०० ०

प्राक्कथनम्

तिरुमलक्षेत्रं सुप्रसिद्धेषु वैष्णवक्षेत्रेषु अग्रगण्यं भवति । अनुदिनं सहस्रशः भक्तान् इदं क्षेत्रम् आकर्षतीति सुविदितमेतत् । भक्तैः श्रीवेंकटेश्वरस्वामिने समर्पितं द्रव्यं बहुमुखेषु सेवाकार्यक्रमेषु विनियुज्यते । देवस्थानस्य कार्यक्रमेषु धार्मिक ग्रन्थप्रकटनं मुख्यातिमुख्यं भवति । वेदाः, रामायणभारतभागवतानि, भक्तिप्रतिपादकाः इतरे च ग्रन्थाः विविधभाषासु सुप्रसिद्धैः पण्डितैः परिष्कृताः प्रकटीक्रियन्ते । ‘भक्ति नीपैदोकटे परमसुखमु’ ( त्वयि भक्तिरेकैव परमं सुखम् ) इति पदकवितापितामहेन अन्नमाचार्येण उक्तया रीत्या भगवति भक्तिरेव अस्मान् तारयिष्यति । भक्तिप्रचाराय स्तोत्रसाहित्यं प्राणभूतम् । वेदा अपि देवतास्तुत्यैव प्रारभ्यन्ते । वैष्णवभक्तिसाहित्ये गणनातीताः स्तोत्रग्रन्थाः सन्ति । तेषु भगवद्रामानुजानां अन्तरङ्गशिष्याः इति प्रसिद्धैः श्रीवत्साङ्कमिश्रः विरचितः पञ्चस्तवाख्यो ग्रन्थः जगत्प्रसिद्धः । तत्र वैकुण्ठस्तवः, अतिमानुषस्तवः, सुन्दरबाहुस्तवः, वरदराजस्तवः, श्रीस्तवः इति पञ्चस्तोत्राणि सन्ति । तत्र एकैकस्मिन्नपि श्लोके वेदार्थाः निक्षिप्ताः । तत एव श्रीवैष्णवाः अमून् स्तवान् परमपवित्रान् सम्भाव्य पठन्ति । उत्कृष्टानि इमानि स्तोत्राणि व्याख्यानेन साकं मुद्राप्य भक्तेभ्यः समर्पयितुं सदवकाशः लब्ध इति सन्तुष्यामः । पूर्वमुद्रितग्रन्थेषु स्थितान् अक्षरदोषान् अपनीय उपोद्धातरूपेण विज्ञापनेनसाकम् अमुं ग्रन्थं सुष्ठु परिष्कृत्य प्रदत्तवद्भयः सुप्रसिद्धपण्डितेभ्यः श्रीमद्भयः N. C. V. नरसिंहाचार्येभ्यः, T.A. कृष्णमाचार्येभ्यश्च कृतज्ञतां निवेदयामः । जिज्ञासवः पाठकाः अमुं ग्रन्थम् आदृत्य देवस्थानस्य कृषिं सफल करिष्यन्तीति आशास्महे । कार्यनिर्वहणाधिकारी ति. ति. देवस्थानम्, तिरुपतिः विज्ञापना सव्याख्यानस्य पञ्चस्तवाख्यस्य श्री श्रीरङ्गं कु. तिरुवेङ्कटाचार्यैः परिशोधितस्य, अस्य प्रबन्धस्य प्रथमं मुद्रण आन्ध्रलिप्यां, चेन्नपुर्यां श्रीनिकेत मुद्राक्षरशालायां क्री.श. 1875 तमे वत्सरे कृतमिति, पुनः श्री अ तिरुमल कल्याण श्रीनिवासताताचार्यैः परिशोधितस्याऽस्य कोशस्य द्वितीयं मुद्रणं ग्रन्थाक्षरेषु पूर्वनिर्दिष्ट मुद्रायन्त्रालय एव क्री.श. 1900 तमे वत्सरे कृतमिति च ज्ञायते । एतौ द्वौ प्रकाशौ सव्याख्यानस्य अस्मत्परिष्कृतप्रकाशस्य आधारग्रन्थौ । उपर्युक्तग्रन्थद्वयं प्राचीनतया स्पर्शासहं कथञ्चिदस्माभिः समपादि। देवनागरीलिप्यामपि अयं ग्रन्थो मुद्रित इति शुश्रुम केवलम् । स तु दुर्लभ एवाऽस्माकमभूत् । मूलश्लोकानान्तु परिष्कारे त्रिचतुराणामन्येषां ग्रन्थानामपि साहाय्य मविन्दामहि । परिष्काराय अपेक्षिते श्लोकभावावगमे श्रीमतां महाविदुषां श्री काञ्चीप्रतिवादि भयङ्कर अण्णङ्गराचार्याणां विपुलद्राविडभाषा विवरणात्मकात् प्रकाशात् महा नुपकारोऽलभ्यत । पञ्चस्तवाख्यस्य व्याख्यासनाथस्य अस्य स्तोत्रकदम्बस्य परिष्कृत्य प्रकाशने आवश्यकता अनिरूपितसुज्ञाना भवति, यतोऽयं ग्रन्थो विषयगौरवेण सजातीयान् ग्रन्थानतिशयानोऽपि शतशो विद्यमानैः मुद्रणदोषैः पठितॄणां भक्तानामुद्वेजको भवति । 11 प्रपन्नजनप्रथमगण्याः वेदान्तिकुलभूषणाः कविवृषभाः भगवद्रामानुजमुने रन्तरङ्गशिष्याः ‘यदुक्तय स्त्रयीकण्ठे यान्ति मङ्गल सूत्रताम्’ इत्युपश्लोकिताः श्रीवत्साङ्कमिश्राः अस्य ग्रन्थस्य निर्मातारः । अत्र पञ्चस्तवाः वैकुण्ठस्तव अतिमानुषस्तव सुन्दरबाहुस्तव वरदराजस्तव - श्रीस्तवाभिधाना स्सन्ति । तेषु विद्यमानः एकैकोऽपि श्लोकः वेदार्थपरिपुष्टः उपनिषत्खण्डकल्पो वर्तते । श्रीवैष्णवानां कुलेऽस्य पञ्चस्तवस्य आदृतिरसाधारणी । अस्य व्याख्यासापेक्षतां विदित्वा तिरुमलै वासरसिकाः श्रीनिवासाचार्याः नातिविस्तृतामपि अपेक्षितयावत्प्रमाणवचन परिबृंहितां सुबोधां व्याख्यां व्यररचन् । बहोः कालात्प्राक् मुद्रितोऽयं श्रीकोशः अद्यत्वे दुर्लभः । एतं लोपं परिहर्तुकामै रस्माभिः अयं ग्रन्थः यावच्छक्ति परिष्कृत्य प्रकाशयितु मुपादीयत । अस्मत्परिशीलितयो रुभयो रपि पूर्वोक्तयोः सव्याख्यान ग्रन्थयोः शतशो मुद्रणदोषालब्धपदा इति बहुत्र जिज्ञासूनां क्लेशावहांस्तान् संशोध्य भागवतानां सहृदयानां करकमलयो रुपायनी क्रियते कोशोऽयम् । प्रथमतः पुण्यश्लोकानां ग्रन्थकर्तॄणां श्रीवत्साङ्कानां दिव्यचरिते कांश्चिदंशान् सङ्गृह्य निवेद्य पश्चात् परिष्करणेऽस्माभि रादृतान् नियमान् सतां सौकर्याय प्रस्तोष्यामः । श्रीवत्साङ्कमहिमादर्शः आर्वाञ्चो यत्पदसरसिजद्वन्द्व माश्रित्य, पूर्वे मूर्ध्ना यस्यान्वय मुपगता देशिका मुक्ति मापुः । सोऽयं रामानुजमुनिरपि स्वीय मुक्तिं करस्थां यत्सम्बन्धा दमनुत, कथं वर्ण्यते कूरनाथः ॥ इत्येव मुपश्लोक्यमान निस्समाभ्यधिक महावैभवविभासुराणां अपारकरुणाकूपाररूपाणां सकलकल्याणगुणमणिगणपरिकर्मितानां E [[111]] श्रीमन्नारायण पारम्यप्रतिपादकदर्शनरक्षणविश्राणित स्वचाक्षु दर्शनानां पावनपावनानां प्रपन्नपरमेष्ठिनां पञ्चस्तवप्रबन्धृणां श्रीवत्साङ्कमिश्राणां उदारमहिमान मुदीरयितुं गिरां पतिरपि न पारयति । “श्रियः पत्युर्वैभव मपि वर्णयितुं प्रभूयते, न तु लक्ष्मणमुनीन्द्राणाम्” इति श्री भगवद्रामानुजाचार्याणां महिम्नोऽतिशयं दाशरथि - ( मुदलियांण्डान्)- गोविन्द (एम्बार्) प्रभृतयो बभणुः । " रामानुजाचार्याणामपि महिमान मभिवर्णयितुं कश्चित्प्रभवेदपि; कूरनाथानां माहात्म्य मुद्भावयितुं न कश्चि दीशीत" इति अस्मदाचार्या स्सर्वे अभिप्रयन्ति । मनुजस्यापेक्षितेषु गुणेषु मुख्यतमाः जीवकारुण्यम्, आचार्यनिष्ठा, भगवद्भक्तिः, वैराग्यम्, वैदुष्यम्, सत्कर्मणा मनुष्ठानम् - इत्यादयो गुणाः । तेषा मेषां समेषामपि आकरायमाणानां कूरनाथानां दिव्यचरितानुसन्धानं श्रीवैष्णवाना मखिलाना मवश्य कर्तव्येषु प्रधानम् इति पूर्वाचार्या स्सञ्जगरिरे । गुणसागराणा मेषां बिन्दूनिव कांश्चन गुणान् प्रस्तुत्य भक्ति प्रवणेन चेतसाऽनुभवितुं प्रयतामहे । अवतारः श्री काञ्चीनगर्याः वायव्यविदिग्भागे ‘कूरम्’ नाम्ना प्रथिता पुरी काचिदस्ति । इमे आचार्याः तत्र सौम्यनाम्नि नवाधिकशतोत्तर चतुस्सहस्रमिते कलिवत्सरे (क्री.श. 1008) पुष्ये मासि हस्तनक्षत्रयुते दिवसे पृथिव्या मवातरन् । एतान् श्रीवत्साङ्कनाम्ना आजुहुवुः । ईदृशनामकरणस्य कारणम् एवं ब्रुवते तज्ज्ञाः । परवासुदेवः दुष्टनिग्रह शिष्टपरिपालनाद्यर्थं लीलाविभूत्यां स्वयं त्रेतायां श्रीरामरूपेणावतीर्य, सर्व देशदशाकालेषु अन्तरङ्ग किङ्करं अनन्तं फणिराजं लक्ष्मणरूपेणाऽवतार्य, पृथिव्यां चिकीर्षितं परिसमाप्य तेन सह स्वीयां नित्यविभूतिं प्रत्यावृतत् । पुनः श्रीहरिः द्वापरे धर्मसंस्थापनार्थाय मह्या मवतितीर्षुः “यथा पूर्वं क्षोण्या मवतीर्य मम सहायो भव” इति शेषमर्थयते iv स्म । तदा स कुण्डलीन्द्रः - “भगवति रामरूपेणाऽवतीर्णे भवतोऽनुजोऽवतीर्य अहमतिबहुलान् क्लेशानल मन्वभवम्” । इति लीलायै केवलं प्रत्युवाच। ततः श्रियः पतिः - " अस्मिन्नवतारे तदन्यथैव भवतु । त्वमग्रजो भव, तवाऽनुजोऽहं भविष्यामि " इति प्रतिश्रुत्य तथैव स्वयं श्रीकृष्णो जज्ञे, अनन्तश्च बलरामः । अस्मिन्नवतारे भगवतो मानसे काचिदतृप्ति रुदभूत् । ‘अहो ! अद्य यावत् शेषित्वम् एवोररीकृत्य व्यवहरता मया दास्यरुचि र्न ह्यनुभवगोचरीकृता । शेषित्वापेक्षया शेषवृत्त्याम् एव भोग्यताऽधिकतरा । अतो मया शेषत्वमाधुर्यानुभवाय अवतारान्तराणि स्वीकरणीयानि’ इति मनसि विचिन्त्य फलतो द्विःशेषं शेषिण माविर्भाव्य स्वयञ्च शेष स्समपद्यत । प्रथमतोऽनन्तं श्रीरामानुजात्मनाऽवतार्य भगवां 1 स्तु स्वयं श्रीवत्साङ्करूपेणावतीर्य, पुनरपि शेषं वरवरमुनि (मणवाळ महामुनि) रूपेणाऽऽविर्भाव्य श्रीपतिश्च स्वयं प्रतिवादि भयङ्कराण्णार्यरूपेण प्रादुर्भूय च स्वमनोरथ मपूरय दिति साम्प्रदायिका अवताररहस्य मामनन्ति । लक्ष्मीनायक स्येव कूरेशानां वक्षसि प्रकाशमानं लाञ्छनं परमपुरुषतां सूचयतीति एते भगवा निव श्रीवत्सलाञ्छननाम्ना प्रसिद्धि मापुः । एतेषां ‘आंळ्वान्’ इति बिरुदनामाऽस्ति । आळ्वा निति द्रमिडपदस्य भक्तिरसे गुणानुभवरसे च निमग्न इत्यर्थः । आळ्वान् पद प्राप्ति सम्बन्धिनी काचन कथा - भगवद् रामानुजाचार्याः कदाचित् ‘भगवद्विषये’ अत्यर्थं द्रुतचित्तानां कूरेशानां मुखादेव श्रीमुखसूक्ति (तिरुवाय् मोळि) भावविशेषान् श्रोतु मैच्छन् । परमां शेषत्वकाष्ठामास्थिताः श्रीवत्साङ्काः जगदाचार्येभ्यो भगवद्भाष्यकृद्भ्य उपदेष्टं न सम्मेनिरे। अन्ततः उभयाङ्गीकारार्हः कश्चन नियमः पर्यकल्प्यत, येन एते कूरनाथाः दाशरथिप्रभृतिभ्यः श्रीमुखसूक्त्यर्थान् उपदिशेयुः, तत स्ते रामानुजेभ्य स्तत्तद्विशेषान् व्याचक्षीरन् । श्रीवैष्णवानां महती गोष्ठी प्राचलत् । यदा त्वेते आचार्याः " उयर्वर वुयर् नल मुडैयवन्” इति श्रीमुखसूक्ति मनुसन्धातु मारेभिरे तस्मिन्नेवक्षणे व्यग्रचित्तास्सम्मुह्य मह्या मपतन् । मतान्तरस्थाः गुणनिधि मपि ब्रह्म निर्गुण मभाषिषत । वकुलाभरणा स्तु प्रथमपादे एव ‘अतुलितमहानन्दधाम’ इति परमात्मानं तुष्टुवुः खलु इति स्मारं स्मारं मुमूर्छुः । तदा गोष्ठी समाविष्टाः श्रीवैष्णवा अभिद्रुत्य, लक्ष्मणमुनीनुपेत्य श्रीवत्सचिह्नान् कटाक्षयितु माह्वयन्ति स्म । तेऽपि द्रुत मुपेत्य - " तदा उलूखलेन सम्बद्धस्य रोदनं सौलभ्यकाष्ठा” इति अनुसन्धाय षण्मासान् मोहदशापन्नान् वकुलाभरणमुनीन् साक्षात्कर्तुमप्रभवन्तोऽपि वय मेतर्हि, तादृशा नेतान् भक्तावतंसान् नेत्रसात्कर्तुं शक्नुमः” इति सगद्गदं वदन्तः पश्यन्तश्च चिरं तस्थुः | श्रीवत्साङ्का स्तु न प्रत्यबुध्यन्त । “आळ्वान् ! आळ्वान् !” इत्युच्चै राह्वयन्तो यतिराजाः पृष्ठे आस्फाल्य प्राबोधयन् । प्रबुध्यमाना एते ‘अतुलितमहानन्दधाम’ इत्युच्चरन्तो झटिति उत्तस्थुः । चित्तद्रवीभावे नम्माळ्वार सदृशाः श्रीवत्सलाञ्छना इति रामानुजाचार्या एतान् आळ्वान् इति व्यपदिशन् । विषयवैतृष्ण्यम् श्रीवत्सचिह्नमिश्राणा मेषां अवतारस्थलं ‘कूरम्’ नामकं महानगरम् । तद्विषयपालका एते कूरनाथा अभवन् । कस्याञ्चन निशीथिन्यां नगर्यां सञ्चरन्त एते कस्माच्चन सदनात् सम्भाषणध्वनि माकर्ण्य निभृतं तत्र गत्वा सश्रद्धं त मशृण्वन् । ततश्चाऽयं वृत्तान्तो विदित:- “कस्यचन गृहमेधिनः काचनदुहिता । सा तु यं जनं परिणेष्यति स द्रुतं मरिष्यति इति ज्योतिषसिद्धम् । इदं ज्ञात्वा न कश्चित्तामुपयेमे । अतिक्रान्तोद्वाहार्हवयस्काया एतस्या गृहे रक्षणेन लोकापवादः प्रसजेत् । अतोऽस्या हननम् एवोपाय इति तद्बन्धुभि र्निरणायि” इति । कूरेशः परेद्यवि तद्गृहस्थितान् राजसभा मानाय्य रात्रौ युष्मद्गृहे प्रस्तुतान्सर्वानपि वृत्तान्तान् निवेदयतेति आदिदिशुः । ते यथावस्थित मुदन्तं I vi निवेदयामासुः । तदा श्रीवत्सचिह्नमिश्राः - “सङ्कटेभ्यः प्रजानां रक्षणम् एव प्रभोः परमो धर्मः । अतो भवदीयां दुहितरं अहं परिणेष्यामि " इति प्रतिशुश्रुवुः । “हन्त ! किमेवं कर्तुमुचितम् ? एता मुदुह्य भवन्तो विपद्येरं श्चेत् का वा गती राज्यस्य ? को वा शरणमस्माकम्” इति वदतो कन्यका बन्धू नाक्षिप्य - “विपत्ति स्सुपरिहरा । विवाहस्य प्रयोजने द्वे - धर्मानुष्ठानं, पुत्त्रलाभश्च । प्रजोत्पत्तये शरीरसुख मपेक्षणीयम् । त दुपेक्ष्यगृहमेधिधर्मानुष्ठानाय केवल मेतां परिणेष्या मीति न काचि द्विपत्तिः शङ्कनीया" इति तां परिणिन्युः । साऽपि साध्वीमतल्लिका पतिमति मनुरुन्धाना वैषयिकेभ्यो जुगुप्समाना सद्भक्तिवैराग्ये वर्धयन्ती आण्डाळ् इति स्वीया मभिख्यां अन्वर्थयन्ती सुख मुवास । ‘करणेषु मन्त्री’ इत्युक्तरीत्या भर्तुरपि शास्त्रार्थसंशयां स्तदा तदाऽपनुदन्ती वैभवोदारा दारा इति प्रथते स्म । निष्ठातिशयः सम्पत्समृद्धा एते कूरनाथाः यति राजपादकमलसमाश्रयणा त्पूर्वं स्वनगरे निवसन्तः महोत्सवसमयेष्वपि देवाधिराजं सेवितुं काञ्चीपुरी मगच्छन्तः अतिथिसमाराधनम् एव श्रद्धयाऽऽचरन्तः वेश्मन्येवाऽवर्तन्त । वरदराजवैशाखोत्सवसिसेविषया विप्रकृष्टा दुत्तरदेशा दागतौ द्वौ श्रीवैष्णवौ कूरेशगृहे आराधितौ सुष्ठु भुक्त्वा वरदराजालयं ययतुः । गरुडवाहनोत्सव- दिनेऽपि सेवार्थमनागतान् श्रीवत्सचिह्नान् विज्ञाय तौ देशान्तरीयभागवतौ

“बहु योजनान्तरितदेशात् भक्ताः बहु व्ययं प्रयासञ्च अगणयित्वा आगत्य गरुडारूढं देवराजं सेवन्ते । कूरेशा स्तु स्वके गेहे एव सुखमासते किल” इति तत्र किञ्चिदिवानादरबुद्धिं वहन्तौ तौ यदा भगवत्सन्निधि मुपजग्मतुः तदा ताभ्यां देवराज स्साक्षात्कारं न ददाति स्म । अहो दौर्भाग्य मित्याक्रन्दन्तौ तौ मुमुहतुः । ततः कृपालु र्वरदः - “युवाभ्यां श्रीवत्साङ्के मनसाऽपराद्धम् । अत स्तत्सन्निधिं प्राप्य क्षमां याचतम् ; तं प्रसादयतञ्च ।vit अन्यथा युवयोः प्रत्यक्षदृश्यो न भविष्यामि " इति अर्चकमुखेन ता वादिदेश । तथैव तौ गत्वा श्रीवत्सचिह्नानां पादपद्मयोः छिन्नमूलाविवतरू निपेततुः । स भक्ति स्तुत्वा वृत्तमुदन्तं न्यवेदयताम् । ते च मन्दं स्मित्वा- “गच्छतं, स्वामी करुणामसृणैः कटाक्षपातैरनुग्रहीष्यति” इति सान्त्वयामासुः । तौ च निराबाधं हस्तिगिरिनाथं सेवित्वा तुतुषतुः । सम्पत्परित्यागः - आचार्यपादाश्रयणञ्च कूराख्यमहानगर्यां श्रीवत्साङ्कमिश्राणां प्रासादो महेन्द्रभवनं, कुबेरहर्म्यञ्च सम्पदा अतिशेते । एतद्दिव्यभवनकवाटतटघटित- किङ्किणिकानिक्काणः एकयोजनान्तरितदेशस्थितैरपि श्रूयमाण आसीत् । तथा समृद्धिभाजते प्रत्यहं भक्तान् साधून् निस्स्वान् अन्यांश्च बहुधा अन्नपानादिभिः पुष्णन्तः धार्मिकाग्रेसरा आसन् । प्रतिदिवस भगवदालये श्रीहस्तिशैलशिखरोज्ज्वलपारिजातस्य वरदराजस्वामिनः रात्रिपूजाया मवसितायां पिहितयोश्च प्रधानद्वारमहा कवाटयोः, पश्चादेव एतदीयगृहकवाटपिधानं बहो स्नेहसोऽनुवर्तमान मासीत् । कदाचिन्महोत्सवकारणेन रात्रिपूजायाः कालविलम्बोऽजायत । प्राप्तेऽपि नियतकाले कवाटे न पिनह्येते स्म । श्रीवत्साङ्कगृहपाला स्तु सन्निधिवृत्तान्त मजानन्तः प्रतिदिवसाभ्यासानुसारेण द्वारकवाटे पिनह्यन्ति स्म। तादात्विकः कवाटघण्टाध्वनिः योजनान्तरित प्रदेशस्थितवरदराज- स्वामिश्रवणयो रपतत् । तदा स देवः व्यजनवीजनकैङ्कर्यनिरतान् अन्तरङ्गदासान् काञ्चीपूर्णान् " रात्रिपूजामपरिसमाप्यैव कवाटे संवृते कुतः ?” इति पर्यपृच्छत् । “ध्वनिरय मत्रत्यो न भवति श्रीवत्सचिह्नमिश्र हर्म्यवैभवातिशयोऽयम्” इति ते प्रत्यब्रुवन् । स्वामी मन्दं सिष्मिये । “श्रीवत्सचिह्नसम्पदाभोगोऽस्मानेवं भ्रामयामास ननु” इत्यवादीत् । आकर्ण्य चेदं देवराजकाञ्चीपूर्णसम्भाषणं स्वया दाम्भिकचेष्टया vill लज्जिताः परमां विरक्तिं भजन्तः सकलविधां सम्पदं सत्पात्रे विनियुज्य देहयात्रार्थ मपेक्षितामल्पां सम्पदं रक्षन्तः सदाचार्यानुपाश्रित्य उज्जीवनाय प्रयतितव्यम् इति निश्चिक्युः । विशिष्टाद्वैतमतस्थापकाचार्याः भगवद्रामानुजमुनयः हस्तिगिरिनाथपादकमलसन्निधाने सन्न्यस्य तिष्ठन्तीत्युपश्रुत्य, काञ्चीमेत्य, तच्चरणनलिने आश्रित्य, सम्प्रार्थ्य, तेभ्यः पञ्चसंस्कारा नधिगत्य, तदीयश्रीपादच्छायायां वसन्तः सामान्यशास्त्राणि, अध्यात्मशास्त्रं, सम्प्रदायार्थांश्च स्वय मधीयानाः अध्यापयन्तश्च सुपथि कालं क्षिपन्तः आसते स्म । श्रीरङ्गनगरयात्रा एवं स्थिते कदाचित् श्रीरङ्गनाथस्य नियमनेन ‘तिरुवरङ्गप्पेरुमाळ् औरैयर्’ नामान: दिव्यप्रबन्धगायकाः श्रीकाञ्चीमागत्य दिव्यगानेन देवाधिराजं प्रीणयन्ति स्म । ततो वरदः “ वरं वृणीष्व, दास्यामि " इति कृपया प्रतिशुश्राव । गायकाः “ श्रीरङ्गनाथसन्निधिसमृद्धये भगवद्रामानुजा अनुग्राह्याः” इति ययाचिरे । “हन्त ! वञ्चितोऽस्मि गायकेन । अपह्रियमाणदिव्यरत्नो भवामि " इति मानसे खिद्यमानोऽपि देवराजः लक्ष्मणमुनीन् श्रीरङ्गं प्रेषयामास । श्रीवत्साङ्काः तै र्वियुज्य स्थातुं प्राणान् धर्तुमप्यप्रभवन्तः आचार्यैस्साकं श्रीरङ्गनगर मापुः । 1 चरमश्लेकार्थलाभः भगवद्रामानुजाचार्याः गोष्ठीपूर्णानां श्रीपादसन्निधौ स्थित्वा प्रयस्य चरमश्लोकरहस्यार्थानधिगम्य पुनर्मठं प्रत्याजग्मुः । तदा श्रीवत्साङ्काः स्वामिसन्निधौ प्रणम्य तूष्णीं तस्थुः । तदानीं भगवद्रामानुजाचार्याः “पश्य, वत्स, गोष्ठीपूर्णाः मह्यं रहस्यार्थानुपदिश्य - " कस्मैचि- दप्यनुपदिशन् रहस्यार्थान् रक्ष" इति मा मादिदिशुः । तदाऽहं “परम भागवतशिखामणये एकस्मै श्रीवत्साङ्काय अनुपदिश्य स्थातुं न शक्नोत्येष दासः” इति व्यजिज्ञपम् । तदा “श्रोतु मधिकारिणेऽपि तदीयाध्यवसायं 1X 64. । बहुधा परीक्ष्य, एकं वत्सरं तदीयशुश्रूषाञ्च प्राप्य तस्मा उपदिश” इत्यस्मदाचार्याः सम्मतिं प्रादुः" इत्यकथयन् । आर्ता एते कूरेशा: ‘चपलाया अपि चञ्चलमिदं शरीरम् । एकं वत्सर मिदं स्थास्यतीति को विश्वासः ? तावदज्ञात्वा विशेषार्थान् आत्मानं धर्तुं न शक्नोमि " इति विचिन्त्य, ‘आचार्यभवनाङ्गणे एकमासव्यापी उपवासः एकवत्सरमितायाः शुश्रूषायाः समः’ इति शास्त्रमर्यादा मनुरुध्य, उपोष्य तानर्थानविन्दन् । सौवर्णं भाजनमपास्तम् भगवद्रामानुज पादपद्मयुगली निरन्तरानुचिन्तन प्रवणधिषणाः परमैकान्तिनः आचार्यदेवताः श्रीवत्सलाञ्छनाः शरीरधारणमात्रा- पेक्षितामल्पां सम्पदं स्वदेशे तदवधि रक्षन्तोऽपि, अद्यत्वे तावन्मात्रसम्पद्योग मपि स्वरूपविरुद्धं मन्यमानाः, स्वाचार्याभिमत्या अवशिष्टं सर्वस्वं भागवतव्रजत्रा कृत्वा, सर्वात्मना स्वस्य सदृश्या धर्मपत्न्या आण्डाळ नाम्न्या सार्धं काञ्चीदेवाधिराज मङ्गलाशासनं विधाय श्रीरङ्गनगर्यै प्रतस्थिरे । मध्येमार्गं मधुरान्तक पुरपरिसरेषु तयो र्गच्छतो स्सतोः सा देवी ‘बिभे’ मीत्याचक्रन्द । तच्छ्रुत्वा श्रीवत्साङ्काः “ अङ्के स्थापितः खलु (धन) भारो भीत्यै भवेत् । किं यत्किञ्चिद्रक्षसि ? ” इति ता मपृच्छन् । “आम् । त्यक्त्वा सर्वमपि भवतां पत्ररूपं भोजनपात्र ममृष्यन्ती, भवदीय मेकं सौवर्णं भोजनपात्रं रक्षामि" इति पतिदेवता सा कर्णे शनैर्न्यवेदयत् । तदा ते तस्या स्तदाच्छिद्य लतागुल्मे अपास्य स्वस्थस्वान्ता अजनिषत । ततः स्वाचार्येभ्यो ऽभयप्रदातारं मधुरान्तकपुरवरवर्तिष्णुं विष्णुं तटाकरक्षादीक्षितं समाराध्य ‘सुफलित द्वयोऽयमद्वयः प्रदेश:’ इति तत्रस्थं देवं सेवित्वा मार्गवशात् प्राप्तानि दिव्यक्षेत्राणि निखिलानि सेवमानाः श्रीमच्छ्रीरङ्ग मधिगम्य तत्र यथापुरं आचार्य चरणनलिन सेवनजीवना: सानन्द मासाञ्चक्रिरे । X . श्रीरङ्गामृतकवयः संस्कृताः 1 तदात्वे श्रीरङ्गदेवायतनपरिजनानां निर्वहणाधिकृतः तिरुवरङ्गत्तमुदनार् नामा कश्चिद्भागवतः श्रीरामानुजाचार्याणां सन्निधि मेत्य ‘पापानामाकरोऽस्मि। भगवतस्सर्वात्मना शेषोऽहं यथा स्याम्, तथा मां संस्कर्तुं कञ्चन सात्त्विकं भक्तं तत्र भवन्तो नियुञ्जन्तु ” इति ता न्प्रार्थयामास । तदा लक्ष्मणमुनयः कूरनाथ माहूय - " एते अस्मत्समस्तसुखैकहेतोः श्रीरङ्गेशितुः श्रीकार्यप्रणयिनः । एतेषु दोषा नगणयित्वा एता ननुवर्त्य, अनुकूलान्विधाय ममान्तिकं प्रापय" इत्यादिचन् । श्रीवत्साङ्काश्च आचार्यादेशानुसारं तं सम्यगाहितसंस्कारं गुरुभ्यो निवेदयन्ति स्म । ते च अमृताचार्यान् कूरेशपदाश्रिता नेव विदधिरे । एते च स्वाचार्यान्ं श्रीवत्सलाञ्छनान् " वाचा मगोचर यशोविशालानां उल्लखित विप्रलम्भक त्रिमदावटानां अस्मत्कुलस्वामिनां कूरनाथानां श्रीपादा वाश्रित्य पश्चात् इति कूरेशान् श्रीरामानुजशतान्तादिप्रबन्धेऽश्लाघन्त । … 77 1 कूरनाथचरणान्तरङ्गभक्तेषु अमृतार्येषु कूरेशसन्निधौ दर्शनग्रन्था नधीयानेषु तेषां जननी बत ! आचार्यचरणा वाशिश्रिये । दशाहकैङ्कर्येऽतिक्रान्ते “एकाहे निमन्त्रणाय कश्चित् श्रीवैष्णवः नियोज्यः” इत्यमृताचार्याः भगवद्रामानुजाचार्यान् ययाचिरे । यति राजैश्च “तदर्थं त्वं गच्छ” इति निमन्त्रिताः कूरेशाः प्रफुल्लमुखा एव निमन्त्रण मङ्गीचक्रुः । अमृताचार्याः आचार्याणां महौदार्यं, आत्मनो भाग्यञ्च प्रशंसन्तः प्रणामपुरस्सरं श्रीवत्साङ्कान् एकाहश्राद्धे योजयित्वा स्वीयं सर्वस्वं तदीयं निश्चिन्वानाः अपरिमितं धनं ददति स्म । कूरेशाश्च वात्सल्येन तद्धनं स्वीकृत्य गच्छन्तः पथि सर्वं धनं विनिकीर्य, स्नात्वा कावेर्यां धृतोर्ध्वपुण्ड्राः यतिराजपदकमलयोः प्रणेमुः । “क्वतल्लब्धं धनम् ? " इत्याचार्यैः पृष्टाः “अनर्थहेतु रर्थो नष्टः" इति भूतं वृत्तान्तं निवेदयामासुः ! “अहो ! व्यक्ति विरक्तिवैलक्षण्यम्" इति भृशं मुनीन्द्रा मुमुदिरे । 1 X1 नियमनान्तरार्थं स्त्वयम् श्रीनाथालय प्रधानकवाटकुञ्चिका अमृताचार्याणां वशेऽवर्तत । तां स्वहस्तगतां कर्तुमेव मादिशन् स्वशिष्यवर्यान् - " यावद्भोजयिता कुञ्चिकां न दद्यात् तावत् ‘सकलं सम्पूर्ण’म् इति मा प्रतिब्रूहि” इति । श्राद्धकर्तारः भुक्तयनन्तरं “ (किं) सकलं सम्पूर्णम् ? इति निमन्त्रितान् पृच्छेयुः । एते च ‘सकलं सम्पूर्ण’म् इति प्रत्यत्तरयेयुः इति परिपाटी । प्राप्ते एव प्रतिवचने श्राद्धपूर्तिः स्यात् । श्रीवत्साङ्काश्च गुरुणा मभिप्रायं विदित्वा तदनुगुणं व्यवहृत्य अमृताचार्येभ्यः कुञ्चिका मासाद्य स्वाचार्येभ्य स्समार्पयन् । संयमिसार्वभौमाश्च तां कुञ्चिकां शेवधिलम्भं लब्ध्वा श्रीरङ्गनाथसन्निधिकैङ्कर्याणि तथा परिचस्करिरे, यथा अद्याऽपि आसेतुशीताचलं " रामानुजार्यदिव्याज्ञा वर्धता मभिवर्धता”म् इति अनुदिन माम्नायते । मेधाविभवः भगवद्रामानुजाचार्याः ब्रह्मसूत्राणां भाष्यं विरचय्य यामुनाचार्याणां हृदयस्थिता मतृप्तिं परिहर्तुकामाः भगवद्बोधायन प्रणीतां वृत्तिं लिप्सन्तः काश्मीरदेशे शारदापीठे स ग्रन्थो रक्ष्यमाणोऽस्तीति विदितवन्तः साकं श्रीवत्साङ्कैः यात्राक्रमेण काश्मीरा नगमन् । विज्ञातस्वीयवैभवात् सरस्वती भाण्डागाराधि कृतात् तं ग्रन्थ मुपलभ्य प्रथमाध्यायं कटाक्षयन्ति स्म । कूरनाथा स्तु द्वितीयाध्याया दान्तं पठित्वा विषयं कृत्स्नं स्वमेधायां दधुः । असूयुभि र्मतान्तरीयैः प्रेरितः ग्रन्थालयाधिकृतः तं कोशं निजुगूह : दुर्लभयति स्म च । आचार्याः प्रथमाध्यायानन्तरो ग्रन्थभागः न दृष्ट इति 1 भृशं चिक्लिशिरे । छात्रास्तु “यदि मां गुरवो नियमयन्ति दासो वृत्तिग्रन्थं पक्तिशो निवेदयिष्य तीति वदन्तः तान् असाधारण स्वमेधामहिम्ना विस्मयाम्बुधौ निमज्जयामासुः । xii श्रीभाष्यरचनोपकार: } “अरण्यवासे सदृशं सकल मुपचारं काले काले समाचरन्तं मनुजं दृष्ट्वा चक्रवर्ति श्रीकुमारः ‘भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम’ इति वदन्, कैर्यधुरन्धरे लक्ष्मणे जाग्रति आत्मानं पितृमन्तम् एव मेने । तथाऽहमपि मेधा धृतवृत्तिग्रन्थे त्वयि सति ग्रन्थो नष्ट इति न खिद्ये, हस्तगत इत्येव ह्रादे” इति श्रीभाष्यकाराः स्वच्छात्रा नभ्यनन्दन् । अथ सशिष्या आचार्याः श्रीरनं प्रत्याववृतिरे । ततः श्रीभाष्यनिर्माणाय कृतसङ्कल्पाः भगवद्रामानुजाचार्याः श्रीवत्सचिह्नान्वीक्ष्य “समग्रा बोधायन वृत्तिः न मया प्रत्यक्षिता । अतो मद्भाष्ये जातुचिद्वृत्तिविरोधः प्रसजे दपि । तदा स विरोधो मह्यं सूचनीय " इत्यवादिषुः । श्रीवत्साङ्कास्तु “सर्वज्ञै स्तत्र भवद्भिरेवं न वक्तव्य"म् इति ब्रुवन्तः तथाकर्तुं न सम्मेनिरे । तदाऽऽचार्याः “वृत्तिविरोध स्त्वया यदि लक्ष्यते तदा अलिखन् जोष मा स्व” इति कञ्चन नियम मकल्पयन् । तथैवाऽन्वतिष्ठन्नन्तेवासिनश्च । एवं शिष्यसहाया यतिराजाः श्रीभाष्यं परिसमापयामासुः । भावज्ञेनेति पूर्वोक्तश्लोक मनुस्मरन्तः, अनुवर्तमानेषु श्रीवत्सचिह्नमिश्रेषु यामुनाचार्यानितः परमपद मितान् नाऽमंसत । रक्षार्थ मन्तिके वसत एव तान् मेनिरे । अभिननन्दुश्च छात्रवत्सलाः स्वान्तेवसतां मेधावैदुष्ये । 1 श्रीगोष्ठीपूर्णशुश्रूषा भगवद्रामानुजाधिष्ठिताया मुभयवेदान्तग्रन्थ कालक्षेपगोष्ठ्यां प्रवर्तमानायां - " ज्ञान मानन्द श्शेषत्वञ्च आत्मनो निरूपकधर्मा इति आम्नायते । तेषु अन्तरङ्गनिरूपको धर्मः को वा ? " इति जिज्ञासायां प्रस्तुतायां सर्वज्ञा अपि यतीन्द्राः ‘विषयोऽय माचार्यमुखेन प्रकाशनीयः ’ इति मत्वा “अयि, श्रीवत्साङ्क श्रीगोष्ठीपुरं गत्वा विदितवेदितव्यः प्रत्यागच्छ” इति श्रीवत्साङ्कान् न्ययुञ्जन् । अमी च गोष्ठीपूर्णसन्निधौ, Xx111 प्रणम्य रामानुजसन्देशं संश्राव्य षण्मासान् समाधानाय प्रतीक्षाञ्चक्रिरे । गोष्ठीपूर्णास्तु नाऽन्वगृह्णन् । श्रीवत्साङ्काश्च “ आचार्यान्नत्वा पुन रागमिष्यामि” इति निवेद्य प्रस्थातुकामा अभवन् । तदा गोष्ठीपूर्णाः श्रीवत्साङ्का नाहूय अज्ञान मपोहितुं क्षमे ज्ञानेऽनुगृहीते प्राप्तवन्तः आळ्वार् महाभागाः “अडिये नुळ्ळान् ” ( दासान्त विद्यमानः ) इति यदूचु स्तां रीतिं किं त्वं जानीषे ?” इत्यप्राक्षुः । कूरेशाः “धन्योऽस्मि ” इति वदन्तः स्वनगराय प्रतिप्रतस्थिरे । अत्राऽभिसन्धिरयम् - श्रीमुखसूक्तयां अष्टमशतके अष्टमदशके ‘कण्गशिवन्दु’ इति प्रथमा गाथा, ‘अडियेनुळ्ळान्’ इति द्वितीया गाथा च श्रियः पत्युस्स्वरूपं निरूपयतः । तत्र ‘अडियेनुळ्ळान्’ इति द्वितीय- गाथास्थप्रथमविशेषणेन परमात्मनः जीवात्मनि अनुप्रवेशं प्रति पिपादयिषन्तः वकुलाभरणमुनयः ‘आत्मनि तिष्ठतीति वा, ‘मयितिष्ठ’ तीति वा अनुक्त्वा भगवन्तं दासान्त स्तिष्ठन्त मूचिरे । अत एतज्ज्ञातं भवति यत् दासशब्देनैव आत्मनो बोधनात् आत्मनः दासत्व (शेषत्व)म् एव मुख्यतमो निरूपकधर्म इति । पौराणिककैङ्कर्यलब्धिः कस्मिंश्चन दिवसे चण्डातपवेलायां एकाकिनो भगवद्रामानुजाचार्याः अमृताचार्यसदन मासेदिवांसः “उग्रातपवेलायां किमर्थोऽयं भवदागमः ?” इति सप्रणामं तैरनुयुक्ताः, “पौरोहित्याय भवद्भ्यः परिकल्पितं केदार मस्मभ्यं भवन्तः प्रददतु” इत्यचिवांसः “महानयं प्रसाद” इति मन्यमानै स्सानन्दममृताचार्यैः सहिरण्य सलिलपूर्वकं क्षेत्रं श्रीवत्सचिह्नमिश्रोद्देशेन प्रदत्तं प्रतिजगृहु: । (अत्र पौरोहित्यं नाम श्रीरङ्गेशसन्निधौ पुराणपठनाख्यं कैङ्कर्यं, वेदविज्ञापनम्, पञ्चाङ्गश्रवणम्, श्रीमज्जनगद्यपारायणादिकञ्च । ) ततो यतीन्द्राः पुरोहितकैङ्कर्ये नियुक्तैः कूरनाथैः तं दिवस मारभ्य श्रीरङ्गनाथस्वामिसन्निधौ पुराणविज्ञापनादिकृत्यं निर्वर्तयामासुः । इदञ्च 2 Xiv कैङ्कर्यं ततस्तत्पुत्त्रैः श्रीपराशरभट्टार्यैः, तदनन्तरं तत्पुत्त्रपौत्त्रादि परम्परया च अद्य यावन्निरुह्यत एव । मूकस्य सौभाग्यम् भगवद्रामानुजाचार्याः कदाचित् कञ्चन मूकमाहूय, मठालये स्थापयित्वा द्वारकवाट मावृत्य, तस्मै स्वचरणौ चेष्टया दर्शयामासुः । स च विवेकी मूकः एतावेव श्रीचरणौ मम रक्षका विति विश्वस्य तौ शिरसा दधे। श्रीवत्सलाञ्छनाः कवाटरन्ध्रेण वृत्तान्तममुमभिवीक्ष्य “ श्रीवत्साङ्को जनित्वा शास्त्राण्यभ्यस्य चाऽभ्रशम् । मूकोनाऽजनिषि” इति सशिरस्ताड मरोदिषुः किल । जीवानुकम्पा अत्यन्तकोमलहृदयाः श्रीवत्सचिह्नमिश्राः शरीरबद्धा दयेत्यमन्यन्त । स्वल्पमप्यन्यदीयं क्लेशं न सेहिरे । परकीयां बाधा मुदीक्ष्य बहुवारं मुमुहुः । कदाचित्केन चिन्मार्गेण गच्छन्तः, केनचित्सर्पेण गृहीतं विरुवन्तं कञ्चनमण्डूक मशृण्वन् । “न जाने, कस्मै वा वेदयितुं अयं विरौति । बत ! को वा श्रौष्यति” इति वदन्तो मुमूर्छुः । पुनरेकदा कस्मैचन प्रयोजनाय काञ्चन वृक्षवाटिका मगुः । तत्र अचिरा देव छिन्नपत्रात्कदलीवृक्षात् स्रवन्ती मश्रुधाराम् इव जलधारां प्रेक्ष्य प्रमुह्य मह्या मपतन् । पुन रन्यदा कस्याञ्चनाऽबलायां कावेरीं गत्वा तत्र सम्भृतोदकं कलश मुद्धृत्य अवलग्ने धर्तु मप्रभवन्तीं साहाय्य मपेक्षमाणां आक्रोशन्तीं दृष्ट्वा कलश मुद्धृत्योपचक्रुः । एषा मनुकम्पासम्भृता एतादृश्यः कथा बह्व्य स्सन्ति । आत्मगुणपूर्णता तेषु दिवसेषु तं देश मनुशासत् चोलप्रभुः वैष्णवद्रोही । ततस्स विष्णुप्रतिमा स्सर्वा उत्पाट्य दूरतो विक्षेप्तु मैच्छत् । तदा तच्छ्रेयोऽभिलाषिणः “समन्त्रं प्रतिष्ठापितानां देवता विग्रहाणां ध्वंसनेन XV

महा ननर्थोभवे" दिति त मूचुः । तर्हि दैवीं शक्ति मुद्वास्य विग्रहा न्विनाशयामीति सङ्कल्प्य स चोलेन्द्रः कस्मैचन ब्राह्मणाय प्रभूतं धनं वितीर्य “अदृश्याञ्जनं धृत्वा देवता उद्वासय" इति त माज्ञापयामास । स च लुब्धः पापिष्ठः अदृश्याञ्जनप्रभावा त्परै रदृष्टः देवता उद्वास्य सागरे विक्षिपन्नाऽऽस्ते स्म । वृत्तान्त मिम माकर्ण्य " बहोः कालात् श्रीरङ्गश्रीमदालयं रक्षन्तो वर्तामहे । आसुर वर्गो विजृम्भते । अवाच्य स्सोऽनर्थोऽस्यापि देवायतनस्य सम्भवेच्चेत्, किंवाऽस्माभिः कर्तव्य ‘म् इति साकं स्वाचार्यै र्महापूर्णैः चिन्तयन्तो रामानुजार्या व्याकुलचित्ता आसन् । तदा महापूर्णाः “श्रीरङ्गनाथदेवालयपरिसरेषु एकवारप्रदक्षिणयात्रां कुर्वन्तं मा मनुसर्तुं शिष्ये ष्वन्यतमं नियुङ्क्ष्व । परन्तु मा मनुगच्छतोऽपि यस्य ‘अह मन्य मनुव्रजा ’ मीति मनसि यथा न भासेत तथा छायेव मा मनुयातुं यस्य वा कौशल मस्ति, तादृशमेव विचिन्त्य नियुञ्जीथाः” इति यतिराजा नवोचन् । ईदृशात्मगुणपरिपूर्णः श्रीवत्साङ्क एक एवेति सुष्ठु जानन्तोऽपि यतीशानाः महापूर्णमुखादेव शिष्यस्य योग्यता प्रकाशनीयेति सञ्चिन्त्य " अत्र तादृशो गुणी छात्रो वर्तत इति नाऽह मूहे” इति प्रतिवचन मदुः । तदा महापूर्णेषु ‘श्रीवत्सलाञ्छनः कुतो न प्रेष्यते” इति श्रीवत्साङ्कनियमन मभिलषत्सु, तदाऽऽकर्ण्य कूरेशाः “महापूर्णाः विदिततत्त्वाः इयतां छात्राणां पुरतः इत्थं मा मनुजगृहुः खलु” इति महानन्द मविन्दन्; तथैव ता नन्वगच्छंश्च । कुमारोदयः अर्थिसात्कृतसकलार्थसम्पदः श्रीवत्साङ्काः भगवद्राभानुजपाद सेवाप्रसिताः उञ्छवृत्त्यैव जीविका मतिवाहयन्तः अश्वस्तनवृत्तयः सुखेनाऽवर्तन्त । कदाचित् महति वृष्टिपाते बहिर्निर्गत्य भिक्षा मटितु मपारयन्तः जलपानमात्रतृप्ताः “अभुञ्जानस्य न मे बुभुक्षा भवति । येषु दिवसेषु श्रीमदष्टाक्षरीं न जपामि, निगमपुष्पैः भगवच्चरणौ नाऽऽराधयामि, ते एव मे उपवास दिवसाः । भुज्यमान मन्नं, पीयमान मुदकं, चर्व्यमाणं XVI ताम्बूलम् इत्येतत्सर्वं मम अस्मत्स्वामी श्रीकृष्ण एव” इत्यध्यवस्यन्तोऽनश्नन्तोऽवर्तन्त । तस्यां त्रियामायां भगवन्निवेदनावसरे ‘श्रीचिह्नध्वनिम्’ (श्रीचिह्नं = काहलिकाविशेषः ) आकर्ण्य तेषां पत्नी “भवद्भक्ते उपवसति सति भवान् सानन्दं बहुविधान्यन्नानि भुङ्क्ते ननु" इति श्रीरङ्गनाथ मुद्दिश्य मन स्यकरोत् । तस्या मानसीं वेदनां विदन् रङ्गपति स्सपदि अर्चकमुखेन देवालयकार्यनिर्वाहकं उत्तमपूर्णं (उत्तमनम्बि) आदिश्य तद्द्वारा विघसं पायसान्नं परिजनपरिबर्है स्साकं श्रीवत्साङ्क मिश्रेभ्यः प्राहिणोत् । कूरेशाः तस्मात्पायसात् स्वयं कञ्चनांशं स्वीकृत्य अपरं भागं स्वपत्न्यै प्रादुः । पुरा दशरथस्य स्वानुष्ठितपुत्रकामेष्ट्युपलब्ध दिव्यपायस प्रभावादेव चत्वारः पुत्त्रा जज्ञिरे । तथैवाऽद्य पायसमहिम्ना श्रीपराशरभट्टार्य इति वेदव्यासभट्टार्य इति च पश्चात्कृतनामधेयौ द्वौ कुमारा वजनिषाताम् । I कुरेशराजसभाप्रवेशः श्रीवत्सलाञ्छना भगवद्रामानुजाचार्याणां सहाया स्सन्तः दर्शननिर्वाहं कुर्वन्त आसते स्म । तदात्वे कुलोत्तुङ्गचोलाख्यः प्रभुः राजेन्द्र चोलपुरीं राजधानीं विधाय देशं शास दासीत् । अय मतिक्रूर श्शैवः । विप्रलम्भूकानि मिथ्याभूतानि बाह्यशास्त्राणि परमप्रमाणभूतानि मन्यमानः विषयस्थान् सर्वा न्विदुषः सभां प्रापय्य “शिवात्परतरं नाऽस्ति" इति लेखनीयम् इति तान्निर्बध्नन्नवर्तत । राजदण्डभयात्केचनधनलोभात्केचिच्च तथैव चक्रुः । एवं स्थिते, नालूरान् नामा कश्चिद्राजवल्लभो वैष्णवः “प्रभो, अस्मद्रामानुजाचार्यै रङ्गीकृतस्यैवाऽङ्गीकृतत्वम् । अन्यदनङ्गीकृतम् एव” इति शासितुः कर्णे जजाप । अथ तत्क्षणे एव स रामानुजाचार्या नानेतुं भृत्या न्नियुङ्क्तेस्म । उदन्त ममुं ज्ञात्वा श्रीवत्साङ्काः राजसभाप्रवेशेन स्वाचार्याणा मापदमाशङ्कमानाः, स्वयमेव तद्वेषं धृत्वा नृपसभं प्रवेष्टुं निरणैषुः । भगवद्रामानुजाचार्येषु स्नानाय यातेषु धृततदीय काषायत्रिदण्डाःxvii महापूर्णप्रभृतिभिरनुगम्यमानाः कूरेशाः राजसदन मासेदुः । लक्ष्मणमुनीन्द्रास्तु त्रिदण्डादिक मन्विष्यन्तः गोविन्दभट्टनिवेदितभूतार्थाः धृतश्रीवत्साङ्क धवलपरिधानाः श्रीवत्सचिह्नमहापूर्णयो महतीं व्यापद माशङ्कमानाः, स्वरक्षापेक्षया स्वीयैः प्रार्थ्यमानाः अनिच्छन्तोऽपि तिरुनारायणपुरीं व्रजन्ति स्म । अथ, सभां प्रविश्य प्रमुखे स्थितान् श्रीवत्सचिह्नमिश्रान् महापूर्णां श्च दृष्ट्वा स चोलेन्द्रः ‘शिवात्परतरं नास्ति’ इति लिख्यता मित्यादिदेश । कूरनाथा स्तदा असङ्खयेयैः श्रुतिस्मृतीतिहासपुराणादिसमुद्धृतप्रमाणवचनैः श्रीमतो नारायणस्यैव परात्परत्वं प्रत्यपीपदन् । आग्रहयालु श्शैवप्रभुः “अवैमि, विदग्धा भवन्तः प्रतिभाप्रभावात् सर्वं साधयितुं प्रगल्भेरन् । परन्तु, मन्त्रिदेशानुसारम् एवाऽत्र लिखन्तु ” इति निर्बध्नन् तालपत्रमदात् । श्रीवत्सलाञ्छनाः स्वीयाध्यवसायभङ्गं परिहरन्तः ‘द्रोण मस्ति ततः परम् " इति व्यलेखिषुः । ’ शिवा त्परतरं नाऽस्ति’ इति वदतः प्रभोः आशयस्तु रुद्र एव परं ब्रह्म, ततोऽन्यत्परमं नाऽस्ति इति । कूरेशास्तु वक्रोक्ति मास्थाय, श्लेषेण चमत्कार मावाह्य एवं समादधिरे । शिवः अल्पपरिमाणकं व्रीह्यादि मानपात्रम् । द्रोणन्तु बृहत्परिमाणक मन्यत् । अतः बृहत्परिमाणके द्रोणे जाग्रति शिवा दल्प परिमाणका दन्यत् अधिकपरिमाणकं मानपात्रं नाऽस्तीति वचन मनुभवविरुद्धम् । अतोऽसङ्गतमिदमित्यभिप्रयन्तः द्रोण मस्ति ततः परम्’ इति निरदिशन् । असह्यसपरिहासलेखन दर्शन सङ्क्रुद्धः चोलाधीशः महापूर्णाभिमुखो भूत्वा ‘भवन्तो लिखन्तु’ इति जगर्ज । तेऽप्याचार्याः श्रीमतो नारायणस्यैव सकलदेवता सार्वभौमत्वं सुष्ठु प्रत्यवाऽस्थापयन्। तदा क्रोधाविष्टो नरपालः आचार्य द्वितयनयनोत्पाटनं सद्योनिर्वर्तनीय मादिदेश । “ धिक् ! पापिष्ठं त्वां दृष्टवती मच्चक्षुषी व्यर्थे; किं मम ताभ्यामिति निन्दन्तः स्वनरवाग्रैरेव नयने विदार्य, उत्पाटये दूरे विचिक्षिपुः । ततो राजभृत्याः महापूर्णान् बला xviii दुत्खातचक्षुषो राजभवनद्वारान्निष्कासयामासुः । “दिष्ट्या ! मद्दर्शनाय दत्त दर्शनोऽस्मि ” इति श्रीवत्साङ्काः ननन्दुः । वर्षीयांसो महापूर्णा स्तु बाधां तां सोढुमक्षमाः कुत्रचि त्केदारतीरे श्रीवत्साङ्काना मुत्सङ्गे स्व मुत्तमाङ्गं, तनयाया: अत्तुळाय् अम्बाया अङ्के चरणौ च निधाय यामुनाचार्यपादारविन्द युगलीं ध्यायन्तः वैष्णवं धाम ययुः । ततः परान्तकपुराग्रहारात् आगताः श्रीवैष्णवाः महापूर्णानां चरमसंस्कारं निर्वर्त्य, अन्धान् श्रीवत्साङ्कान् दोला मारोप्य स्वीय मग्रहार मानीय कञ्चित्कालं नेत्रबाधा परिहाराय चिकित्सां विधाय श्रीर प्रापयामासुः । अथ कदाचित् श्रीवत्साङ्काः श्रीरङ्गनाथालये महाबलिपीठं प्रणम्य महती मार्तिं प्रकटयन्तः ‘महापूर्णा इव किमहं न स्वीकरणार्हः’ इति विज्ञापयन्तः, आलये प्रवेष्टुं प्रयतमानाः ‘रामानुजसम्बन्धिभिर्नान्तः प्रवेष्टव्य’म् इति राजानुचरैः प्रतिहारभूमौ निरुद्धाः बहि रेवाऽवतस्थिरे । विदितकूरेशमहिमानः केचित्तत्रस्था: “एते आचार्याः असाधारणात्म गुणपरिपूर्णाः, अतः प्रवेशयितव्याः” इत्यूचिरे । तथाऽपि “ अहो ! बत ! महत्कष्टम् ! आचार्यसम्बन्धोऽर्हतां प्रतिषेधति, आत्मगुणस्तु साधयति । धिक् तं गुणम् । आचार्य श्रीपादसम्बन्ध एव मे पर्याप्तः” इति चिन्तयन्तः श्रीवत्साङ्काः देवालय मप्रविश्य तस्मिन्नेव दिने श्रीरङ्गवासं त्यक्त्वा श्रीवनाचलमहाक्षेत्रं (तिरुमालिरुञ्जोलै) गन्तुं प्रतस्थिरे । 46 भागवताग्रगण्याः वैष्णवदर्शनपारीणाः महाकवय श्चामी गच्छन्त एव पथि मनोव्यथाविनोदाय श्रियः पत्युः स्वरूपगुणविभूती: अनुसन्दधानाः श्रीवैकुण्ठस्तवातिमानुषस्तवाख्ये अद्भुतार्थे द्वे स्तोत्रे रचयन्त एव श्रीवनगिरिमन्दिर मगच्छन् । श्रीवत्साङ्कै रनुगृहीतेषु पञ्चसुस्तवेषु श्रीवैकुण्ठस्तवः प्रथमः । अत्र परवासुदेवस्य स्वरूपगुण-विभूतयः सम्यगन्वभाविषत । अतिमानुषस्तवः तैरनुगृहीतः द्वितीयः । अयं xix विभवावतारान् अनुसन्धाय अनुभवितु मुद्दिष्टः । अत्र रामकृष्णावतारौ विपुलतया नरसिंहावतारः संक्षेपेण च अनुसंहितः । शब्दार्थ सौन्दर्ये, भावगाम्भीर्ये सङ्घटनासान्द्रतायाञ्च स्तवोऽय मनुपम इति संस्कृतवाङ्गयाम्बुधे रुदितेषु स्तवरत्नेषु उत्कृष्ट मिदं रत्नम् इति च विद्रसिकै रभिष्टयते । इत्थं स्तवद्विक मनुगृह्य श्रीवनगिरि निलयस्य सुन्दरबाहो र्भगवतः दिव्यमङ्गलविग्रह सौन्दर्यामृतपूरे मज्जंमज्ज मनुभूय अनुभवपरीवाहरूपं दीर्घतरं सुन्दर बाहुस्तवं प्रबबन्धुः । स्तोत्रावसाने ’ हे वनगिरीश्वर मम विज्ञापना मङ्गीकुरुष्व । अहं यथापुरं रामानुजाचार्यविधेयः परिवर्तिषीय । हे करुणासागर, योग्यता रहिता नुत्सार्य साधुकृतानपराधान् क्षाम्यन् श्रीरङ्गधामश्रियं सदा भक्तभोग्यां कृषीष्ट । श्रीरङ्गनगरे आसुरी शक्ति र्नश्यतु’ इति ‘श्रीभगवद्रामानुजपादच्छायायां सुखेन आसिषीय’ इति च प्रार्थयामासुः । अत्रान्तरे पापिष्ठश्चोलराजः कृमिजुष्टकण्ठव्रणेन अत्यर्थपीडितोऽम्रियतेति आकर्ण्य श्रीवत्साङ्काः सुन्दरबाहु मनुज्ञाप्य पुनः श्रीरङ्गम् एव प्रत्यपद्यन्त । यतिराजानां श्रीरङ्गं प्रत्यागमनम् कुलोत्तुङ्गचोलोपप्लवेन प्रोषिताः तिरुनारायणपुर्यां स्थिताः यतीन्द्राः आगन्तुकवैष्णवमुखेन कूरेशानां महापूर्णाचार्याणाञ्च व्यापदमाकर्ण्य भृश मुद्विग्नाः, ‘अन्ततः श्रीवत्साङ्को वा प्राणिति’ इति किञ्चिदाश्वसन्तः किङ्करं कञ्चन वृत्तान्तं वेदितुं श्रीरङ्गं प्रेषयामासुः । स च द्रुतं गत्वा ‘चोलेन्द्रः क्रिमिजुष्टकण्ठव्रणेन मृत’ इति विदित्वाऽऽगत्य यतिराजेभ्यो वार्ता मेतां निवेदयामास । आकर्ण्य चैतत् प्रमुदिता स्संयमीन्द्राः सत्वरं श्रीरङ्ग मेत्य श्रीवैष्णवैस्सार्धं श्रीवत्साङ्कानां गेहं जग्मुः । ते चाऽऽचार्याणा मागमनमुपश्रुत्य, अभ्युत्थाय, समूल मुद्धृतो द्रुम इव स्वगुरुचरणयो र्निपत्य तौ सादर मगृह्णन् । रामानुजाचार्याश्च श्रीवत्साङ्कान् समाश्लिष्य शोकावेगेन XX स्तम्भितकण्ठाः द्रुतस्वान्ताः सगद्गदमाक्रन्दन्तः “ एहि, श्रीवत्साङ्क, अस्मद्दर्शननयनायमानस्य तव नयने नष्टे । इदं सर्वं मदीयपापफलम् एव इत्येवं बहु विलप्य शिष्यञ्च समाश्वास्य मठालय मनैषुः । वरदराजस्तवाविर्भावः परेद्यु र्वनगिरिक्षेत्रे, कूरेशै रचितं स्तवत्रयं तन्मुखत एव समाकर्ण्य सन्तुष्टा आचार्याः श्रीवत्साङ्कान् प्रति “भवत्सूक्तिप्रभावादेव ननु श्रीरङ्गश्रियः उपप्लवः परिहृतः, वयञ्च सुखिनो वसामः । अभिमताधिक- दानरसिकः भगवान्वरदराजः श्रीकाञ्च्यां भक्तजनेभ्य स्तिष्ठते । ‘दासस्य मे नयने प्रसादय’ इति प्रार्थयमानः तस्मै स्तोत्रमेकं विज्ञापय” इति निरदिशन् । परन्तु निरीहाणा मग्रेसराः श्रीवत्साङ्काः “मम चक्षुषी अनपेक्षिते " इति प्रत्यब्रुवन् । वत्सला मुनीन्द्राः “वरदराजाय किञ्चित् स्तोत्र मवश्यं निवेदनीयम्” इति निरबध्नन् । आचार्याणां निदेशं प्रतिगृह्य श्रीवरदराजस्तवमारभ्य “नीलमेघनिभ मञ्जनपुञ्जश्यामकुन्तल मनन्तशयं त्वाम् । अब्जपाणिपद मम्बुजनेत्रं नेत्रसात्कुरु करीश सदा मे” इति श्लोकपर्यन्तं सन्दृभ्य ‘भवन्तं सदा सेवितुं आनन्दितुञ्च उचिते अप्राकृतनेत्रे मह्य मनुगृहाण” इति व्यजिज्ञपन् । तस्यां निशि स्वप्ने पुरतः प्रादुर्भूय देवराजः “यथाऽभिलषितमदाम्” इति जगाद | श्रीवत्साङ्काः सन्तुष्य, प्रातरुत्थाय, आह्निक मनुष्ठाय, आरब्धं स्तवं परिसमाप्य, आगत्य यतिराजेभ्यः स्वाप्निकोदन्तं निवेद्य ‘नीलमेघनिभ’म् इति श्लोक मगायन् । शृण्वन्तो रामानुजाचार्याः “स्तवमेन माकर्ण्य देवाधिराजः नेत्रे अप्रदाय न तिष्ठेत् । तव चक्षुषी प्रदर्शय” इत्यवोचन् । “अप्राकृतनेत्रदानमेव स्वप्ने भगवन्त मयाचिषम्” इति शिष्योदीरितं श्रुत्वा लक्ष्मणमुनीन्द्राः “मैवं तावत् । देवराजसन्निधिमेत्य संसेव्य सम्प्रार्थ्य प्रत्यागमिष्यावः, एहि” इति सशिष्याः काञ्ची मयासिषुः । XX1 उद्वेलदयालुता यथासङ्कल्पं काञ्च्यां वरदराजसन्निधौ श्रीवत्सचिह्नेषु स्तवं विज्ञापयत्सु, भगवद्रामानुजाचार्येषु च प्रदक्षिणप्रवणेषु किञ्चि द्व्यापारान्तरव्यापृतेषु, आकर्णिताद्भुतस्तवो वरदराजः प्रादुर्भूय ‘वाञ्छितं वरय’ इत्याबभाषे । श्रीवत्साङ्का स्तु श्रीरामानुजाज्ञानुसारेण दृष्टिं न ययाचिरे। “मया लभ्यमानं पुरुषार्थं नालूरान् नामाऽपि लभताम्” इति प्रार्थयन्त । भगवद्रामानुजाश्रयणेन स्वस्य सद्गतिं निश्चित्य द्रोग्धु रपि तस्य सा भूयात् इत्याशासानानामेषां अहो ! उदारतायाः पराकाष्ठा ! चोलदेशप्रभो र्निकटवर्ती नालूरान् नामाऽयम् एव महापूर्णानां निधनै, कूरनाथानां नेत्रवैकल्ये भगवद्रामानुजार्याणां देशान्तरप्रवासे च निदानम् । असह्यापचारकर्तु रतिनृशंसस्याऽस्य नरकप्राप्ति सिद्धा । तथाऽपि वैष्णवकुलोद्भवस्याऽस्य विनिपातो मा भूदिति तस्योद्दिधीर्षया कारुणिका: कूरेशाः तथा वर मवृण्वन् । जिघांसो रप्युज्जीवन मभिलषतां श्रीवत्साङ्कानां दयालुता अहो ! अवधी नवधीरयति । देवाधिराजोऽपि कूरेशप्रार्थनां स्वीकृत्य ’ तथैवाऽस्तु’ इत्यनुजग्राह । श्रुत्वैत दुःखिता रामानुजाचार्याः देवराजं दृष्ट्वा “भगवन् मदीयोऽभिलाषो न पूर्णतां गमितः” इति, शिष्यं प्रति “स्वतन्त्रो भूत्वा मत्सङ्कल्पं नाऽन्ववर्तिष्ठाः” इतिचोदीर्यखिन्नमानसाः, भग्नमनोरथा श्चाऽवर्तिषत । ज्ञात्वेमं वृत्तान्तं वरदराजः “मदीय रामानुज, मा क्लिश्यस्व । त्वां माञ्च श्रीवत्साङ्कोऽयं चर्मचक्षुषा द्रक्ष्यति” इति वरं ददे । तदा कूरेशाः भगवन्तं वरदराजं मांसचक्षुषा पश्यन्तः दिव्याभरणानि, दिव्यवसनानि, दिव्यमङ्गलविग्रहञ्च सप्रत्यभिज्ञं निर्दिशन्तः, स्वाचार्यांश्च तथैव अवयवशो निध्यायन्तोऽनुबभूवुः । रामानुजाचार्यास्तु सन्तुष्य सशिष्याः श्रीरङ्गं प्रति प्रातिष्ठन्त । कदाचित् केचन श्रीवैष्णवाः सम्भूय कूरनाथसन्निधि मुपगम्य ‘न केवलं तत्र भवतां, अपि तु अस्मद्दर्शनस्यैव घोर मपकारं कृतवतः XxXII असह्यापचारकर्तुः निर्दयदण्डनार्हस्य नालूरान्नामकस्याऽपिकृते देवराजान्मोक्षं भवन्तः प्रार्थयामासुः किल । किमेतदुचितम् ?” इत्यतृप्ताः पर्यपृच्छन् । “ पापिष्ठाः खलु दयार्हाः” इति श्रीवत्साङ्काः समादधिरे । 1 “जिघांसू नपि रिपून् संरक्षितुमेव कृतसङ्कल्पा एते श्रीवत्साङ्कमिश्राः स्वाचार्येभ्योऽपि गुणवत्तराः” इति तान् श्रीवैष्णवाः श्लाघन्ते स्म । 1 I शिष्यानुकम्पा 1 श्रीवत्साङ्काना मन्तेवासिष्वन्यतमः पिळ्ळैपिळ्ळैयाळ्वान् सम्पदाभिजात्यादिप्रयुक्ते नाऽहङ्कारेण भागवतेषु विनयलोपा दपचरन्नाऽऽसीत् । भ्रंश हेतु मेतं मद मपोहितुं समकल्पन्त श्रीकूरेशाः । एकस्मिन्पुण्ये दिवसे बहुषु जनेषु अन्नस्वर्णवसनादिदानानि कुर्वत्सु, कूरनाथाः स्नातं शुचिं पिळ्ळैप्पिळ्ळैयाळ्वान्नामकं शिष्य मुपेत्य स्वयं किञ्चिद्दानं ययाचिरे । “तत्र भवतां चरमावधिदासोऽहम् । मदीयं सर्वं भवदीयम् एव” इति ब्रुवन्तं शिष्यं “ विलक्षणं वरदानं याचेऽहम् । ‘करणत्रयेणाऽपि भागवतापचारं न करिष्या ’ मीति प्रतिजानीहि " इत्यादिशन् । स तथेति प्रति शुश्राव । अथ स कदाचि त्पूर्ववासनावशेन भागवतापचारं कृत्वा पश्चात्तप्तः आचार्येभ्यो मुखं दर्शयितु मप्रभवन् गृहे केवलं विलिल्ये । शिष्यवत्सलाः संस्कारपरायणाः छात्रस्य सदनं स्वय मीयुः; अप्राक्षुश्च वृत्तान्तम् । पिळ्ळैपिळ्ळैयाळ्वान् आचार्यचरणा वाश्लिष्य रुदन् “मनसा वाचा कर्मणा च भागवतापचारः परिहर्तव्य इति दृढ सङ्कल्प्याऽपि तथा कर्तुं नाऽशकम् । किमनेन दग्धशरीरेण किल्बिषकलुषेण? निष्कृतिमतीतः किमहं करवाणि” इति विषीदति स्म । आचार्यास्तु ‘पश्चात्ताप एवोत्तमं प्रायश्चित्तम्’ इति निश्चिन्वानाः “ मानसिका नपचारान् यतीन्द्राः क्षमिष्यन्ते । राजदण्डभीत्या शारीरिकापराधः परिहर्तुं शक्यते । अतः वाचिकापराधविषये परं जागरूकेण भूयते चे दलम्” इति हित मुपदिशन्ति स्म । xxiii पिता आचार्योऽप्यजायत भगवतः श्रीरङ्गेशस्यानुग्रहेण कृरनाथानां द्वौ पुत्त्रौ अजनिषातामिति ननु ज्ञातपूर्वम् । तयोरवतारेण भृशं प्रमुदिता भाष्यकारा स्सान्तेवासिनः कूरेशनिकेतनं प्राप्य प्रधानच्छात्रं गोविन्दभट्टं (एम्बार्) प्रति ‘तनयावानय’ इत्यभाणिषुः । स च कुमाराबानयन् तयो दृष्टिदोषादिपीडां परिहर्तुकामः द्वयाख्यं मन्त्ररत्नमनुसन्दधानः मङ्गलानि आशं समानश्च भगवद्रामानुजाचार्येभ्यः तौ प्रादर्शयत् । मुनीन्द्राश्च शिशू पश्यन्तः तयो र्दिव्यतेजसा विस्मयमानाः करुणामृतकूलमुद्वहाभ्यां नयनाभ्यां ता वभिषिञ्चन्तः “गोविन्द, कथमेतयो स्सकाशात् ‘द्वय’ सौरभं परिव्याप्नोति । किं वा कृतं त्वया ?” इत्यनुयुञ्जते स्म । गोविन्दभट्टे च “द्वयमन्त्रेणैतयोः रक्षा पर्यकल्प्यत” इति प्रतिवदति, यतिराजा स्सन्तुष्टाः “एतयो रुज्जीवनाय उपाय मन्विष्टवां स्त्वमेव एतयो राचार्यो भवितु मर्हसि " इति न्ययुञ्जत । एवं गोविन्दभट्ट एव तयोः कुमारयो राचार्यः समपद्यत । अत एव भगवद्रामानुजाचार्याः, गोविन्दभट्टाः, पराशरभट्टार्याः, नञ्जीयर् महाभागा इति आचार्यपरिपाटी सम्प्रदायसिद्धा बभूव । एवंस्थिते कूरेशानामपि गुरुपरम्पराया मनुप्रवेशोऽजनिष्ट । कूरनाथाः श्रीमुखसूक्तिं अध्यापयन्त आसन् । तदा ‘एणू पेरुक्कु अन्नलत्तु ओणू पोरुळ्’ इति गाथायाः श्रीमदष्टाक्षरीमहामन्त्रार्थविवरणरूपत्वात् “मन्त्रार्थो भवदाचार्य सन्निधौ अधिगन्तव्यः” इति पुत्त्रावादिशन्तिस्म । कूरेशाज्ञया, स्वजिज्ञासया च गोविन्दभट्टसन्निधिं प्राप्तुं प्रयतमानयोः कुमारयोः, शरीरस्यानित्यता माकलय्य शङ्कमानाः श्रीवत्साङ्काः पुन स्ता वाहूय, तन्मन्त्रमुच्चार्य गाथाया भावं विवृत्य, गाथेय मष्टाक्षरीमन्त्रस्य व्याख्यारूपेति बोधयामासुः । अतः कूरेशाना मपि आचार्यकोट्या मनुप्रवेश स्समुचितः । अत एव पराशरभट्टार्याः सहस्रनामभाष्ये, आचार्याभिवन्दनात्मके प्रथमश्लोके “वन्दे गोविन्द तातौ” इति गायन्तः गोविन्दभट्टैस्साकं स्वपितृपादा नपि ववन्दिरे । XXIV रङ्गेश: कुटुम्बभारवहः तनयौ पराशर - वेदव्यास भट्टार्यौ वेदवेदान्तयोः सकलविद्यास्थानेषु च निष्णातावभूताम् । तौ च परिणयसुलभं वयोऽधिजग्मतुः । ज्ञात्वैत त्तयो र्जननी आण्डाळ्देवी तयो रुद्वाहाय भर्तारं चोदयामास । अहङ्कारममकारास्पृष्टाः सर्वथाऽऽचार्य परतन्त्राः श्रीवत्साङ्काः भगवद्रामानुजमुनिसन्निधौ ‘पुत्त्रयो र्विवाहो निर्वर्तनीय’ इति विज्ञापयामासुः । आचार्याश्च स्वाचार्याणां महापूर्णानां कुटुम्बात् कन्यकयोः स्वीकरणं युक्तरूपम् इति निर्दिदिशुः । आचार्याज्ञा मनुवर्तमानाः श्रीवत्साङ्काः महापूर्णस्य बान्धवा नभ्येत्य कन्यकादान मयाचन्त । प्रथमतोऽभ्युपेत्याऽपि पश्चान्नूतनोऽयं सम्बन्ध इति न सममन्यन्त । अतीते च कस्मिंश्चन काले पुनः कूरेशपत्नी अण्डाळ् देवी पुत्त्रयो र्विवाहं प्रास्तोष्ठ। परमैकान्तिनः कूरेशाः “भगवत्कुटुम्बस्य योगक्षेमं स्वयं भगवानेव वहेत् । कुतोऽस्माकमत्रचिन्ता? भगवत्सन्निधिं कुमारौ प्रहिणु” । इति ब्रुवते स्म । परेद्यवि पिता पुत्त्रौ च श्रीरङ्गनाथस्य प्रमुखे सेवायै सन्निदधिरे । रङ्गेशे “ श्रीवत्साङ्क, किमपि विवक्षुरिव दृश्यसे, ब्रूहि " इत्यादिशति सति “पुत्त्रयोः परिणयं कारय इति मां प्रेरयन्ति” इति कूरनाथेषु प्रतिवदत्सु, स्वामी च " कुतोऽत्र ते विचार : ? युक्तमहं निर्वोढास्मि" इति सान्त्वयामास । तदनुगुणम् एव भगवान् स्वप्ने सन्निधाय महापूर्णबन्धून् “कूरनाथतनयाभ्यां कन्यके प्रदेहि" इति आज्ञापयामास । विस्मितास्ते परेद्यवि कूरेशान्तिक मेत्य कन्यकादानं प्रतिज्ञाय, निर्बध्य महता समारोहेण परिणय मन्वस्थापयन् । अत इदं व्यक्तं यत् रङ्गेश एव श्रीवत्साङ्ककुटुम्बकृत्यनिर्वाहक इति । श्रीवत्सचिह्नमिश्ररचिता ग्रन्थाः वनाचलदिव्यक्षेत्रयात्रायां निर्मिताः वैकुण्ठातिमानुषसुन्दर- XXV बाहुस्तवाः त्रयः, ततः भगवद्रामानुजाचार्याज्ञानुसारेण रचितो वरदराजस्तवः, पश्चात् श्रीस्तवश्चेति पञ्चस्तवाः तद्रचिताः अतिमात्रं प्रख्याताः । पराशरभट्टार्या: श्री सहस्रनामभाष्ये ‘अविज्ञाता’ इति नाम व्याख्यान्तः " सर्वज्ञताम् एव मुपालभामहे, त्वं ह्यज्ञ एवा- ऽऽश्रितदोषजोषणः” इति श्लोकांश मुदाहरन्तः “अयं श्लोकः तात पादै रनुगृहीत" इति लिलिखुः । अयञ्च श्लोकः पञ्चस्तवे नोपलभ्यते इति स्तोत्रान्तराण्यपि तै र्निर्मितानि स्यु रिति ऊहितु मस्त्यवकाशः । अपि च । निगमान्तदेशिकैरनुगृहीते रहस्यत्रयसारे चरमश्लोकाधिकारे " पराशरभट्टार्याः, श्रीवत्सचिह्नमिश्राश्च स्वस्वरचितेषु नित्येषु ” इति लिखित मस्तीति नित्यग्रन्थः कश्चित् कूरेशै र्निरमायीति प्रतीयते, यस्तु अद्य यावन्नाऽलम्भि । किञ्च तत्रैव “श्रीवत्साङ्कानां चरम श्लोकव्याख्याया मपि इय देव विवक्षितम् इति न कोऽपि विरोधः” इति काचन पङ्क्तिः दृश्यत इति हेतोः कूरेशैः ‘चरमश्लोकव्याख्यारूपः कश्चिद्ग्रन्थः सन्दृब्ध इति ऊह्यते । अयमपि नाऽलाभि । यमकरत्नाकरनामा कृष्णावतार पवित्रचरित्रचित्रणपरः यमकालङ्कारमयः षोडशभिराश्वासै र्विशिष्टः प्रौढः कश्चित्प्रबन्धः एतैर्विरचितोऽस्ति । अप्रमेयप्रतिभासमुल्लासितं स्वोपज्ञव्याख्या प्रसाधित मिदं काव्यं स्तोतुं वयं नेश्महे । इदङ्काव्यकर्तृत्वविषये महान्वादकोलाहलः उदस्थाप्यत । तथाऽपि काव्यं कूरेशैरेव निर्मितमिति बहवो विज्ञाः प्रतियन्ति । कूरेशविजयनामाऽन्योऽपि ग्रन्थ : एभिराचार्यै रचित इति कथयन्ति । वस्तुतस्तु चोलराजास्थाने श्रीवत्साङ्के रुपन्यस्तान् पूर्वपक्षसिद्धान्त कोटिक्रमानेव अत्र सङ्गृह्य अर्वाचीनैस्तस्य कूरेशविजय इति नाम कृतम् इति अत्र ग्रन्थकर्तृत्वं कूरनाथानां न सङ्गच्छते । XXV1 प्रास्थानिकम् श्रीवत्साङ्काः इत्थं लोको जीवनाय श्रीसूक्ती र्बोधयन्तः ज्ञानानुष्ठानाभ्यां निस्समाभ्यधिकतया विराजमाना आसन् । भगवद्रामानुजसन्निधौ श्रीमुखसूक्तिकालक्षेपप्रवचन मनुवर्तमान मासीत् । कदाचित् “मुडियुडै वानवर् मुरै मुरै एदिर् कोळ्ळ” इति गाथा विस्तरेण प्रतिपादिता । गोष्ठ्यां सन्निहिताः श्रीवत्साङ्काः “परमपदं प्राक् प्राप्ताः मुक्ताः अनन्तर मागच्छतः प्रत्युद्गमनादिभिरुपचारैः परिचरन्ति” इत्यमु मत्र प्रस्तुतं विषयं मनसि कुर्वाणा इत्थं चिन्तयामासुः । “परमपदप्राप्तौ यद्यहं पश्चात्तनो भवेयम्, तर्हि मत्तः प्राग्गताः भगवद्रामानुजाचार्याः मां प्रत्युद्गम्य उपचरिष्यन्ति । सति चैवं द्वेधा मे महती हानि: - आचार्यान् प्रत्युद्गमनादिना उपचरितु मवकाशाभावकृतं दौर्भाग्यम्, अचार्यै रुपचर्यमाणताकृतो महापचारश्च मे भविष्यतः । द्वितय मेत त्परिहर्तुं पूर्वमेव मया परमपदं प्राप्तव्यम्” इति चिन्तयित्वा निश्चित्य, सङ्कल्पमिमं लक्ष्मणमुनिभ्योऽनिवेद्यैव रङ्गेशस्य पुरतः तस्थुः । “श्रीवत्साङ्क, किमपि विज्ञापयितुकाम इवाऽसि ? " इति भगवता पृष्टाः कूरेशाः कञ्चन श्लोकं गीत्वा चित्तद्रुतिकर मुपन्यासं चक्रिरे। भगवानपि सम्प्रीतः - " अभिलषितं वृणीष्व । देवीभ्य श्शपे ! लक्ष्मणमुनये च शपे ! दास्यामि” इति प्रत्यजानात् । श्रीकुरेशा अपि " मलीमसा दस्माच्छरीरात् मां मोचयित्वा, नित्यविभूत्यां दिव्यं नित्यानुभवं मह्य मनुगृहाण " इति याचन्ति स्म । तदा " हन्त ! श्रीवत्साङ्कविश्लेषो मे दुर्भरो भविष्यति” इत्यतिमात्रं विषीदन् श्रीरङ्गेशः “अन्यं वरं वृणीष्व” इत्यब्रवीत्। श्रीवत्साङ्कास्तु “अन्य द्वरणीयं न मेऽस्ति । प्रतिश्रुतपालनं सतां स्वभावः खलु । यथाप्रतिज्ञं यथाभिलषितञ्च प्रदेहि" इति प्रार्थयन्ते स्म । भगवान् मार्गान्तर मपश्यन् “भवते, भवन्नामजपद्भ्यः भवत्सम्बन्ध भाग्यशालिभ्यश्च परमपद मदाम् ” इति प्रसन्नवदनोऽभिधाय प्रसादेन तुलसीमालाधारणादिना च तान्सम्मान्य गृहगमनायाऽनुमेने ।

xxvii उत्कण्ठासाधारणः परितोषः श्रीवत्साङ्कमिश्राः परमपदप्रापकं वरं प्रतिलेभिरे इति श्रुत्वा लक्ष्मणमुनीन्द्राः चिरकालानुवृत्तं महद्दुःखं मुमुचुः । “पुरा गोष्ठीपूर्णानां सन्निधौ रहस्यार्थान् लब्ध्वा रहस्यगोपनायाऽऽदिष्टोऽप्याचार्यैः गोष्ठीपुरे एव रहस्यार्थान् प्राचकाशम् | आचार्यनियमनोल्लङ्घनेन मया शाश्वतो निरयपात स्सम्पादितः । मोक्षप्राप्त्युपायो न मे विद्यत इत्यमन्ये । परन्त्वद्य ‘भवत्सम्बन्धिभ्योऽपि मोक्ष मदाम्’ इति भगवन्नियमनात् अद्य न मे किञ्चिद्दुःखम् । श्रीवत्सचिह्नमिश्रसम्बन्धो मां दिष्ट्या ! रक्षति" इति विश्वसन्तस्समाश्वसन्तः आनन्दपरवशाः काषाया मुत्तरीय मन्तरिक्षे विक्षिपन्तः अत्यर्थ मानन्दथु माविश्चक्रुः । इत्थ मात्मनः आपवर्गिकपुरुषार्थसिद्धिं विचिन्त्य ह्लादमाना अपि यतीशानाः “आत्मसमं श्रीवत्साङ्कं विना कथमहं कृपणान् प्राणान्धारयिष्या" मीति खिद्यमानाः स्वचरणाश्रितैः शिष्यै स्साकं श्रीवत्साङ्कनिकेतनं गत्वा “किं कृतवानसि किं कृतवानसि ! एव मस्माकं हिंसनं दयासागरस्य अत्यर्थसुकुमारान्तःकरणस्य तव किमुचितम् ?” इत्यार्ता आचुक्रुशुः । श्रीकुरेशा श्च परमपदप्राप्तित्वराहेतुं विवव्रुः । योगीन्द्रा स्तदाकर्ण्य “नशास्त्रं नैव च क्रमः” इति वयोविद्यादिकृतप्रवरावरभाव- रहितायां नित्यविभूत्या मपि अहो भवान् क्रम मनुसरति ! तत्राऽपि शेषत्वकाष्ठा मनुसन्दधत स्ते दिव्यगुणं श्लाघितुं भाषैवनाऽलं भवति " इति विलपन्तः विक्लबीभूताः दुःखाक्रान्ताः श्रीवत्सचिह्नमिश्रान् परिष्वज्य

" हा हन्त ! प्राणाधारेण भवता वियुज्य प्राणान् धर्तुं कथं शक्नुयाम् ? मा मपि भवता साकं कुतो नो नयसि ? त्यक्त्वा माम् एवं परिदीव्यन्तं एकाकी गन्तुं कथं वा व्यवसितवानसि ? किमिदं रुचिकरं ते ? अहो ! वैकुण्ठनाथः तत्रत्याश्च कीदृशं तपः किन्नामकं वज्रं वा अन्वतिष्ठन् । अत्र शेषे शयानेन श्रीरङ्गेशेन, अनुशयानैरस्माभिश्च कियत्पापं समचीयत । XXVIII , ‘श्रीरङ्गनगरे विराजमान, स्वामिन् भवदीयदिव्यगुणानुसन्धानरूपं रसानुभवं विहाय, गत्वा महेन्द्रलोकं देवलोकपालनरस मपि नाऽह माशासे इत्यभिप्रायिकां गाथा मपि किं भवान्व्यस्मार्षीत् ? हा धिक्कष्टम् ! कि मेत दारब्धम् ? हुम् ! भवतु । इत्थम्भूते च व्यतिकरे भवत्स्वान्तसन्ताप- सन्दायिभि र्बहुभिर्जल्पितैरद्य को वा लाभः ? अस्माभि भवल्लाभप्रतिबन्धकैर्न भवितव्यम् । सुखेन नित्यविभूत्यै प्रतिष्ठस्व । " इति विलप्य, पुन र्विष्टभ्यचाऽऽत्मानं श्रीवत्साङ्कश्रवणे द्वयमन्त्रं जपन्तिस्म । तदीयं पृष्ठं स्वेन दिव्यकरेण आस्फाल्य प्राञ्जलयोऽनुमन्यन्ते स्म । परमपदप्राप्तिः भगवद्भाष्यकाराणा मनुज्ञा मधिगम्य श्रीवत्साङ्काः समूल- निपातितःपादप इव आचार्यचरणयो र्निपेतुः । आचार्याश्च उभाभ्यामपि सालसुन्दरभुजाभ्यां तानुत्थापयामासुः । उत्थाय च श्रीवत्साङ्काः आचार्य चरणारविन्दे स्वस्य नेत्रयोर्वक्षसि च दृढं संयोज्य प्रदक्षिणप्रणामपुरस्सरं श्रीपादतीर्थ ञ्च गृहीत्वा साञ्जलिबन्धं “ अद्य तत्र भवद्भिर्मठाय प्रस्थातव्यम्” इति सम्प्रार्थ्य उत्तर कावेरीतीरपर्यन्तं रामानुजाचार्या ननुव्रज्य “श्रीवत्साङ्क, अत्र तिष्ठ” इत्याचार्यानुज्ञां लब्ध्वा बद्ध्वा च पुन रञ्जलिं प्रत्यावृत्य स्वभवननिकटपरिकल्पितं मण्डप मधिष्ठाय, धर्मपत्नी माण्डा देवी मुद्दिश्य " किं चिन्तयसीति पप्रच्छुः । सा च पतिदेवता " भवता मनुसरणा दृते विचारान्तरं नाऽस्ति" इति भाषमाणा पादयोः प्रणम्य साञ्जलिबन्धं तूष्णी मतिष्ठत् । तनया वुपाहूय " वत्सौ, सति श्रीरङ्गनाथे, सत्याञ्च श्रीरङ्गनायक्यां न काचिदपि न्यूनता युवयोर्भविष्यति । श्रीरङ्गनाथपरिरक्षितौ दत्तपुत्त्रा वावामिति मा किञ्चिदपि दृप्यतम् । भगवद्रामनुजाचार्य चरणावेव शरण मित्यध्यवस्य जीवतम् । जननीवदनग्लानिं परिहरतम् । भागवतेषु त्रिकरणैः अपचारान् परिहरन्तौ सुखेन तिष्ठतम्" इति हित मुपदिशन्तः श्रीवत्साङ्काः पादयोर्निपत्य XXIX बाष्पाम्बुना स्व चरणाभिषेकं कुर्वतो स्तनययो श्शिरसी स्वयमपि अश्रुधारया अभिषिञ्चन्तः स्वश्रीहस्तेन तयोः प्रमृज्यनयनसलिलं “युवां प्राकृतसम्बन्धं चिन्तयित्वा यदि विषीदतः तदा भगवद्भाष्यकार श्रीपादसम्बन्धो दूषितो भवेत्। यद्यात्मसम्बन्ध मनुचिन्त्य दुःख्यतः तदा निरसितुमशक्यस्य अस्मदीयस्य भगवत्सम्बन्धस्य अज्ञौ भवतः " इति तौ समाश्वास्य देवायतनस्य पुरः पिळ्ळैप्पिळ्ळै याळ्वान् नाम्नः उत्सङ्गे उत्तमाङ्गम् आण्डाळ्देव्या अङ्के श्रीपादौ च निक्षिप्य यामुनाचार्याणां रामानुजाचार्याणा ञ्च श्रीचरणौ ध्यायन्तः तस्मिन्नेवाऽहनि विष्णो र्धृवं पद मविन्दन्त । श्रीरामानुजाचार्याश्चाऽऽगत्य चरमकैङ्कर्यं पुत्त्रेण निर्वर्तयामासुः । इत्थमाचार्यो त्तमानां विरक्तशेखराणां भागवतपरिबृढानां कविकुलभूषणानां श्रीवत्सचिहमिश्राणां पवित्र चरित्रे स्वल्पानेव कांश्चि दंशान् न्यवेदयाम । अत्र दोषानगणयित्वा यदि सन्ति गुणाः तान् स्वीकुर्वन्तु प्राज्ञाः * । *1 परिष्करणमधिकृत्य किञ्चिदिदं विज्ञाप्यते । व्याख्यानारम्भेषु श्लोकप्रतीकधारणे बहवो दोषादृष्टः, ते च परिष्कृताः । यदा समासपदैकदेशः प्रतीकतयोध्रियते, तदा प्रातिपदिकरूपस्य तस्य इति ना सन्धि रवश्यं कर्तव्यः । परन्तु बहुत्र तद्विरोधो लक्ष्यते । यथा - ‘ज्ञानात्मनः’ इति ( वैकुण्ठ. 50 ) मूलपदम् । ज्ञानेति तदेकदेशः प्रतीक उपात्तः । ‘ज्ञानेति’ इति निर्देष्टव्ये “ज्ञानइति’ इति प्रतीकधारण मनुचितं मुद्रितम् । इदं ‘ज्ञानः इति’, ‘ज्ञाने इति’ इति वा अनभिमतं पदच्छेदं स्फोरये दपि । एवमेव ’ वज्रध्वजाङ्कु’ शेत्यारब्धदीर्घसमासपदैकदेशप्रतीकः (अतिमानुषः ०४) ‘वज्र इति’ इति * श्रीमद्भिः श्रीकाञ्चीप्रतिवादिभयङ्कर अण्णङ्गराचार्यै रनुगृहीतान् कूरत्ताळ्वान् वैभवात् (आन्ध्यामनूदितात्) विषया स्सङ्गृहीताः । सर्वदा कृतज्ञा भवामः । XXX निर्दिष्टः । अनेनाऽपि ‘वज्रेति’ इति भवितव्यम् । ‘सौन्दर्यसा’ रेत्यादि दीर्घसमासपदैकदेशप्रतीकदानेऽप्येवमेव (सुन्दरबाहु . 67) ‘सौन्दर्य इति’ इति प्रतीकधारण मसङ्गतम् । ‘सौन्दर्येति’ इत्येव युक्तरूपम् । प्रतीकधारणविषयेऽन्यविधोऽपि दोषो लक्ष्यते । पूर्वनिर्दिष्टेषु सन्धौ कर्तव्येऽकरणं दर्शितम्। अद्य तु तद्भिन्ना रीतिः, अर्थात् सन्धावकर्तव्येऽपि तत्करण मुदाहरणीक्रियते । यथा- ‘कूलेऽब्धेः ’ ( सुन्दरबाहु . 105 ) इत्यादिमूलम् । तत्र कूले इति सप्तम्यन्तं पदम् प्रतीकतया दित्सितम् । असङ्गतं सन्धिं विधाय ‘कूलेति’ इति निर्देशः कृतः । ‘कूल इति’ इति तु युक्तम् । अथवा, ‘कूले इति’ इति सन्धिरहितरूपमपि मुद्रितं नोद्वेजयेत् । सन्धिस्तु विरूपः । एवम् एव पुनरन्यत्र । ‘मध्येक्षीरपयोधी’ त्यादि मूलम् (सुन्दर. 119 ) । प्रतीकतयोद्दिधीर्षितं तु पदं मध्ये इति । प्रतीक स्तु मुद्रितो दृश्यते कृतकुसन्धिः ‘मध्येति’ इति । ‘मध्यइति’ इत्येव मुद्रणीयः । एवं द्विरूपाः विरूपाः सन्ध्यकरणतत्करण कृताः दोषाः प्रायशोऽस्माभिरुद्धृताः । क्वचि त्संवादाय वा, प्रकृतार्थप्रामाण्याय वा उद्धृतेषु ग्रन्थभाषेषु प्रविष्टा दोषाः आकरग्रन्थान्परिशील्य शोधिताः । यथा वैकुण्ठ स्तवीयचतुर्दशश्लोकव्याख्यायां " अभ्यवहताज्जग्ध ग्रस्त … इत्यमरकोशपाठः मुद्रितः । स चाऽपपाठः “अभ्यवहृतान्नजग्ध ग्रस्त .. .. 77 इति आकरग्रन्थानुरोधेन परिष्कृतः । पुन रत्रैव स्तवे त्रयोदशश्लोकव्याख्याने “तत्त्वेनैतच्च्यवन्ति ते” इति आन्ध्रलिपि ग्रन्थस्थितोऽसाधुपाठः “तत्त्वेनातश्च्यवन्ति ते” इत्यौचित्यात्परीवर्तितम् । अत्रैव चतुर्विंशश्लोकव्याख्यायां “तस्यैवैष शारीर” इतीदं यथाऽऽकरं " तस्यैष एव शारीर” इति संस्कृतम् । सुन्दरबाहु स्तवे पञ्चविंशत्युत्तरशततमश्लोकव्याख्यायां स्थितं “नु प्रश्नायां वितर्के च” इत्यमरसिंहवचनं “नु पृच्छायां विकल्पे च” इति सम्यक्कृतम् । वरद राजस्तवे द्वादशश्लोकव्याख्यायां " यत्तददृश्यम्” इति मुद्रितं वेदवाक्यं " यत्तदद्रेश्यम्” इति शोधितम् ।

xxxi व्याकरणशास्त्रविरुद्धा इति मन्यमानाः केचन शब्दाः सामीचीन्यं गमिताः । वैकुण्ठस्तवे एकाशीतितमश्लोके “व्युञ्छन्तु ( रात्रय इमाः ) इति मुद्रितं तिङन्तपदं तदनुकूलधात्वभावात्, ‘व्युच्छन्तु’ इति अन्यथा कृतम् । उच्छी विवासे इति धातुः । वीत्युपसर्गः (रात्रयः) व्युच्छन्तु अपयान्तु इत्यर्थस्सङ्गच्छते । वरदराजस्तवत्रिंशश्लोकव्याख्यायां सौदामिनीत्यपपाठोऽमुद्र्यत। सौदामनी इत्येव भाव्यम्। सुदामन् शब्दात् “तेनैकदिक्” इत्यणि, ‘अन्’ इति सूत्रेण प्रकृतिभावात् टिलोपाभावे, आदिवृद्धौ ईत्वे च सौदामनी इत्येव सिध्यति । तथैव शोधितम् । वैकुण्ठस्तवे चतुस्त्रिंशश्लोके ‘सञ्जगदिरे’ इति तिङन्तशब्दः शास्त्रविरुद्ध इति ‘सञ्जगरिरे’ इति संस्कृतः । गद व्यक्तायां वाचि इति भ्वादिषु पठितो धातुः परस्मैपदी । अतः सञ्जगदिरे इत्यात्मनेपदरूपं न सिध्यति । गृ निगरणे इति धातोः परस्मैपदित्वेऽपि ‘समः प्रतिज्ञाने’ इति सूत्रेण आत्मनेपदे विहिते ततः सञ्जगरिरे इति रूपं निष्पद्यते । एवमेव वेकुण्ठस्तवे षोडशे श्लोके स्थितः ‘अनाप्नुषि’ इत्ययं शब्दः अनापुषि इति, सुन्दरबाहुस्तवे द्वात्रिंशदुत्तरशततमेश्लोके ‘विज्ञाप्स्या’ मीति मुद्रितं विज्ञीप्सामि इति, वरदराजस्तवे एक चत्वारिंशश्लोकव्याख्यायां स्थितं ‘कुर्वन्त्याः’ इति पदं, कुर्वत्या इति, अत्रैव स्तवे त्रयोदशे श्लोके ‘विस्प्रक्ष्य (क्ष)न्ती’ इत्यपष्ठुशब्दं ‘पिस्पृक्षन्ती’ इति च, पुन रत्रैव चतुर्दशश्लोकस्थितं ‘उपासिषयितुं’ इति आन्ध्रलिपि ग्रन्थस्थितं विरुद्धपदं उपसिसिषितुं इति च - एव मेतानि शास्त्रानुरोधात् शोधितानि । क्वचिदर्थपुष्टये अपेक्षितानीति वा, मुद्रणवेलायां भ्रष्टानीति वा मन्यमानानि कानिचन पदानि कुण्डलीकृत्य योजितानि । यथा - अतिमानुषस्तवे द्वात्रिंशश्लोकव्याख्यायां ‘बभूविथ अभूः लिट् इतीयदेव वर्तते । ‘अभूः लिट्’ इति पदयोर्मध्ये अर्थसौकर्याय (भूसत्तायामिति 1 xxxii धातोः ) इति समयोजि । अत्रैव स्तवे षट्त्रिंशश्लोकव्याख्याने ‘शुश्रुम श्रुतवन्तः स्मः लिट्’ इत्येवाऽस्ति । अत्र लिट् इत्यतः पूर्वं (श्रु श्रवणे इति धातोः) इति योजितम् । वैकुण्ठस्तवे अष्टाविंशेश्लोके ‘त्रय मपि विविच्य’ इत्येतावन्मात्रं विद्यामानं न सुबोधकमिति (तत्त्व) त्रयमपीति लिखितम् । सुन्दरबाहुस्तवे एकनवतितमेश्लोके ‘विवर्धितः’ इत्यस्य विवरणं ‘प्रापितः इति कृत मपूर्णम् इति ( वृद्धिं ) प्रापितः इति पूरणं कृतम् । श्री स्तवे नवमे श्लोके ‘ज्ञानप्रसाद परिपाक भारती परिचरित चरणनलिनयुगलाम्’ इति समासपदमध्ये झटित्यर्थस्फूर्तये ‘….. परिपाक (हेतु) भारती . इति परिपाक भारती शब्दयो र्मध्ये हेतुशब्दस्सङ्घटितः । वैकुण्ठस्तवे दशम श्लोकव्याख्यायां ‘सविषया’ इत्यस्य पदस्य आन्ध्रलिपिग्रन्थे एव विद्यमाना विवृतिः ‘लाभवती’ इति कृता, तृप्तिं न ददातीति (विषय) लाभवती इति विषयशब्द स्संसञ्जितः । ग्रन्थलिपिमुद्रितग्रन्थे तु ‘सविषया’ इत्यस्य विवृतिरेव नाऽस्ति । इत्थ मर्थसौकर्याय आयोजितानां पदानां विषये किञ्चिदलेखिष्म । …. सम्प्रति तु, अर्थभङ्गहेतुभूतानां पदानां विषये कृतं परिमार्जनं किञ्चित्प्रस्तूयते । वरदराजस्तवे एकविंशश्लोकावतारिकायां ‘त्रयस्त्रिंशच्छ्लोकैः आमूर्धपादं दिव्यमङ्गलविग्रहं वर्णयितुं प्रारभते’ इति मुद्रितम् । अयं प्रमादः । द्विचत्वारिंशच्छ्लोकैः इत्येव भवितव्यम्ः, यत स्तावद्भिरेव श्लोकैः भगवतः शिरः प्रभृति पादपर्यन्तवर्णना कृता लक्ष्यते । एवमेव पुन रत्रैव स्तवे द्विसप्ततितमश्लोकावतारिकायां प्रपत्तुः स्वस्य दोषभूयस्त्वमाविष्करोति अष्टादशभिः श्लोकैः इत्यत्र अष्टादशभिरिति वचन मसङ्गतम् । दोषभूयस्त्वाविष्करणे परिशील्यमाने, त दष्टाभिरेवाऽकारीति अष्टाभिरित्येव समुचितम् इति तथैव विपर्ययः कृतः । सुन्दरबाहुस्तवे चतुर्विंशत्युत्तर शततमश्लोकव्याख्याने " नो ददसे न ददासि, दा दाने” इति मुद्रितं लक्ष्यते । दा धातो रात्मनेपदात् दत्से इति रूपं भवेत् । | xxxiii अतोऽन्यो धातुः (डुदाञ् दाने इति न) निर्देष्टव्यो निर्दिष्टः, स च ‘दद दाने ’ इति भ्वादिष्वात्मनेपदी । ततः ददसे इति रूपं सिध्येत् । वरदराजस्तवे एकपञ्चाशश्लोकव्याख्यायां ‘तत्किणम्’ इत्यस्ति । किणशब्दस्य पुंलिङ्गत्वात् ‘स किण:’ इत्यशोधि । वरदराजस्तवे पञ्चचत्वारिंश- श्लोकव्याख्याने ‘विवक्रितवा’ निति पदं मग्नं कृतवा निति व्याख्यातम् । मग्नताया अत्र न सम्भवः । भुग्नं कृतवा निति सम्मृष्टम् । ‘भुजो कौटिल्ये’ इति धातोः क्तप्रत्यये निष्पन्नं भुग्नपदं ईप्सित मर्थं दद्यात् । वैकुण्ठस्तवीयचत्वारिंशश्लोकव्याख्यानावतारिकायां “अथ पूर्वोक्त मर्थ मनूद्य ‘विशिष्यन्’ इत्यत्र ‘विशिष्य’ न्निति शब्दोऽसाधु रिति विशिषन् इति शोधनं कृतम् । अत्रैव स्तवे चतुरशीतितम श्लोकव्याख्याने " हा हन्त हन्तेति अवयवसमुदायत्वेन” इति दृश्यमाना पङ्क्ति रत्यन्तासम्बद्धा । किं ’ हा हन्त हन्ते’ त्यवयव समुदायः । अव्ययसमुदायः खलु सः । अतः ’ हा हन्त हन्ते’ त्यव्यय समुदायेनेति भाव्यमिति तथैव व्यधायि । अतिमानुषस्तवीय षष्ठश्लोके रहसि इत्यस्य स्थाने हरसीति केवल मक्षरव्यत्यासेन सन्दर्भानुरोधेन लिखितम् । सुन्दरबाहुस्तवे विंशत्युत्तरशततमश्लोके, ‘कलिकल्कदूषितम्’ इति मूले स्थिते ‘कलिकल्मषेण कलिकालप्रयुक्तकलुषेण’ इति आन्ध्रलिपिग्रन्थस्थं विवरण मसम्बद्धम् इति ‘कलिकल्केन कलिकालप्रयुक्त कलुषेण इति परिवर्तनमावश्यकं कृतम् । वरदराजस्तवे एकादश श्लोकव्याख्यानावसरे आत्मनेपद लुङ्’ इति निरदेशि । इद मसम्बद्धमिति • ‘निरनैष्म हि . ‘निरणैष्म हि … परस्मैपद लुङ्’ इत्यैचित्येन शोधन मपेक्षित मासीत्, तच्च कृतम् । वरदराजस्तवे एकोनपञ्चाशश्लोके “माहात्म्यावहा न भवतीति” इति मुद्रितं श्लोकभावानुरोधेन " माहात्म्यावहा भवति क्षुद्राणान्तु न भवतीति” इति विशोध्य विलिख्य वाक्यपूर्तिरक्रियत । अत्रैव स्तवे षट्षष्टितमश्लोकव्याख्याने (अन्ध्रलिपिग्रन्थे) जगता मित्यस्य स्थाने XXXIV भजताम् इति, अत्रैव षट्सप्ततितमश्लोक विवरणे (आन्ध्रलिपिग्रन्थे) ‘चैत्रत्य’ मनुचितम् इति ‘चित्तौन्नत्य’म् इति, अत्रैव द्विसप्तति- तमश्लोकावतारिकायां आन्ध्रलिपिग्रन्थे स्थितस्य ‘प्रपिपत्सु रित्यस्य शब्दस्य स्थाने ‘प्रपित्सु ’ रित्युचितम् इति च अर्थवन्तः परिणामाः अकारिषत । अत्रैव अशीतितमश्लोके ‘चस्खलं’ (प्राक् ) इत्येतत् ‘चस्खल’ (प्राक् ) इति च शोधितम् । पुन स्तच्छलोकव्याख्याने ‘चस्खलं’ किल, ‘लडुत्तमैकवचनम्’ इत्यमुद्र्यत । इद मसतम् इति ‘चस्खल’ किल, लिङुत्तमैकवचनमितिशोधितम् । इत्थमस्मभिः कृतेषु बहुषु कानि चनैव पाठशोधनानि तद्रीतयश्च प्रादर्शिषत । अत्रैवं परिष्काराय पयस्यद्भिः अस्माभिः मानुषता सुलभेन व्युत्पत्तिलघिम्ना, दोष मदोषतया, अदोषं दोषतया च ग्राहयता केचनाऽत्र दोषा अवशात्प्रविष्टाः अवश्य मस्मत्परिष्करणे गोचरीभवेयुरेव । ते सहृदयैः क्षन्तव्या इति प्रार्थयामहे । पौरो भाग्यभाजो भवितुं नाऽस्माकमेतावान् प्रयासः अपि तु यावच्छक्ति प्रयत्य शुद्धपाठ हृदयालव आराधनीया इत्येवाऽस्माकं विनीतोऽभिसन्धिः । अस्मत्प्रदर्शिता दोषाः ग्रन्थकर्तृ ज्ञानदौः स्थ्यकृता न भवन्ति, अपि तु लिपिकाराणां, मुद्रापकाणां, तत्सहायनां वा भवेयुरिति प्रतीमः । यद्यस्मत्परिश्रमेण भागवताः किञ्चिदपि वा आराद्धाः भवेयुः, तदाऽत्यर्थं वयं धन्यजन्मानो भूयास्म । मर्त्यं रसर्वविदुरै र्विहिते क्व नाम । ग्रन्थेऽस्ति दोषविगमः क्व चिरन्तनेऽपि ॥