सुप्रभात-श्लोक-सङ्ग्रहः

विश्वास-प्रस्तुतिः - १॥

विशुद्ध-विज्ञान-घन-स्वरूपं
विज्ञान-विश्राणन-बद्ध-दीक्षम् ।
दया-निधिं देह-भृतां शरण्यं
देवं हयग्रीवम् अहं प्रपद्ये ॥ १॥

मूलम् - १॥

विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥

विश्वास-प्रस्तुतिः - २॥

प्राची सन्ध्या काचिद् अन्तर् निशायाः
प्रज्ञा-दृष्टेर् अञ्जन-श्रीर् अपूर्वा ।
वक्त्री वेदान् भातु मे वाजि-वक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥

मूलम् - २॥

प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान्भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥

विश्वास-प्रस्तुतिः - ३॥

कौसल्या-सु-प्रजा राम
पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नर-शार्दूल
कर्तव्यं दैवम् आन्हिकम् ॥ ३॥

मूलम् - ३॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमान्हिकम् ॥ ३॥

विश्वास-प्रस्तुतिः - ४॥

वीर सौम्य विबुध्यस्व
कौसल्यानन्दवर्धन ।
जगद् धि सर्वं स्वपिति
त्वयि सुप्ते नरोत्तम ॥ ४॥

मूलम् - ४॥

वीर सौम्य विबुध्यस्व कौसल्यानन्दवर्धन ।
जगद्धिसर्वं स्वपिति त्वयि सुप्ते नरोत्तम ॥ ४॥

विश्वास-प्रस्तुतिः - ५॥

यामिन्य् अपैति यदु-नायक मुञ्च निद्राम्
उन्मेष, पृच्छति नवोन्मिषितेन विश्वम् ।
जातस् स्वयं खलु जगद्-धितम् एव कर्तुं
धर्म-प्रवर्तन-धिया धरणी-तलेऽस्मिन् ॥ ५॥

मूलम् - ५॥

यामिन्यपैति यदुनायक मुञ्च निद्रा-
मुन्मेषपृच्छति नवोन्मिषितेन विश्वम् ।
जातस्स्वयं खलु जगद्धितमेव कर्तुं
धर्मप्रवर्तनधिया धरणीतलेऽस्मिन् ॥ ५॥

विश्वास-प्रस्तुतिः - ६॥

सुखाय सुप्रातम्(←पा॰ ५.४.१२०) इदं तवास्तु
जगत्-पते जागृहि नन्द-सूनो ।
अम्भोजम् अन्तश्-शय-मञ्जु-तारा-
रोलम्बम् उन्मीलतु लोचनं ते ॥ ६॥(4)

मूलम् - ६॥

सुखाय सुप्रातमिदं तवास्तु जगत्पते जागृहि नन्दसूनो ।
अम्भोजमन्तश्शयमञ्जुतारारोलम्बमुन्मीलतु लोचनं ते ॥ ६॥