते अशिक्षिते चेतसि त्वदङ्घ्रौ लिप्सां वाच्छां अलब्धवति अप्राप्ते सति तवाग्रे अन्तर्यामिण स्तव सन्निधौ किञ्चित्प्रलपामि युक्तायुक्तविचारराहित्येन यत्किञ्चिज्जल्पामीत्यर्थः । ततः कारणात् निर्भयोऽस्मि, अविनयोऽस्मि, भयविनयौ मम न स्तः इत्यर्थः । है खेदे ॥ ७४ ॥ [[224]] “लिप्सा मलब्धवतिचेतसी” त्युक्तं विवृणोति - सव्याधि राधि रवितुष्टि रनिष्टयोगः स्वाभीष्टभञ्जन ममर्षकरो निकर्षः । कृन्तन्ति सन्तत मिमानि मनो मदीयं हस्तीश, न त्वदभिलाषनिधिप्रहाणिः ।। ७५ ।।

सव्याधिरिति । हे हस्तीश ! व्याधिः शरीरपीडा, सव्याधिः व्याधिसहितः आधिः मानसपीडा, अवितुष्टिः चिरकालं बहुशो भुक्तेष्वपि विषयेष्वतृप्तिः, अनिष्टयोगः अभिमतविषयविश्लेषरूपानिष्टप्रसङ्गः, स्वाभीष्टभञ्जनं चिराभिलषितविषयलाभप्रतिबन्धः अमर्षकरः अक्षान्तिकृत्, निकर्षः वित्तबन्ध्वादिन्यूनता च, वित्तादिभि र्मत्तोऽप्युन्नता एते किलेति इतरासहिष्णुत्वावह इति भावः । इमानि सामान्ये नपुंसकम् । सन्ततं सदा मदीयं मनः कृन्तन्ति छिन्दन्ति कृतीच्छेदने इति धातुः । त्वयि विषये अभिलाष एव निधिः तस्य प्रहाणिः प्रकृष्टहानिः मनः न कृन्तति अभिलाषमात्रस्यैव अक्षयफल प्रदत्त्वात् निधित्वोक्तिः । अतो भगवल्लाभविषयकाभिलाष एव नाऽस्तीति भावः ।। ७५ ।। आनुकूल्याभावेऽपि प्रातिकूल्यबाहुल्य माह - विद्वेषमानमदरागविलोभमोहा- द्याजानभूमि रहमत्र भवे निमज्जन् । निर्द्वन्द्व नित्य निरवद्य महागुण त्वां 7 हस्तीश, कश्रयितु मीक्षितु मीप्सितुं वा ॥ ७६ ॥ विद्वेषेति । हे हस्तीश ! विद्वेषः निर्व्याज वैरम्, मानः आभिजात्यादि प्रयुक्तं चित्तौन्नत्यम्, विषयलाभसम्भूतश्चित्तविकारो मदः, विषयप्राप्त्यभिलाषो रागः, लब्धस्यार्थस्य पात्रप्रदानप्रति- बन्धक्रोऽर्थाभिनिवेशो विलोभः, कृत्याकृत्यविषयकसम्यक् ज्ञानहानि

[[225]] र्मोहः, आदिशब्देन तन्मूलकमहत्त्वविभवादयो गृह्यन्ते, एतेषामाजानभूमिः जन्मभूमिः, अत एवाऽत्र भवे संसारे निमज्जन् अवगाहमानः अहम्, एतत्प्रतियोगिसम्बोधनं निर्द्वन्द्वेत्यादिकम् । निर्द्वन्द्व, द्वन्दशब्दस्समानवाची निस्समेत्यर्थः । निर्द्वन्द्वेति गुणविशेषणं वा । निर्द्वन्द्वाः ज्ञानमज्ञानम्, सुखं दुःख मित्यादिद्वन्द्वरहिताः, निस्समा वा, नित्याः निरवद्याः, कर्मकृतसङ्कोचादिदोषरहिताः महान्तः अपरिच्छिन्नाश्च गुणाः ज्ञानशक्त्यादयो यस्य तथोक्तेत्यर्थः । हे हस्तीश, त्वा मीप्सितु मभिलषितुं, श्रयितु माश्रयितुम्, ईक्षितुं साक्षात्कर्तुं वा कः न कोऽपीत्यर्थः विद्वेषादिदोषाकरोऽहं हेयप्रत्यनीकनित्यकल्याणगुणाकरं त्वाम्, ईप्सितुं, माश्रयितु मीक्षितुमप्यधिकारी न भवामीत्यभिप्रायः ॥ ७६ ॥ + अधिकाराभावम् एव प्रतिपादयति

पुत्त्रादयः कथ ममी मयि संस्थिते स्यु- रित्यप्रतिक्रियनिरर्थकचिन्तनेन । दूये, न तु स्वय महं भविताऽस्मि कीदृ- गित्यस्ति हस्तिगिरिनाथ, विमर्शलेशः ॥ ७७ ॥ पुत्त्रादयइति । हे हस्तिगिरिनाथ, मयि संस्थिते (मृते) सति अमी पुत्त्रादयः कथं स्युः कथं वा भूयासुः कथं वा जीवेयु रिति अप्रतिक्रियं प्रतीकाररहितं समाधानहीनं निरर्थकं निष्फल ञ्च, यच्चिन्तनं परामर्शनं, तेन दूये । दूड् परितापे, परितापं भजामि । किन्नु, अहं स्वयं कीदृक् किंप्रकारविशिष्टो भवितास्मि, भविष्यामीति विमर्शलेशः स्वल्पोऽपि परामर्शो नाऽस्ति । अस्मन्मरणानन्तरं पुत्त्रादयः कथं वा जीविष्यन्तीति दुस्समाधेयव्यर्थविचारेण परितप्तस्य मम, अहं कीदृग्वा स्वर्गी. नारकी, मुक्तो वा भविष्यार्माति स्वल्पाप्यालोचना नाऽस्तीति भगवल्लाभाभिलाषा द्यनधिकारित्व मुक्तम् ॥ ७७ ॥ विषयदोषसमष्टिं स्पष्टं दृष्टवतां वैतृष्ण्यं कुतो न जायते इत्यत आह- [[226]]

शम्पाचलं बहुलदुःख मनर्थहेतु रल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् । दुर्वासनाद्रढिमत स्सुख मिन्द्रियोत्थं हातुं न मे मति रलं वरदाधिराज ।। ७८ ।। शम्पाचलम् इति। हे वरदाधिराज, मे मम मतिः दुर्वासनाद्रढिमतः अनादिकालपरिशीलनजनितविपरीत वासनादार्थ्यात् हेतोः शम्पाचलं विद्युच्चञ्चलं क्षणिकम् इत्यर्थः । बहुलदुःखं अनुभवकालेऽपि यथामनोरथ मनुभवालाभादिमूल बहुलदुःखमिश्रम्, अनर्थहेतुः अभिजनत्वादिहानि सज्जनावमानननिरयप्रवेशा द्यनर्थकारणं, हेतु रिति नित्यपुंलिङ्गता, अल्पीयः अत्यल्पम् इति विमृष्टिषु विमर्शेषु दृष्टदोषं प्रत्यक्षितावद्यं इन्द्रियोत्थं इन्द्रियोत्पन्नं, विषयेन्द्रियसंसर्गजन्यम् इत्यर्थः । सुखं हातुं त्यक्तुं नाऽलं न समर्था भवति । स्पष्टदृष्टदोषवैषयिक भोगाभिलाषापरित्याग- निदानभूता दुर्वासनेति भावः ॥ ७८ ॥ 1 विषयाभिलाषमात्रप्रवृत्तो न भवामि ; किन्तु करणत्रयविरचित विविधापराधो भवामीत्याह

बुद्ध्वा च नो च विहिताकरणै र्निषिद्ध - संसेवनै स्त्वदपचारशतै रसौः । भक्तागसा मपि शतै भवताऽप्यगण्यै- हस्तीश वाक्तनुमनोजनितै र्हतोऽस्मि ।। ७९ ।। बुद्ध्वा चेति । हे हस्तीश बुद्ध्वा च ज्ञात्वा च, नो च अबुद्ध्वा च वाक्तनुमनोजनितैः करणत्रयेणाऽप्यनुष्ठितैः बुद्धिपूर्वकै रबुद्धिपूर्वकैश्चेत्यर्थः । भवता सर्वज्ञेनापि अगण्यैस्संख्यातुमशक्यैः विहिताकरणैः- “सत्यं वद, धर्म चर", “अहरहस्सन्ध्या मुपासीत” इत्यादि श्रुतिस्मृति - चोदिताननुष्ठानैः, निषिद्धसंसेवनैः “न कलञ्जं भक्षयेत्, न सुरां पिबेत् " इत्यादिनिषिद्धानुष्ठानैः त्वदपचारशतैः कं सशिशुपालादिवत् "

[[227]] भवद्वैभवासहत्वादिभिः भगवदपचारैः, भक्तागसां शतैरपि प्रह्लाद- वैदेहीविषयक हिरण्य- रावणानुष्ठितापचाररूपै र्भागवतापचारशतैरपि असह्यैः, अपचारै रित्यनुषङ्गः कर्तव्यः । निर्निबन्धनभगवद्भागवतापचारस्य असह्यापचारत्वात् एतै र्हतोऽस्मि । स्वरूपसत्ताऽपि नष्टप्रायेति भावः ॥ ७९ ॥ इत्थं स्वदोषसमुदाय मनुसन्धाय तादृशाय मह्य मपि भवान्निर्हेतुकयैव कृपया “दासभूता स्स्वत स्सर्वे ह्यात्मानः परमात्मनःः । नाऽन्यथा लक्षणं तेषां बन्धे मोक्षे तथैव च" इत्युक्तस्वरूपसत्तारूपदास्यरसज्ञानं दत्तवा नित्याह - त्वद्दास्य मस्य हि मम स्वरसप्रसक्तं तच्चोरय त्रय महं किल चस्खल प्राक् । त्वं मामकीन इति मा मभिमन्यसे स्म हस्तीश, संशमय न स्तमिमं विवादम् ॥ ८० ॥ | त्वदिति । हे हस्तीश, अस्य मम पूर्वोक्तदोषराशिविशिष्टस्य मम त्वद्दास्यं हि स्वरसप्रसक्तं स्वारसिकं, स्वतस्सिद्धमित्यर्थः । अय महं प्राक् तत् दास्यं चारेयन् अपहरन् सन् भगवद्दास्यस्य जीवस्वरूपनिरूपक- लक्षणत्वात् तद्विपरीत प्रतिपत्तिरूप मात्मापहारं चौर्यं कुर्वन्; तदुक्तं महाभरते “योऽन्यथा सन्त मात्मान मन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा” इति । चस्खल किल । लिडुत्तमैकवचनम् । स्वस्वरूपज्ञानात् स्खलितवानासन् ननु त्वं मां मामकीन इति मदीयदास इति अभिमन्यसे स्म । अभिमानविषय मकरोः, दासतां ज्ञापितवा नसीत्यर्थः । नः तमिमं विवादं युष्माक मस्माकञ्च - " त्वं मेऽहं मे इत्येवं रूपं संवादं संशमय सम्यक् शान्तं कुरुष्व, अपुनरङ्कुरं कुर्वित्यर्थः । नः इति “त्यदादीनां मिथः यत्परं तच्छिष्यते” इति युष्मदस्मदो रस्म च्छब्द- स्यैकशेषः । भवद्दास्यरूपात्मस्वरूपापहारिणः मम निर्हेतुककृपाव- लोकनमूलकं भवदीयताज्ञानं निस्संशयं विरचये त्याशयः ॥ ८० ॥ [[228]]

दास्यरस ज्ञापनानन्तरभाविनं स्वस्य प्रयोजनान्तरवैरस्य माह- भोगा इमे विधिशिवादिपदञ्च किञ्च स्वात्मानुभूतिरिति या किल मुक्ति रुक्ता । सर्वं तदूषजलजोष महं जुषेय हस्त्यद्रिनाथ तव दास्यमहारसज्ञः ॥ ८१ ॥

विषय विषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे । अगति रशरणो भवाब्धौ लुठन् वरद शरण मित्यहं त्वां वृणे ॥ ७२ ॥ | विषयेति । हे वरद, विषया श्शब्दादिविषयाः त एव विषधराः सर्पाः तेषां व्रजेन गणेन व्याकुले निबिडे जननमरणान्येव नक्राः ग्राहविशेषाः तेषां चक्रस्य समुदायस्य आस्पदे वासस्थाने भवाब्धौ संसारसागरे लुठन्

[[229]] परिवर्तमानः अत एव अशरणः उपायान्तरशून्यः । गम्यत इति गतिः अगतिः गत्यन्तरशून्यः अहं त्वां आश्रयणसौकर्यापादकश्रियः पतित्व सौशील्य सौलभ्य वात्सल्यादिविशिष्टं, आश्रितकार्यापादकदयाक्षान्तिज्ञान- शक्तिस्वामित्वादि विशिष्टञ्च भवन्तम् इत्यर्थः । शरणमिति वृणे रक्षकतया ( उपायतया ) स्वीकरोमि ॥ ७२ ॥ पूर्वस्मिन् श्लोके, श्रियः पतित्वादि सकलकल्याणगुणगण विशिष्टस्य, सिद्धोपायताध्यवसायं प्रतिपाद्य सम्प्रति निर्हेतुककृपामात्रविशिष्टस्य सिद्धोपायता मध्यवस्यति -

अकृतसुकृतकस्सुदुष्कृदुत्तर- श्शुभगुणलवलेशदेशातिगः । अशुभगुणपरस्सहस्रावृतो वरद मुरुदयं गतिं त्वां वृणे ॥ ८३ ॥ अकृतेति । अकृतसुकृतकः अननुष्ठितपुण्यः अत एव शुभगुणलवस्य सात्त्विकताऽऽस्तिक्यादि सद्गुणांशस्य यः लेशः अंशः एकदेशः स यत्र देशे वर्तते तं देश मति गच्छति अतिक्रामतीति तथोक्तः, सुदुष्कृत्तरः सुतरां दुष्कृतकारिणा मप्यधिकः, अतएव अशुभगुणपरस्सहस्रावृतः कामक्रोधादिदुर्गुणानां परस्सहस्रेण सहस्रात्परेण सहस्रसंख्याधिकेन आवृतः आच्छादितः असंख्यातरागद्वेषादिदोषराशिदूषित इत्यर्थः । एतादृशोऽहं, उरुदयं निरवधिककृपानिधिं अत एव वरदं सकलजनसकलफलप्रदतया हस्तिगिरिमस्तकावस्थितं त्वां गतिं वृणे, अनिष्टनिवृत्तिपूर्वकेष्टप्रापक मुपाय मध्यवस्यामि । " वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्" इति प्रबलतरागस्कारि काकासुररक्षायां केवलकृपैव हेतु रितिद्युक्तं, तद्वदिति भावः । अत्र श्लोकद्वयेऽपि आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा। आत्मनिक्षेप कार्पण्ये षड्विधा शरणागतिः” इत्युक्तेषु षट्स्वपि गोप्तृत्ववरणस्यैव शरणागतित्व मुक्तं [[230]]

भवति । अतः, आत्मनिक्षेपस्यैव अङ्गित्व मितरेषा मङ्गत्वम् इति प्रवादः प्राथमिकाभिप्रायेण, भगवद्भाष्यकार सकाशाधिगत सकलरहस्यतत्त्वार्थे रेतैः श्रीवत्साङ्कमिश्रैः गोप्तृत्ववरणस्य शरणागतितया प्रतिपादितत्वात् । वस्ततस्तु आनुकूल्यसङ्कल्पादिः वरणाङ्गमेव न भवतीति सर्वं समञ्जसम्॥ ८३ ॥ “उरुदयं वरद"म् इति दयालु रेव फलद इत्युक्तं, “भवाब्धौ लुठ" नित्यादिना स्वस्य दयनीयता च प्रतिपादिता । अत्र शरणवरणस्यापि अबुद्धिपूर्वकत्वात् दयनीयताधिक्यं प्रतिपाद्य ततः स्वकार्यसौकर्य माह - शरणवरणवागियं योदिता न भवति बत साऽपि धीपूर्विका । इति यदि दयनीयता मय्यहो ! वरद, तव भवे त्ततः प्राणिमि ॥ ८४ ॥ शरणेति । हे वरद, इयं शरणवरणवाक् या उदिता प्रयुक्ता साऽपि धीपूर्विका न भवति । अहृदयोक्तिरित्यर्थः । बतेति खेदे । इति शरणवरण मपि विगुणमिति हेतोः तव मयि विषये दयनीयता केवलदयाविषयोऽयमिति मतिर्भवे द्यदि ततः तदनन्तरं, ततो हेतोर्वा प्राणिमि जीवामि अहो ! अत्याश्चर्यकरी भगवतो दयेति भावः ॥ ८४ ॥ | “कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम्” इत्युक्तप्रकारेण पश्चात्तापोऽपि भगवद्दयोन्मेषकः तदभावा द्दयनीयताऽपि नास्तीति विषीदति । निरवधिषु कृतेषु चाऽऽग स्स्वहो मति रनुशयिनी यदि स्यात्ततः । वरद, हि दयसे न संशेमहे निरनुशयधियो हता है वयम् ।। ८५ ।। निरवधिष्विति । हे वरद, कृतेषु सम्यगनुष्ठितेषु निरवधिषु

[[231]] असङ्ख्यातेषु आगस्सु च अकृत्यकरणादिष्वपराधेषु विषये, अनुशयः अनुतापः अस्या अस्तीति अनुशयिनी मतिः स्याद्यदि । “अथाऽनुशयो दीर्घद्वेषानुतापयोः” इत्यमरः । ततो हेतोः दयसे दयां करोषि । न संशेमहे सं पूर्वात् शीङ् स्वप्ने इति धातोः लडुत्तमबहुवचनम्। संशयवन्तो न भवामः । अनुष्ठिते ष्वपि दुष्कृतेषु अनुतापः कृपोत्तम्भकः इति निर्णयवन्तो वयम् इत्यर्थः । निरनुशयधियः अनुतापरहितमतयः वयं हता वै। दुष्कृतहताः खल्वित्यर्थः । निरनुतापा वय मनुतापव्याजतः दयावतो भवतो दयनीयता मतीता एवेति भावः ॥ ८५ ॥ निरवधिकापराधवतोऽनुतापरहितस्याऽपि मम शरण वरणवाणीं व्याजीकृत्य दयस्वेत्याह - शरणवरणवागियं याऽद्य मे वरद, तदधिकं न किञ्चिन्मम । सुलभ मभिमतार्थदं साधनं तदय मवसरो दयाया स्तव ॥ ८६ ॥ शरणेति । हे वरद, अद्य मे मम या इयं शरणवरणवागभूत् । तदधिकं ततोऽप्युत्कृष्टं सुलभं सुकरं अभिमतार्थदं अभिलषितभवद्दास्यप्रदं किञ्चित्साधनं किमपि साधनतयाऽभिमतं मम नाऽस्ति । तत्तस्मात्कारणात् अयं तव दयाया अवसरः समयः मदीयशरणवरण वाणीप्रादुर्भावकाल एव त्वदीयाया दयायाः प्रादुर्भावसमय इत्यर्थः । उपायान्तरप्रसङ्गरहितां शरणागत्युक्तिं व्याजीकृत्य दयस्वेत्याशयः ॥ ८६ ॥ एवं बहुशः दयाया एवं उपायत्व मुक्त्वा समनन्तरं मन्त्ररत्नोत्तरखण्डार्थभूतकै ङ्कर्य प्रार्थनामारब्धुकामः प्रथमतः कैङ्कर्यप्रतिसम्बन्धि भगवत्पादाम्बुजविषयकरचिजनन मपि त्वदायत्त मित्याह - [[232]] विषयविषयिणी स्पृहा भूयसी तव तु चरणयो र्न साऽल्पापि मे । वरद, ननु भर स्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७ ॥

विषयेति । हे वरद, मे मम विषयः शब्दादिरेव विषयः गोचरोऽस्या अस्तीति विषयविषयिणी शब्दादी नुद्दिश्य उत्पन्ने त्यर्थः । स्पृहा भूयसी अपरिच्छिन्ना, विषयाणा मसङ्ख्यातत्वात् तद्विषयस्पृहाऽपि अपरिच्छेद्येत्यर्थः । तव चरणयोस्तु सा स्पृहा अल्पाऽपि न । “उदीर्णसंसारदवाऽऽशुशुक्षणिं क्षणेन निर्वाप्य पराञ्च निर्वृतिम् । प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः” इत्युक्तप्रकारेण अल्पाया अपि स्पृहाया अनिष्टनिवृत्तिपूर्वक मिष्टप्रदानशक्तत्वा दल्पाऽप्यलमिति भावः । उत अथवा तव पदस्पृहाजन्म यत् त्वदीयपादारविन्दद्वन्द्व- निरन्तरपरिचरणरुचिजननं यत् अय न्तु तवैव भरः । नन्विदं तवैवोत्पादनीयं हीत्यर्थः । अयम् इति पुंलिङ्गनिर्देशः भर इति विधेय पदापेक्षया । निर्हेतुकपरमकारुणिकः भवा नेव रुचिजनकोऽपीति भावः ।। ८७ ।। इत्थं निरन्तरं विषयान्तरप्रणयप्रवणस्य यस्य मम भवद्दास्यरस्यताभि मज्जत्सज्जनवदनपरिणत शरणवरणवाणीपरिणति रतिदयालोरनालोचित विशेषाशेषलोकशरण्यस्य तव प्रसादौन्मुख्यप्रकाशिकेति वदति - इय मिह मति रस्मदुज्जीवनी वरद, तव खलु प्रसादा दृते । शरणम् इति वचोऽपि मे नोदिया - त्त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८ ॥ इयम् इति । हे वरद, मे विषयान्तरस्पृहाबहुलस्य मम तव प्रसादा दृते प्रसन्नतां विना, “अन्यारादितरतें” इति द्वितीयार्थे पञ्चमी । प्रसादोऽनुग्रहः । शरणमिति वचोऽपि ‘वरद, शरणमित्यहं त्वां वृणे’ इत्युक्ति रपि नोदियात् [[233]] न प्रादुर्भूयात्खलु । ततो हेतो स्स त्वं मयि प्रसादोन्मुखोऽसि, इयं मतिः इतीयं बुद्धिः इह इदानीं अस्मदुज्जीवनी अस्मानुज्जीवयतीत्यर्थः । शरणवरणवाणीजननात् प्रसादौन्मुख्यानुमितिः तन्निबन्धनं निर्भरत्वानुसन्धानम् इति भावः ॥ ८८ ॥ विषयान्तरस्पृहायां सत्या मपि भवत्पादाम्बुजलाभाविरुद्धं भवता प्रसाद्यता मित्याह- वरद, यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोध स्ततः । यदि न भवति तच्च देहि प्रभो झटिति वितर पादमेवाऽन्यथा ।। ८९ ।। वरदेति । हे प्रभो अहं इह अत्र यद्वस्तु वाञ्छामि लब्धुमभिलषामि तद्वस्तुलाभात् तव चरणलाभायाः भवतः पादारविन्दलाभस्य विरोधः प्रतिबन्धः न भवति यदि, तच्च तद्वस्तु च देहि । अन्यथा इतरथा तव चरणलाभविरोधो भवति यदि, झटिति पादम् एव वितर ! सपदि पादारविन्दं न दत्त ञ्चेत् विरुद्धवस्तुवाञ्छाऽपि स्वरूपहानिकरी स्यादित्यभिप्रायः ॥ ८९ ॥ दुर्वासनावञ्चनया वञ्चिताय मह्यं भगवत्पदप्राप्तिविरुद्धं वस्त्वपि दातव्यं, क्षन्तव्यञ्चेत्याह- 7 तदपि किमपि हन्त दुर्वासना- शतविवशतया यदभ्यर्थये । तदतुलदय सार्व सर्वप्रद प्रवितर वरद, क्षमाम्भोनिधे ॥ ९० ॥ तदिति । हे अतुलदय ! निरुपमकृप, अपरिच्छेद्य कारुण्येत्यर्थः । क्षमाम्भोनिधे क्षान्तिसिन्धो, सार्व सर्वजनहित, सर्वशब्दात् हितार्थे अण् प्रत्ययः । सर्वप्रद सकलफलप्रद, वरद, तदपि तथाऽपि तव [[234]]

चरणलाभविरोधे सत्यपि दुर्वासनाशतस्य विवशतया परवशतया, असङ्ख्यातदुर्वासनावञ्चिततयेत्यर्थः । किमपि अतिक्षुद्रमपि यत् अभ्यर्थये वाञ्छामि तत् प्रवितर प्रदेहि, दयालुतया अभिलषितसकलप्रियप्रदानेऽपि हितपरेण भवता क्षन्तव्यञ्च भवतीति सम्बोधनाभिप्रायः ॥ ९० ॥ इदं वितर, नेदं वितर इत्युक्ति रपि भगवति न्यस्तभरस्य ममाऽयुक्त मित्याह - प्रियमितर दथाऽपि वा य द्यथा वितरसि वरद, प्रभो त्वं हि मे । तदनुभवनम् एव युक्तं तु मे त्वयि निहितभरोऽस्मि सोऽहं यतः ।। ९१ ॥ प्रियम् इति । हे वरद, प्रभो, स्वामिन् स्वतन्त्रेत्यर्थः । अथाऽपि अथवा त्वं स्वतन्त्र स्त्वं प्रिय मिष्टं, इतरद्वा अनिष्टं वा हितं वेत्यर्थः । यद्वस्तु यथा येन प्रकारेण मे मह्यं वितरसि हि ददासि खलु । मे तु परतन्त्रस्य मम तु तदनुभवनम् एव युक्तमुचितम् । तत्र हेतुमाह - त्वयीति । यतः कारणात् सोऽहं त्वयि निहितभरोऽस्मि । " वरद मुरुदयं गतिं त्वां वृणे" इति न्यस्तभरोऽस्मि । ततः कारणात् प्रियं वा हितं वा यत् ददासि तदेव मयाऽनुभवितु मुचितम् इत्यर्थः ॥ ९१ ॥ इत्थं मन्त्ररत्नोत्तरखण्डस्थनमश्शब्दार्थभूतभगवत्प्राप्तिविरोधि स्वप्रवृत्तिनिवृत्तिं स्वरूपं प्रतिपाद्य श्रीमन्नारायणायेति यतुर्थ्यर्थभूतकैङ्कर्यप्रार्थनां प्रतिपादयन् स्तोत्रं परिसमापयति – यथाऽसि यावानसि योऽसि यदुणः करीश यादृग्विभवो यदिङ्गितः । तथाविधं त्वाऽह मभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥ ९२ ॥

[[235]] यथेति । हे करीश, योऽसि, “सत्यं ज्ञानं मनन्तं ब्रह्म”, “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इत्यादिश्रुतिप्रतिपादित सत्यत्व ज्ञानत्वानन्तत्वानन्दत्वा मलत्वश्रियः पतित्वादि यत्स्वरूपनिरूपकगुणनिरूपितोऽसि यद्गुणोऽसि “पराऽस्य शक्ति र्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " । इत्याद्युक्तप्रकारेण ज्ञानशक्त्यादि यद्गुणविशिष्टोऽसि । यथाऽसि " यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति” इत्याद्युक्त जगज्जन्मादिकारणत्वादिरूपय त्प्रकारकोऽसि, यावा नसि " अणोरणीया न्महतो महीयान् “, " अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इत्याद्युक्तयावत्परिमाणोऽसि, यादृग्विभवोऽसि “पतिं विश्वस्यात्मेश्वरं शाश्वतं शिव मच्युतम्”, “तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम्” इत्याद्युक्त यादृशैश्वर्योऽसि, यदिङ्गितोऽसि - ‘इगि गतौ’ - इङ्गितं व्यापारः “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा”, “यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयति । य आत्मनि तिष्ठन् आत्मानमन्तरो यमयति, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः इत्याद्युक्तचेतनाचेतननियमनव्यापारोऽसि । जगज्जन्मदिकारणत्वस्याऽपि स्वरूपनिरूपकत्वे ‘यथाऽसी’ त्यस्य " आदित्यवर्णं तमसः परस्तात्” । ’ य एषोऽन्त रादित्ये हिरण्मयः पुरुषः” इत्याद्युक्तविग्रहवत्त्वमर्थः । तथाविधम् एव मुक्त स्वरूपगुण प्रकार परिमाण विभवचेष्टित विशिष्टम् अभक्तदुर्ग्रहम् - “भक्त्या त्वनन्यया शक्यः अहमेवं विधोऽर्जुन” “उभय परिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगैकलभ्य” इत्याद्युक्त प्रकारेण भक्तियोगैक साक्षात्कार्यमित्यर्थः । तादृशं त्वाम्, अहं प्रपत्ति वाचैव शरणागत्युक्त्यैव निरीक्षितुं साक्षात्कर्तुं वृणे इच्छा मीत्यर्थः । वाचैवेत्येवकारेणैव सहकार्यन्तरव्यावृत्ति रुच्यते । वरद मुरुदयं गतिं त्वां वृणे" इति केवलदयादिविशिष्टस्यैव साक्षादुपायत्वेनोक्तः, यद्यपि शक्तानां साक्षात्कारोऽस्ति, तथाऽपि त्वदेकोपायत्वमुक्तवतो मम स्वरूप- गुणादिपरिपूर्णं भवन्तं कारुण्यमात्रतः साक्षात्कारयेति निष्कृष्टोऽर्थः ॥ ९२ ॥ 18 66 [[236]]

“निरीक्षितुं वृणे” इति साक्षात्कारस्यैव साक्षात्फलत्वं प्रतीयते इति शङ्का मपनुदन् साक्षात्कारानन्तरभाविदास्यस्यैव मुक्तिफलत्व माह- अये दयालो वरद क्षमानिधे विशेषतो विश्वजनीन विश्वद । हितज्ञ सर्वज्ञ समग्रशक्तिक प्रसह्य मां प्रापय दास्यम् एव ते ।। ९३ ।। I अये इति । अये इति सम्बोधनार्थक मव्ययम् । उपायान्तररहितानां केवलदयैवोपाय इति सूचनार्थं दयालो इति प्रथमतः प्रयोगः । क्षमानिधे सर्वापराधसहिष्णो इत्यर्थः । यत्र विषये दया जायते तदीयाशेषदोषराशिं क्षमाविषयं करोतीति भावः । सर्वज्ञ, समग्रशक्तिक सर्वशक्त, विशेषतः, विश्वजनीन सर्वजनहित, “विश्वजनभोगोत्तरपदात्खः” इति खप्रत्ययः । विश्वद सकलफलप्रद हितज्ञ आश्रितजनहितज्ञ वरद प्रसह्य फलान्तरप्रेप्सां निगृह्यते तव श्रीमन्नारायणस्य भवत इत्यर्थः । दास्यं कैङ्कर्यमेव मां प्रापय प्राप्तं कारय । णिजन्तत्वाद्विकर्मकत्वम् । अत्र श्लोके दयालो क्षमानिधे इति श्रीमच्छब्दार्थो विवृतः, श्री भूम्यो दयाक्षमाशब्दवाच्यात्वात् “देव्या कारुण्य रूपया”, “साक्षात्क्षमा “म् इति किलाभियुक्तप्रयोगः । सर्वज्ञ समग्रशक्तिक इत्यादिसम्बोधनपदै र्नारायण शब्दार्थोऽभिप्रेतः । दास्यं प्रापयेति चतुर्थ्यर्थो विवृतः । प्रसह्येति नमश्शब्दार्थो विवृतः । इति मन्त्ररत्नोत्तरवाक्यं सम्य ग्विवृतम् इति साम्प्रदायिकानां पन्थाः ॥ ९३ ॥

अथ बहुशः प्रतिपादितं केवल दयाया एवोपायत्व मुक्तलक्षणदास्य रूपफलप्रार्थना दाशाया मपि सविशेषं प्रकाशयति - स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनात् जन्ति ये त्वां त्वयि भक्तितोऽथवा । दरीश, तेा मपि तावकी दया तथा त्वत्सैव तु मे बलं मतम् ।। ९४ ।।

[[237]] स्वकैरिति । हे करीश, ये चेतनाः स्वकै र्गुणैः “मद्भक्त जन वात्सल्यं पूजायाञ्चाऽनुमोदनम् । मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया । स्वय मभ्यर्चन ञ्चैव मदर्थे दम्भवर्जनम् । ममाऽनुस्मरणं नित्यं यच्च मां नोपजीवति” इत्युक्तानुस्मरणशब्दवाच्य प्रपत्त्यङ्गभूतैर्गुणै रित्यर्थः । यद्वा, ‘आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्” इत्यादिभि रात्मनिक्षेपान्तैर्गुणैरित्यर्थः । स्वैश्चरितै रित्युपरि प्रत्येकं कर्मयोगादीनां वक्ष्यमाणत्वात्, स्वकै र्गुणै रित्यस्य प्रपत्तिपरत्वम् एव युक्त मित्यवधार्यम् । स्वैश्चरितैः कर्मयोगेनेत्यर्थः । स्ववेदनात् ज्ञानयोगेनेत्यर्थः । अथवा त्वयि भक्तितः भक्तियोगेन वा, त्वां भजन्ति सेवन्ते परिचरन्ति । ये प्रपदन कर्मयोग - ज्ञानयोग - भक्तियोग रूपै स्साधनैः त्वत्कैर्यं प्राप्नुवन्तीत्यर्थः । तेषा मपि चेतनानां तावकी दया तथात्वकृत् तथाविधनित्यकिङ्करत्व कारिणी भवति नित्यकैङ्कर्यरूपमहाफलं प्रति सदृशमुख्यहेतुत्वं दयाया एवेति भावः । सैव तु दयैव हि मे “प्रपत्ति वाचैव निरीक्षितुं वृणे” इत्यभिसन्धिमतो ममाऽपि बलं मतम् । मुख्यसाधनं निश्चितम् इत्यर्थः । साधनान्तराणां दयोन्मेषकत्वमात्रं सर्वमुक्तिप्रसङ्गनिरासायाऽङ्गीकृत्य दयाया एव साक्षात्साधनत्वाङ्गीकारे, शरणागत्युक्तिमतो ममाऽपि स एव सिद्धान्त इति भावः ॥ ९४ ॥ उक्तमेव विवृणोति - यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च । लभेय पादौ वरद, स्फुटा स्ततः क्षमादयाद्या स्तव मङ्गला गुणाः ।। ९५ ।।

यदीति । हे वरद, अभक्तोऽपि भक्तियोगरहितोऽपि अगुणोऽपि । तदङ्गज्ञानयोगरहितोऽपि, निष्क्रियोऽपि कर्मयोगरहितोऽपि निरुद्यमो निष्कृतदुष्कृतो न च। आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनरहितोऽपीत्यर्थः । अहं [[238]]

पादौ लभेय यदि तु प्राप्नुयां चेत्, ततो हेतोः मङ्गलाः अमङ्गलाना मपि मङ्गलत्वापादकाः क्षमादयाद्या स्तव गुणाः स्फुटाः प्रकटाः, भवेयुरिति शेषः । भक्त्यादिरहितायाऽपि मह्यं भवदीयपादपरिचय प्रदद्या यदि, ततो दयादिमतो भवत सिद्धोपायत्वं प्रसिध्ये दिति भावः ।। ९५ ।। एवं केवल दयादिमत एव भगवत उपायत्वं प्रतिपाद्य स्वाभिमतकैङ्कर्यलाभे विलम्बहेत्वभावात् त्वरावान् प्रार्थयते - विलोकनै र्विभ्रमणैरपि भ्रुवोः स्मितामृतै रिङ्गितमङ्गलै रपि । प्रचोदित स्ते वरद, प्रहृष्ट धीः कदा विधास्ये वरिवस्यनं तव ॥ ९६ ॥ विलोकनै रिति । हे वरद, ते विलोकनैः, भ्रुवो र्विभ्रमणैः विलासै रपि, स्मितामृतैः अत्यन्तरस्यैर्मन्दस्मितै रपि, इङ्गितमङ्गलैरपि हस्तचेष्टादीङ्गितरूप मङ्गलै रपि, मङ्गलकरै रिङ्गितै रपीत्यर्थः । एतैः प्रचोदितः प्रेरितः अत एव प्रहृष्टधीरपि अहं वरिवस्यनं शुश्रूषां कदा विधास्ये करिष्यामि ? विलोकनादीनाम् एव अत्यन्त भोग्यत्वेन तैः प्रचोदितस्याऽति प्रीतिकरत्वात्, प्रीतिकारितकैङ्कर्यमेव प्रार्थनीय मित्यभिप्रायः ।। ९६ ।। “क्रियताम् इति मां वद” इत्युक्तप्रकारेण वाचाऽपि प्रचोदनं प्रार्थयते- विविश्य विश्वेन्द्रियतर्षकर्षणी - मनः स्थले नित्यनिखातनिश्चलाः । सुधासखी र्हस्तिपते, सुशीतला गिरः श्रवस्या श्रृणुयाम तावकीः ।। ९७ ।। विविश्येति । हे हस्तिपते, विविश्य अतिभोग्यतया सर्वेन्द्रियाणि प्रविश्य, विश्वेन्द्रियाणां सर्वेन्द्रियाणां तर्ष मभिलाषं कर्षन्त्यः विलिखन्त्यः, ताः तर्षकर्षणीः अभिलाषोत्पादिका इत्यर्थः । रूपादिग्रहणानां चक्षुरादीना

[[239]] मपि श्रोत्रत्वप्राप्तिप्रार्थनाकरीरिति यावत् । यद्वा, मुक्तिदशाया मेकैकेन्द्रियस्याऽपि सर्वविषयग्रहणनिपुणतासम्भवात् सर्वेन्द्रियाणा मपि श्रवणाकाङ्क्षोत्पादिका इत्यर्थः । मनः स्थले हृदयमध्ये नित्यं निखाताः कीलिताः, अत एव निश्चलाश्च ता नित्यं हृदयङ्गमा इत्यर्थः । सुधासखीः अमृतसदृशी रित्यर्थः । सुशीतलाः अमृतसदृशी ( ? ) रित्यर्थः । विशेषणद्वयेन प्रिया हिता श्चेत्युक्तं भवति । श्रवस्याः श्रोत्रहिताः “शरीरावयवा द्यत्” इति हितार्थे यत्प्रत्ययः । तावकी ःः त्वदीयाः गिरः श्रृणुयाम। अत्यन्तरस्यकुशलप्रश्न कैङ्कर्यनिदेशवचना न्यनुभवेमेति भावः । अवतारदशाया मपि अन्तरङ्गपरिजनाभ्यां सुमन्त्राक्रूराभ्यां “आशया यदि वा रामः पुनश्शब्दापये दिति”, “मा मक्रूरेति वक्ष्यति” इति च रघुनन्दन यदुनन्दन वचः श्रवणमपि अत्र दृष्टान्ततया वक्तव्यम् ॥ ९७ ॥ “अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते” इत्युक्तप्रकारेण सर्वदेश सर्वकाल सर्वावस्थोचित सर्वविधकै ङ्कर्यै करतिः त्वत्परिजनो भवामीत्यभिलषति - अशेषदेशाखिलकालयोगिनी - ष्वह न्त्ववस्था स्वखिला स्वनन्य धीः । अशेषदास्यैकरति स्तवाऽऽचरन् करीश, वर्तेय सदा त्वदन्तिके ॥ ९८ ॥ अशेषेति । हे करीश, अशेषदास्यानि सर्वविधकैङ्कर्याण्येव एका मुख्या रतिः भोगो यस्य स तथोक्तः । अत एव अनन्यधीः अन्यस्मिन् प्रयोजनान्तरे धीः भोग्यताबुद्धिः न विद्यते यस्य स तथोक्तः । अहन्तु अशेषदेशेषु अखिलकालेषु च योग स्सम्बन्धः आसामस्तीति तथोक्ताः तासु अवस्थासु जागरणस्वप्नाद्यवस्थास्वित्यर्थः । तवाऽऽचरन् भवतः कैङ्कर्यं कुर्वन् सन् इत्यर्थः । सदा त्वदन्तिके त्वत्परिसरे वर्तेय वसेयम् ॥ ९८ ॥ “यश्च रामं न पश्येत्तु यञ्च रामो न पश्यति । निन्दित स्स वसेल्लोके 1 [[240]]

स्वात्माप्येनं विगर्हते " - इत्युक्त ( पक्ष ? ) द्वयेऽपि स्वाम्यङ्गीकारसूचकं (पक्ष?)द्वयेऽपि तदवलोकनमेव प्रथमतः प्रार्थयते - इमं जनं हन्त ! कदाऽभिषेक्ष्यते त्वदक्षिनद्यो वरद, श्रमापहा । अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ।। ९९ ।। इमम् इति । हे वरद, त्वदक्षिणी एव नद्यौ, तयो रकृत्रिमं स्वाभाविकं प्रेम प्रीति रेव रसप्रवाहः, तस्माज्जायते इति तथोक्ता । अत एव श्रमापहा संसारकान्तार सञ्चारश्रान्तिहन्त्री विसृत्वरी विष्वग्व्यापिनी वीक्षणानां कटाक्षाणाम् एव वीचीनां सन्ततिः परम्परा इमं जनं तापत्रयसन्तप्तं माम् इत्यर्थः । कदा अभिषेक्ष्यते अभिषिक्तं करिष्यति। कटाक्षामृतरसावसेकेन मां कैङ्कर्यसाम्प्रज्याधिपत्यवन्तं कुरुष्वेत्यर्थः ॥ ९९ ॥ सदातनत्वेऽपि तदातनत्वव - नवीभवत्प्रेमरसप्रवाहया । निषेवितं त्वां सततोत्कया श्रिया करीश, पश्येम परश्शतं समाः ॥ १०० ॥ सदातनत्वेऽपीति । हे करीश, सदातनत्वेऽपि नित्यपरिचितत्वेऽपि तदातनत्वात् अपूर्ववत् कदाऽप्यपरिचितवत् नवीभवन् यः प्रेमरसः भोग्यभूतः प्रणयः, तस्य प्रवाहः परम्परा यस्याः, सततोत्कया नित्यानुभवोत्सुकचित्तया श्रिया निषेवितं नित्य मुपभुक्तमित्यर्थः । त्वां परश्शतं शतात्परा स्समाः संवत्सरान्, अत्यन्तसंयोगे द्वितीया; निरन्तरम् इत्यर्थः । पश्येम साक्षात्करवाम । श्रीमन्तं नारायणं निरन्तर परिचर्याकरणाय साक्षात्करवामेति निष्कृष्टोऽर्थः ॥ १०० ॥ इत्थं मन्त्ररत्नविवरणभूतं प्रभूतवैभवं वरदराजस्तवं

[[241]] परिसमापयितुकामः प्रथमप्रबन्ध श्रीवैकुण्ठस्तवोपक्रमे “यो नित्यमच्युत पदाम्बुज युग्मरुक्मे” त्यादि श्लोके “रामानुजस्य चरणौ शरणं प्रपद्ये” इति भाष्यकार चरणनलिनयुगल प्रपत्तेरेव स्वोत्तारकतया स्वीकृतत्वात्, तामेव शङ्कापूर्वकं सर्वज्ञस्याऽपि भगवतः स्मारयति श्लोकद्वयेन - समाहितै स्साधु सनन्दनादिभि - स्सुदुर्लभं भक्तजनै दुर्लभम्। अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद, त्वत्पद माप्नुयां कथम् ? ।। १०१ ।। |

समाहितैरिति । हे वरप्रद, साधु समाहितैः सम्यक् समाधिनिष्ठैः सनन्दनादिभिः आदिशब्देन सनक सनत्सुजातादयो गृह्यन्ते । सुदुर्लभं बहुयत्न लभ्यम् इत्यर्थः । भक्तजनैः, महनीयविषया प्रीतिर्भक्तिः, “अच्युतपदाम्बुजयुग्मरुक्म व्यामोहत स्तदितराणि तृणाय मेने” इत्युक्तप्रणयवद्भाष्यकारादीनां अदुर्लभम् अतिसुलभम्, अचिन्त्यम् ईदृशम् इति चिन्तयितुमशक्यम्, अत एव अप्रतर्कणम् एवन्त्वा देवमिति तर्काविषयम्, अत एवात्यद्भुतं पदं कथ माप्नुयां, भवत्पदप्राप्ति साधनत्वाभिमतेषु किञ्चिदप्यननुष्ठितवता मम भवत्पदप्राप्तिः कथं वा भवे दिति भावः ।। १०१ ।। सम्प्रति शङ्कापरिहाराय अनुष्ठितांशं स्मारयन् “पितामहं नाथमुनिं विलोक्य प्रसी” देति वत् " रामानुजाङ्घ्रिशरणोऽस्मि कटाक्षणीयोऽ” स्मीति स्तोत्रं परिसमापयति । रामानुजाङ्गिशरणोऽस्मि कुलप्रदीप - स्त्वाऽऽसीत्स यामुनमुने स्स च नाथवंश्यः । वंश्यः पराङ्कशमुने स्स च सोऽपि देव्या दास स्तवेति वरदाऽस्मि तवेक्षणीयः ।। १०२ । इति श्रीवत्सचिह्नमिश्रविरचिते पञ्चस्तवे वरदराजस्तव स्समाप्तः । [[242]]

रामानुजेति । हे वरद, रामानुजाङ्गिशरणोऽस्मि । न तु रामाशिरणोऽस्मीत्यर्थः । “सिद्धिर्भवति वा नेति संशयोऽच्युत सेविनाम् । न संशयोऽत्र तद्भक्तपरिचर्यारतात्मनाम्” इति भावः । स्वाचार्यस्याऽपि सम्प्रदायशुद्धिमाह - सः रामानुज स्तु यामुनमुनेः कुलप्रदीपः आसीत् वंशप्रकाशकोऽभवत् इत्यर्थः । स च यामुनमुनिश्च नाथवंश्यः तत्पितामहत्वान्नाथमुनेः । स च नाथमुनिश्च पराङ्कुशमुनेः वंश्यः विद्यावंश्यः । सोऽपि पराङ्कुशमुनि रपि तव देव्याः सर्वजनजनन्याः " देव्या कारुण्यरूपया” इत्युक्तायाः श्रियः दास इति हेतोः ईक्षणीयोऽस्मि । भवदीयदयारूपायाः श्रियो देव्याः परम्परासम्बन्धवद्रामानुजाङ्घि- शरणोऽस्मि । ततो हेतो कटाक्षणीयोऽस्मीति निष्कृष्टोऽर्थः ॥ १०२ ॥ । पञ्चस्तवव्याख्याया वरदराजस्तवव्याख्या परिसमाप्ता ॥पञ्चस्तवे