०३ सुन्दरबाहुस्तवः

उक्तमेव विवृणोति- वन्देय सुन्दरभुजं भुजगेन्द्रभोग- सक्तं महावनगिरि प्रणय प्रवीणम् । यं तं विदु र्दहर मष्ट गुणोपजुष्ट- माकाश मौपनिषदीषु सरस्वतीषु ॥ २० ॥

वन्देयेति । भुजगेन्द्रभोगसक्तं शेषपर्यङ्कशायिनमित्यर्थः । महावनगिरौ यः प्रणयः प्रीतिः रस्यताबुद्धिः, तस्मिन् प्रवीणं निपुणं वनाद्रिभोग्यतारसिकम् इत्यर्थः । विशेषणद्वयेन " एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरापुरीम्" इत्युक्त प्रकारेण क्षीराब्धिनाथ एव वनाद्रिनाथो जात इति पर्यवसितम् । एवम्भूतं सुन्दरभुजं वन्देय सेवेय । यं तं यं सुन्दरभुजं ओपनिषदीषु सरस्वतीषु उपनिषत्सम्बन्धिषु वाक्येषु अष्टगुणोपजुष्टं अपहतपाप्मत्वा द्यष्टगुणविशिष्टं दहरं दहराभिधानं आकाशं दहराकाशं विदुः जानन्ति; ब्रह्मविद इति शेषः | विदो लटो वा’ इति लडर्थे णलादयः । “यदिद मस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः । तस्मिन्यदन्त स्तदन्वेष्टव्यम् । तद्वा विजिज्ञासितव्यम् इत्यारभ्य, “ तस्मिन् कामा स्समाहिताः । एष आत्मा अपहतपाप्मा विजरो विमृत्यु र्विशोको विजिघत्सोऽपिपास स्सत्यकाम स्सत्यसङ्कल्प" इत्याद्याः उपनिषदः, " ब्रह्मपुराख्ये शरीरे दहरपुण्डरीकं दहरकमलं दहराकाशाभिधानस्य भगवतो वेश्म " इत्यभिधाय " तस्मि न्यदन्त स्तदन्वेष्टव्य”म् इति " तद्वा व विजिज्ञासितव्यम्” इति च सामान्यतो विनिर्दिष्टस्य विशेषाकाङ्क्षायां

[[115]] ‘तस्मिन्कामा स्समाहिता’ इति, काम्यन्त इति कामा इति व्युत्पत्त्या गुणा नभिधाय, के ते कामा इत्याकाङ्क्षायां, अपहतपाप्मत्वादीन् सत्यसङ्कल्पत्वपर्यन्तान् गुणा नभिदधते । आ समन्तात् काशत इति व्युत्पत्त्या आकाश शब्दोऽपि आकाशाधिकरणन्यायेन भगवद्वाचकः ॥ २० ॥ यत्स्वायत्त स्वरूपस्थिति कृतिक निजेच्छा नियाम्यस्व शेषा ऽनन्ताशेषप्रपञ्चस्तत इह चिदिवाऽचिद्वपुर्वाचिशब्दैः । विश्वैश्शब्देः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्य - स्तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१ ॥ यदिति । यत् यतो हेतोः स्वायत्ताः स्वाधीनाः स्वरूपस्थितिकृतयो यस्य सः, स्वायत्त स्वरूपस्थितिकृत्तिकः कृतिशब्देन प्रवृत्तिरुच्यते । निजेच्छया नियाम्यः नियन्तुं शक्यः निजेच्छा नियाम्यः स्वस्य शेषः स्वशेषः । “परगतातिशयाधानेच्छया उपादेयत्वम् एव यस्य स्वरूपं स शेषः पर श्शेषी इति शेषशेषिभावलक्षणं भाष्यकारै रुक्तम् । स्वायत्तस्वरूपस्थितिकृतिकः निजेच्छानियाम्यश्च स्वशेषश्च, अनन्तः असङ्ख्यातश्च कृत्स्नप्रपञ्चो यस्य स तथोक्तः । ततो हेतोः इह जगति अचिद्वपुर्वाचिशब्दैः अचित्परिणामदेवमनुष्यादिशरीर वाचिशब्दैः चिदिव जीव इव विश्वै श्शब्दैः सर्वचेतनाचेतनवाचिशब्दैः प्रवाच्यः, यः मुख्यवृत्त्या अभिधेयो यः, हतवृजिनतया अपहतपाप्मतया नित्य मनवद्य एव, हेय प्रत्यनीक एव भवति । अय मर्थः - यथा प्रकृतिपरिणाम पाञ्चभौतिक देवमनुष्यादि शरीरवाचिशब्दैः " पुमान्न देवो न नरो न तिर्यक् स्थावरोऽपि वा । ज्ञानानन्दमय स्त्वात्मा शेषो हि परमात्मनः ॥" इत्युक्त आत्मा धारकत्व नियन्तृत्वशेषित्वादिभिः देवोऽयं मनुष्योऽय मित्यभिधीयते एवं स्वाधीन त्रिविधचेतनाचेतन स्वरूपास्थिति प्रवृत्तिभेदात् नियन्तृत्वा च्छे षित्वाच्च सकलचेतनाचेतन वाचिशब्दैः “तदेवाऽनुप्राविशत्। तद्नुप्रविश्य । सच्चत्यच्चाऽभवत्। तदेवाऽग्निस्तद्वायुः । — [[116]]

तत्सूर्य स्त दु चन्द्रमाः ।” “ज्योतींषि विष्णु र्भुवनानि विष्णु र्वनानि विष्णु गिरयो दिशश्च” इत्युक्तप्रकारेण य एवाऽभिधीयते, जीवस्य शरीरानुप्रवेशकृत स्वभावान्यथाभावरूप ज्ञानसङ्केचविकासादि दोष सम्भवेऽपि चेतनाचेतनानुप्रवेशप्रसक्त तद्गतदोषासंस्पृष्टतया नित्यनिर्दोषश्च भवतीति । वनगिरिनिलयं पुण्डरीकायताक्षं, सुन्दराह्वं सुन्दर इत्याह्वा यस्येति विग्रहः । तं वन्दे, कृत्स्नचिदचिच्छरीरकत्वं, तन्निर्वाहकत्वं, तद्गतदोषासंस्पृष्टत्वं कल्याणगुणाकरत्वञ्च वनाद्रिनाथ दिव्यविग्रह एव स्फुरन्तीति हार्दो भावः ॥ २१ ॥ । गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूप मेत्य । तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहु माश्रयामः ॥ २२ ॥ गुणजमिति । गुणिनः मणिद्युमणि चन्द्र चन्दन चम्पकारविन्दादेः प्रभाप्रसाद सौरभादिगुणवतो वस्तुनः मङ्गलत्वं शोभनत्वं श्रैष्ठ्यं गुणजं हि गुण श्रेष्ठ्यनिबन्धनम् इति प्रसिद्धम् इत्यर्थः । यत्स्वरूपमेत्य प्रत्युत प्रमितम् । यस्य भगवतः स्वरूपं स्वभावत एव हेयप्रत्यनीक कल्याणैकतानं स्वरूपं प्राप्य ‘गुणानां मङ्गलत्वं गुण्यायन्त’म् इति वैपरीत्येन प्रमाणतो निर्णीतम् । तादृशं स्वरूपं कीदृश मित्याकाङ्क्षाया माह — अनन्तसुखा- वबोधरूपं - अनन्तं देशकालवस्तुपरिच्छेदरहितम् । क्वाचित्कता देशपरिच्छेदः । कादाचित्कता कालपरिच्छेदः । असर्वात्मकता वस्तुपरिच्छेदः । सुखं आनन्दः । अवबोधः ज्ञानम्, अनन्तं सुख मवबोध श्च रूपं यस्य तं तथोक्तम् । विमलं हेयप्रत्यनीकं सुन्दरबाहुम् आश्रयामः शरणं भजामः। “सत्यस्य सत्यम्, ज्योतिषां ज्योतिः” “पवित्राणां पवित्रं यो मङ्गलानाञ्च मङ्गलम्” इत्यादि श्रुतिस्मृति प्रतिपादितं गुण्यायत्तं गुणानां मङ्गलत्वम् । “सत्यं ज्ञान मनन्तं ब्रह्म", “विज्ञान मानन्दं ब्रह्म, अपहतपाप्मा विजरः” इत्याद्याश्च श्रुचोऽत्रानुसन्धेयाः ॥ २२ ॥

अतिपतितावधिस्वमहिमानुभव प्रभव त्सुख कृतनिस्तरङ्गजलधीयित नित्य दशम् । प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं हरि मिह सुन्दराह्न मुपयामि वनाद्रि तटे ॥ २३ ॥ [[117]] अतीति । भगवतः नित्योदित दशा, शान्तोदितदशाचेति दशाद्वय मस्ति। तयोः प्रथमा स्ववैभवानुभव दशा । इतरातु विभूत्यनुभवदशा । अत्र नित्यदशाविशिष्टतयाऽनुसन्धत्ते । अतिपतितावधिः अतिक्रान्तावधिः निरवधिः, स्वमहिमा स्वकीयवैभवं तस्य अनुभवः, “आत्मानं वासुदेवा ख्यं चिन्तयन्” इत्येवंरूपानुसन्धानात्मकः, तेन प्रभवत् जायमानं यत् सुखं तेन कृता जनिता निस्तरङ्गजलधीयिता निस्तरङ्गजलधिवदाचरिता निस्तरङ्गमहोदधिसदृशीति यावत् । “उपमाना दाचारे” इति क्यच् प्रत्यये विहिते निष्ठान्तं पदम् । तादृशी नित्यदशा यस्य तम् । सदा हेयनिकरस्य अवद्यस्तोमस्य प्रतिभटं तमस स्तेज इव सामानाधिकरण्यासहम् । सदेत्यनेन भगवत्सङ्कल्पायत्तापहतपाप्मत्वादिका नित्यमुक्ता व्यावृत्ताः । अत एव अप्रतिमं सुन्दराह्वं हरिम्, इह वनाद्रितटे उपयामि समाश्रयामि ॥ २३ ॥ सदा षाड्गुण्याख्यैः पृथुलबलविज्ञान शकन - प्रभावीर्यैश्वर्ये रवधिविधुरै रेधितदशम् । द्रुम स्तोमक्ष्माभृत्परिसर महोद्यानमुदितं प्रपद्येऽध्यारूढ श्रिय मिम महं सुन्दर भुजम् ॥ २४ ॥ सदेति । षड्गुणा एव षाड्गुण्यम् । स्वार्थिकष्यञ् प्रत्ययः । चातु राश्रम्य मित्यादिवत् । षाड्गुण्याख्यैः षड्गुणनामकैः अवधिविधुरैः इयत्तारहितैः, पृथुलैश्च तैः बलविज्ञानशकनप्रभावीर्यैश्वर्यै ः बलज्ञानशक्तितेजो वीर्येश्वर्यैः । पृथुलपदेन चेतननिष्ठपरिमित- ज्ञानशक्त्यादयो व्यावर्त्यन्ते । अवधिविधुरै रित्यनेन आनन्दवल्ल्या निष्कृष्ट मानन्द गुणेयत्ता राहित्यम् एव स्थाली पुलाकन्यायेन सकलगुणसमुदायस्य [[118]]

समानम् इति सूचितम् । सङ्कर्षणप्रद्युम्ननिरुद्धनिष्ठगुणयुगक्रमेण बलविज्ञाने त्यादि क्रमोक्तिः । एतादृशै र्गुणैः एधितदशं वर्धितावस्थं, अतिशयितस्ववैभवम् इत्यर्थः । द्रुमस्तोमक्ष्माभृत्परिसर महोद्यान मुदितं वनाद्रिसमीप विपुलोपवने प्रीतिमन्तं तत्र नित्यवासे प्रीतिमन्तम् इत्यर्थः । तादृशी तदुद्यान भोग्यतेति भावः । अध्यारूढश्रिय मिमं सुन्दरभुजम् अहं प्रपद्ये शरणत्वेन अध्यवस्या मीत्यर्थः ॥ २४ ॥ उक्तषाड्गुण्य परिणाम वितति रूपा स्सौशील्यादयः स्वरूपगुणाः विग्रहगुणा स्सौन्दर्यादयश्च अत्रोच्यन्ते - सौशील्याश्रितवत्सलत्व मृदुता सौहार्द साम्यार्जवै - धैर्यस्थैर्य सुवीर्यशौर्यकृतितागाम्भीर्यचातुर्यकैः । सौन्दर्यान्वित सौकुमार्य समतालावण्य मुख्यैर्गुणै- देव ः श्रीतरुषण्डशैल निलयो नित्यं स्थित स्सुन्दरः ॥ २५ ॥ सौशील्येति । सौशील्यं महतो मन्दैस्सह नीरन्ध्रेण संश्लेषः, वात्सल्यं दोषानादरहेतुः स्नेहविशेषः मृदुता आश्रितविश्लेषासहत्वम्, सौहार्दम् आश्रितानाश्रितविभागाभावेन सकलहितैषित्वं, साम्यम् अभिजन- विद्यावृत्तानादरेण सर्वसमाश्रयणीत्वम्, आर्जवं करणत्रयस्याप्यैकरूप्यं, धैर्यम् अत्यन्तानिष्टप्रसङ्गेऽपि अप्रतिहतचित्तवृत्तित्वं स्थैर्यं शरणागतविषये पुरषकारभूतलक्ष्म्या दोषोद्घाटने कृतेऽपि अभग्नप्रतिज्ञत्वं, वीर्यम् अतिदुष्करसमरकरणेऽपि अश्रमत्वं, शौर्यम् असहायस्यापि अतिभयङ्कर परिपन्थिबृन्दनिश्शङ्कप्रवेशशक्तिः, कृता कृतकृत्यता, गाम्भीर्यं दुर्विज्ञेय स्वहृदयत्वं, चातुर्यम् इतरदुश्शक कृत्स्नकार्यनिर्माण कुशलता, सौन्दर्यं दृष्टिचित्तापहारिणी अवयवशोभा, सौकुमार्यं पुष्पाद प्यतिमृदुत्वं, समता सामुद्रिकोक्त समपरिमाणावयवत्वम्, लावण्यं समुदायशेभा, सौशील्यादिभिः स्वरूप गुणैः सौन्दर्यादिभिः दिव्यविग्रहगुणैश्च स्पष्टं स्फुरतीति भावः ॥ २५ ॥

[[119]] येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं कुर्यात्तादृश वैभवै रगणितै र्निस्सीमभूमान्वितैः । नित्यै दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदा त्माश्रयै- रिद्धं सुन्दरबाहु मस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६ ॥ येष्विति । येषु गुणेषु एकस्य गुणस्य विप्रुडपि बिन्दुरपि “पृषन्ति विन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्” इत्यमरः । स्वाश्रयं स्वाधिकरणं गुणिनं लोकोत्तरं सर्वाधिकं कुर्यात्, तादृशवैभवैः स्वाश्रयस्य लोकोत्तर त्वापादकवैभवविशिष्टैः, अगणितै रसङ्ख्यातैः, निस्सीमभूमान्वितैः अपरिच्छेद्य वैभवयुतैः नित्यैः, ततोऽधिकशुभत्वस्य स्वाश्रयस्य लोकोत्तरत्वापादकत्वरूपशुभत्वादप्यधिक शुभत्वस्य एकास्पदात्माश्रयैः मुख्याधारदिव्यात्म स्वरूपाधारैः “गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूप मेत्य” इत्युक्त स्वरूपाश्रितै रित्यर्थः । दिव्यगुणैः ज्ञानशक्तया- दिभिः पूर्वोक्तैः, अनुक्तैश्च दिव्यगुणैः इद्धं समृद्धं वनाद्रीश्वरं सुन्दरबाहुं शरणं यातोऽस्मि । एतादृशकल्याणगुण विशिष्टस्य सुन्दरबाहो र्लोकोत्तरत्वस्य किम्पुनर्न्यायसिद्धत्वा त्स एव शरणवरण विषय इति भावः ॥ २६ ॥ सदा समस्तं जगदीक्षते हि यः । प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः । सईदृशज्ञान निधि र्निधिस्तु न स्सिंहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७ ॥ सदेति । यः सदा स्वतो युगपद्भुवा युगपद्भवतीति युगपद्भूः तया, प्रत्यक्षदृष्ट्या प्रत्यक्षज्ञानेन समस्तं जगदीक्षते प्रत्यक्षयति हि । अत्र युगपद्भुवेत्यनेन क्रमेण सर्वसाक्षात्कारक्षमा श्चेतन विशेषा व्यावृत्ताः । स्वत इत्यनेन योगिनो व्यावृत्ताः । सदेत्यनेन मुक्ता व्यावृत्ताः । यद्वा, सदेत्यनेनै व योगिमुक्तव्यावृत्ते स्सिद्धत्वात् स्वत इत्यनेन भगवत्सङ्कल्पायत्तसर्वज्ञाना नित्या व्यावृत्ताः । स्वतो युगपद्भुवेति पदाभ्यां “नयनश्रवणो दृशा शृणोषि " 1 [[120]]

इत्युक्तप्रकारेण तत्तद्विषयग्रहणं प्रति नियतकरणनियमाभावः, करणानपेक्ष साक्षात्कारश्च गर्भितौ । ततश्च " युगपदनिश मक्षै स्स्वै स्स्वतो वाक्षकार्ये नियम मनियमं वा प्राप्य रङ्गाधिराज । करतलव दशेषं पश्यसि स्वप्रकाशं । तदवरण ममोघं ज्ञान माम्नासिषु स्ते” इति श्रीरङ्गराजस्तवोक्तं ज्ञानस्य वक्तव्यं कृत्स्नं सिध्यति । ईदृशज्ञाननिधिः, नः अस्माकं निधिस्तु निधिवत् स्पृहणीयः । स सुन्दरः सिंहाद्रिकुञ्जेषु चकास्ति शोभते । सिंहाद्रि रिति वनाद्रे र्नामान्तरम् ॥ २७ ॥ । एवं भगवज्ज्ञानस्य त्रिविधचेतनवैलक्षण्यं प्रदर्श्य ऐश्वर्यादीना मपि पञ्चानां गुणानां जगत्कारणत्वा द्युपयुक्ततया वैलक्षण्यं दिङ्गात्रेण प्रदर्शयति- ऐश्वर्यतेजो बलवीर्यशक्तयः कीदृग्विधा स्सुन्दरबाहुसंश्रयाः । योऽसौ जगज्जन्मलयस्थिति क्रिया स्सङ्कल्पतोऽल्पा दुपकल्पयत्यजः ॥ २८ ॥ ऐश्वर्येति । योऽसौ सुन्दरबाहुः अल्पात्सङ्कल्पतः अन्यपरादपि सङ्कल्पा दित्यर्थः । जगतः जन्मलयस्थिति क्रियाः सृष्टिसंहाररक्षणप्रवृत्तयः । प्रवृत्ति रिति निवृत्तेरप्युपलक्षणम् । उपकल्पयति कलयति । सुन्दरबाहुसंश्रयाः सुन्दरबाहुनिष्ठाः ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधाः अनीदृशाः अपरिच्छेद्य वैभवा इत्यर्थः । सकलजगत्सृष्टि स्थिति प्रवृत्तिसंहाराः यत्सङ्कल्पलवात् प्रवर्तन्ते तादृशसङ्कल्प सुन्दरबाहु समाश्रिता ऐश्वर्याद्याः अपरिच्छेद्य वैभवा इति भावः ॥ २८ ॥ यत्कल्पायुत भोगतोऽपि कृशतां यायान्न तावत्फलं ये ष्वेकस्य तथाविधै स्सततजै रहोभि रुत्सीमभिः | अस्तादा विह संसृता वुपचितै श्छन्नं सुसन्नं जनं सन्नत्या क्षमते क्षणा द्वनगिरि प्रस्थप्रिय स्सुन्दरः ॥ २९ ॥

[[121]] 1 यदिति । यत् अंहः फलं कल्पायुतभोगतोऽपि दशसहस्र- कल्पानुभवा दपि कृशतां कार्श्यम्, ईषदपि याया द्वा न वा, अल्पं क्षयमपि न गच्छे दिति निर्णयः तावत्फलं ये ष्वंहस्सु एकस्य अंहसः सम्बन्धी, तथाविधैः तादृशैः कल्पायुतभोगतोऽपि प्रत्येक मक्षय्यफलै रित्यर्थः । सततजैः निरन्तरानुष्ठितैः उत्सीमभिः असंख्यातैः इयत्तारहितै र्वा, अस्तः निरस्तः आदिर् यस्यास्सा, तस्यां संसृतौ अनादिसंसारे, इह कर्मभूमौ उपचितैर्वर्धितैः, अंहोभिः पापैः छन्नं तिरोहितं दुर्विवेचात्मस्वरूपं, अत एव सुसन्नं सुतरा मवसादं प्राप्तं जनं जन्मगुणादि तारतम्यापर्यालोचनया यं कञ्चित् सन्नत्या प्रणाममात्रेण क्षणात् तदानीम् एव, वनगिरिप्रस्थप्रियः, “स्नुःप्रस्थ स्सानु रस्त्रियाम्” इत्यमरः । वनाद्रिसानुवासे प्रीतिमान् नित्यप्रियः सुन्दरः क्षमते । “स तं निपतितं भूमौ" इत्यत्र भूमौ निपतितम् एव शरणागत इति मत्वा अत्यन्तापराधिन मपि काकं यथा क्षान्तिपूर्वकं रक्ष, तथा रक्षतीत्यर्थः ॥ २९ ॥ यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि । तज्जातीय स्तादृश स्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३० ॥ यदिति । यज्जातीयः देवमनुष्यादिजातिषु यादृशजातीयः, यादृशः यादृशाचारः, यत्स्वभावः यादृशज्ञानमयो योऽपि कोऽपि अभिजन- विद्यावृत्ततारतम्यं नापेक्षितम् इति भावः । पादच्छायां संश्रितो भवति, पादसन्निधान समाश्रयणमात्रं पर्याप्तम् इति भावः । एनं जनं सुन्दरः वत्सलत्वात्, वत्सं लालयतीति वत्सल इति निर्वचनानुगुण्येन - " दोषो यद्यपि तस्य स्यात्सता मेत दगर्हितम्” इति सदोषेष्वपि समाश्रितेषु प्रीतिमत्वात् तज्जातीय स्तादृश स्तत्स्वभाव स्सन् “अहं वो बान्धवो जातः”, “आत्मानं मानुषं मन्ये रामं दशरथात्मजम्" इत्युक्त प्रकारेण [[122]]

तत्तदाश्रितानुगुणाभिजात्य विद्यावृत्तादि विशिष्ट स्सन् । श्लिष्यति तत्संश्लेषैक भोगो भवतीत्यर्थः । पूर्वस्मिन् श्लोके अपराधसहिष्णुता क्षान्तिरिति पर्यवसितम् । अस्मिन् श्लोके दोषेष्वपि भोग्यताबुद्धिर्वात्सल्यम् इति पर्यवसितम् ॥ ३० ॥ महतो मन्दै सह नीरन्ध्रेण संश्लेशरूपं सौशील्यमपि सुन्दरभुजोऽत्यन्ता सदृशमिति, मन्दस्य मम स एव शरण मित्यनुसन्धत्ते- निहीनो जात्या वा भृश मकुशलै र्वा स्वचरितैः पुमान्वै यः कश्चिद्बहुतृण मपि स्या दगुणतः । भजन्तं तं पश्येद्भुजगपतिना तुल्य मपि यो वनाद्रिप्रस्थस्थ स्स मम शरणं सुन्दरभुजः ॥ ३१ ॥ निहीन इति । भृशं जात्या वा निहीनः अकुशलै रशुभैः स्वचरितै र्वा निहीनः यः कश्चित्पुमान् नामग्रहणायोग्योऽपि अगुणतोऽपि निहीनः । जातिवृत्तहान्योः पूर्वमुक्तत्वात् तृणदृष्टान्ताच्च पारिशेष्यात् चैतन्यहीनोऽपीत्यर्थः । सार्वविभक्तिक स्तसिः । बहुतृणं वै स्यात्, ईषदसमाप्तं तृणम् एव स्यात् । अल्पौपम्यार्थे बहुच्प्रत्ययः । पूर्ववृत्ते एतादृशेऽपि, भजन्तं तं " मा मेकं शरणं व्रज" इत्युक्त प्रकारेण शरणं व्रजन्तं तं पुमांसं यः भुजगपतिनाऽपि ‘निवासशय्यासन पादुकांशुके.." त्यारभ्य यथोचितं शेषइतीरिते जनै” रिति शेषत्व सीमाभूमितयोक्त- शेषेणाऽपि तुल्यं पश्येत् । ‘त्व मस्माकं चतुर्णां वै भ्राता सुग्रीव, पञ्चमः इति शेषावतारतया प्रतीतलक्ष्मणतुल्ययोगत्वेन सुग्रीवानुग्रहोऽत्राभिप्रेतः। सुग्रीवेच “वानराणां नाराणाञ्च कथ मासीत्समागमः” इति शङ्कनीयं शाखामृगजातीयत्वं भ्रातृभार्यागमन वृत्तहानिः तद्धेतुभूता ज्ञानञ्च द्रष्टव्यम् । वनाद्रि पस्थस्थः वनगिरिसानुवासी सः सुन्दरभुजः मम शरणं भवत्विति शेषः ॥ ३१ ॥ 77 एकैकमङ्गलगुणानुभवाभिनन्द - मीदृक्त्विया निति च सुन्दरदोष्णि कृष्णे ते ये शत त्विति नियन्तुमनाः श्रुति हैं नैवैष वाङ्मनस गोचर इत्युदाह ॥ ३२ ॥ [[123]]

एकैकेति । अभिनन्द आनन्दः, एव मसङ्ख्येय कल्याणगुण विशिष्टे सुन्दरदोष्णि सुन्दरभुजे कृष्णे एकैकमङ्गलगुणानुभवज मभिनन्दं, इदृगेवम्प्रकार एव, इयान् इयत्परिमाण इति च नियन्तुमनाः परिच्छेत्तुं प्रवृत्तचित्ता ते ये शत”म् इति श्रुति स्तु, एषः एकैकमङ्गल गुणानुभवानन्दः वाङ्मनसगोचरो नैवेत्युदाह - उदाह उच्चैर्वदति, सर्वजन श्रवणार्ह माहेत्यर्थः । है आश्चर्ये । " सैषाऽऽनन्दस्य मीमांसा भवति युवास्यात्साधुयुवाऽध्यायकः आशिष्ठो द्रढिष्ठो बलिष्ठः तस्ये यं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् - स एको मानुष आनन्दः - ते ये शतं मानुषा आनन्दाः- स एको मनुष्यगन्धर्वाणामानन्दः - श्रोत्रियस्य चाकामहतस्य ते ये शतं मनुष्यगन्धर्वाणामानन्दाः " - इत्युक्तक्रमेण देवगन्धर्व पितृ चिर लोक लोक देवाजानजदेव कर्मदेवेन्द्र बृहस्पति पर्यन्तमभिधाय, “ते ये शतं प्रजापतेरानन्दाः - स एको ब्रह्मण आनन्दः " - इत्यनन्तरं ते ये शतं ब्रह्मण आनन्दाः इत्यनभिधाय " यतो वाचो निवर्तन्ते आप्राप्य मनसा सह - आनन्दं ब्रह्मणो विद्वान्” इति श्रुतौ " स एको ब्रह्मण आनन्दः” इत्येकशब्द प्रयोगा देकैक गुणानुभवजनितानन्द एवाऽ परिच्छिन्न इति, श्रुते हृदयम् इति भावः ॥ ३२ ॥ 11 अब्जपाद मरविन्दलोचनं पद्मपाणितल मञ्जनप्रभम् । सुन्दरोरुभुज मिन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३ ॥

अब्जेति । अब्जम् इव पादो यस्य तम् । एव मरविन्दलोचनं [[124]]

पद्मपाणितलम् अञ्जनस्य प्रभेव प्रभा यस्य तम् वनाद्रिगम् वरदं, वनाद्रिवास एव वरदतायां हेतुरिति भावः । सुन्दराः उखः पीना आयताश्च बाहवो यस्य तम्, इन्दिरापतिं वन्दिषीय वन्दनविषयं कुर्याम्, अत्यन्त भोग्यविग्रहो वनाद्रिनाथ एव वरप्रेप्सुभि रुपास्य इतिभावः ॥ ३३ ॥ दिव्यविग्रहलावण्यम् एव वर्णयति - कनक मरतकाञ्जन द्रवाणा मथन समुत्थित सारमेलनोत्थम् । जयति किमपि रूप मस्य तेजो वनगिरि नन्दन सुन्दरोरुबाहोः ॥ ३४ ॥ कनकेति । अस्य वनगिरिनन्दन सुन्दरोरुबाहोः, वनगिरिशब्देन वनगिरिवासिनो जनाः उच्यन्ते, मञ्चाः क्रोशन्तीतिवत् । नन्दनः । आनन्दकरः वनगिरिनन्दनश्चाऽसौ सुन्दरोरुबाहु श्चेति विग्रहः । कनक मरतकाञ्जनद्रवाणा मित्यत्र द्वन्द्वान्ते श्रूयमाण श्शब्दः प्रत्येक मभिसम्बध्यते इतिन्यायात् द्रवशब्द स्सर्वत्राऽन्वेति । प्रत्येक भिन्नरुचिवर्णानां मथनेन समुत्थित स्समुत्पन्नो य स्सार स्सारांशः तस्य मेलनेन मिश्रीभावेन उत्थ मुत्पन्नं, किमपि अनिर्वचनीयं रूपं यस्य तत् किमपि रूपम् | किमपीत्यव्ययम्, ‘अनव्यय मव्ययेने’ त्यनुशासनात् किमपिरूप मित्ये कं पदम् । तेजः शोभा जयति । सर्वोत्कर्षेण वर्तते । कनकद्रवं मरतक द्रव, अञ्जनद्रव ञ्च प्रत्येकं स्थालीषु निधाय मथने कृते सति दधिमथने कृते तत्सारभूतनवनीत वत्समुत्थित तत्तत्सारांशानां त्रयाणां मेलने कृते सति मिलित सारांशत्रयस्य रूपं पीतहरितनीलवर्णेषु इदम् इति यथा परिच्छिद्य ज्ञातु मशक्यं भवति, तथा सुन्दरबाहुदिव्यविग्रह समुदाय शोभापि एवंरूपेति परिच्छिद्य ज्ञातु मशक्या सती सर्वोत्तरा भवतीत्यर्थः ॥ ३४ ॥ किन्नुस्वयं स्वात्मविभूषणं भव - नसावलङ्कार इतीरितो जनैः ।

[[125]] वर्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५ ॥ किन्विति । असौ सुन्दरबाहुः स्वयं स्वात्मविभूषणं भवन् स्वयमेव स्वदिव्यविग्रहालङ्कार स्सन्, जनैः दिव्यविग्रहं प्रत्यक्षयदखिलजनैः अलङ्कार इतीरितः किन्नु ? वर्धिष्णुना वृद्धिशीलेन प्रत्यह मभिवृद्धिभाजाबाल द्रुमषण्डेन तरुणतरुषण्डेन मण्डित मलङ्कृतं वनाचलं वा परितः प्रसाधयन् अलङ्कुर्वन्वा अलङ्कार इतिरितः किन्नु ? अलङ्कार इति सुन्दरबाहो र्नामान्तरम् । स्वस्यैव भूषणनिरपेक्षं स्वविग्रहालङ्कारत्वेन वा, वनाचलालङ्कारत्वेन वेति द्वेधोत्प्रेक्ष्यते ॥ ३५ ॥ सुखस्पर्शे र्नित्यैः कुसुमसुकुमाराङ्ग सुखदै - स्सुसौगन्ध्यै दिव्याभरणगण दिव्यायुधगणैः । अलङ्कार्ये स्सर्वै र्निगदित मलङ्कार इति य स्समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥ ३६ ॥ 1 सुखेति । सुखः सुखकरः स्पर्शो येषां तैः अतिसुकुमारै रित्यर्थः । सुसौगन्ध्यैः शोभन सौरभैः । अत एव कुसुमवत्सुकुमाराणां अङ्गाना मुत्तमाङ्गादिपादारविन्दपर्यन्तानां दिव्यावयवानां सुखदैः मालतीमाला सदृशै रित्यर्थः । नित्यैः भगवद्विग्रहव त्स्वयमपि नित्यैः दिव्याभरणगण दिव्यायुधगणैः सर्वैरलङ्कार्यैः किरीटमकुटादि दिव्याभरणगणरूपैः सुदर्शनपाञ्चजन्यादि दिव्यायुधगणैश्च स्वकीयदिव्यमङ्गलविग्रहेणालङ्कारार्है स्सर्वैरित्यर्थः । एतादृशै रेतै र्निगदितं निरुक्तम् अलङ्कार इति समाख्यानं नामधेयं धत्ते, स वनगिरिनाथः शरणमस्तु । श्रीविष्णुपुराणे सकलतत्त्वानां अस्त्रभूषणत्व मुक्त मस्त्रभूषणाध्याये । " सर्वज्ञा स्मुचितशक्तय स्सदैव त्वत्सेवानियमजुष स्त्वदेकभोगाः । हेतीना मधिपतय स्सदा किमेतान् शोभार्थं वरद बिभर्षि हर्षतो वा ” इति वरदराजस्तवोक्तरीत्या सुदर्शनादीना मपि भूषणत्वं सर्वपूर्वाचार्य सम्मतम् । अतस्स्वविग्रहालङ्कारतया प्रतीताना " [[126]]

माभरणाना मायुधाना मपि अतिशयाधायकतया विविधशोभासमग्र- स्वविग्रहतः एतेषामलङ्कार्यत्वं, स्वस्य अलङ्कारत्वञ्च सिध्यतीति भावः ॥ ३६ ॥ “दिव्याभरणगण दिव्यायुधगणै” रित्युक्तवर्गद्वयस्याऽप्याभरणत्वं श्लोकद्वयोनाऽह— मकुट मकुट मालोत्तंस चूडाललाम - स्वलकतिलकमालाकुण्डलै स्सोर्ध्वपुण्ड्रैः । मणिवरवनमाला हारकेयुरकण्ठ्यै- स्तुलसि कटककाञ्ची नूपुराद्यैश्च भूषैः ॥ ३७ ॥ असिजलजरथाङ्गै श्शार्ङ्गकौमोदकीभ्या- मगणित गुणजालै रायुधैर प्यथाऽन्यैः । सततविततशोभं पद्मनाभं वनाद्रे-

रुपवन सुखलीलं सुन्दरं वन्दिषीय ॥ ३८ ॥ 77 मकटुति । ‘कुलकमिदम् । मकुटं किरीटम्, मकुटामाला किरीटवेष्टनरत्नमाला, पुष्पमाला वा । उत्तंसः किरीटशिरोरत्नं, प्रशस्ताचूडा चूडाललाम, शोभना अलका स्स्वलकाः । “ अलका चूर्णकुन्तलाः इत्यमरः । तिलकानां माला तिलकमाला, मौक्तिकनद्धाग्राणां सौवर्णतिलकानां ललाटालङ्कारभूतानां माला, कुण्डलं कर्णाभरणम् । मकुट ञ्च मकुटमाला च इत्यादि द्वन्द्व समासः । सोर्ध्वपुण्ड्रैः ऊर्ध्वपुण्ड्रसहितैः । मणिवरः कौस्तुभः कण्ठ्यं कण्ठाभरण विशेषः । कटकं हस्ताभरणम् । भूषैः भूषणैः । भूषाशब्दस्य ‘नपुंसकत्वं (पुंस्त्वम्) व्याकरण निपुणविचार णीयम् । असिजलजरथाङ्गैः खड्गशङ्खचक्रैः नन्दकपाञ्चजन्यसुदर्शनैः, अगणित गुणजालैः, असङ्ख्यात गुणगणैः सर्वज्ञत्व सर्वशक्तित्वाद्यनन्त गुणगणैरित्यर्थः । अगणित गुणजालपदं विभक्ति विपरिणामेनाऽस्याऽपि विशेषणमिति बोध्यम् । शार्ङ्गकौमदकीभ्यां धनुर्वरगदावराभ्याम् अन्यैः

  1. युग्मकमित्यर्थः । 2. घञन्तत्वात् पुंस्त्वम् । स्तोत्रार्णवाधो ज्ञापिका ।

[[127]] हलमुसलपरशुप्रभृतिभिः आयुधैश्च सततं विततशोभं निरन्तरं संवर्धित सौन्दर्यं वनाद्रे रूपवने उद्याने, सुखा सुखकरी लीला यस्य तं तथोक्तं, सुन्दरं पद्मनाभं भगवन्तं वन्दिषीय वन्दनविषयं कुर्याम्, दिव्याभरणवत् दिव्यायुधधारणमपि तत्तद्दिव्यावयवातिशयाधायकम् इति भावः ॥ ३७,३८ ॥ इतः परं केशादिपादपर्यन्तान् सुन्दरबाहु दिव्यावयवान् एकत्रिंशता श्लोकैर्वर्णयति ― आजानजस्वगत बन्धुरगन्ध लुब्ध - भ्राम्यद्विदग्धमधुपालि सदेशकेशाम् । विश्वाधिराज्य परिबर्ह किरीट राजं ‘सुन्दरस्य बत! सुन्दरमुत्तमाङ्गम् ॥ ३९॥ आजानेति । आजानजः आजन्मजः सहजः स्वगतः केशगतः बन्धुरस्सान्द्रः समृद्धो वा यो गन्धः तस्मिन् लुब्धाः वाञ्छावन्तः अतएव भ्राम्यन्तः भ्रमणशीलाः विदग्धा रसिकाश्च ये मधुपाः मधुकराः तेषा माल्या पङ्कत्या सदेशकेशं समानकेशं सदृशकेशपाशम् इत्यर्थः । विश्वाधिराज्यस्य सर्वेश्वरत्वस्य परिबर्हः परिकरः किरीटराजो मकुट श्रेष्ठो यस्य तम्, उभयविभूति निर्वाहकत्वलक्षणाति विलक्षण किरीटम् इत्यर्थः । सुन्दर स्योत्तमाङ्गं सुन्दरम् | है ! आश्चर्ये; उत्तमाङ्ग सौन्दर्यवर्णन मशक्यम् इति भावः ॥ ३९ ॥ अन्धं तम स्तिमिरनिर्मितम् एव य त्स्या - तत्सारसाधित सुतन्त्वति वृत्तवार्तम् । ईशस्य केशवगिरे रलकालिजालं तत्तुल्यकुल्य मधुपाढ्यमहावनस्य ॥ ४० ॥ अन्धमिति । तत्तुल्यकुल्यमधुपाढ्यमहावनस्य तच्छब्दः अलकजालं परामृशति । तेन अलकजालेन तुल्यकुल्याः सदृशवंश्याः तुल्याकारा ये मधुपाः मधुकराः तैराढ्यं सम्पन्नं महावनं महत् विस्तृतं [[128]]

I वनं यस्मिं स्तस्य, सुन्दर बाहुचूर्णकुन्तलपङ्क्तिसदृश सुषम मधुकर प्रचुर विपुलविपिनस्येत्यर्थः । केशवगिरेः वनाद्रेः केशव इति सुन्दरबाहो र्नामान्तरं, तत्सम्बन्धी गिरिः केशवगिरिः तस्य ईशस्य नाथस्य सुन्दरबाहोः अलकालिजालं अलिसदृशालकनिकरः, यत् अन्धं तमः गाढोऽन्धकारः, तिमिरनिर्मितम् एव स्यात् तिमिरोपादान कारण कमेव भूयात् । तत्सारेण तिमिरनिर्मितान्धतम स्सारांशेन साधिता निर्मिताः ये सुतन्तवः ता न प्यतिवृत्ता अतिक्रान्ता वार्ता वृत्तान्तो यस्य तत् । तत्सार साधित सुतन्त्वतिवृत्त वार्तं भवतीति शेषः । कविभिः स्वभावत एव अन्धकार समानाकारा अलका इति उपमानोपादानेऽपि तमोनिर्मित गाढान्धकार सारांशसन्तन्यमानसुतन्तुवृत्तान्ताति क्रान्तिमन्त स्सुन्दर बाहुचूर्ण कुन्तला इत्युक्तेः तदलका अतीव काला इति भावः ॥ ४० ॥ जुष्टाष्टमीकज्वल दिन्दु सन्निभं धृतोर्ध्वपुण्ड्रं विलस द्विशेषकम् । भूम्ना ललाटं विमलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१ ॥ जुष्टेति । समुच्छ्रितश्रियः आरूढश्रियः वनाद्रिनाथस्य जुष्टा सेविता अष्टमी तिथि र्येन सः जुष्टाष्टमीकः ज्वलन् प्रकाशमानश्च यः इन्दुः तस्य सन्निभम्, अमन्दप्रकाशार्ध चन्द्रसदृशम् इत्यर्थः । धृतोर्ध्वपुण्ड्रं विलसन् प्रकाशमानो विशेषकः श्री चूर्णतिलकः कस्तूरिका वा यस्मिन् तत् विमलं ललाटं अलिकं भूम्ना तेजसा विराजते अतिशयेन प्रकाशते इत्यर्थः ॥ ४१ ॥ सुचारुचापद्वय विभ्रमं भ्रुवो - युगं सुनेत्रा सहस्रपत्रयोः । उपान्तगं वा मधुपावली युगं विरजते सुन्दरबाहु संश्रयम् ॥ ४२ ॥ सुचार्विति । सुन्दरबाहु स्संश्रयः आश्रयो यस्य तत्सुन्दर बाहुसंश्रयं

1 [[129]] सुन्दरबाहु सम्बन्धीत्यर्थः । सुचारु चाप द्वय विभ्रमं अति सुन्दरधनुर्द्वन्द्वस्य विलास इव विलासो यस्य तत्तथोक्तम् । भुवो र्युगं सुनेत्राह्वे शोभननेत्राभिधाने ये सहस्रपत्रे कमले तयोः उपान्तगं समीपगामि मधुपावलीयुगं वा भृङ्गपतिद्वन्द्वम् इव विराजते । इवार्थो वा शब्दः । “यद्वा (व वा) यथा तथैवैवं साम्ये” इत्यमरः । नेत्रयो स्सहस्रपत्रभान्त्या प्रान्तगतभृङ्गपङ्क्तिद्वन्द्वम् इव सुन्दरबाहु भ्रूयुगं शोभते इत्यर्थः ॥ ४२ ॥ अदीर्घ मप्रेमदुघं क्षणोज्ज्वलं नचोर मन्तःकरणस्य पश्यताम् । अनुब्ज मब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयो दृशोः ॥ ४३ ॥ अदीर्घमिति । अदीर्घं वर्तुलम्, अप्रेमदुषं प्रेम स्नेहं दोग्धि पूरयति, क्षरतीति वा प्रेमदुघं, तन्नभवती त्यप्रेमदुघम् । “दुहः कप् घश्च’ इति कप्प्रत्ययः । क्षणोज्ज्वलं क्रमेण ग्लानिभागित्यर्थः । पश्यता मन्तःकरणस्य नचोर ममनोहरम्, अनुब्जम्, उब्ज आर्जवे आर्जवरहितम्, चन्द्रोदयासह विकासत्वा दिति भावः । एवम्भूत मब्जं वनाद्रिनाथस्य विशालयो र्दृशोः कथं नु निदर्शनम्? न कथञ्चिदपीत्यर्थः । अदीर्घमित्यादिविशेषणविशिष्टं अब्जं कर्णान्तविश्रान्तयोः, आश्रितविषय प्रणयक्षरणशीलयोः एकरूपविकासयोः पश्यता मतिमनोहरयोः अव्याजेन सर्वजन सन्तोष प्रदयोः सुन्दरबाहुदृशोः न दृष्टान्तभूतम् इत्यर्थः ॥ ४३ ॥ प्रश्च्योत त्प्रेमसारामृतरस चुलुकप्रक्रम प्रक्रियाभ्यां विक्षिप्तालोकितोर्मिप्रसरणमुषित स्वान्त कान्ता जनाभ्याम् । विश्वोत्पत्तिप्रवृत्ति स्थितिलयकरणै कान्तशान्तक्रियाभ्यां देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षता मीक्षणाभ्याम् ॥ ४४ ॥ प्रश्च्योत दिति । वनगिरिनिलयः, अलङ्कार नामा देवः प्रश्च्योतन् प्रकर्षेण क्षरन् प्रेमसारः सारभूत स्नेहः, स एवामृतरसः ययोः, तौ च तौ [[130]]

चुलुकौ च प्रश्च्योतत्प्रेमसारामृत रस चुलुकौ तयोः प्रक्रमः प्रकारः इव प्रक्रिया प्रकारो ययोस्ताभ्याम् । चुलुकः प्रसृतिः एककरोदरपरिमाणम् । चुलुकदृष्टान्तोक्तिः मन्दं मन्द मनुभव सौकर्याय। अमृतरसपरिपूर्ण प्रसृति सदृशता प्रेमरसनिष्यन्दिसुन्दरबाहुलोचनयोः फलिता । विक्षिप्तानि विशेषेण प्रेरितानि आलोकितानि विलोकनान्येव ऊर्मय स्त रङ्गा स्तेषां प्रसरणेन सञ्चारेण मुषितस्वान्तः अपहृतहृदयः कान्ताजनः सुन्दरी समूहो याभ्यां ताभ्यां युवतिजनमनोविलास शालि विलोकिताभ्याम् इत्यर्थः । विश्वस्य कृत्स्नस्य चेतनाचेतनसमुदायस्य उत्पत्तिप्रवृत्तिस्थितिलयानां करणे विधाने एकान्तशान्ता नितान्त मव्यग्रा क्रियाव्यापारो ययो स्ताभ्यां तथोक्ताभ्यां, सकलजगत्सृष्टिस्थितिप्रलयविधानेऽप्यनत्यन्त प्रवृत्तिकाभ्यामित्यर्थः । ईक्षणाभ्यां वीक्षताम्। अनन्यलक्ष्य समग्रानुग्रह कटाक्षलक्ष्यं करो त्वित्यर्थः [[118]]8 11 प्रेमामृतीय परिवाहिमहाक्षिसिन्धु - मध्ये प्रबद्ध समुदञ्चित सेतुकल्पा । ऋज्वी सुसुन्दरभुजस्य विभाति नासा कल्पद्रुमाङ्कुर निभा वनशैलभर्तुः ॥ ४५ ॥ प्रेमेति । वनशैलभर्तुः सुसुन्दरभुजस्य ऋज्वी निरन्तरानुभवेऽपि अभिनवी भवदेकरूपशोभेत्यर्थः । कल्पद्रुमाङ्कुरनिभा कल्पतरुपल्लवतुल्या नासा प्रेमैवाऽमृतौघः तं परिवहति प्रवहतीति प्रेमामृतौघपरिवाहि महच्च यदक्षि चक्षुः तदेव सिन्धुः समुद्रः तस्य मध्ये प्रबद्ध स्समुदञ्चितः अत्यन्तसम्भावितश्चय’स्सेतु स्तेन कल्पा तुल्या भवति । अक्ष्ण स्सुन्धित्वनिरूपणा देकवचनेनैव अक्षिद्वयस्य क्रोडीकारः, इतरथा मध्यशब्द विरोधश्च । सुन्दरबाहो रक्षिशोभानु भवाया वतीर्णानां तत्रत्य

  1. यः ईषदसमाप्तः सेतुः सेतुकल्पा, सेतुतुल्या भवति इत्युचितम् ।

[[131]] प्रेमरस मज्जनेन अवयवान्तर शोभानु भव गमनाशक्तानाम् अनुभवितृचक्षुषां नासा सेतु रिव पारगमन साधन मित्यभिप्रायः ॥ ४५ ॥ व्याभाषिताभ्यधिक नन्दन भन्दनर्धि मन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् । आभाति विद्रुम समाधर मास्य मस्य देवस्य सुन्दरभुजस्य वनादिभर्तुः ॥ ४६ ॥ व्याभाषितेति । वनाद्रिभर्तुः सुन्दरभुजस्य अस्य देवस्य व्याभाषिते व्याभाषणे अभ्यधिकनन्दना अत्यन्तानन्दकरी भन्दना शुभा च ऋद्धिः समृद्धिः यस्य तत्तथोक्तम्, यत् मन्दस्मितं तदेवामृतपरिस्रवः अमृतनिष्यन्दः तस्य संस्तवेन परिचयेन आढ्यं सम्पन्नम् । भदि कल्याणे इति धातुः ॥ “स्मितपूर्वाभिभाषिणम्” इत्युक्तरीत्या आभाषणकालीना-त्यन्तानन्द कल्याण स्वोन्मेष मन्द स्मितामृत निष्यन्द परिचयोपचितशोभम् इत्यर्थः । आभाषणकालीनात्यन्तभोग्य मन्दस्मित सम्पन्नम् इति यावत् । विद्रुमसदृशाधरं प्रवालसदृशाधरम् आस्यं मुखं विभाति; आभाषण कालीनातिपाटलाधरासङ्गिमन्दस्मित मास्यशोभाहेतु रिति भावः ॥ ४६ ॥ यशोदाङ्गुल्य ग्रोन्नमित चुबुकाघ्राणमुदितौ कपोला वद्याऽपि ह्यनुपरततद्धर्षगमकौ । विराजेते विष्वग्वितत सहकारासवरस प्रमाद्य द्धृङ्गाढ्य द्रुमवनगिरे स्सुन्दरहरेः ॥ ४७ ॥ यशोदेति । विष्व ग्विततानां सर्वतोविस्तृतानां सहकारवृक्षाणां आसवरसेन मत्तभ्रमर सम्पूर्ण द्रुमः वनगिरिर् यस्य तस्य सुन्दरहरेः सुन्दराख्यस्य भगवतः यशोदाङ्गुल्यग्रेण उन्नमित मुन्नतीकृतं यच्चुबुक मधराधः प्रदेशः तस्य आघ्राणेन मुदितौ स्फीतौ । यशोदया वात्सल्यातिशयेन कृष्णचुबुकं स्वानुल्यग्रेण उन्नमय्य आघ्राणे कृते सति कपोलयोः कश्चिद्विकासो जात इत्यर्थः । अद्याऽपि कालविप्रकर्षेऽपि [[132]]

सुन्दरबाहुतयाऽवतारेऽपि अनुपरत तद्धर्षगमको अनुवर्तमान तदानीन्तन प्रफुल्लता सूचकौ तथैव विकसितौ कपोलौ विराजेते हि । हि शब्द प्रयोगात् अयं कपोलयो र्विकासः सुन्दरबाहुसेवा समागत सर्वजनानुभाव्य इत्यर्थः ॥ ४७ ॥ व्यालम्बिकुण्डलमुदग्रसुवर्णपुष्प निष्पन्नकल्पलतिका यमलानुकारम् । यत्कर्णपाशयुगलं निगलं धियां न- स्सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८ ॥ व्यालम्बीति । व्यालम्बिकुण्डल मंसप्रान्त प्रलम्बि स्वर्णकुण्डलम् । “कुण्डलं कर्णवेष्टनम्” इत्यमरः । अत एव उदग्रसुवर्णपुष्पनिष्पन्नस्य उच्छ्रितच्छ विचामीकरकुसुमसम्पन्नस्य कल्पलतिका यमलस्य कल्पलतायुगलस्य अनुकारः सारूप्यं यस्य त तथोक्तं यत्कर्णपाशयुगलं नः अस्माकं धियां मतीनां निगलं भवति अतिसुन्दरत्वात् दिव्याव- यवान्तरानुभवगमनप्रतिबन्धकं विषयान्तर सञ्चारनिरोधकं वा भवतीत्यर्थः । सोऽयं सुन्दरभुजः वनशैलभूषा वनशैल मलङ्करोतीत्यर्थः ॥ ४८ ॥ सदंससंसञ्जित कुन्तलान्तिका - ऽवतीर्णकर्णाभरणाढ्यकन्धरः । सुबन्धुर स्कन्ध निबन्धनो युवा सुसुन्दर स्सुन्दरदो र्विजृम्भते ॥ ४९ ॥ सदंसेति । सन्तौ सुन्दरौ या वंसौ भुजशिरसी, तयो स्संसञ्जितानां संसक्तानां कुन्तलानां चूर्णकुन्तलानां अन्तिके समीपे अवतीर्णेन प्रलम्बमानेन कर्णाभरणेन आढ्या सम्पन्ना शोभिता कन्धरा ग्रीवा यस्य स तथोक्तः, असानुषक्तचूर्णकुन्तलपर्यन्तप्रलम्बिकुण्डलमण्डितकन्धर इत्यर्थः । सुबन्धुरं सुदृढं स्कन्धस्य कण्ठापरभागस्य निबन्धनं सन्धिबन्धो यस्य स तथोक्तः । युवा - अनेन बाल्य यौवन सन्धि र्लक्ष्यते - “युवा कुमार " इत्यभिधानात् । सुन्दरदोः - सुन्दरौ दोषौ यस्येति विग्रहः, सुन्दरबाहुः, सुसुन्दरो विजृम्भते, अत्यन्त सुन्दरत्वेन भुवने प्रथितो भवतीत्यर्थः ॥ ४९ ॥ व्यूढगूढभूज जत्रु मुल्लस- त्कम्बुकन्धरधरं धराधरम् । वृक्षषण्डमयभूभृत स्तटे सुन्दरायत भुजं भजामहे ॥ ५० ॥ [[133]] व्यूढेति । व्यूढे भारसहे गूढे मांसलतया तिरोहिते च भुजजत्रुणी भुजशिर स्सन्धिबन्धास्थिविशेषौ यस्य तं तथोक्तम् । उल्लसन् कान्तः कम्बु शङ्खस्स इव कन्धरा ग्रीवा यस्य सः उल्लसत्कम्बुकन्धरः, धरः निर्वाहकः, उल्लसत्कम्बुकन्धरश्चाऽसौ धरश्चेति विग्रहः; इतरथा कन्धर- शब्दस्य स्त्रीलिङ्गत्वविरोधः । वृक्षषण्डमयभूभृतः वन प्रचुरगिरेः; प्राचुर्यार्थे मयट् प्रत्ययः वनाद्रे रित्यर्थः । तटे पर्यन्तप्रदेशे धराधरं क्षमारक्षकं सुन्दरायतभुजं भजामहे । सर्वनिर्वाहकत्वेऽपि सौलभ्येनाऽस्मादृश- संरक्षणाय वनगिरिनिवासिनं सेवामहे इति भावः ॥ ५० ॥ मन्दरभ्रमण विभ्रमोद्भटा- स्सुन्दरस्य विलसन्ति बाहवः इन्दिरासमभिनन्द भन्दना

श्चन्दनागरु विलेपभूषिताः ॥ ५१ ॥ मन्दरेति । मन्दरस्य मन्थनाचलस्य भ्रमणं घूर्णनम् एव विभ्रमो विलासः, तत्र उद्भटा उत्साहवन्तः इन्दिरायाः श्रियः समभिनन्दे आनन्दे भन्दनाः कल्याणाः, सुखा वा । भदि कल्याणे सुखे च इति धातुः । इन्दिरानन्दकरा इत्यर्थः । चन्दनागरुविलेपेन चन्दनागरुपङ्क रूपाङ्गरागेण भूषिताः सुन्दरस्य बाहवः विलसन्ति पयोधिमथनकाल एव लक्ष्म्याः प्रादुर्भावात् मन्दर भ्रमण विभ्रमोद्भटत्वं इन्दिरा समभिनन्द भन्दनत्वे हेतु रिति भावः ॥ ५२ ॥ ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दर भुजस्य बाहवः पारिजात विटपायितर्धयः प्रार्थितार्थ परिदानदीक्षिताः ॥ ५२ ॥ [[134]]

1 ज्याकिणेति । ज्याकिणः धनुरारोपण शरसन्धान कालीन मौर्व्याघात जातः प्रकोष्ठनिष्ठो व्रणविशेषः, स एवाऽङ्कः चिह्नं स एव परिकर्म अलङ्कारः, स एव धर्मः एषा मस्तीति ज्याकिणाङ्क परिकर्मधर्मिणः, ज्याघातालङ्कृता इति यावत् । महावीरबाहुलक्षण मिदम्। सर्वेषामपि भुजानां मौर्व्याघातोक्ते स्सव्यसाचित्व मपि सिद्धम् । प्रार्थितार्थपरिदानदीक्षिताः आश्रितजन प्रार्थितपुरुषार्थ प्रदाने कृत सङ्कल्पा इत्यर्थः । अत एव पारिजात विटपायिता पारिजात शाखावदाचरिता ऋद्धि स्समृद्धिः, विशेषणद्वय प्रतिपादित- शौर्यानुगुण वृत्तायत पीनत्वौदार्यरूप सम्पत् येषां ते तथोक्ताः सुन्दरभुजस्य बाहवः भान्ति, शौर्यौदार्ये एव भुजशोभाहेतु रिति भावः ॥ ५२ ॥ सागराम्बर तमाल कानन श्यामलर्द्धय उदारपीवराः । शेषभोग परिभोग भागिन - स्तन्निभा वनगिरी शितु र्भुजाः ॥ ५३ ॥ 1 सागरेति । सागराम्बरतमालकाननवत् श्यामला ऋद्धिः शोभा- समृद्धिः येषां ते तथोक्ताः । श्यामलपद समभिव्याहार बला दृद्धिशब्दः शोभासमृद्धिपरः, श्यामल शब्द एव श्यामतापरो वा । सागराणां नानावर्णत्वेऽपि सामान्यतः कविसमयसिद्धो नीलि मैव, नीलं नभ इति प्रतीतिवत्; ईश्वरस्याऽपि स एवेति भावः । उदारपीवराः आयताः पीनाश्च । शेषभोगपरिभोग एव भागः एषामस्तीति तथोक्ताः । शेषशरीररूप- शय्यासुखानुभवे अंशवन्त इत्यर्थः । भोगः सर्पशरीम् । परिभोगः अनुभवः । भागः अंशः । तन्निभाः शेषभोगनिभाः वनगिरीशितुः वनगिरीश्वरस्य भुजाः भान्तीति पूर्वेणान्वयः ॥ ५३ ॥ अहमहमिका भाजो गोवर्धनोद्धृति नर्मणि प्रमथनविधा वब्धे र्लब्ध प्रबन्ध समक्रियाः अभिमतबहू भावाः कान्ताभिरम्भण सम्भ्रमे वनगिरिपते र्बाहा श्शुम्भन्ति सुन्दरदोहरेः ॥ ५४ ॥

[[135]] अहमहमिकेति । अहम्पूर्व महम्पूर्वम् इति या प्रवृत्ति स्सा अहमहमिका। गोवर्धनोद्धृतिनर्मणि गोवर्धनोद्धरणलीलायां अहमहमिका भाजः प्रत्येकं स्वातन्त्र्येण प्रवृत्ता इत्यर्थः । अब्धेः प्रमथनविधौ मथनविधाने, “विधि विधाने दैवेऽपि " इत्यमरः । लब्धप्रबन्धाः प्राप्तानुषङ्गाः समा स्तुल्या श्च क्रियाः व्यापाराः यासां ता स्तथोक्ताः, चिरकालं चतुर्भिरपि भुजै र्मथितम् इति भावः । कान्ताभिरम्भण सम्भ्रमे इन्दिरापरिरम्भणत्वरायां अभिमत बहूभावाः अभिलषित बहुत्वाः, अपर्याप्ते रिति भावः । बहूभावा इत्यत्र “ अभूत तद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः” इति च्चिप्रत्यये कृते " च्वौच” इति दीर्घः । वनगिरिपते स्सुन्ददोहरेः सुन्दरबाहु संज्ञस्य भगवतः बाहाः बाहवः शुम्भन्ति शोभन्ते । शुभशुम्भशोभार्थे इति धातुः ॥ ५४ ॥ I श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्म - मारुढयो र्विमल शङ्खरथाङ्गयो स्तु । एकोऽब्ज माश्रित इवोत्तमराजहंसः पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५ ॥ श्रीमदिति । श्रीमतो वनाद्रिपतेः पाणितले करतले एवाऽब्जयुग्म मरविन्दद्वन्द्वम् आरूढयोः आरुह्य स्थितयोः, विमलश्चाऽसौ शङ्खश्च रथाङ्गञ्च तयोः, निर्धारणे षष्ठी, तयोर्मध्ये इत्यर्थः । एकस्तु पाञ्चजन्य स्तु अब्जमाश्रितः उत्तमराजहंस इव; द्वितीय स्तु तत्समितः पद्मं प्राप्तः पद्मप्रियः पद्मे प्रीतिमान् अर्क इव, भातीति शेषः । इयञ्चाऽभूतोपमा ॥ ५५ ॥ लक्ष्म्याः पदं कौस्तुभसंस्कृतञ्च श्रीवत्सभूमि र्विमलं विशालम् । विभाति वक्षो वन मालयाऽऽढ्यं वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६ ॥ लक्ष्म्या इति । लक्ष्म्याः पदं वासस्थानं, कौस्तुभेन संस्कृतम्, [[136]]

अलङ्कृतम् । “परिकर्माऽङ्गसंस्कारः" इत्यमरः । श्रीवत्सस्य भूमिः वासभूमिः वनमालयाऽऽढ्यं सम्पन्नं शोभितं विमल मुज्ज्वलं, विशालं विस्तृतं वनाद्रिनाथस्य सुसुन्दरस्य वक्षः भाति । लक्ष्मी - कौस्तुभ - श्रीवत्स- वनमालाना मसाधारणाभरणत्वा दतिविलक्षणलक्ष्मीकं सुन्दरबाहु वक्ष इति भावः ॥ ५६ ॥ सौन्दर्यामृत सारपूर परिवाहावर्त गर्तायितं यातः किञ्च विरिञ्चि सम्भवन भूम्यम्भोज सम्भूति भूः । नाभि श्शुम्भति कुम्भिकुम्भनिभनिर्भात स्तन स्वर्वधू - सम्भुक्त द्रुमषण्ड शैल वसते रारूढ लक्ष्म्या हरेः ॥ ५७ ॥ सौन्दर्येति । “कुम्भौ तु शिरसः पिण्डौ ” इत्यमरः । कुम्भिकुम्भौ गजशिरः पिण्डौ, तयोर्निभा स्सदृशाः । निर्भातस्तनाः नितरां द्योतिताः स्तना यासां ताः, कुम्भिकुम्भनिभतेजिष्ठस्तनाः ताश्च स्वर्वध्वश्च सुरलोक सुन्दर्यः ताभि स्सम्भुक्तः अनुभूतो यो द्रुमषण्डशैलो वनगिरिः स एव वसति र्वासस्थानं यस्य तथोक्तस्य आरूढलक्ष्म्याः आरूढश्रीनाम्नो हरेः भगवत स्सौन्दर्यमेवाऽमृतसारः सुधारसः तस्य पूरः प्रवाहः तस्य परिवाहः, “जलोच्छ्वासाः परीवाहाः " इत्यमरः । महाप्रवाहा निर्गतः प्रवाहभेदः परिवाहः तस्य गर्तायितम् आवर्तवदाचरितं यातः प्राप्तः । किञ्च, विरिञ्चि सम्भवनभूमिः पितामहोत्पत्तिस्थानं, यदम्भोजं, तस्य सम्भूतिभूः उत्पत्तिस्थानं नाभिः शुम्भति शोभते । हस्तिमस्तक तुल्यदीप्तस्तन सुरसुन्दरीपरिभुक्तो वनाद्रि रित्यनेनाऽद्रे रौन्नत्यभोग्यते ज्ञापिते । सुन्दरबाहोः प्रत्येकं तत्तदवयव सौन्दर्यस्यामृतसारत्वं अवयवसमुदाय सौन्दर्यस्य पू रत्वं, नाभे स्तदेकदेशावर्तत्व ञ्चोत्प्रेक्ष्यते ॥ ५७ ॥ सुन्दरस्य किल सुन्दर बाहो- श्रीमहातरुवनाचलभर्तुः । हन्त यत्र निवसन्ति जगन्ति प्रापितक्रशिमतत्तनुमध्यम् ॥ ५८ ॥

[[137]] सुन्दरस्येति । महान्त स्तरवो यस्मिन् स तथोक्तो यो वनाचलः तद्भर्तुः सुन्दरबाहोः सुन्दरस्य यत्र मध्ये जगन्ति निवसन्ति प्रलयसमय इति भावः । तत्तनुमध्यं दिव्यविग्रहावलग्न प्रदेशः उदरमित्यर्थः । प्रापितक्रशिम गमित कार्यं किल । हन्तेत्याश्चर्ये । सकलजगन्निवासभूतस्याऽपि | 1 भगवदुदरस्य कार्श्य माश्चर्यम् इतिभावः ॥ ५८ ॥ पिष्टदुष्ट मधुकैटभ कीटौ हस्तिहस्त युगलाभसुवृत्तौः । राजतः क्रमकृशौ च सदूरू सुन्दरस्य वनभूधर भर्तुः ॥ ५९ ॥

पिष्टेति । वनभूधर भर्तुः सुन्दरस्य पिष्टौ चूर्णीकृतौ दुष्टौ वेदापहारा दिदोषयुक्तौ मधुकैटभा वेव कीटौ अतिक्षुद्रजन्तु विशेषौ याभ्यां तौ तथोक्तौ मधुकैटभा वुभावपि – “ऊरुद्वयेन निष्पिष्य जघान भगवान् ” इति पुराण प्रसिद्धिः । हस्ति हस्त युगलाभौ करिकरद्वन्द्वद्युती च तौ सुवृत्तौ च तथोक्तौ, सुवृत्ततया करिकरसदृशा वित्यर्थः । क्रमकृशौ च हस्ति हस्तवत् क्रमेण कार्श्यभाजा वित्यर्थः । ऊरो स्सन्धिप्रदेश मारभ्य, अधस्ता त्क्रमेण कार्श्यमावश्यकंशोभाया इति भावः । सुदूरु शोभना वूरु राजतः विलसतः ॥ ५९ ॥ यौवनवृषककुदोद्भेद निभं नितरां 1 भाति विभो रुभयं जानु शुभाकृतिकम् । सुन्दरभुजनाम्नो मन्दर मथिताब्धे श्चन्दन वन विलसत्कन्दर वृषभपतेः ॥ ६० ॥ यौवनेति । चन्दनवनेन विलसत्कन्दरो दरी यस्य तस्य वृषभस्य वृषभगिरेः पत्युर्नाथस्य मन्दरमथिताब्धेः मन्थनाचल मथितपयोनिधेः सुन्दरभुजनाम्नः विभोः स्वामिनः यौवनम् एव वृषो वृषभः तस्य ककुदः स्कन्धः पृष्ठमध्यगतः उन्नतावयवविशेषः तस्य उद्भेदः अङ्कुरः, तस्य निभं सदृशम् । “प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्”, “अङ्कुरो- [[138]]

ऽभिनवोद्भिदि” इत्युभयत्राऽप्यमरः । शुभाकृतिकं सुन्दराकारं उभयं जानु जानुद्वयं नितरां भाति सुन्दरबाहुजानु तदीययौवनवृषभस्य ककुदोन्मेषवद्भातीति भावः ॥ ६० ॥ अधोमुखं न्यस्त पदारविन्दयो रुदिञ्चितोदात्त सुनाल सन्निभे । विलङ्घय जङ्घ क्व नु रंहतो दृशौ वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१ ॥ अधोमुखमिति । वनाद्रिनाथस्य सुसुन्दरस्य अधोमुखं यथातथा न्यस्ते निहिते पदा वेव अरविन्दे, तयोः उदञ्चितोदात्तसुनालसन्निभे वृत्तायतरुचिरनाल सन्निभे, जङ्घे जानुपादमध्यप्रदेशौ विलङ्घय अतिक्रम्य मे दृशौ क्वनु रहंतः क्ववा गच्छतः रहिर्गत्यर्थः सुन्दरबाहुजङ्घयो रति सुन्दरत्वात् तदनुभवप्रवृत्ते मम दृशौ अवयवान्तर शोभानपेक्षे भवत इति भावः ॥ ६१ ॥ सुसुन्दरस्याऽस्य पदारविन्दे पदारविन्दाधिक सौकुमार्ये । अतोऽन्यथा ते बिभृयात्कथं नु तदासनं नाम सहस्रपत्रम् ॥ ६२ ॥ 1 सुसुन्दरस्येति । अस्य सुसुन्दरस्य पदारविन्दे चरणाम्बुजे पदारविन्दात् पादपीठारविन्दात् आसनपद्मात् अधिकं सौकुमार्य मार्दवं ययोस्ते तथोक्ते भवतः । अतोऽन्यथा उक्त प्रकारा दितरथा चेत् आसनं नाम तत्सहस्र पत्रं आसनत्वेन पादपीठत्वेन प्रसिद्धं तदरविन्दं ते पदारविन्दे कथ न्नु बिभृयात्, कथं वा वहेत् ? अतः सौकुमार्यातिशयपराजित मासन पद्मं पदारविन्दे वहतीत्यर्थः ॥ ६२ ॥ उक्त मर्थम् एव मुखान्तरेणाऽऽख्याति - सौन्दर्यमार्दव सुगन्धरस प्रवाहै रेते हि सुन्दरभुजस्य पदारविन्दे ॥

अम्भोज दम्भपरिरम्भण मभ्यजैष्टां तद्वै पराजित मिमे शिरसा बिभर्ति ॥ ६३ । [[139]] सौन्दर्यम् इति । एते सुन्दरभुजस्य पदारविन्दे सौन्दर्य माभिरूप्यं मार्दवं सौकुमार्यं, शोभनो गन्धः सुगन्धः । रस प्रवाहः - ‘विष्णोः पदे परमे मध्व उत्सः’, इत्युक्तो मकरन्द प्रवाहः, एतैः, अम्भोजस्य यो दम्भःशोभामार्दवसौरभ्यमकरन्दनिष्यन्दवत्ताप्रयुक्तं पादारविन्दप्रतिद्वन्द्विता विडम्बनं तस्य परिरम्भणं प्रसङ्गं अभ्यजैष्टां जितवती । जि अभिभवे इति धातोः परस्मैपदिलुङ् द्विवचनम्, पराजितं तत् अम्भोजं इमे पादारविन्दे शिरसा बिभर्ति वहति । सुन्दरबाहुपादारविन्दाभ्यां नित्यनिरवद्य निरतिशय सौन्दर्यसौकुमार्य सौगन्ध्य मकरन्द प्रवाहाभ्यां पराजितं लौकिक मब्जं तदास नत्वेनाऽवतीर्य ते मूर्ध्ना बिभर्तीत्यर्थः ॥ ६३ ॥ एते ते बत सुन्दराह्वयजुषः पादारविन्दे शुभे यन्निर्णेज समुत्थित त्रिपथगा स्रोतस्सु किञ्चित्किल । धत्तेऽसौ शिरसा ध्रुव स्तदपरं स्रोतो भवानीपति-र् यस्यास्यालक निन्दिकेति निजगु र्नामैव मन्वर्थकम् ॥ ६४ ॥ एतइति । यन्निर्णेजेन सुन्दरबाहुपादारविन्दशोधनेन समुत्थिता उद्भूता या त्रिपथागा गङ्गा तत्स्रोतस्सु किञ्चित् एकं स्रोतः, “स्रोतोऽम्बुसरणं स्वत” इत्यमरः । असौ ध्रुवः ज्योतिश्चक्राधारतया परिदृश्यमान औत्तानपादिः, “ध्रुव औत्तान पादिः स्यात्” इत्यमरः । धत्ते निर्वहति, आधारो भवतीत्यर्थः । भवानीपतिः पार्वतीपतिः तदपरं तदपेक्षयाऽन्यत् स्रोतो धत्ते शिरसा वहति । यस्याऽस्य रुद्रशिरोधृतस्य स्रोतसः अलकनन्दिकेति अन्वर्थकं नाम, अलकं नन्दयतीति अलकनन्दिका इत्यनुगतार्थं नामधेयं निजगुः ऊचुः, पौराणिका इति शेषः । सुन्दराह्वयजुषः सुन्दर इति नामभाजः । एते ते पादारविन्दे त्रैलोक्यपावन गङ्गोत्पादकतया अत्यन्तपावने सुन्दरबाहुपादारविन्दे शुभे भोग्ये इत्यर्थः । बतेत्याश्चर्ये । पावनयोरेव अत्यन्त भोग्यता च आश्चर्यकरी इति भावः ॥ ६४ ॥ 12 [[140]]

आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुह राजहंसम् । उत्पक्वधर्म सहकार फल प्रकाण्डं वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५ ॥ आम्नायेति । आम्नायः श्रुतिरेव कल्पलतिका तस्यां उत्थं उद्भूतं सुगन्धि शोभनागन्धञ्च यत्पुष्पं तत् आम्नायकल्पलतिकोत्थसुगन्धिपुष्प मित्यभेदाध्यवसायः । एव मुत्तरत्राऽपि । हृदि भवं हार्दं, योगीन्द्राणां हार्दसरसीरुहे हृदयकमले राजहंसं, हंसस्य कमलमध्यवर्तित्वा दिति भावः । उत्पक्कः परिपक्को यो धर्मः स एव सहकारः आम्रविशेषः तस्य फल प्रकाण्डं फलश्रेष्ठ, सुन्दरभुजस्य पदारविन्दं वन्देय भजेयं, श्रुतिशिरः प्रतिपाद्यं योगिध्येयं ध्यानफलञ्च सुन्दरबाहुपदारविन्दम् एवेति केवल मनुक्त्वा पुष्पराज हंस सहकारफल प्रकण्ड निरूपणात् श्रुतिशिरस्सौलभ्यावहत्वं, योगिहृदयावास रसिकत्वं परमपुरुषार्थत्वञ्च अभिप्रेतम् इति मन्तव्यम् ॥ ६५ ॥ सुसुन्दरस्याऽस्य तु वामनाकृतेः क्रमत्रयप्रार्थिनि मानसे किल । इमे पदे ताव दिहाऽसहिष्णुनी विचक्रमाते त्रिजगत् पदद्वये ॥ ६६ ॥ सुसुन्दरस्येति । वामनाकृतेरस्य सुसुन्दरस्य मानसे तु क्रमत्रयप्रार्थिनि, महाबलिसकाशात् विक्रमत्रयपरिमिता भूमिर्दातव्येति प्रार्थनभाजि सति, इमे पदे चरणौ इह भूमौ तावत् विक्रमत्रयं असहिष्णुनी असहमाने सती त्रिजगत् त्रैलोक्य मपि पदद्वये विक्रमद्वये विचक्रमाते विक्रान्तवती । पदयो राश्रितसंरक्षण त्वरातिशय स्तादृश इति भावः ॥ ६६ ॥ सौन्दर्य सारामृतसिन्धुवीचि - श्रेणीषु पादाङ्गुलि नामिकासु । न्यक्कृत्य चन्द्रश्रिय मात्मकान्त्या नखावली शुम्भति सुन्दरस्य ॥ ६७ ॥

[[141]] सौन्दर्येति । सुन्दरस्य पादाङ्गुलिनामिकासु पादशाखासमाख्यासु सौन्दर्यसारामृतवीचिश्रेणीषु, सौन्दर्यसार एव सारभूतं सौन्दर्यम् एव अमृतसिन्धुः सुधासागरः तस्य वीचिश्रेणीषु तरङ्गपङ्क्तिषु सौन्दर्यसारामृतसिन्धुवीचि श्रेणित्वेन निरूपितासु पादाङ्गुली ष्विति यावत् । नखावली नखापङ्क्ति चन्द्रश्रियं चन्द्रपङ्क्ति शोभां न्यक्कृत्य नीचीकृत्य जित्वा शुम्भति शोभते, “ न्यङ् नीच खर्वह्रस्वाः स्युः” इत्यमरः । पादाङ्गुलीनां वीचिश्रेणित्वेन निरूपितत्वात्, तत्र प्रतिफलित चन्द्रपङ्क्तित्वेन नखावल्युत्प्रेक्ष्यते । लोके प्रतितरङ्गं चन्द्रबिम्ब प्रतिफलनं प्रसिद्धं हि ॥ ६७ ॥ यो जातक्रशिमा मली च शिरसा सम्भावित श्शम्भुना सोऽयं यच्चरणाश्रयी शशधरो नूनं नखव्याजतः । पूर्णत्वं विमलत्व मुज्ज्वलतया सार्धं बहुत्वं तथा यात स्तं तरुषण्ड शैलनिलयं वन्दामहे सुन्दरम् ॥ ६८ ॥ य इति । शम्भुना शिरसा सम्भावितः धृतः यः शशधरः जातक्रशिमा सञ्जातकार्श्यः क्षयिष्णुः मली कलङ्की च अभू दिति शेषः । सोऽयं शशधरः नखव्याजतः यच्चरणाश्रयी यत्पादाश्रयवान् सन् पूर्णत्वं सर्वदा समग्रत्वं, विमलत्वं निष्कलङ्कत्वं, तथा उज्ज्वलतया सार्धं प्रकाशाधिक्येन सह बहुत्वञ्च दशविधशरीरत्वञ्च यातः प्राप्तः तरुषण्डशैलनिलयं वनाद्रिवासिनं तं सुन्दरं वन्दामहे भजामहे । देवतान्तर शिरोधारणेऽपि कार्श्यकलुष- विशिष्टस्य चन्द्रस्य यत्पादाश्रये सति पूर्णत्व विमलत्वोज्ज्वलत्वबहुत्वानि जातानि स एव सुन्दरबाहुः श्रेयस्कामाना मस्माकंसमाश्रयणीय इति भावः ॥ ६८ ॥ यस्याः कटाक्षण मनुक्षणमीश्वराणा- मैश्वर्यहेतुरिति सर्वजनीन मेतत् । श्री स्सेति सुन्दर निषेवणतो निराहु - स्त्वां हि श्रियः श्रिय मुदाहु रुदारवाचः ॥ ६९ ॥ [[142]]

यस्या इति । ईश्वराणां शक्रादीनां ऐश्वर्यहेतुः तत्तदधिकार सम्पत्कारणम् अनुक्षणं प्रतिक्षणं यस्याः श्रियः कटाक्षणं कटाक्षः इत्येत त्सर्वजनीनं सर्वजनप्रसिद्धम् । सुन्दरनिषेवणतः सुन्दरबाहुसमाश्रयणाद्धेतोः सा सर्वसुराधीश्वराणामप्यैश्वर्यहेतु स्वीय कटाक्षा सा श्रीरिति निराहुः श्रयते इति श्रीः इति निर्वचन्ति । श्रिञ सेवायाम् इति धातो स्सेवार्थकत्वात्, भगवन्तं निरन्तरं सेवते इति हेतोः श्रीरिति निर्वचन मकुर्वन्नित्यर्थः । उदारवाचः सर्वतत्त्वार्थप्रदस्वप्रबन्धाः भगवद्वाल्मीकि यामुनाचार्य प्रभृतयः त्वां श्रियः श्रिय मुदाहु र्हि उच्चै र्वदन्ति हि । श्रीरामायणे “श्रियः श्रीश्च भवेदग्ग्रा कीर्त्याः कीर्तिः क्षमाक्षमा ” इति । स्तोत्ररत्ने " कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः” इति । ईश्वरत्वेनाऽभिमतानां समस्तानां समस्तावह स्वकीयकटाक्षाया लक्ष्म्या अपि भगवानति शयावह इति भावः ॥ ६९ ॥ दिव्याचिन्त्य महाद्भुतोत्तमगुणै स्तारुण्यलावण्यक - प्रायैरद्भुत भावगर्भ सततापूर्वप्रियै र्विभ्रमैः । 1 रूपाकार विभूतिभिश्च सदृशीं नित्यानपेतां श्रियं नीलां भूमिमपीदृशीं रमयिता नित्यं वनाद्रीश्वरः ॥ ७० ॥ दिव्येति । दिव्याः अप्राकृताः अचिन्त्याः ईदृक् प्रकाराः इयत्परिमाणाः इति चिन्ययितु मशक्याः, अत एव महाद्भुताः अत्याश्चर्यकराः उत्तमाः स्वसम्बन्धिनोजनस्य अत्यन्तवैलक्षण्यापादकाश्च ये गुणाः ज्ञानशक्त्यादयो दयावात्सल्यादयश्च तैः स्वरूपगुणैः. तारुण्यलावण्यकप्रायैः यौवन-समुदायशोभाप्रभृतिभि र्विग्रहगुणैश्च । अद्भुतो भावोऽभिप्रायो गर्भे येषां ते अद्भुतभावगर्भाः सततापूर्वाः निरन्तरानुभवेऽपि भोग्यतातिशयेन कदाऽप्यननुभूता इवाभिनवी भवन्तः, प्रियाः स्पृहणीयाश्च ये विभ्रमाः विलासाः तैश्च रूपाकारविभूतिभिश्च रूपं स्वरूपम्, आकारो विग्रहसन्निवेशः, विभूति स्सम्पत्, उभयविभूत्यैश्वर्यं रूपाकारविभूतिभिश्च सदृशीम् । “तुल्यशीलवयोवृत्तां तुल्याभिजन-

  1. निगदन्ति इत्युचितम् । [[143]] लक्षणाम् । राघवोऽर्हति वैदीहीं तञ्चेय मसितेक्षणा" इत्युक्तसर्वप्रकार सादृश्य विशिष्टां नित्यानपेतां, “राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषुचाऽवतारेषु विष्णोरेषाऽनपायिनी ” इत्युक्तप्रकारेण नित्यानपायिनीं श्रियम्, ईदृशीं दिव्याचिन्त्येत्याद्युक्तसर्वथा- सादृश्यादिविशेषण विशिष्टां भूमिं नीला मपि वनाद्रीश्वरो नित्यं रमयिता प्रीणयिता भवति । रमयतेः तृन्प्रत्ययान्तं पदम् । तृच्प्रत्ययान्ते षष्ठीविधानात् द्वितीयान्वयासम्भवः । सुन्दरबाहुचरणारविन्दे शरणवरण- क्षमाणां अपेक्षितं पुरुषकार सान्निध्यं समृद्धम् इति भावः ॥ ७० ॥ अत्यन्तापराधिष्वपि क्षमाकर्तव्येति लक्ष्म्या प्रोक्त मादर्तव्यम् एव भवति भगवत - इत्यभिप्राय माह- अन्योन्यचेष्टित निरीक्षण हार्दभाव - प्रेमानुभावमधुर प्रणय प्रभावः । आजम्रनव्यतर दिव्यरसानुभूति - स्स्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१ ॥ अन्योन्येति । अन्योन्यं चेष्टितानि, भ्रूभङ्गमन्दस्मितादि विलास- व्यापाराः निरीक्षणम् अपाङ्गवीक्षणम्, हार्दभावः, हार्दो हृद्गतोऽभिप्रायः तारुण्यलावण्याद्यनुध्यानं, प्रेमानुभावः प्रेमातिशयः संश्लेषकालेऽपि सौकुमार्यपरामर्शः प्रणयापराधानादरहेतुः प्रेमान्ध्यं वा, एतैः मधुरः मधुरत्वं नाम स्वादुतरत्वं मधुवद्रस्यः यः प्रणयप्रभावः अनुरागातिशयो यस्य स तथोक्तः वनशैलनाथः, अत एव, अजस्रमेवाऽऽजस्रं सदा नव्यतरा अत्यन्तापूर्वतरा दिव्या रसानुभूतिः अप्राकृतानन्दानुभवो यस्य स तथोक्त स्सन् स्वां प्रेयसीं स्वकीयां दयितां रमयिता सन्तोषयिता । अत्र “राम स्तु सीतया सार्धं विजहार बहूनृतून् । मनस्वी तद्गत स्तस्यां नित्यं हृदि समर्पितः । प्रिया तु सीतारामस्य दाराः पितृकृता इति । गुणाद्रूपगुणात्त्याऽपि प्रीतिर्भूयोऽभ्यवर्धत तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते । अन्तर्जात [[144]]

मपि व्यक्त माख्याति हृदयं हृदा” इत्यादि श्री रामायण श्लोकाः प्रमाणतयाऽनुसन्धेयाः ॥ ७१ ॥ सुन्दरस्य वनशैलवासिनो भोगमेव निजभोग माभजन् । शेष एष इति शेषताकृतेः प्रीतिमानहिपति स्स्वनामनि ॥ ७२ ॥ सुन्दरस्येति । वनशैलवासिनः सुन्दरस्य भोगम् एव भोगसाधनमेव निजभोगं स्वकीयशरीरं आभजन् प्राप्नुवन् सुन्दरबाहो स्सुखशय्याभूतनिजशरीर इत्यर्थः । अहिपतिः शेषताकृतेः शेषत्वाकाराद्धेतोः, “परगताति शयाधानेच्छया उपादेयत्वम् एव यस्य स्वरूपं स शेषः, पर श्शेषी” इत्युक्त शेषत्व स्वरूपात्, शेष एव इति स्वनामनि प्रीतिमान् । भोगम् एवेत्यत्र कार्ये कारणत्वोपचारः । यद्वा भोग शब्दस्य सुख पर्यायत्वात् भोगशब्दस्य भोगकरत्व मर्थः । “भोग स्सुखे स्त्र्यादिभृता वहेश्च फणकाययोः” इत्यमरः । निजभोगस्य सुन्दरबाहुभोगकरत्वात् एवं रूपशेषत्वसिद्धे, रन्वर्थेशेष इति स्वनामनि परमपुरुषार्थ बुद्धिमा नित्यर्थः ॥ ७२ ॥ वाहनासनवितानचामरा - द्याकृतिः खगपति स्त्रयीमयः । नित्यदास्यरतिरेव यस्य वै ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३ ॥ वाहनेति। वाहनासनवितान चाभराद्याकृतिः “दास स्सखा वाहन मासनं ध्वजः” इत्यादि स्तोत्ररत्नोक्त प्रकार वाहनाद्याकारः त्रयीमयः खगपतिः " वेदात्मा विहगेश्वरः” इत्युक्तः, यस्य सुन्दरभुजस्य नित्यदास्यरतिरेव वै नित्यकैङ्कर्यभोग एव प्रसिद्धः । “स्यु रेवन्तु पुन र्वैवेत्यवधारणवाचकाः” इत्यमरः । एष सुन्दरभुजः वनाद्रिगो हि

[[145]] वेदात्मकगरुत्मता निरन्तरपरिचरितचरणद्वन्द्व स्सुन्दरबाहु स्सौलभ्याति- शयेन वनशैलवासी भवति हीत्यर्थः ॥ ७३ ॥ वनाद्रिनाथस्य सुसुन्दरस्य प्रभुक्तशिष्टाश्यथ सैन्यसत्पतिः । समस्तलोकैक धुरन्धरस्सदा कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४ ॥ " वनाद्रिनाथस्येति । अथ सुसुन्दरस्य वनाद्रिनाथस्य प्रभुक्तशिष्टाशी “त्वदीयभुक्तोज्झितशेषभोजिना" इत्युक्तप्रकारेण त्वदीयभुक्तोज्झित शेषभोजी, सर्वकर्मसु सकलजगत्सृष्ट्यादिव्यापारेषु अस्य वनाद्रिनाथस्य कटाक्षवीक्ष्यः सेनापतिना निवेदितं तथाऽनुजानन्त मुदारवीक्षण” रित्युक्तप्रकारेण इङ्गितपात्रञ्च । सैन्यसत्पतिः, अन्येषु सैन्यपतिषु सत्स्वप्ययमेव सर्वोत्तर इत्यभिप्रेत्य सत्पदप्रयोगः । सदा समस्त कालेऽपि, समस्तलोकैकधुरन्धरो वै उभयविभूति प्रधानधूर्वह इति प्रसिद्धः । यस्य सैन्यपतिरेव सर्वनिर्वाहकः स एव सुलभो भवतीति भावः ॥ ७४ ॥ छत्रचामरमुखाः परिच्छदा स्सूरयः परिजनाश्च नैत्यगाः । सुन्दरोरुभुज मिन्धते सदा ज्ञान शक्तिमुखनित्य सद्गुणाः ॥ ७५ ॥ छत्रेति । नित्यं भवं नैत्यं, तत्कैङ्कर्यं गच्छन्तीति नैत्यगाः सूरयः शेषिहृदयज्ञाः परिजनाः अनन्तगरुडादयः, छत्रचामरमुखाः छत्रचामरप्रभृतयः परिच्छदाः परिकराश्च, ज्ञानशक्तिमुखाः नित्यसद्गुणाश्च ज्ञानशक्तिप्रभृति स्वतस्सिद्धकल्याणगुणगणाश्च, सदा सुन्दरोरुभुज मिन्धते, सुन्दरबाहुं प्राप्य प्रकाशन्त इत्यर्थः । इन्धते प्रकाशयन्तीत्युक्ति रनुपपन्ना, णिजन्तत्वाभावाद्धेतोः, “गुणजं गुणिनो हि मङ्गलत्वम्" इत्याद्युक्ति- विरोधाच्च प्राप्येत्यध्याहारः ॥ ७५ ॥ [[146]] द्वारनाथ गणनाथ तल्लजाः पारिषद्यपद भागिन स्तथा मामकाश्च गुरुवः पुरातना- स्सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६ ॥

द्वारनाथेति । द्वारनाथगणनाथ तल्लजाः - द्वारनाथतल्लज़ा चण्डप्रचण्डादयः, गणनाथतल्लजाः कुमुदकुमुदाक्षादयः, परिषदि आस्थाने भवाः पारिषद्या इति पदे शब्दे भागः अंशः, एषा मस्तीति पारिषद्य- पदभागिनः पारिषद्यशब्दवाच्यान्तर्भूता इत्यर्थः । मामकाः अस्मदीयाः पुरातनाः गुरवः पूर्वाचार्याश्च पराङ्कुशपरकाल यतिवरादयश्च वनमहीध्रगं वनाद्रिवासिनं सुन्दरं श्रिताः द्वारपालाः गणपालाः पारिषद्यमुख्याः पूर्वाचार्याश्च सुन्दरबाहुं निरन्तरं सेवन्त इत्यर्थः ॥ ७६ ॥ ईदृशैः परिजनैः परिच्छदै - र्नित्यसिद्धनिजभोगभूमिगः सुन्दरो वनगिरे स्तटीषु वै रज्यते सकलदृष्टिगोचरः ॥ ७७ ॥ ईदृशै रिति । ईदृशैः पूर्वोक्तप्रकारैः परिजनैः अनन्तगरुडादिभिः, परिच्छदैः छत्रचामरादिभिश्च सह नित्यसिद्धा सदैकरूपा निजास्वासाधरणा च या भोगभूमिः नित्यविभूतिः, तां गच्छतीति नित्यसिद्धनिज भोगभूमिगः, “वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भक्तै र्भागवतै स्सह” इत्युक्त श्रीवैकुण्ठनाथः सकलदृष्टिगोचरः सकलजननयनविषयः सुन्दर स्सन् वनगिरे स्तटीषु रज्यते वै अनुरक्तो भवति हि - " तदक्षरे परमे व्योमन्, ” “ योऽस्याध्यक्षः परमे व्योमन्" “यत्र पूर्वे साध्या स्सन्ति देवाः”, “एते वै निरया स्तात स्थानस्य परमात्मनः”। इत्याद्युक्त नित्यनिरवद्य नित्य सूरिपरिवृतपरमपदनिलयः " न चक्षुषा पश्यति कश्चनैनम्, ‘न मांसचक्षु रभिवीक्षते तम्”, “श्रोतव्यो मन्तव्यो 77 66 77 46

[[147]] द्रष्टव्यो निदिध्यासितव्य इत्युपासकानां साक्षात्कार्योऽपि स्वकीयकृपया वनगिरि प्रान्ते सकलनेत्रपात्रं भवतीति सुन्दरबाहु सौलभ्यातिशयो- ऽभिधीयते ॥ ७७ ॥ नित्यसिद्ध भोगभूमि निवासरसिकस्य वनाद्रिवासो वैरस्यावहः स्या दित्याशङ्कां परिहरन्नाह - आक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु वैकुण्ठधामनि समृद्ध सुवापिकासु । श्री मल्लतागृहवतीषु यथा तथैव लक्ष्मीधर स्सजति सिंहगिरे स्तटीषु ॥ ७८ ॥ आक्रीडेति । वैकुण्ठधामनि वैकुण्ठाख्ये स्थाने समृद्धसुवापिकासु समृद्धा स्सुसम्पन्नाः रस्याम्भस्समृद्धाः शोभनाश्च वाप्यः दीर्घिकाः यासुतासु श्रीमन्ति शोभावन्ति लतागृहाणि आसां सन्तीति श्रीमल्लतागृहवतीषु पोष्पिकीषु पुष्पप्रचुरासु अतएव सुगन्धिषु आक्रीडभूमिषु उद्यानभूमिषु लक्ष्मीधरः श्रियःपतिः यथा सजति सक्तो भवति तथैव पूर्वोक्तसर्व- विशेषणविशिष्टासु सिंहगिरे स्तटीषु सजति वैकुण्ठभुवनोद्यानभूमि समान भोग्यतावासो वनाद्रितट इत्यर्थः ॥ ७८ ॥ आनन्दमन्दिर महामणिमण्डपान्त- लक्ष्म्याभुवाऽप्यहिपतौ सह नीलया च निस्सङ्ख्यनित्य निजदिव्यजनैकसेव्यो नित्यं वसन्सजति सुन्दरदो र्वनाद्रौ ॥ ७९ ॥ आनन्देति। आनन्दमन्दिरं स्वरूप रूपगणविभूति नित्यमुक्त संयुक्त भगवदनुभवजन्य महानन्दोत्पत्तिगृहं महच्च मणिमण्डपं सहस्रस्थूणाऽऽस्थानरत्नं, तस्य अन्तः अन्तराले अहिपतौ शेषे लक्ष्म्या, भुवाभूम्या च नीलया च सहवसन् निस्संख्यनित्यनिजदिव्यजनैकसेव्यः असंख्यात नित्यासाधरणाप्राकृतपरिजनमात्रानुभाव्यः सुन्दरदोः सुन्दरबाहुः [[148]]

वनाद्रौ नित्यं सजति सक्तो भवति । पत्नीपरिजनादिभि स्सह नित्यावासयोग्यो वनाद्रिः आनन्दमन्दिर महामणिमण्डपादपि अत्यन्तभोग्य इति इतः पूर्वोक्त श्लोकार्थ एव दृढीकृत्य समर्थित इति मन्तव्यम् ॥ ७९ ॥ समर्थित मर्थमेव मुखान्तरेणाऽऽह - प्रत्यर्थिनि त्रिगुणकप्रकृते रसीम्नि वैकुण्ठधामनि पराम्बरनाम्नि नित्ये । नित्यं वसन् परमसत्त्व मयेऽप्यतीत - योगीन्द्रवाङ्गनस एष हरि र्वनाद्रौ ॥ ८० ॥ प्रत्यर्थिनीति । परमसत्त्वमये शुद्धसत्त्वमये अत एव त्रिगुणक प्रकृतेः सत्त्वरजस्तमोमयमूल प्रकृतेः प्रत्यर्थिनि प्रतिभटे असीम्नि अपरिच्छिन्न परिमाणे पराम्बरनाम्नि परमव्योमपरमाकाशशब्दाभिधेये नित्ये सदातने वैकुण्ठधामनि वेकुण्ठाख्ये स्थाने नित्यं वसन् अतीतयोगीन्द्रवाङ्मनसः योगीन्द्रवाङ्मनसाऽपरिच्छेद्य स्वरूपरूपगुण विभूत्यादिकोऽपि हरिः वनाद्रौ, एषः अयमिति प्रत्यक्षार्हो वर्तत इत्यर्थः । अतीतयोगीन्द्रवामनसे इति सप्तम्यां वैकुण्ठ धामविशेषणं वा ॥ ८० ॥ अथ लीला विभूतियोगं श्लोकद्वयेनाऽऽह - लोकांश्चतुर्दश दधत्किल सुन्दरस्य पडक्ती गुणोत्तरित सप्तवृतीद मण्डम् । अन्यानि चाऽस्य सुसदृशि परश्शतानि क्रीडाविधे रिह परिच्छदता मगच्छन् ॥ ८१ ॥ लोकानिति । चतुर्दशलोकान् दधत् स्वान्तराले चतुर्दशसङ्ख्याकान् लोकान् बिभ्रत्, तादृग्विस्तारस्वावकाशम् इत्यर्थः । पडतीगुणैः दशगुणैः उत्तरिता स्सञ्जतोत्तराः, सदावृतयः सप्त आवरणानि यस्य तत्तथोक्तम् । पूर्वपूर्वावरणापेक्षया दशगुणाधिकोत्तरोत्तरावरणसप्तकम् इत्यर्थः । इद

[[149]] मण्डम्, अस्य सुसदृशि सुतरां सदृशानि, परश्शतानि शतात्पराणि असङ्ख्यातानीत्यर्थः । अन्यानि अण्डानि च इह लीलाविभूत्यां सुन्दरस्य क्रीडाविधेः लीलाविधानस्य परिच्छदता मुपकरणतां अगच्छन् प्रापन् । पङ्क्तिमदं " कृदिकारा दाक्तिनः” इति विकल्पा दीकारान्तम् “पातिश्छब्दोऽपि दशमम्” इत्यमरः ॥ ८१ ॥ सुरनरतिर्यगदि बहुभदेक भिन्नमिदं जगदथचाऽण्ड मण्डवरणानि च सप्त तथा। गुणपुरुषै च मुक्तपुरुषाश्च वनाद्रिपते - रुपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२ ॥ सुरेति । सुरनरतिर्यगादिभि र्बहुभिर्भेदकैः विशेषणैर्भिन्नं आदिशब्देन स्थावराः गृह्यन्ते । सुरनरतिर्यक्स्थावरात्मकजन्तुविशिष्ट मिदं जगत् । अथ च अण्डं, तथा सप्त अण्डवरणानि अण्डावरणानि च, गुणपुरुषौ च । गुणशब्देन गुणत्रयविशिष्ट प्रकृति रुच्यते । पुरुष पदं जात्येकवचनम् प्रकृति सम्बद्धः पुरुषश्च मुक्तपुरुषा श्च प्रकृतिसम्बन्धविमुक्ताः पुरुषाश्च विभोरपि सर्वस्वामिनोऽपि वनाद्रिपतेः नर्मविधये लीलाविधानाय उपकरणानि भवन्ति । मुक्तपुरुषाः मुच्यमानाः पुरुषा इत्यर्थः, लीलाविभूतियोगस्य प्रकृतत्वात् ॥ ८२ ॥ मुक्तपुरुषा इति मुमुक्षुप्रस्तावात् मुमुक्षून् विशिनष्टि ज्ञानिन स्सततयोगिन स्तु ये सुन्दराङ्घ्रिपदभक्ति भागिनः । मुक्ति माप्य परमं परे पदे नित्यकिङ्करपदं भजन्ति ते ॥ ८३ ॥ ज्ञानिन इति । सततयोगिनः सततं कर्मयोगानुष्ठान शीलाः ज्ञानिनः ज्ञानयोगनिष्ठाः येजनाः सुन्दराङ्घ्रिपदभक्तिभागिनः सुन्दरबाहुचरण विषयक भक्तियोगभाजो भवन्ति ते जनाः परमां मुक्तिं अपुनरावृत्तिमुत्क्तिं आप्य [[150]]

प्राप्य परे पदे परमपदे नित्यकिङ्करपदं नित्यकिङ्करा इति शब्दं भजन्ति प्राप्नुवन्ति कर्मज्ञान भक्तियोगा भगवन्नित्यकिङ्करत्व साधनम् इति भावः 11 23 11 इतः परं अष्टत्रिंशता श्लोकैः अवतार सौशील्य मनुभवति - देवस्य सुन्दरभुजस्य वनाद्रिभर्तु - हैं ! शीलवत्त्व मथवाऽऽश्रितवत्सलत्वम् । ऐशस्वभाव मजहद्भि रिहावतारै- र्योऽलञ्चकार जग दाश्रिततुल्यधर्मा ॥ ८४ ॥ देवस्येति । यः सुन्दरभुजः ईशस्य सम्बन्धी ऐशः, ऐशस्वभावं सर्वेश्वरत्वानुरूप स्वरूप रूपगुण विभवादिकं, सर्वज्ञत्व सर्वशक्तित्वादिकं वा अजहद्भिः अत्यजद्भिः अवतारैः इह लीलाविभूत्यां आश्रिततुल्यधर्मा स्वाश्रितजनतुल्यशील स्सन् जगत् अलञ्चकार अलङ्कृतवान् । वनाद्रिभर्तु स्सुन्दरभुजस्य देवस्य शीलवत्त्वं, ‘महतोमन्दै स्सह नीरन्ध्रेण संश्लेष श्शीलम् इत्युक्त शीलवत्त्वं, है ! आश्चर्यावहम्। अथवा आश्रितवत्सलत्वं समाश्रितजनदोषेषु भोग्यताबुद्धि राश्रितवत्सलत्वम् । “अजोऽपि सन्नव्ययात्मा भूताना मीश्वरोऽपि सन् । प्रकृतिं स्वा मधिष्ठाय सम्भवा म्यात्ममायया” इत्युक्तप्रकारेण स्वेच्छया अजहत्स्वासाधारण दिव्यस्वभावमेवावतीर्णस्याऽपि । " आत्मानं मानुषं मन्ये रामं दशरथात्मजम्”, “अहं वो बन्धवो जातः” इत्याद्युक्तं तद्बन्धुजनसदृशत्व निबन्धनं वात्सल्यं, सौशील्यं वेति अस्माकं विस्मयो भवतीति भावः ॥ ८४॥ सिंहाद्रिनाथ तव वाङ्मनसातिवृत्तं रूपन्त्वतीन्द्रिय मुदाह रहस्य वाणी । एवञ्च न त्व मिह चेत्समवातरिष्य- स्त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५ ॥

[[151]] सिंहाद्रिनाथेति । हे सिंहाद्रिनाथ, वनाद्रेस्सिंहाद्रिरिति नामान्तरम् । रहस्यवाणी उपनिषत् वाङ्मनसातिवृत्तं वाङ्मनसातिक्रान्तं अतिक्रान्त- वाङ्मनसम् इत्यर्थः । तव रूपन्तु अतीन्द्रियं चक्षुरगोचरम् उदाह उच्चैर्ऋते । अत्र रूपशब्दो विग्रहपरः । एवञ्च सति वाङ्मनसापरिच्छेद्य तारुण्य लावण्यकस्य त्वद्दिव्यविग्रहस्य अचक्षुर्विषयत्वे " न चक्षुषा पश्यति कश्चनैनम्", “न मांसचक्षु रभिवीक्षते तम्” इत्याद्युपनिषद्वाक्येन प्रतिपादिते सति इह लीलाविभूत्यां अद्यत्वं न समवातरिष्य श्चेत् त्वज्ज्ञानभक्तिविधयः युष्मज्ज्ञानभक्तिविधायकशास्त्राणि मुधा व्यर्थाः अभविष्यन् । शुभाश्रयविग्रहाश्रयक प्रवृत्तिमत्यः ज्ञानभक्तिविधयः त्वदवताराभावे न सम्पद्यन्ते इति भावः ॥ ८५ ॥

ये भक्ता भवदेक भोगमनसोऽन नन्यात्म सञ्जीवना स्तत्संश्लेषण तद्विरोधिनिधनाद्यर्थं वनाद्रीश्वर ! मध्येऽण्डं य दवातर स्सुरनराद्याकार दिव्याकृति - स्तेनैव त्रिदशैर्नरैश्च सुकरं स्वप्रार्थितप्रार्थनम् ॥ ८६ । 1 य इति । हे वनाद्रीश्वर, अनन्यात्मसञ्जीवनाः स्वात्मनः परमात्म- कत्वानुसन्धातृताया अन्यत् आत्मसञ्जीवनं न विद्यते येषाम् इति तथोक्ताः भवदेकोपाया इति यावत् । भवदेकभोगमनसः भवत्संश्लेषमात्रसक्तचित्ता इत्यर्थः, भवदेकोपेया इति यावत् । उक्तविशेषण द्वयविशिष्टा ये भक्ताः, सन्तीति शेषः । तत्संश्लेषणतद्विरोधिनिधनाद्यर्थं “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म संस्थापनार्थाय सम्भवामि युगे युगे " इत्युक्तप्रयोजनत्रयार्थं भवदेकोपायोपेया भक्ता स्साधुशब्देनोच्यन्ते । तत्परित्राणं तत्संश्लेषणम् एव । दुष्कृच्छब्देन भक्तविरोधि न एवोच्यन्ते । निधनादीत्यत्र आदिशब्देन धर्मसंस्थापन मुच्यते । मध्येऽण्डं अण्ड मध्ये सुरनराद्याकार दिव्याकृति र्दिव्यविग्रहो यस्य सः, तथोक्त स्सन् अवातरः अवतारं कृतवानसीति यत्, तैनैव अवतारकरणे नैव त्रिदशैर्देवैर्नरैश्च [[152]]

स्वप्रार्थितप्रार्थनं स्वाभिलषितयाचनं सुकरं सुशकमभूत् । अवाताराभावे भवत्साक्षात्कारस्यैव दुष्करत्वा त्प्रार्थितप्रार्थनं न सम्भवतीति भावः ॥ ८६ ॥ श्रीमन्महावनगिरीश, विधीशयो स्ते मध्ये तु विष्णुरिति यः प्रथमावतारः । तेनैव चेत्तव महिम्ति जनाः किलान्धा- स्त्वन्मत्स्यभाव मवगम्य कथं भवेयुः ॥ ८७ ॥ श्रीमन्निति । हे श्रीमन्, महावनगिरीश, श्रीमच्छब्दो महावनगिरि- विशेषणं वा विधीशयोः ब्रह्मरुद्रयो र्मध्ये तु मध्यएव, " तु स्याद्भेदे- ऽवधारणे ” इत्यमरः ॥ ते तव विष्णुरिति यः प्रथमावतारः ब्रह्मविष्णुरुद्रा इति परिगणनानुगुणो यः प्राथमिकोऽवतारः तेनैवाऽवतारेण तव महिम्नि परत्वे जनाः अन्धाश्चेत् अनभिज्ञा यदीत्यर्थः । सृष्टिस्थिति संहारकारिण स्त्रयेऽपि प्रत्येकं स्वतन्त्रास्तुल्या इत्यतः त्वत्सर्वेश्वरत्वसाक्षात्कारक्षमाश्चे दिति यावत् । त्वन्मत्स्यभावंत्वदीय मत्स्यसजातीयतां अवगम्य ज्ञात्वा कथं भवेयुः किल । किलशब्दं काकुवाचकः । समुद्रसञ्चरन्मस्त्येषु अयमपि कश्चिन्मत्स्य इत्यपि र्बुद्धिंकुर्यु रिति भावः ॥ ८७ ॥ हे देव, सुन्दरभुज, त्व मिहाण्डमध्ये सौलभ्यतो विसदृशं चरितं महिम्नः । अङ्गीकरोषि यदि तत्र सुरै रमीभि - स्साम्या न्निकर्षपरिपालनम् एव साधु ॥ ८८ ॥ हे इति ! हे देव सुन्दरभुज, त्वं सौलभ्यतः हेतोः महिम्नः सर्वेश्वरत्वस्य विसदृश मननुरूपं चरितं चेष्टितं अङ्गीकरोषि यदि स्वीकरोषि चेत् तत्र विसदृशचेष्टिते अमीभिस्सुरैः ब्रह्मरुद्रेन्द्रादिभिः साम्यात् विष्णूपेन्द्रादि सादृश्यात् निकर्षपरिपालनं मत्स्यकूर्मसजातीयताभिनय एव साधु समीचीनम् । सौलभ्यात् स्वीयसर्वस्मात्परत्वविसदृशव्यापाराङ्गीकारे अभिमते सति ब्रह्मरुद्रेन्द्रादि साम्यावह विष्णूपेन्द्रद्यवतारा दपि मत्स्यकूर्मादिसजतीयावतार एव अत्यन्त सौलभ्यावह इति भावः ॥ ८८ ॥ [[153]] निकर्षपरिपालन प्रसङ्गात्सर्वावतार प्रधान रामकृष्णाद्यवतार- व्यापारा ननुभवति इहावतीर्णस्य वनाद्रिनाथ ते निगूहत स्स्वं महिमान मैश्वरम् । उमापतेः किं विजयः प्रियङ्करः प्रियङ्करावेन्द्रजिदस्त्रबन्धना ॥ ८९ ॥ I इहेति ! हे वनाद्रिनाथ, ऐश्वरं ईश्वरसम्बन्धि सर्वेश्वरत्वनिबन्धनं स्वं स्वतस्सिद्धं महिमानं वैभवं निगूहतः निरोधयतः इह लीलाविभूत्यां अवतीर्णस्य कृतावतारस्य सर्वेश्वरत्वतिरोधानाय कृतावतारस्येत्यर्थः । ते तव उमापतेः विजयः प्रियङ्करः, किं बाणासुर समरकालीनो रुद्रजयः प्रीत्यावहो वा ? इन्द्रजितः अस्त्रबंन्धना ब्रह्मास्त्रनागास्त्रपाशबन्धः प्रियङ्करा वा स्वमहिमनिगूहनानुगुणत्वा दिन्द्रजिदस्त्रबन्धनैव प्रियङ्करेत्यर्थः । अतो निकर्षपरिपालनमेव साध्विति भावः ॥ ८९ ॥ महिमनिगूहनं सर्वात्मना दुश्शक मित्याह - पुच्छोत्पुच्छन मुर्छनोद्धति धुतव्यावर्तितावर्तव - त्संवर्तार्णवनीरपूरविलुठत्पाठी न दिव्याकृतेः । सिंहाद्रीश, न वैभवं तव कथं स्वालक्ष्य मालक्ष्यते पद्माक्षस्य जुघुक्षतोऽपि विभवं लक्ष्मीधराधोक्षज ॥ ९० ॥ पुच्छेति । अधोमुखानि अन्तर्मुखानि अक्षाणि इन्द्रियाणि येषां ते अधोक्षाः, तेषु जायते प्रादुर्भवतीति अधोक्षजः उपासकहृदय कमल वासीति यावत् । तस्य सम्बुद्धिः । एवम्भूतोऽपि सौलभ्यात् सिंहाद्रीश, लक्ष्मीधर, विभवं महिमानं जुघुक्षतोऽपि गूहितु मिच्छतोऽपि पुच्छस्य वालस्य उत्पुच्छन मुन्नमनं, मूर्च्छनोद्धतिः, तिर्यक्प्रसरणवेगः । उत्पुच्छनोद्धति, र्मूर्छनोद्धति श्चेति वा, ताभ्यां धुतः कम्पितः, व्यावर्तितः भ्रामितः अत एव आवर्तवान् जलभ्रमणवान् य स्संवर्तार्णवः प्रलयजलधिः [[154]]

तस्य नीरपूरे सलिलप्रवाहे विलुठतः ससम्भ्रमं सञ्चरतः पाठीनस्य मीनस्य दिव्याकृतिः अप्राकृताकारो यस्य तस्य तथोक्तस्य प्रलयार्णवपयः पूरक्षोभदक्ष स्वपुच्छमूर्छनातिविलक्षणमत्स्यमूर्तेरित्यर्थः । पद्माक्षस्य मत्स्यविग्रहपरिग्रहेऽपि पुण्डरीकप्रकाण्डसदृशेक्षणस्य तव स्वालक्ष्यं- सुतराम् आ समन्तात् साक्षात्कार्यं वैभवं न कथ मालक्ष्यते ? स्पष्टं लक्ष्यत एवेत्यर्थः । संवर्तार्णवव्यावर्तनसमर्थ स्वपुच्छोत्पुच्छन मूर्छनोद्धति युत विलक्षण लक्ष्मीक मत्स्यविग्रहपरिग्रहः पद्माक्षत्व ञ्च निगूहित मपि महिमानं प्रादुर्भाव यतीति भावः ॥ ९० ॥ | साचलावटतटाकदीर्घिका - जाह्नवीजल विवर्धितः क्षये । शृङ्गसङ्ग मितनौ मनोभू- रग्रतोऽण्डजवपु र्हि सुन्दर ॥ ९९ ॥ साचलेति । “मनुस्तावत् तर्पणसमये स्वकमण्डलूद्भुतं क्रमशोऽभिवृद्धिभाजं मत्स्यं दृष्ट्वा भूगर्ते प्रक्षिप्तवान् । तत्राऽपि अपर्याप्ताभिवृद्धिं तटाके प्रक्षिप्तवान् । एवं क्रमेण दीर्घिका जाह्नवी समुद्रेषु प्रचिक्षेप । ततो मत्स्यः प्रलये मनुना सह स्थिरचरनिकरं स्वशृङ्गविधृतनावि निधाय धर्मा नुपादिशत्” इति पौराणिकी प्रसिद्धिः । हे सुन्दर, अण्डजवपुः मत्स्यविग्रहः अचलाया भूम्याः अवटो गर्तः अचलावटः, तेन सहिता स्साचलावटाश्च ताः तटाकदीर्घिकाजाह्नव्यश्च तासां जलेषु विवर्धितः ( वृद्धि) प्रापितः त्वं क्षये प्रलये प्रलयार्णव इत्यर्थः । मनो रग्रतः शृङ्गसङ्गमितनौः शृङ्गाकारावयविधृततरणि रभू र्हि । अवान्तर प्रलये सर्गबीजभूतं मनुञ्च नावि निधाय तां नावं स्वशृङ्गेण संयम्य मनो रातो धर्मोपदेशपरोऽभूरित्यर्थः । अयमर्थः श्रीरङ्गराजस्तवे “मीनतनुस्त्वं नावि निधाय” इत्यादि श्लोकेनाऽनुसंहितः ॥ ९१ ॥ "

प्रलयजनीरपूर परिपूरित स्वनिलयावसन्नवदन

[[155]] भ्रमदशरण्य भूत शरणार्थिनाकि शरणं भवन् स्व कृपया । चलदुदधीरिताम्बुकलुषी क्रियाढ्य गमन स्वपृष्ठ विधृता - चलकुल एष मीनतनु रत्र सुन्दर भुजो वनाद्रिनिलयः ॥ ९२ ॥ प्रलयेति । स्वकृपया स्वतस्सिद्धयाकृपया प्रलयजेन नीरपूरेण परिपूरितस्वनिलयानाम् आक्रान्त स्वस्वस्थानानाम् अत एव अव सन्नवदनानां खिन्नमुखानां भ्रमता मितस्ततो धावताम्, अशरण्यभूतानां शरण्यभूत पूरुषान्तररहितानां शरणार्थिनां रक्षकापेक्षकानां च नाकिनां देवानां शरणं भवन् रक्षको भवन् स्वकृपयैव एतादृश त्रिदशरक्षक स्सन् चलता स्वसञ्चारेण प्रकम्पता उदधिना ईरितस्य निरस्तस्य अम्बुनः कलुषीक्रियायां कलुषताकरणे आढ्यगमन सम्पन्नसञ्चारः तादृशवेगवद्गमन इत्यर्थः । स्वपृष्ठविधृताचलकुलः निजपृष्ठभागोद्धृत शैलस्तोमः मीनतनुः मत्स्यमूर्तिः अत्र वनाद्रिनिलये एष सुन्दरभुजः । प्रलयार्णव नीरपूरान्तरितमन्दिरातिविषण्णामर्त्यरक्षणार्थं तदवस्थानयोग्यान् कुलाचलान् मीनतनुः य स्समुद्दधार स एव संसारार्णवमग्ना स्मादृशरक्षणाय वनाद्रिभवनो भवतीति भावः ॥ ९२ ॥ स्वपृष्ठे प्रष्ठाद्रिभ्रमण करणैः किञ्च फणिनो विकृष्टिव्याकृष्टिव्यतिविधुत दुग्धाब्धिचलितैः । अविस्पन्दो नन्द न्विकसदरविन्देक्षणरुचिः पुराऽभू स्सिंहाद्रेः प्रियतम हरे कच्छपवपुः ॥ ९३ ॥ स्वेति । हे सिंहाद्रेः प्रियतम सिहाद्रिवल्लभ हरे, पुरा पूर्वकाले प्रकर्षेण तिष्ठतीति प्रष्ठः “प्रष्ठोऽग्रगामिनि " इति निपातना त्साधुः । स्वपृष्ठे प्रष्ठस्य निजपृष्ठभागनिष्ठस्य अद्रेः मन्दरपर्वतस्य भ्रमणकरणैः भ्रामणैः किञ्च फणिनःमथनसाधनयोक्त्रीकृतस्य वासुकेः विकृष्टिव्याकृष्टिभ्यां आकर्षणाप कर्षणाभ्यां व्यतिविधुतस्य अतिमात्रं कम्पितस्य दुग्धाब्देः क्षीरसागरस्य 13 [[156]]

चलितैः चलनैः अविस्पन्दः निष्कम्पः स्वपृष्टनिष्ठस्य मन्थाचलस्य भ्रमणैः स्वस्याऽपि भ्रमणं सम्भावितं मन्थनाचलचलननिबन्धनरज्जुभूत- सर्पाकर्षणापकर्षणातिमात्रकम्पित जलधिजलचलनेनाऽपि स्वस्य चलनं सम्भावितम्, तथाऽपि अविस्पन्द इत्यर्थः । नन्दन् समाश्रित संरक्षणक्षमभारलाभेन अतिप्रीतिमान् अत एवारविन्देक्षणरुचिः विकस्वरनलिन समाननयनकान्तिः कच्छपवपुः कर्ममूर्ति रभूः । स्वविग्रहक्लेशेऽपि प्रणतजनत्राण लाभाभिनन्दी भवा निति भावः ॥ ९३ ॥ जगत्प्रलीनं पुनरुद्दिधीर्षत स्सिंहक्षितिक्षिन्निलयस्थ सुन्दर । पुरावराहस्य तवेय मुर्वरा दंष्ट्राह्वयेन्दोः किल लक्ष्म लक्षिता ॥ ९४ ॥ जगदिति । हे सिंहक्षितिक्षिन्निलयस्थ, सिंहक्षितिक्षित् सिंहाद्रिः स एव निलयो वासस्थानं, तत्र तिष्ठतीति तथोक्त, सुन्दर, पुरा प्रलीनं प्रलयार्णव मग्नं जगत् पुनरुद्दिधीर्षतः उद्धर्तु मिच्छतः वराहस्य तव दंष्ट्राह्वयेन्दोः दंष्ट्रानामक चन्द्रमसः इय मुर्वरा भूमिः . “उर्वरा सर्वसस्याढ्या’ इत्यमरः । लक्ष्म लक्षिता किल कलङ्कतया अवलोकिता हि । तादृग्विधमहाविग्रहो वराहो भवा नभवत् इति भावः । एतेन एतादृशाभिनिवेशेन प्रलयाब्धिमध्यप्रलीन जगदुद्धारक स्त्वं संसार सागर मग्ना नस्मानपि उत्तारयेति पर्यवसितम् इति मन्तव्यम् ॥ ९४ ॥ न वायुः पस्पन्दे ययतु रथवाऽस्तं शशिखी दिशोऽनश्य विश्वाऽप्यचल दचला साचल कुला । नभश्च प्रश्च्योति क्वथित मपिपाथो नरहरौ त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज ॥ ९५ ॥ नेति । हे सुन्दरभुज, नरहरौ त्वयि स्तम्भे हिरण्यासुर गृहस्तम्भे

[[157]] । शुम्भद्वपुषि शोभमानविग्रहे सति प्रादुर्भवति सतीत्यर्थः । वायुर्न पस्पन्दे । ‘स्पदि किञ्चिच्चलने’ इति धातुः । ईषदपि न चचाल, भीत्येति भावः । अथवा अथ च शशिखी चन्द्रसूर्यौ अस्त मदर्शनं ययतुः प्रापतुः । दिशः प्राच्यादयः अनश्यन् नष्टाः । णश अदर्शने । विवच्य नष्टाः । साचलकुला शैलसमूह सहिता, विश्वा समस्ताऽप्यचला, न चलतीत्यचला इति निरुक्ता भूमिः अचलत् चलिता । नभश्च प्रश्च्योति प्रकर्षेण क्षरितम्, श्च्युतिर् क्षरणे । नभ स्समुद्रमग्नं भवतीत्यर्थः । अन्तरिक्ष म प्यन्तरितम् इति यावत् । पाथोऽपि पयोधिजल मपि क्वथितं निष्पक्वम् । औष्ण्याधिक्येनोद्वेल घूर्णमभू दिति यावत् । श्च्योतः क्षरणं तदस्यास्तीति श्च्योति । “निष्पक्कं क्वथितम्’ इत्यमरः । निष्पक्व मतिपक्वम् । प्रह्लादप्रतिपक्षशिक्षणाय प्रादुर्भवन्नरसिंह- संहननसाक्षात्कारक्षमाणां क्षमादिपञ्चभूतानां चाञ्चल्य मभूदिति भगवतः स्वाश्रिताहितानुग्रहनिग्रहौ सुग्रहावभिहितौ । दिश आकाशादिपञ्च स्वन्तर्भाव इति अस्मत्सिद्धान्तः ॥ ९५ ॥ उक्तमेव विवृणोति - अरालं पातालं त्रिदशनिलयः प्रापितलयो धरित्री निर्धूतायु रपि दिशः का मपि दिशम् । अजृम्भिष्टाम्भोधि घुमुघुमिति घूर्णन् सुररिपो - विभिन्दाने वक्ष स्त्वयि नरहरौ सुन्दरभुज ॥ ९६ ॥ अरालमिति । हे सुन्दरभुज, नरहरौ नरसिंहे त्वयि सुररिपो हिरण्यासुरस्य वक्षो विभिन्दाने विभिन्नं कुर्वति सति पातालम् अरालं वक्रमभूत् व्यत्यस्त मभूत् । त्रिदशनिलयः स्वर्गः प्रापितलयः गमितविगमः, नष्टोऽभूत् । धरित्री भूमि र्निर्धूता अतिमात्रकम्पिता, दिशः कामपि दिशं ययुः, अन्तर्हिता इत्यर्थः । अम्भोधिः घुमुघुमिति ध्वनिना घूर्णन् भ्रमन्सन् अजृम्भिष्ट जृम्भितोऽभूत्, उद्वेलोऽभूदित्यर्थः । नृभि गात्रविनामे इति धातो रात्मनेपदि लुङेकवचनम् ॥ ९६ ॥ [[158]]

नखक्रकचकप्रधिक्रथित दैत्य वक्षः स्थली समुत्थरुधिरच्छटाच्छुरित बिम्बितं स्वं वपुः । विलोक्य रुषितः पुनः प्रति मृगेन्द्रशङ्कावशा- द्य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७ ॥ नखेति । नख एव क्रकचकः करपत्रमुख्यः खड्गविशेषः क्रकचोऽस्त्री करपत्रम्” इत्यमरः । तस्य प्रधिः नेमिः कोटिरिति यावत् । “नेमिः स्त्री स्यात्प्रधिः पुमान् ” इत्यमरः । नखक्रकचकप्रधिना क्रथितायाः भिन्नायाः दैत्यवक्षः स्थल्याः समुत्थया समुत्पन्नया रुधिरच्छटया रक्तपूरेण छुरितं बिम्बितं प्रसक्तप्रतिबिम्बं स्व वपुः विलोक्य । बिम्बितम् इति भावे क्तः । यो नरकेसरी नरसिंहः प्रतिमृगेन्द्रशङ्कावशात् प्रतिद्वन्द्विसिंहान्तर सन्देहाक्रान्त्या पुनः भूयोऽपि रुषितः कुपितो भवन् स एष नरकेसरी इह सुन्दरो दृश्यते । अद्याऽपि समाश्रितद्वेषि निरसनोद्युक्तो वर्तत इत्यर्थः ॥९७॥ क्षितिरियं जनिसंहतिपालनै - र्निगिरणोद्रिरणोद्धरणै रपि 1 वनगिरीश तवैव सती कथं वरद वामन भिक्षण मर्हति ॥ ९८ ॥ क्षिति रिति । हे वरद, सर्वेषां सर्वाभीष्टप्रद, वामन, महाबलि सकाशात् पदत्रययाचनाय परिगृहीतवामनवेष, वनगिरीश, जनिसंहृतिपालनैः सृष्टिसंहाररक्षणैः निगिरणं प्रलये स्वकुक्षिनिक्षेपः उद्गिरणं पुन र्वमनं, उद्धरणं समुद्रमध्या दुद्धारः - एतै रपि तवैव सती भवत एव द्रव्यभूता इयं क्षितिः कथं वा भिक्षण मर्हति ? भिक्षार्हा भवति ? परद्रव्यं किल भिक्षार्हम् इति भावः । समाश्रितपरिपन्थिना मपि धर्मसम्बन्धे सति । तदनुसारेणाऽवतीर्य निराकरणं भक्तोऽभिमतम् इति सिद्धम् ॥ ९८ ॥ भार्गवः किल भवन् भवान् पुरा कुन्दसुन्दरवनाचलेश्वर

अर्जुनस्य बलदर्पितस्य तु च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९ ॥ [[159]] भार्गव इति। हे कुन्दसुन्दरवनाचलेश्वर ! कुन्दद्रुमसुन्दर वनगिरिनाथ, पुरा किल भार्गवः परशुरामो भवन् भवान् बलदर्पितस्य बाहुबलेन गर्वितस्य 7 अर्जुनस्य कार्तवीर्यस्य बाहुकानन न्तु वनसमान बाहुसहस्रं तु विशेषेण छेत्स्यति अच्छेत्सीत्, तत् स्मरति । " शेषे प्रथमः” इत्यनुशासनात् भवच्छब्दानुगुणः प्रथमपुरुषप्रयोगः । अभिज्ञावचनेलृट् ” इत्यनुशासनात् स्मरतिपद समभिव्याहारानुगुणो भूतार्थे लृट् प्रयोगः । अनेकक्षत्रिययूथनिधनविधाना दपि कार्तवीर्यार्जुनबाहुसहस्रच्छेदोऽति दुष्कर इति भावः ॥ ९९ ॥ आज्ञा तवाऽत्र भवती विदिता त्रयी सा धर्मं तदुक्त मखिलेन वनाद्रिनाथ अन्यून माचरितु मास्तिकशिक्षणार्थ - मत्रावतीर्य किल सुन्दर, राघवोऽभूः ॥ १०० ॥ आज्ञेति । हे वनाद्रिनाथ, सुन्दर, “अत्रभवत्तत्र भवच्छब्दौ पूज्यार्थी” इत्यनुशासनात्, अत्र भवती पूज्या, सा त्रयी तत् वेदत्रयम् “स्त्रिया मृक्साम यजुषी, इति वेदा स्त्रय स्त्रयी” इत्यमरः । तवाऽऽज्ञा विदिता, तवाऽऽज्ञात्वेन प्रसिद्धा । तदुक्तं तत्तद्वर्णाश्रमाद्यनुष्ठेयतया तया त्रय्या प्रतिपादितं धर्मं आस्तिकशिक्षणार्थं शास्त्र वश्य शिक्षायै अखिलेन अन्यूनं, न्यूनं अङ्गवैकल्यं, तद्रहितं यथा तथा, आचरितुं अनुष्ठातुं, अत्राऽ वतीर्य राघवोऽभूः, “रामो विग्रहवान् धर्मः” इत्युक्तप्रकारेण पितृवचनपरिपालन शरणागत संरक्षणादि समस्तधर्मव्यवस्थापको दाशरथि रभूः । तदुक्तं भगवद्गीतायाम् - " यद्य दाचरति श्रेष्ठ स्तत्तदेवेतरो जनः, स यत्प्रमाणं कुरुते, लोक स्तदनुवर्तते " इत्यादि ॥ १०० ॥ [[160]]

वनगिरिपति रीशितेति देवै - स्त्रिपुरहर त्रिपुरघ्नचाप भङ्गात् । व्यगणि परशुराम दर्शितस्य स्वकधनुषः परिमर्शदर्शनाच्च ॥ १०१ ॥ / वनगिरिपति रिति । देवैः कर्तृभिः त्रिपुरहरस्य रुद्रस्य त्रिपुरघ्नः त्रिपुरहननसाधनभूतो यश्चापः जनकचक्रवर्तिना सीतापरिणय परिपणतयाऽऽरोपणीय इति प्रदर्शितः शिवचापः तस्य भङ्गात्, ततः परं परशुराम दर्शितस्य द्वन्द्वयुद्धार्हबलपरीक्षार्थं परशुरामेण प्रदर्शितस्य स्वकधनुषः वैष्णवधनुषः परिमर्शदर्शनात् अप्रयत्नारोपणवीक्षणाच्च वनगिरिपति रीशिता सर्वेश्वर इति व्यगणि परिगणितः, निर्णीत इत्यर्थः । " आत्मानं मानुषं मन्ये रामं दशरथात्मजम्” इति स्वमाहात्म्य मनाविष्कुर्वतोऽपि परत्वं स्फुरतीति भावः ॥ १०१ ॥ अनवाप्त मत्र किल लिप्स्यते जनै- र्न च लब्ध मेत दिह भोक्तु मिष्यते । अनवाप्त मत्र किल नास्ति राम त

जगती त्वया तृण मवैक्षि सुन्दर ॥ १०२ ॥ अनवाप्तम् इति । हे राम सुन्दर, रामतयाऽवतीर्णसुन्दर अत्र जनै रनवाप्त मलब्धं किल भोक्तुं लिप्स्यते वाञ्छ्यते । इह भोक्तुं लब्धं एतत् वाञ्छितं वस्तु न चेष्यते सिद्धे इच्छा विरहात् । अत्राऽन वाप्तं नास्ति किल । तत् अवाप्तसमस्तकामत्वात् त्वया जगती भूमिः तृण मवैक्षि, तृणव दत्यल्पं दृष्टम् । उभयविभूतिनायकस्य इक्ष्वाकुराज्य मत्यल्पं प्रत्यभात् इतरथा त्यागासम्भवा दिति भावः ॥ १०२ ॥ शिखरिषु विपिने ष्वप्यापगा स्वच्छतोया स्वनुभवसि रसज्ञो दण्डकारण्यवासान् । तदिह तदनुभूतौ साभिलाषोऽद्य राम श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३ ॥

1 [[161]] शिखरिष्विति । हे राम, रसज्ञः रसिक स्त्वं शिरवरिषु चित्रकूटादि शैलेषु विपिनेषु अच्छतोया स्वपगास्वपि माल्यवती मन्दाकिनी पम्पानदीषु च । तत्त दुपवनेष्वपि दण्डकारण्यवासान् अनुभवसि । “चित्रकूट मनुप्राप्य भरद्वाजस्य शासनात् । रम्य मावसधं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसङ्काशा स्तत्र ते न्यवसन् सुखम् " । इत्याद्युक्तप्रकारेण अरण्यवाससुख मनुभवसीत्यर्थः । “विरनिर्वृत्त मप्येतत् प्रत्यक्षम् इव दर्शितम्” इति चिरनिर्वृत्तस्याऽपि प्रत्यक्षीकरणा नुभवसीति लट् प्रयोगः । तत् तस्मात्कारणात् तद्नुभूतौ शिखरिविपिनापगाद्यनुभवे साभिलाष स्सन् इह जगति, अद्य वर्तमानकाले, भूयः पुनरपि, रामावतारा दनन्तरमपि सुन्दरीभूय सुन्दरो भूत्वा वनगिरीन्द्रं नूपुरापगाविद्योतितं वनाद्रिं आश्रयसि “सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः । यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने" इत्युक्तचित्रकूटसदृशो वनशैल इति भावः ॥ १०३ ॥ दण्डकारण्यवासेऽपि क्वचित् क्लेशविशेषस्य सत्त्वात् तादृशश्रमहरो वनगिरि रेवेत्याह- उपवनतरुषण्डै र्मण्डिते गण्डशैल प्रणयि भवदुदन्तोद्गायि गन्धर्वसिद्धे । वनगिरितटभूमिप्रस्तरे सुन्दर, त्वं भजसि नु मृगयानानुद्रवश्रान्ति शान्तिम् ॥ १०४ ॥ । । उपवनेति । हे सुन्दर, उपवनतरुषण्डै ः आरामद्रुमस्तोमैः मण्डितेऽलङ्कृते ।” “गण्डशैला स्तु च्युताः स्थूलोपला गिरेः" इत्यमरः । गन्धर्वाश्च सिद्धाश्च गन्धर्वसिद्धाः । गण्डशैलप्रणयिनः शैलच्युत स्थूलो पलवासरसिकाः भवदुदन्तोद्रायिनः त्वच्चरित्रगानशीलाश्च गन्धर्वसिद्धाः यस्मिं स्तथोक्ते वनगिरितटभूमिप्रस्तरे वनगिरितटभूमिपर्यन्त शिलायां मृगयानानुद्रवश्रान्तिशान्तिं मारीचमृगगमनानुधावन श्रमोपशमं भजसि । नु शब्दः उत्प्रेक्षाद्योतकः ॥ १०४ ॥ [[162]]

कूलेऽब्धेः किल दक्षिणस्य निवसन् दूरोत्तराम्भोधिगान् दैत्या नेकपतत्रिणाऽच्छिन तीयं किं वदन्ती श्रुता । तत्रैवेश्वर मम्भसां व्यजयथा स्तस्मा द्वनाद्रीश्वर श्रीमन् सुन्दर सेतुबन्धनमुखाः क्रीडा स्तवाऽऽडम्बरम् ॥ १०५ ॥ 1 कूले इति । हे वनाद्रीश्वर, श्रीमन्, सुन्दर, दक्षिणस्याब्धेः कूले निवसन् स त्वं दूरोत्तराम्भोधिगान् अतिदूरोदीच्य समुद्रद्वीपगतान् दैत्यान् एकपतत्रिणा एकेन सायकेन आच्छिनः । छिन्नानकरोः । इतीयं इत्येवम्प्रकारा किंवदन्ती वृत्तान्तः श्रुता, श्रीरामायणे इतिशेषः । “ किं वदन्ती जनश्रुतिः, वार्ता प्रवृत्ति वृत्तान्त उदन्त स्स्यात्" इत्यमरः । तत्रैव दक्षिणाब्धिकूले एव अम्भसामीश्वरं समुद्रं व्यजयथाः विजितवान् । तस्मात्कारणात् तव सेतुबन्धनमुखाः क्रीडाः आडम्बरम्, ख्यात्यर्थो व्यापार इत्यर्थः । बहुदेशव्यवहितो दीच्यसमुद्रद्वीपस्थदै त्यस्तोम मेकसायकेन जितवत स्तव तत्र स्थित्वैव लङ्काद्वीपस्थरक्षस्संशिक्षणे सुशके सागरपराजयपूर्वक सेतुनिर्माणप्रभृतिनर्मविचेष्टितानि ख्यात्यर्थानीति निष्कृष्टार्थः । अच्छिन इति परस्मैपदिलङ्मध्यमैकवचनम् ॥ १०५ ॥ रामावतार मनोहरव्यापारोपसंहाराय उपवनतरुषण्डै रित्यादि पूर्वोक्तश्लोकार्थम् एव वनभूधर भोग्यतातिशय सूचकतया भूयोऽप्यनुवदति- रघुकुलतिलक त्वं जातु चिद्यातुधान- च्छलमृगमृगयायां सम्प्रसक्तः पुराऽभूः । तदुपजनित खेदच्छेदनायाऽद्य गाय - न्मधुकर तरुषण्डं रज्यसे किं वनाद्रिम् ॥ १०६ ॥ रघुकुलतिलकेति । हे रघुकुलतिलक, त्वं पुरा, जातुचित् कदाचित्, यातुधानएव राक्षस एव छलमृगः तस्य मृगयाया माखेटने मृगसंहारानुगुणव्यापारे । “आखेटनं मृगव्यं स्या दाखेटो मृगया स्त्रियाम्" इत्यमरः, सम्प्रसक्तः सम्यगासक्तोऽभूः । तदुपजनितखेदच्छेदनाय [[163]] मारीचमायामृगयातिप्रसक्ति सञ्जात श्रमोपशमनाय, अद्य इदानीं गायन्तो मधुकरा भृङ्गाः यस्मिन् तत् तरुषण्डं द्रुमबृन्दं यस्मिं स्तत्तथोक्तम् । वनाद्रिं राज्यसे किम् ? अनुरक्तो भवसि किम् ? तादृशो वनशैलभोग्यतातिशय इत्याशयः ॥ १०६ ॥ हे सुन्दरैकतर जन्मनि कृष्णभावे द्वे मातरौ च पितरौ च कुले अपि द्वे । एकक्षणा दनुगृहीतवतः फलन्ते नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७ ॥ हे इति । हे सुन्दर, एकतरजन्मनि एकस्मिन्नवतारे कृष्णभावे कृष्णत्वे द्वे मातरौ च देवकीयशोदे द्वौ पितरौ च वसुदेवनन्दगोपौ द्वे कुले अपि क्षत्रियकुल- गोपालकुले एकक्षणात् स्वल्पकाले नैव अनुगृहीतवतः आदरेण परिगृहीतवतः ते फलं रुक्मिणी नीला च कुलेन सदृशी किल, क्षत्त्रियकुलसदृशी रुक्मिणी, गोपालकुल सदृशी नीलामातृपितृकुल द्वयपरिग्रहः भिन्नान्वयजपत्नीद्वयपरिग्रहार्थम् इत्यर्थः ॥ १०७ ॥ त्वं हि सुन्दर यदा स्तनन्धयः पूतनास्तन मधा स्तदा नु किम्? जीर्णम् एव जठरे पयोविषं दुर्जरं वद तदात्मना सह ॥ १०८ ॥ 1 त्वमिति । हे सुन्दर त्वं यदा हि स्तनन्धय स्सन् पूतनास्तनं अधाः अपिबः । धेट् पाने इति धातोर्लुङ् परस्मैपदि मध्यमैकवचनम् । तदा नु दुर्जरं इतरैर्जरयितुमशक्यं पयोविषं पयोरूपं विषं तदात्मना, तस्याः पूतनायाः आत्मना जीवेन सह जठरे उदरे, जीर्णम् एव किम्, वद । त्वयैवोत्तरं वक्तव्यम् स्तनन्धयदशायाम् एव पूतना जीवेन सह इतर दुर्जरं तदीय स्तन्य विषं जीर्णं कुर्वं स्त्वमेव शङ्कां परिहर इति भावः ॥ १०८ ॥ [[164]]

आश्रयेषु सुलभो भवन्भवान् मर्त्यतां यदि जगाम सुन्दर । अस्तु नाम तदुलूखले किय हामबद्ध इति किं तदाऽरुदः ? ॥ १०९ ॥ आश्रयेष्विति । हे सुन्दर, आश्रयेषु सुलभो भवन् आश्रयणफल- परिचरणयोग्यो भवन् मर्त्यतां जगाम यदि, मर्तुं योग्या मर्त्याः. इत्याद्युक्त- मनुष्यतां प्राप यदि, त दस्तु नाम स्वसङ्कल्पित सौलभ्यानुकूलत्वात् मर्त्यत्वं भवतु नाम तदा उलूखले व्रीह्याद्यवहनन साधन दारुविशेषे कियता कियत्परिमाणेन दाम्ना रज्ज्वा बद्ध इति हेतोः किं मरुदः ? यद्वा, दामबद्ध इति किय दरुदः ? उच्चैः बहुरोदनं कृतवान् । समाश्रित सौलभ्यलाभाय मनुष्यभावनाजुषः तवोलूखलबन्धन मपि अत्यन्तानुकूलम् एवेति प्रीति समयोदितं रुदितं शङ्कावहम् इति भावः । पूर्वस्मिन् श्लोके जीर्णमेव किम्? इति प्रश्नः परत्वसूचकः । अत्र श्लोके कि मरुदः ? इति प्रश्नः सौलभ्यातिशय सूचक इति विवेकः ॥ १०९ ॥ सुन्दरोरुभुज नन्दनन्दन- स्त्वं वान्भ्रमरविभ्रमालकः । मन्दिरेषु नवनीततल्लजं । वल्लवीधिय मुत व्यचूचुरः ॥ ११० ॥ सुन्दरेति। हे सुन्दरोरुभुज, भ्रमराणां भृङ्गाणां विभ्रम इव विभ्रमो विलासो येषां ते तथोक्ताः अलका यस्य स तथोक्तः, अतिसुन्दरालक इत्यर्थः । नन्दनन्दनोभवन् गोपकुमारो जयमानः त्वं मन्दिरैषु गोपालागारेषु नवनीततल्लजं नवनीतश्रेष्ठं, उत यद्वा वल्लवीधियं गोपाङ्गनाचेतनां व्यचूचुरः अमूमुषः उभयम प्यपाहरः अत्यन्तकान्तदिव्यमङ्गलविग्रहस्य नन्दनन्दनस्य भवतो नवनीतापहारो, गोपीजनमनोहरोऽभवदिति भावः ॥ ११० ॥

कालियस्य फणतां शिरस्तु मे सत्कदम्ब शिखरत्वम् एव वा । वष्टि जुष्टवनशैल सुन्दर त्वत्पदाब्ज युग मर्पितं ययोः ॥ १११ ॥ [[165]] कालियस्येति । हे सुन्दर, जुष्ट स्सेवितः वनशैलो येन तथोक्त, त्वत्पदाब्जयुगं ययोः कालियफणशिखर कदम्बशिखरयोश्च अर्पितं न्यस्तं मे शिरस्तु तां कालियफणतां कृष्णनटनस्थान कालियफणशिरः स्थानं सत्कदम्बशिखरत्वं, कृष्णचरणार्पणयोग्यतया शोभननीपद्रुमशाखात्वम् एव वा वष्टि वाञ्छति । “दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः। " इति, “अरण्ये सन्ति पत्राणि नद्यां स्वादूदकानि च । सन्ति हस्तौ च पादौ च कथं नाऽऽराध्यते हरिः” इति च भगवदाश्रयणोपयोगिकरचरणादि विशिष्टेऽपि मनुष्यत्वे एव मम नाऽऽदरः भगवच्चरणार्पणोपयुक्तेचेत् तिर्यक्स्थावरत्वे एव मम अत्यन्तावश्यके इति भावः ॥ १११ ॥ गूहित स्वमहिमाऽपि सुन्दर, त्वं व्रजे किमिति शक्र माक्रमीः । सप्तरात्र मदधाश्च किं गिरिं पृच्छतश्च सुहृदः किमक्रुधः ॥ ११२ ॥ गूहितेति । हे सुन्दर, गूहितस्वमहिमाऽपि तिरोहितस्वाभाविक वैभवोऽपि त्वं व्रजे नन्दव्रजे किमिति मतिं कृत्वा शक्रं स्वाराधनव्याघातविधानात् आयोधनोन्मुखं शतमखं आक्रमीः आक्रान्तवा नसि ? यद्वा पुरुहूताराधनव्याघात एवाऽऽक्रमणम् । सप्तानां रात्रीणां समाहारः सप्त रात्रम् । अत्र रात्रिशब्दो दिवारात्रपरः || “कालाध्वनो रत्यन्तसंयोगे द्वितीया” गिरिं गोवर्धनं अदधाः धृतवान्। पृच्छतः अतिमात्रं गोवर्धनोद्धरण मवेक्ष्य भवान् " देवो वा सिद्धो वा " इति प्रश्नं कुर्वतः सुहृदः कि मक्रुधः किमर्थ मकुप्यः । स्वमहिमनिगूहनोद्युक्तस्य शक्राक्रमणं [[166]]

निरन्तरं सप्तरात्रं गोवर्धनोद्धरणं च पुनः परत्वशङ्काकृतं सुहृदं प्रति क्रोधश्च परस्परव्याहते इति भावः ॥ ११२ ॥ हे नन्दनन्दन, सुसुन्दर, सुन्दराह्न - बृन्दावने विहरत स्तव वल्लवीभिः । वेणुध्वनिश्रवणत स्तरुभि स्तदा वै सग्रावभि र्जतुविलाय महो विलिल्ये ॥ ११३ ॥ हे इति । हे नन्दनन्दन, नन्दगोपानन्दकर, सुसुन्दर, अतएव सुन्दराह्व, अन्वर्थनामधेयेत्यर्थः। तदा तस्मिन् काले बृन्दावने, वल्लवीभिः गोपिकाभिः विहरतः क्रीडितः तव वेणुध्वनिश्रवणतः वेणुनादाकर्णनात् सग्रावभिः अश्मसहितैः तरुभिः, ग्रावभि स्तरुभिश्चेत्यर्थः। प्राप्तकाठिन्यै रपीति यावत् । जतुविलायं विलल्ये, जतु यथा विलीनं भवति तथा विलीनम् इत्यर्थः । जतुविलाय मित्यत्र “उपमाने कर्मणि च ” इति णमुल् प्रत्ययः । विलिल्ये भावे लिट्। नन्दनन्दनत्वे नावतीर्णस्य सुसुन्दरस्य वेणुक्वणनाकर्णनं अत्यन्त कठिनानामपि निष्यन्दहेतु र्भवतीति भावः ॥ ११३ ॥ गायं गायं वनगिरिपते, त्वं हि बृन्दावनान्त गोपीस विहरसि यदा सुन्दर व्यूढबाहो । रासारम्भोत्सवबहुविधप्रेम सीमन्तिनीनां चेत, श्चेत स्तव च तु तदा कान्दशा मन्वभूताम् ॥ ११४ ॥ गायं गायमिति। व्यूढः वित्तः दृढो वा । हे सुन्दरव्यूढबाहो ! यद्वा, गोपीसङ्घै र्व्यूढबाहो संश्लिष्टबाहो, सुन्दर, बृन्दावनान्तः बृन्दावनान्तराले, गायं गायं गानं कृत्वा गानं कृत्वा, पायं पायम् इतिवन्मन्तव्यम्, णमुल् प्रत्ययान्त मव्ययम् । गोपीस स्सह, विहरसि क्रीडसि । हीति प्रसिद्धौ । पक्षान्तरे गायं गायं विहरसीत्यन्वयः । तस्मिन् काले समये तु “अङ्गना- मङ्गना मन्तरे माधवो माधवं माधव ञ्चान्तरेणाङ्गना । इत्थ माकल्पिते मण्डले मध्यग स्सञ्जगौ वेणुना देवकीनन्दनः” इत्युक्तप्रकारं अनेकविग्रह-

[[167]] परिग्रहवतो भगवतोऽनेकगोपिकाभि स्संश्लिष्टभुजस्य वेणुगान सहितो नृत्तविशेषयुक्त क्रीडाविशेषो रास इत्युच्यते । रासारम्भएव उत्सवः, तस्मिन् बहुविधं अनेकविधशृङ्गाररसं प्रेम प्रणयः यस्य तथोक्तम् । सीमन्तिनीनां चेतः तव चेतश्च, कां दशा मन्वभूताम्, अनिर्वचनीयां दशा मन्वभूताम् । रासक्रीडासमये समुत्थितः सुन्दर सुन्दरीजन मनसोर प्यसंवेद्य शृङ्गार रसोऽ वाङ्मनसगोचर इत्यर्थः ॥ ११४ ॥ इङ्गितं निमिषितञ्च तावकं रम्य मद्भुत मतिप्रियङ्करम् । तेन कंसमुख कीटशासनं सुन्दराल्पक मपि प्रशस्यते ॥ ११५ ॥ इङ्गितमिति । हे सुन्दर, तावकं त्वत्सम्बन्धि इङ्गितं भ्रूभङ्गादि, निमिषितञ्च कटाक्षश्च, अद्भुत माश्चर्यकरम्, अतिप्रियङ्करम् अतिप्रीतिकरं, रम्यं मनोहरञ्च भवतीति शेषः । तेन हेतुना अल्पक मपि ईषत्कर मपि कंसमुखकीटशासनं कंसप्रभृतिजन्तु विशेषनिषूदनं प्रशस्यते स्तूयते । सङ्कल्पमात्रसंहृतसमस्त जगतः तव कंसमुखात्यल्पजन्तु निग्रहोऽपि श्लाघ्यते । तत्र हेतु स्त्वत्कृत्यत्वमात्रम् इत्यर्थः इङ्गितमात्रं पर्याप्तं कंसादि हिंसनायेति पर्यवसितम् ॥ ११५ ॥ वाराणसीदहन पौण्ड्रकभौमभङ्ग- कल्पद्रुमा हरणशङ्करजृम्भणाद्याः । अन्याश्च भारत बल क्रथनादय स्ते क्रीडा स्सुसुन्दरभुज श्रवणामृतानि ॥ ११६ ॥ वाराणसीति । हे सुन्दरभुज, वाराणसीदहनं काशीभस्मीकरणं पौण्ड्रकभौमयोः पौण्ड्रक वासुदेवनरकासुरयोः भङ्गः वधः कल्पद्रुमाहरणं पारिजातापहारः, शङ्करजृम्भणं जृम्भणास्त्रेण शङ्करस्तम्भनम्, उक्तान्येतानि आद्यानि प्रथमानि यासां ता स्तथोक्ताः | भारतबलकथनादयः [[168]]

अष्टादशाक्षौहिणीसङ्ख्याक भारतसेना हननादयः अन्याः ते क्रीडा लीलाश्च श्रवणामृतानि श्रोत्रेन्द्रियात्यन्तरस्याः । ग्रन्थविस्तरभयनिबन्धन सङ्ग्रहेणोपन्यास इति मन्तव्यम् ॥ ११६ ॥ अतिसन्निहित कृष्णावतारप्रसङ्गेन तत्समानयोगक्षेमावातर- त्रयावस्थितस्त्वमेव समाश्रितजन सर्वप्रार्थितप्रदोऽसीति सुन्दरबाहु महिमानं श्लोकत्रयेणाऽऽह - त्वं हि सुन्दर वनाद्रिनाथ हे वेङ्कटाह्वय नगेन्द्रमूर्धनि । देवसेवितपदाम्बुजद्वय - स्संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७ ॥ I त्वमिति । हे वनाद्रिनाथ, सुन्दर, त्वं वेङ्कटाह्वयनगेन्द्रमूर्धनि श्री वेङ्कटाख्य महीधराधित्यकायां सदा देवसेवित पदाम्बुजं द्वय स्सन् “यत्र पूर्वे साध्या स्सन्ति देवाः” इत्युक्तनित्य सूरिपरिचरित चरणनलिनयुगल स्सन् इह संश्रितेभ्य स्तिष्ठसे हि । अत्राऽत्यन्तावस्थान मत्रत्याश्रिताभीष्ट- प्रदानार्थम् इति स्वाभिप्रायं प्रकाशयन् तिष्ठसीत्यर्थः । “श्लाघ हुङ्स्थाशपां ज्ञीप्स्यमानः” इति अभिप्राय प्रकाशने चतुर्थी, आत्मनेपदञ्च ॥ ११७ ॥ हस्ति शैल निलयो भवन् भवान् साम्प्रत वरदराजसाह्वयः इष्ट मर्थ मनुकम्पया ददत् विश्वमेव दयते हि सुन्दर ॥ ११८ ॥ हस्तीति । हे सुन्दर, आह्वयेन नाम्ना सहित स्साह्वयः वरदराज इति साह्वयः वरदराजसाह्वयः, हस्तिशैलनिलयः करिगिरिवासो भवन् भवान् साम्प्रतमिदानीम् इष्ट मर्थं प्रार्थितं पुरुषार्थं अनुकम्पयैव ददत् तत्तत्साधनानुष्ठानेन विनापीतिभावः । विश्वं जगत् दयते हि दयाविषयं करोति हि ॥ ११८ ॥

मध्ये क्षीरपयोधि शेषशयने शेषे सदा सुन्दर त्वं तद्वैभव मात्मनो भुवि भवद्भक्तेषु वात्सल्यतः । विश्राण्याखिलनेत्रपात्र मिहसन् सह्योद्भवाया स्तटे श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर ! ॥ ११९ ॥ [[169]] मध्ये इति । हे वनाद्रीश्वर, सुन्दर, त्वं मध्येक्षीरपयोधि क्षीर सागरमध्ये सदा शेषशयने शेषरूपेशयने पर्यङ्क शेषे शयनं करोषि । तत् आत्मनो वैभवं शेषपर्यङ्कशायित्वरूपं स्वस्य प्रभावं भुवि भूम्या मपि भवद्भक्तेषु विषये वात्सल्यतः दोषानादरहेतु स्नेह विशेषात् । विश्राण्य वितीर्य " विश्राणनं वितरणम्” इत्यमरः । अखिलनेत्रपात्रं सन् सकलनयनगोचरो भवन् इह इदानीं सह्योद्भवाया स्तटे कावेर्या स्तीरे निजधाम्नि श्रीरङ्गे । निजधाम्नीति विशेषणेन वैकुण्ठाख्य विमानमेव श्रीरङ्गाख्यं वर्तते इत्यर्थः । शेषशयने शेषे क्षीराब्धिशायिसाक्षात्काराशक्त भक्तजन वात्सल्यात् तत्सेवार्थं समस्तार्चावतारमूलकन्दभूत श्रीरङ्गशायी भवसीति भावः ॥ ११९ ॥ 1 कल्की भविष्यन् कलिकल्कदूषिता दुष्टा नशेषान्भगवन्हनिष्यसि । स एष तस्याऽवसर स्सुसुन्दरः

प्रशाधि लक्ष्मीश समक्षमेव नः ॥ १२० ॥ " कल्कीति । हे लक्ष्मीश, भगवन्, सुसुन्दर स्त्वं कल्की हयसादिविशेषः भविष्यन् अवतरिष्यन् सन् कलिकल्केन कलिकालप्रयुक्त कलुषेण दूषितान् निन्दितान् दुष्टाचारपरा नित्यर्थः । अशेषान् दुष्टान् । हनिष्यसि वधिष्यसि तस्य कलिकल्मषदूषितदुष्टहननसमर्थ कल्क्यवतारस्य अवसर स्स एषः कल्क्यवतारयोग्यतया योsवसरः त्वदीयहृदयङ्गतः स समयः अयम् एवेत्यर्थः । अस्माकं समक्षमेव प्रशाधि शिक्षय । त्वया इदानीम् एव कल्क्यवतारं कृत्वा दुष्टानां शिक्षा न कृता चेत् आश्रिताना मस्माकं नाशो भवे दिति भावः ॥ १२० ॥ [[170]]

एवं बहुप्रकारेण आश्रितजनोपकारकरान् अवतारान् त्वम् एवाऽकरोरिति बहुशोऽभिहितं सुन्दरबाहुविहारमुपसंहृत्य, तत स्त्वमेवाऽऽश्रयणीय इति शरणं व्रजति - ईदृशा स्त्वदवतारसत्तमा - स्सर्व एव भवदाश्रितान् जनान् । त्रातुम् एव न कदाचि दन्यथा तेन सुन्दर, भवन्तमाश्रये ॥। १२१ ॥ ईदृशा इति । हे सुन्दर, ईदृशाः उक्तप्रकाराः सर्व एव त्वदवतारसत्तमाः सर्वेष्ववतारेषु श्रेष्ठाः मुख्यप्रादुर्भावाः भवदाश्रितान् जनान् त्रातुमेव “परित्राणाय साधूनाम्” इत्युक्तप्रयोजनार्था इत्यर्थः । यत्र साधुपरित्राणं दुष्कृद्विनाशं विना न घटते, तत्र दुष्कृद्विनाश इत्याशयः । कदाचिदप्यन्यथा प्रयोजनान्तराय न भवन्ति । तेन वनाद्रौ सुन्दरत्वेनाऽवतारस्याऽपि आश्रितपरित्राणफलत्वेन भवन्त माश्रये, ज्ञानशक्तिसौलभ्य शौशील्यवात्सल्यादिकल्याणगुणसम्पन्न माश्रितरक्षणैकदीक्षितं भवन्तं शरणं गतोऽस्मीत्यर्थः ॥ १२१ ॥ त्वामामनन्ति कवयः करुणामृताब्धिं त्वाम् एव संश्रितजनिघ्न मुपध्नमेषाम् । येषां व्रज न्निह हि लोचनगोचरत्वं है सुन्दराह्न परिचस्करिषे वनाद्रिम् ॥ १२२ ॥ त्वाम् इति । हे सुन्दराह्न, कवयः कवनशीलाः भगवद्वाल्मीकिपराशर पाराशर्यपराङ्कुशपरकाल प्रभृतय इत्यर्थः । करुणामृताब्धिं करुणैव अमृतं तस्याब्धिम् उत्पत्तिस्थानम् । यद्वा करुणाया अमृताब्धिं क्षीरसागरं करुणापरिपूर्णं आमनन्ति वदन्ति । त्वामेव संश्रितजनिघ्नं समाश्रितसंसारविनाशकम् एषां समाश्रितानां उपघ्न माश्रयभूत ञ्च आमनन्ति । “स्या दुपघ्नोऽन्तिकाश्रये” इत्यमरः । उपघ्नं, जनिघ्नं, शरण्यं

[[171]] शरण चेत्यर्थः । येषा माश्रितानां लोचनगोचरत्वं नयनविषयत्वं व्रजन् सन् इह लीलाविभूत्यां वनाद्रिं परिचस्करिषे अलङ्करोषि । “सम्परिभ्यां करोतौ भूषणे " इति सुडागमः । निर्हेतुक कृपापरिपूर्णत्वा च्छरण्यत्वा च्छरणत्वाच्च शरणवरण सौकर्याय समाश्रितनेत्र पात्रं भवन् वनाद्रि भवनो भवसीति भावः ॥ १२२ ॥ अशक्यं नो किञ्चित्तव न च न जानासि निखिलं दयालुः क्षन्ता चाऽस्यहमपि न चाऽऽगांसि तरितुम् । क्षमोऽत स्त्वच्छेषो ह्यगति रिति च क्षुद्र इति च क्षमस्वैतावन्नो बल मिह हरे सुन्दरभुज ! ॥ १२३ । अशक्यमिति । हे सुन्दरभुज, हरे, तवाऽशक्यं नो किञ्चित् न किमपि, किमपि नास्तीत्यर्थः । निखिलं च न जानासीति न, जानास्येव । सर्वशक्ति स्सर्वज्ञश्चेत्यर्थः । दयालुः परदुःखासहिष्णुः, क्षन्ता अपराधसहिष्णुश्चाऽसि । अह मपि आगांसि अपराधान् तरितुञ्च प्रायश्चित्तादिना विनाशयितुञ्च न क्षमः न शक्तः । अतः अस्मात्कारणात् तव सर्वज्ञत्वसर्वशक्तित्व दयाक्षमाविशिष्टत्वान्मम च दुष्कृतनिष्कृत्यक्षमत्वाच्च । हि शब्दः इति - शब्दार्थकः । त्वच्छेषो हि त्वद्दास इति अगति रिति च उपायान्तर रहित इति च क्षुद्रः क्षुद्रपुरुषार्थतृप्त इति च क्षमस्व । यद्वा, क्षुद्र इत्यकिञ्चन इति च आगांसि क्षमाविषयं कुरुष्व । इह संसारे नः अस्माकं एतावद्वलं मया अनुसंहितं भवतो ज्ञानशक्तिदयाक्षमा वैशिष्ट्यं मयाऽनुसंहितं, मम च दासत्वाकिञ्चन्यानन्य गतित्वनिभृतत्वञ्च बलं साधनम् इत्यर्थः ॥ १२३ ॥ लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं सान्दीपिन्यभिज म्मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् । गर्भ ञ्चार्जुनिसम्भवं व्युदधर स्स्वेनैव रूपेण य- स्स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर ! ॥ १२४ ॥ लङ्केति । हे वनाद्रीश्वर, यः लङ्कायुद्धहतान् हरीन् वानरान्, 14 [[172]]

शम्बूकदोषात् शम्बूकाख्यशूद्रस्य अधश्शिरस्त्वेन तपश्चरणरूपपापात् मृतं द्विजसुतम् । इदं द्वयमपि रामावतारकालिकं; मृतं सान्दीपिन्यभिजं कृष्णगुरु स्सान्दीपिनिः तदभिजं तत्सुतं, वैकुण्ठगान् प्राप्तवैकुण्ठान् बालान् शिशून् द्विजसुतांश्च, द्वारकावासिवैदिकपुत्रांश्च आर्जुनिः अर्जुन स्यापत्यमभिमन्युः तत्सम्भवं गर्भञ्च अभिमन्युना उत्तराया माहितं गर्भञ्च स्वेनैव रूपेण मरणकालिकतत्तद्वयोवेषभूषणादिना आकारेण, व्युदधरः विशेषेणोद्धृत वानभवः । जीवेन सह पुनरानयः । स त्वं मम मद्गुरोः “अस्मद्गुरो भगवतः इत्युक्तरामानुजस्य च स्वाभीष्टं स्वाभिलषितं किमर्थं नो ददसे, न ददासि ? ‘दद दाने’ इति धातुः रामानुजगुरो रभिलषितं श्रीरङ्गनाथ सन्निधिवास तत्परिचर्यादिकं ममाभिलषितं भगवद्रामानुज सन्निधिवासं तत्परिचर्यादिकम् इति विवेकः । कालान्तरमृता न पुनरावृत्तियुक्तलोकान्तर गतानपि मरणकालीना कारेणैव पुन रानीतवत स्तव अशक्यं न किमपि, वय मप्याश्रिताः, किमित्यभीष्टं न ददासीत्यर्थः ॥ १२४ ॥ स्वकीयविषयवासमात्रतृप्त स्त्वं प्रबलफलप्रदोऽसीत्याऽऽह श्लोकचतुष्टयेन - आयोध्यगान् स पशुकीटतृणांश्च जन्तून् किं कर्मणो नु बत! कीदृश वेदानाढ्यान् । सायुज्यलभ्य विभवान् निजनित्यलोकान् सान्तानिका नगमयो वनशैलनाथ ! ॥ १२५ ॥ आयोध्यगानिति । हे वनशैलनाथ ! अयोध्यासम्बन्धिनो देशा आयोध्याः, तान् गच्छन्तीति तथोक्ताः, साक्षा दयोध्यावासिन एव न, अयोध्यासम्बन्धिदेशवासिनोऽपीत्यर्थः । सपशुकीटतृणान् पशवश्चतुष्पादः, कीटः अतिक्षुद्रजन्तुविशेषः, पशुकीटतृणसहितान् जन्तून् प्राणिनः किंकर्मणो नु - किं कीदृशं कर्म येषा न्ते किंकर्माणः, तान् । नु प्रश्नार्थः । “नु पृच्छायां विकल्पे च" इत्यमरः । कीदृशेन वेदनेन ज्ञानेन [[173]] आढ्यान् सम्पन्नान् कर्मयोग ज्ञानयोगशून्या नपि कर्मयोगनिष्ठान् मत्वा, ज्ञानयोगनिष्ठान् वा मत्वा इत्यर्थः । सायुज्ये सायुज्यमोक्षे लभ्यो विभवः सम्पत् येषां ते तथोक्तान् निजनित्यलोकान् सत्यलोका दुपर्यवस्थितान् श्रीवैकुण्ठतुल्यभगवदनुभवानुकूल्यान् केचन सान्तानिका नाम, ता नगमयः प्रापयः, अयोध्यासम्बन्धिदेशासत्तिमात्रेण प्रापयः इत्यर्थः ॥ १२५ ॥ हरितवारण भृत्यसमाह्वयं करिगिरौ वरद स्त्व मपूर्विकाम् । दृश मलम्भय एव हि सुन्दर, स्फुट मदाश्च परश्शत मीदृशम् ॥ १२६ ॥ हरितेति । हे सुन्दर, करिगिरौ हस्तिशैले वरदः वरदराजो भवं स्त्वं, हरितवारणभृत्य इति समाह्वयः समाख्यानं यस्य तं तथोक्तम् । अपूर्विकां अपूर्वं पूर्व मविद्यमानां दृशं दृष्टि मलम्भय एव प्रापय एव । लभिधातुः द्विकर्मकः । हरितवारणदासनाम्ने कस्मैचिद्भागवताय वरदराजो दृशं प्रादादिति प्रसिद्धिरस्ति । ईदृशमेवं प्रकारं परश्शतं अनेकवारं स्फुटं प्रसिद्धं यथा तथा अदाश्च दत्तवा नसि च । “यस्य प्रसादकलया बधिरः शृणोति पङ्गुः प्रधावति जवेन च वक्ति मूकः । अन्धः प्रपश्यति सुतं लभते च वन्ध्या तं देवम् एव वरदं शरणं प्रपद्ये" इति श्लोकोऽत्रानुसन्धेयः ॥ १२६ ॥ इह च देव ददासि वरान् परान् वरद सुन्दर सुन्दरदोर्धर । वनगिरे रभित स्तट मावसन् अखिललोचनगोचरवैभवः ॥ १२७ ॥ इहेति । हे वरद, सुन्दर, सुन्दरदोर्धर सुन्दराकारबाहुवह, वनगिरे स्तट मभितः तटसमीपे आवसन् अखिललोचनगोचरः सकलमनुज- नयनविषयो वैभवं महिमा यस्य स तथोक्तः । त्वं इह वनाद्रौ च परान् अतिशयितान् वरान् ददासि शेषाद्रिनिलयस्सन् जनेभ्यो ऽधिकान् वरान् ददासीति भावः ॥ १२७ ॥ [[174]]

‘इह च देव ददासि वरान् परा’ निति सामान्यत उक्तं स्थाली पुलाकन्यायेन विशिष्योदाहरति- इद मिमे शृणुमो मलयध्वजं नृप मिह स्वयम् एव हि सुन्दर । चरणसात्कृतवा निति तद्वयं वनगिरीश्वर, जातमनोरथाः ॥ १२८ ॥ 1 इदम् इति | हे वनगिरीश्वर ! इमे वयं इह वनाद्रौ स्वयम् एव हि साधनानुष्ठानानपेक्षः स्वकीयकृपयैव मलयध्वजं नृपं मलयध्वजाख्यं पाण्ड्यनृपं चरणसात्कृतवान् चरणाधीनं कृतवान्, चरणपरिचर्यार्हं चकर्थ- इतीदं एवं प्रकारं पूर्ववृत्तं शृणुमः श्रुतवन्तो भवामः । तत् तस्मात्कारणात् जातमनोरथाः । अस्मानपि चरणसात्करिष्यसीति सञ्जातवाञ्छाः, केवलस्वकृपयैव मलयध्वजपाण्ड्यस्य चरणारविन्दपरिचरणप्रद स्त्वमस्मभ्य मपि प्रदास्यसीति निश्चित्य प्रवृत्ताभिलाषा भवाम इति भावः ॥ १२८ ॥ एवं श्लोकचतुष्टयेन सुन्दरबाहो र्वाञ्छितप्रदत्व मुक्त्वा तदानीन्तनाति चण्डपाषण्डप्रभुविवासितभगवद्रामानुजचरणनलिनविश्लेषाक्षमतया स्तोत्रप्रारम्भ एव " सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी" इत्यभिलषितं क्षिप्रमेव प्रदिशेति स्वहृद्गतं सङ्गृह्योपसंहरति श्लोक चतुष्टयेन- विज्ञापनां वनगिरीश्वर, सत्यरूपा- मङ्गीकुरुष्व करुणार्णव मामकीनाम् । श्रीरङ्गधामनि यथापुर मेष सोऽहं रामानुजार्यवशगः परिवर्तिषीय ॥ १२९ ॥ 1 विज्ञापनाम् इति । हे करुणार्णव, “व्यसनेषु मनुष्याणां भृशं भवति दुःखितः” इति परदुःखदुःखित्वरूप कृपापरिपूर्ण, अत एव वनगिरीश्वर, अकिञ्चनास्मत्संरक्षणाय वनाद्रौ विहितसन्निधान, स्वामिन्, सत्यरूपां सहृदयतया यथार्थां, मामकीनां मदीयां विज्ञापनां अङ्गीकुरुष्व श्रुत्वा सफलां

1 [[175]] कुरुष्वेत्यर्थः । विज्ञापना कीदृशीत्याकाङ्क्षाया माह श्री रङ्गधामनीति । एष सोऽहं इदानी माचार्यविश्लेषविषण्णहृदयः तत्संश्लेषार्थं भवत्स्तुति- प्रवृत्तोऽहं यथापुरं यथापूर्वं श्रीरङ्गधामनि भवदावासस्थाने रामानुजार्यवशगः भगवद्रामानुजार्यवशवर्तीसन् परिवर्तिषीय परि समीपे निवसेयम् । परिपूर्वात् ‘वृतु वर्तने’ इति धातोराशिषि लिङ् । सुन्दरबाहो स्सर्वाभीष्टदत्वेऽपि तत्त्वज्ञैः श्री वत्सचिह्नमिश्रैः आचार्यवशवर्तित्वस्यैव परमपुरुषार्थतया प्रार्थितत्वात् इदमेव सर्वोत्तीर्णम् इति निर्णयः ॥ १२९ ॥ किञ्चेदञ्च विरिञ्चिभावन ! वनाद्रीश प्रभो सुन्दर, प्रत्याख्यानपराङ्कखो वरदतां पश्य नवश्यं शृणु । श्रीरङ्गश्रिय मन्वहं प्रगुणयं स्त्वद्भक्तभोग्यां कुरु प्रत्यक्षं सुनिरस्तम् एव विदध त्प्रत्यर्थिनां प्रार्थनम् ॥ १३० ॥ किञ्चेति । हे विरिञ्चि भावन, विरिञ्चिं ब्रह्माणं भावयति उत्पादयतीति तथोक्त, वनाद्रीश, प्रभो, स्वामिन्, सुन्दर, वरदतां पश्यन् स्वकीय वरप्रदत्वप्रसिद्धिं निर्धारयन् त्वं प्रत्याख्याने निरसने पराङ्मुख स्सन् प्रत्याख्यानहीन स्सन् इत्यर्थः, उपेक्षा रहित स्सन्निति यावत् । किञ्च, पूर्वश्लोकविज्ञापिता दपि इदञ्चावश्यं शृणु । तत्किमित्याकाङ्क्षायामाह - श्रीरङ्गेति । प्रत्यर्थिनां प्रतिपक्षिणां पाषण्डिनां प्रार्थनं भगवद्रामानुज - 1 । निवासनपूर्वकं श्रीरङ्गश्रीतिरोधानादिकं प्रत्यक्षं अस्मत्समक्षमेव सुनिरस्तं दूरतोऽपास्तं विदधत् कुर्वन् त्वं श्रीरङ्गश्रियं श्रीरङ्गसम्पदम् अन्वहं दिने दिने प्रगुणयन् प्रगुण मभिवृद्धं कुर्वन् सन् त्वद्भक्त भोग्यां रामानुजार्यप्रभृतिभवद्भक्तजनानुभाव्यां कुरु प्रत्यर्थिनिरसनपूर्वकं श्रीरङ्गमङ्गलानुभवाय भवदीयान् रामानुजार्यप्रभृती नानयेति पूर्वश्लोक प्रार्थनानुगुणः पर्यवसितोऽर्थः ॥ १३० ॥ इत्थं प्रार्थित मर्थम् एव आदरप्रकर्षेण पुनरपि प्रकारान्तरेण प्रार्थयते- [[176]]

कारुण्यामृतवारिधे वृषपते हे सत्यसङ्कल्पन, श्रीमत्सुन्दर योग्यताविरहितानुत्सार्य सद्वत्सल ! क्षाम्यन् साधुजनैः कृतां स्तु निखिला नेवापचारान् क्षणात् तद्भोग्या मनिशं कुरुष्व भगवन् श्रीरङ्गधामश्रियम् ॥ १३१ ॥ कारुण्येति । हे भगवन् ! ज्ञानशक्त्यादिविशिष्ट, सत्यसङ्कल्पन, सङ्कल्पनं सङ्कल्पः “अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न हि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः " इत्यादिभवदुक्तिवत् “द्वय मर्थानुसन्धानेन सह सदैवं वक्ता यावच्छरीरपात मत्रैव श्रीरङ्गे सुख मास्व” इति रामानुजार्य मुद्दिश्य सङ्कल्पितं किलेति सम्बुद्धेरभिप्रायः । मध्ये प्रकृतिसम्बन्धनिबन्धनापचारप्रसङ्गशङ्काया माह सद्वत्सल, दोषेष्वपि भोग्यताबुद्धि र्वात्सल्यम् इति भावः । कारुण्यामृतवारिधे, सामान्यतः परदुःखासहिष्णो राश्रितक्लेशोपेक्षा न युक्तेति भावः । वृषपते सौलभ्यात् वृषगिरीश्वर, श्रीमन् पुरुषकारभूतया श्रिया नित्यसन्निहित, सुन्दर, योग्यताविरहितान् भगवत्सेवाद्ययोग्यतया शास्त्रोक्तान् पाषण्डिनः उत्सार्य अपसार्य पलायितान् कृत्वा साधुजनैः सात्त्विक समूहै स्तु कृतान् निखिला नेवापचारान् अकृत्यकरणकृत्याकरणादिकान् क्षाम्यन् क्षमाविषयं कुर्वन् सन् क्षणात् क्षिप्रम् एव श्रीरङ्गधामश्रियं श्रीरङ्गस्थानसम्पदं अनिशं तद्धोग्यां साधुजनभोग्यां कुरुष्व, रामानुजार्य तच्छिष्यप्रशिष्यादिसात्त्विक- जनानुभाव्यां कुरुष्वेत्यर्थः ॥ १३१ ॥ इदं भूयो भूयः पुनरपि च भूयः पुनरपि स्फुटं विज्ञीप्सामी त्यगति बुधोऽनन्यशरणः । कृतागा दुष्टात्मा कलुषमति रस्मीत्यनवधे - दयाया स्ते पात्रं वनगिरिपते, सुन्दरभुज ! ॥ १३२ ॥ श्रीवत्सचिह्नविरचिते पञ्चस्तवे सुन्दरबाहुस्तव स्समाप्तः । इदमिति । एवं वनगिरिपते, सुन्दरभुज, अगतिः अबुधः ।

[[177]] कर्मज्ञानरहितः, अबुधपदसमभिव्याहारा दगतिपदं कर्मराहित्यपरम् । अत एवाऽनन्यशरणः तदुभयसाध्यभक्त्यभावस्य सिद्धत्वात् त्वदेकशरण इत्यर्थः । अहम्, इतीदं विज्ञापितमेवेदं भूयो भूयः पुनरपि च भूयः पुनरपि विज्ञीप्सामि विज्ञापयितु मिच्छामि । दुष्टात्मा दुष्टमनाः कलुषमतिः क्षुद्रबुद्धिः अहं कृतागा अस्मि कृतापराधोऽस्मीति हेतोः ते दयायाः पात्रं दयनीयो भवानि । सकृद्विज्ञापनस्यैव पर्याप्तत्वेऽपि उन्मत्तचित्तवत् असकृद्विज्ञापन मपराध एव । ततः प्रियतर गुरुचरणविरहविषष्णोऽहं परदुःखासहिष्णुतारूपायाः केवलकृपायाः पात्रम् इति मत्वा विज्ञापितं निर्वर्तयेति भावः ॥ १३२ ॥ | पञ्चस्तवव्याख्याने सुन्दरबाहुस्तवव्याख्या परिसमाप्ता । पञ्चस्त